लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १३२
← अध्यायः १३१ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः १३२ [[लेखकः :|]] |
अध्यायः १३३ → |
श्रीकृष्ण उवाच--
शृणु त्वं राधिके! नारायणनारायणप्रभुः ।
विमानेनाऽम्बरेऽपश्यत् कालिमाशनृपक्षितिम् ।। १ ।।
कालिमासागरयोगेऽपश्यद् विशालमण्डपम् ।
पञ्चाशद्योजनायामं यावद्यानानदीं शुभम् ।। २ ।।
विमानेन भुवो भागे तथा दिक्षु विदिक्षु च ।
सर्वत्राऽभूत् प्रकाशो वै सूर्यकोटिसमप्रभः ।। ३ ।।
तदा तूर्याण्यवाद्यन्त जयशब्दास्तथाऽभवन् ।
मनुष्याणां च देवानामीश्वराणां च देहिनाम् ।। ४ ।।
दर्शकाश्चाप्यथ शीघ्रं दद्रुवुस्तां स्थलीं शुभाम् ।
विमानस्याऽवरोहार्हां सलाजाऽक्षतपुष्पिणः ।। ।९ ।।
समुद्रस्य तटे कृष्णोऽवातारयद्विमानकम् ।
अवाततार स तस्मात्स्वयं ततो नृपादयः ।। ६ ।।
ब्रह्मप्रियास्ततः सर्वा अवतेरुर्विमानतः ।
पूजिता हारदानाद्यैर्लाजाक्षतैर्विवर्धिताः ।। ७ ।।
जयशब्दैः सत्कृताश्च नमनैः स्वागतीकृताः ।
दृष्टाः प्रजाजनैः सर्वे श्रीकृष्णसहजास्तदा ।। ८ ।।
निषादिताश्चासनेषु मधुपर्कैश्च भाविताः ।
तोषिता जलपानाद्यैर्मिष्टान्नैर्भोजितास्तथा ।। ९ ।।
विश्रामितास्तथा रात्रौ संवाहिताः सुखं यथा ।
निद्रापिताश्च प्रासादेष्वमूल्यशयनादिषु ।। 2.132.१० ।।
कालिमाशेन च राज्ञा सकुटुम्बेन वै तदा ।
सेवितो वन्दितः कृष्णः सकुटुम्बो यथोचितम् ।। ११ ।।
प्रातर्जातं प्रबुबोध हरिर्वाद्यादिगीतिभिः ।
बन्दीकृतां स्तुतिं शृण्वन् दन्तधावनमाचरत् ।। १२।।
सुगन्धसलिलाद्यैश्च सस्नौ नारायणेश्वरः ।
भूषाः सन्धारयामासाऽम्बरयोगमुपागतः ।। १ ३।।
राजाद्याः श्रीहरेः पूजां चक्रुर्वैराजवैभवैः ।
ब्रह्मप्रियास्तथा पूजां चक्रुर्वै पारमेश्वरीम् ।। १४।।
पञ्चम्यां तु शुभे काले ययौ स यज्ञमण्डपम् ।
ददर्श योग्यं सर्वं चाऽकारयल्लोमशेन सः ।। १५।।
तथा पत्नीव्रतेनाऽपि प्रारंभं च क्रतोस्तदा ।
संकल्पं कारयामास कालिमाशं नृपं क्रतौ ।। १६।।
प्रकोष्ठौ बन्धयामास स्वस्तिवाचनपूर्वकम् ।
जपहोमप्रगीत्यादिमन्त्रार्थं ब्राह्मणानृषीन् ।। १७।।।
वरयामास देवाँश्चेश्वरानीशान् दिविगृहान् ।
मुनीन् साधून् सतीः साध्वीर्देवीर्दिव्याश्च कन्यकाः ।। १८।।
तीर्थतत्त्वानि दितिजान् काश्यपीर्वै प्रजास्तथा ।
वरयामास योग्याँश्च प्रत्यक्षदेहिदेवताः ।। १ ९।।
मुख्यदेवस्थले श्रीमत्कृष्णनारायणोऽभवत् ।
सब्रह्मविष्णुरुद्राद्याः प्रत्यक्षाः स्थानधर्मिणः ।।2.132.२०।।
स्वस्वस्थानेऽभवँस्तत्र दिक्पाला मातरस्तथा ।
गृहपालाः क्षेत्रपाला ग्रहाश्चाऽन्ये च तामसाः ।।२१ ।।
तेऽपि तत्राऽभवन् योग्यस्थले स्थिता हि गोचराः ।
वसवश्च तथाऽऽदित्या अश्विनौ साध्यसिद्धिजाः ।। २२।।
विप्राश्च वैदिका आर्षाः सुराश्च पितरस्तथा ।
ऋषयश्चेश्वराश्चापि ईश्वराण्यस्तथा गणाः ।।२३।।
गणेशः पार्षदाश्चापि सिद्धयो मुक्तकोटयः ।
अवतारास्तथा सर्वेऽवताराणां च योषितः ।।२४।।
यज्ञे प्रत्यक्षरूपास्ते स्वस्वस्थाने विरेजिरे ।
वेदाश्चत्वार एवापि मूर्तिमन्तोऽभवँस्तदा ।।२५।।
ऋचश्च गोचरीभूता मन्त्रा मूर्तिमयास्तथा ।
वह्नयश्च तथा मूर्ता हव्यकव्यादिमूर्तयः ।। २६।।
सर्वेऽपि गोचरास्तत्र यज्ञे वै वैष्णवे परे ।
उपस्थिताः समभवन् क्रियाः क्रमाः समूर्तयः ।।।२७।।
विधयो विनियोगाश्च पात्रोत्तमाः समूर्तयः ।
स्रुक्स्रुवाद्या मूर्तिमन्तो दर्भाद्या व्रीहयो यवाः ।।२८।।
गोधूमाश्च निवाराश्च रसाः शार्करमाक्षिकाः ।
समूर्ताः सर्व एवैतेऽभवन्नुपस्थितास्तदा ।। २९।।
समिधो मण्डलान्यत्र स्थापनानि च वेदिकाः ।
कुण्डाः पाल्यश्च काण्डाद्याः समूर्ता ह्यभवँस्तदा ।।2.132.३ ०।।
यत्र साक्षाद्धरिश्चास्ते सर्वशरीरसंयुतः ।
तत्र का न्यूनता राधे भोज्यभोग्यक्रियादिषु ।।३ १।।
अथाऽर्चने गणेशस्य जाते रुद्रादिपूजने ।
मातृकापूजनादौ च निवृत्ते श्रीहरिः स्वयम् ।।३२।।
राजहस्तेन कुण्डे वै वह्न्याधानं विधानतः ।
कारयामास च तदा वेदा नादान् प्रचक्रिरे ।।३३।।
साक्षादग्निस्ततः कुण्डे ज्वालामध्ये व्यराजत ।
हव्यदानं समन्त्रं च वह्नौ प्रावर्तताऽर्थितम् ।।३४।।
देवर्षिपितृकार्यादौ निर्वृत्ते भोजनादिकम् ।
मिष्टान्नजलताम्बूलप्रभृत्यपि व्यवर्तत ।।३५।।
रात्रौ कथादिकं यत्र जायते सात्त्वतैः कृतम् ।
पुनर्नित्यविधिश्चाऽथ हवनादि प्रवर्तते ।।३६।।
एवं सप्ताहको यज्ञो व्यवर्तत महोत्सवः ।
पौषशुक्लैकादशिकादिने पूर्णोऽभवद्धि सः ।।३७।।
मध्याह्ने दक्षिणा दत्वाऽन्तिमो होमोऽभवत्तथा ।
श्रीफलानामसंख्यैश्च वह्निश्चान्तेऽप्यतृप्यत ।।३८।।
ततो वै श्रीहरिर्मुक्तान् भोजयामास सर्वशः ।
ब्रह्मप्रियाश्चावतारानवतारप्रियास्तथा ।।३९।।
धामधामनिवासाँश्च पार्षदान् दासदासिकाः ।
ईश्वरानीश्वराणीश्च नारायणान् नरायणीः ।।2.132.४०।।
तत्त्वानि मूलमायां च ब्रह्मादीन् व्यूहमूर्तिकाः ।
पितॄन् देवान् सिद्धसाध्यान् मुनीन् यतीन् प्रयोगिनः ।।४१ ।।
साधून् साध्वीः सांख्ययोगाऽऽश्रिताश्च दिव्यदेविकाः ।
मानवान् दिक्प्रपालाँश्च ग्रहनक्षत्रतारकाः ।।४२।।
विप्रान् देहस्थितान् वर्णान् तथाऽऽश्रमनिवासिनः ।
वृक्षवल्ली स्तृणस्तम्बान् नदीर्नदान् सरांसि च ।।४३ ।।
अखातखातसामुद्रान् द्वीपान् गह्वरपर्वतान् ।
तलादिलोकवासाँश्च जलस्थलाऽनिलस्थितान् ।।४४।।
विवरस्थान् भूगर्भस्थान् महीमानान् समागतान् ।
आ३ कीटपतंगाद्यान् भोजयामास केशवः ।।४५।।
नास्ति कश्चिदनशनो जडा वा स्थावरा अपि ।
चेतना जडतुल्या वा बुधा वा बलिनोऽपि वा ।।४६।।
सात्त्विका राजसा वापि तामसा अपि देहिनः ।
स्वस्य पुत्रास्त एवेति भोजिता हरिणा तदा ।।४७।।
पायिता जलपानाद्यैर्दक्षिणाभिश्च तोषिताः ।
ततो विश्रान्तिमाचक्रुः सर्वे श्रीहरिसंयुताः ।।४८।।
अवभृथं ततः कर्तुं ययौ श्रीभगवान् हरिः ।
कालिमाऽब्धिजलयोगे वाद्यघोषपुरःसरः ।।४९ ।।
गीतिकाभिः सर्वदेव्यो ययुश्चावभृथाय वै ।
कालिमाजलमाविश्य तथाऽन्ये यानिकाजले ।।2.132.५० ।।
समुद्रस्य जले चान्ये कूपवापीसरस्सु च ।
सस्नुः प्राघूणिकास्तत्र यज्ञान्तावभृथे तदा ।।५१।।
अनादिश्रीकृष्णनारायणं स्मृत्वा परेश्वरम् ।
कान्तं शान्तिप्रदं भान्तं हृदयेषु निरन्तरम् ।।५२।।।
मोक्षदं मुक्तिदं नाथं नारायणेश्वरेश्वरम् ।
ब्रह्मधामेश्वरं श्रीमद्बालकृष्णं हरिं प्रभुम् ।।५३ ।।
राजा तत्र च दानानि ददौ कोशोष्ट्रवाजिनाम् ।
गजहंसगरुडानां विमानयानयानिनाम् ।।५४।।
स्वर्णरूप्यकमाणिक्यहीरकमौक्तिकानि च ।
गृहाण्युपस्कराण्युद्यानान्यरण्यानि वाटिकाः ।।५५।।
क्षेत्राणि चापि पात्राणि ददावन्नानि सर्वशः ।
महादानानि सर्वाणि ददौ कालिमकेश्वरः ।।५६ ।।
एवं चाऽवभृथं कृत्वा त्वाययुर्निजमन्दिरे ।
सायं प्रददौ भोज्यानि पानानि विविधान्यपि ।।५७।।
बालकृष्णोदितो राजा कालिमेशः सुखान्वितः ।
रात्रौ लक्ष्मीर्महालक्ष्मीः कन्यारूपा हरेः कथाम् ।।५८।।
लक्ष्मीनारायणसंहिताया व्यासासनस्थिता ।
बालकृष्णाज्ञया रम्यां वाचयामास संसदि ।।५ ९ ।।
तत्राऽऽगताः समुद्रस्य पत्न्यो नद्यश्च देविकाः ।
पुपूजुस्तां महालक्ष्मीं ततः श्रीकम्भरासतीम् ।।2.132.६ ०।।
रत्नाद्यैर्विविधैर्वस्तुभिश्च हारैर्मनोहरैः ।
वस्त्रभूषाभिरेवापि शुभं दिव्याभिरर्चनम् ।।६ १ ।।
चक्रुरारार्त्रिकं चापि वनदेव्योऽपि वै तदा ।
यज्ञपत्न्यः समग्राश्च देवपत्न्यस्तथा तदा ।।६२।।
पितृपत्न्यः सिद्धपत्न्य ईशपत्न्यस्तथा श्रियः ।
पूजां चक्रुर्ब्रह्मपत्न्यो धामपत्न्यस्तथा तदा ।।६३ ।।
हरेर्मातुः कम्भराया लक्ष्म्याः पूजां व्यधुर्मुदा ।
सर्वसृष्टिनिवासिन्यो देव्यः पूजां व्यधुः शुभाम् ।।६४।।
परिहारं कथायाश्च पूजायाश्चापि नामभिः ।
श्रीपतिं श्रीगोपपुत्रं सर्वावतारकारणम् ।।६५।।
कंभराबालकं कृष्णं नारायणं रमापतिम् ।
सर्वकामपतिं राधापतिं श्रीमाणिकीपतिम् ।।६६।।
ब्रह्मविद्यारमानाथं लक्ष्मीपतिं सतां पतिम् ।
बालकृष्णं ब्रह्मप्रियापतिं कान्तं भजामहे ।।६७।।
इत्येवं कीर्तनं रम्यं चक्रुः सर्वेसभासदः ।
अथ विश्रान्तिलाभार्थं प्रसादग्रहणोत्तरम् ।।६८।।
आरार्त्रिकं कथयाश्च चक्रुर्निजालयान् ययुः ।
निद्रां वै जगृहुः सर्वे यथा जागरणश्रिताम् ।।६९।।
द्वादश्यां नैत्यकं कृत्वा राजा पूजार्थमाययौ ।
बालकृष्णं निजात्मानं पूजयामास भावतः ।।2.132.७०।।
अष्टोत्तरशतद्रव्यैः राज्ञ्यश्चापि समर्चयन् ।
विंशतिसंख्यकराज्ञ्यश्चारार्त्रिक महद् व्यधुः ।।७१।।
तदा च कन्यकास्तासां शते द्वे मुमुहुर्हरौ ।
दिव्यरूपे कोटिकोटिकन्दर्पसुन्दरे प्रभौ ।।७२।।
वरयामासुरेवैता वरमाला ददुर्गले ।
राज्ञ्यः सर्वाश्च तास्तत्रार्पयामासुश्च कन्यकाः ।।।७३।।
अनादिश्रीकृष्णनारायणाय परमात्मने ।
जग्राह श्रीहरिस्ताश्च राजाऽपि यौतकं ददौ ।।७४।।
विमानं योजनायामं चतुर्दन्ताँश्च हस्तिनः ।
गरुडान् प्रददौ वाहान् सपक्षान् व्योमचारिणः ।।७५।।
नैसर्गदीपमणिकान् दासान् दासीस्तदा ददौ ।
द्वे शते द्वे शते चापि जग्राह कंभरासुतः ।।७६।।
कन्यकाः परमेशं तं पतिं प्राप्य मनोहरम् ।
सर्वा मुमुदिरेऽत्यर्थं प्राप्तव्यं नावशिष्यते ।।७७।।
एवं यज्ञोत्तरं कृष्णो द्वादश्यां पूजनोत्तरम् ।
ददौ राज्ञे स्वचरणौ हृदये मस्तके करौ ।।७८।।
राज्ञ्यै चापि ददौ हारं पौष्पं प्रासादिकं हरिः ।
राज्ञीभ्यश्चापि सर्वाभ्यो ददौ हारान् सहीरकान् ।।७९।।
इयेष दर्शनं दातुं नैजं परेशबोधकम् ।
द्रागेव सहसा तेजोमण्डलं प्राविरास ह ।।2.132.८०।।
श्रीहरेरभितस्तेजः प्रवाहाः निस्सरन्ति हि ।
व्याप्नुवन्ति तदाऽऽकाशे कोट्यर्बुदरविप्रखाः ।।८ १ ।।
तदा चक्षूंषि सर्वेषां सर्वासां मिलितानि वै ।
ददौ दिव्यां हरिर्दृष्टिं तेजःसहां सुदर्शनाम् ।।८२।।
अथ राजकुटुम्बं तत् तथा प्रजाजना अपि ।
ददृशुः श्रीपरमेशं पराक्षरपरं विभुम् ।।८३।।
धामधामाधिमुक्तैश्च सेवितं ब्राह्मिकादिभिः ।
अवतारैरीश्वरैश्च सुरैः सिद्धैश्च मानवैः ।।८४।।
रूपरूपानुवयवं किशोरं श्यामसुन्दरम् ।
कामगर्वहरं कान्तं राधालक्ष्मीप्रसेवितम् ।।८५।।
द्विभुजं सुन्दरं कृष्णं बालकृष्णं मनोहरम् ।
प्रपूरं योवनभरं सर्वशक्तिसमन्वितम् ।।८६ ।।
मयूरपिच्छमुकुटं स्वर्णकुण्डलराजितम् ।
सकौस्तुभहारराजत्प्रोन्नतवक्षसं विभुम् ।।८७।।
स्वर्णभूषान्वितं वंशीधरं वक्रस्थिरं मनाक् ।
ततश्चतुर्भुजं शंखचक्रगदाब्जशोभितम् ।।८८।।
दृष्ट्वा ततो द्विभुजं च निजकन्यादिसेवितम् ।
स्वराज्यस्थं सौधभाजं सान्निध्ये संविराजितम् ।।८९।।
एवं दृष्ट्वा द्रुतं सर्वे समाधिं प्रविहाय ताः ।
ददृशुः श्रीहरिं चाग्रे तदाश्चर्यपरामुहुः ।।2.132.९०।।
आत्मनां मेनिरे राज्ञ्यो राजा प्रजाः कृतात्मताम् ।
अथाऽन्ये दर्शनार्थं वै समागच्छन्ति भूभृतः ।।९ १।।
पञ्चराज्यानि शासन्तो राज्ञीयुता हरिं प्रभुम् ।
अर्चयामासुरत्यर्थं ततो महर्षयोऽपि च ।।९२।।
साधवश्च सुरा मर्त्या दैत्या भक्तेश्वरा अपि ।
सर्वलोकनिवासाश्चागत्य पुपूजुरच्युतम् ।। ९३ ।।
राशियानप्रदेशानां शिबिराज्यस्य चापि याः ।
अन्यद्वीपप्रजाश्चापि पुपूजुरीश्वरेश्वरम् ।।९४।।
कामचाटकदेशीया आलायुतायनाः प्रजाः ।
पूर्वभूदेशीयलोकाः पुपूजुः परमेश्वरम् ।।९५।।
रिङ्गजलप्रजाश्चापि पक्षवातप्रजाजनाः ।
मालोष्ठद्वीपवासाश्च स्फुटाक्षद्वीपवासिनः ।।९६।।
थुरायसद्वीपवासाः कूटलाननिवासिनः ।
स्वैरनारीद्वीपवासा क्षेमीयाननिवासिनः ।।९७।।
एवमन्याः प्रजाश्चापि पुपूजुः परमेश्वरम् ।
साधुर्लालासनः कश्चिद् राधे पूर्वाब्धिमध्यगः ।। ९८।।
द्वीपस्थो व्योममार्गेण कृष्णं द्रष्टुं समाययौ ।
पादयोः पतितश्चापि ययाचे भोजनं हरैः ।।९९।।
हरिस्तस्मै ददौ श्रेष्ठं पायसं पूरिकादिकम् ।
बुभुजे साधुवर्योऽसौ तावद् दुन्दुभयो दिवि ।। 2.132.१० ०।।
विनेदुः शंखनिनदाश्चाऽभवन् वै निसर्गतः ।
जलं पीत्वा समुद्गारं मुमोच तृप्तिसूचकम् ।। १०१ ।।
तावत् तूर्याणि सर्वाणि त्ववाद्यन्त निसर्गतः ।
अप्रेर्यमाणान्यनिशं चमत्कारोऽयमद्भुतः ।। १ ०२।।
दृष्टो लोकैस्तदा राजा कालिमेश उवाच ह ।
बालकृष्ण हरेस्वामिन् कृष्णनारायणप्रभो ।। १०३ ।।
किमिदं जायते शीघ्रं वादित्राणि निवारय ।
भयं मे जायते कृष्ण! श्रुत्वाऽऽकस्मिकगर्जनाः ।। १ ०४।।
हरिः प्राह भयं नास्ति साधुर्मे भक्तराडयम् ।
कल्पान्तरात् तपः कुर्वन् लालासनेऽब्धिमध्यके ।। १ ०५।।
योगासने सदी चास्ते ज्ञात्वा मामत्र चागतः ।
तद्भुक्ते पूर्णतां याता यज्ञः पञ्च मया कृताः ।। १०६ ।।
एकस्मिन् सात्त्वते तृप्ते त्रैलोक्यं तृप्तमेव हि ।
यज्ञान्तसूचकः सोऽयं सच्चिदानन्दमूर्तिकः ।। १ ०७।।
मुक्तो मे वर्तते हर्षायन्ते तूर्याणि तेन वै ।
इत्युक्त्वा स हरिश्चक्रे वादित्रनादरोधनम् ।। १ ०८।।
साधुर्भुक्त्वा च दिग्वासा ययौ द्वीपं ललासनम् ।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।। १ ०९।।
कृष्णैकान्तमनस्कानां सन्मानन्तु जडा अपि ।
कुर्वन्ति सर्वतत्त्वानि यथा वाद्यानि सञ्जगुः ।। 2.132.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कालिमेशनृपराज्ये कालिमाब्धिसंगमे पञ्चमविष्णुयागः, अवभृथं भोजनं कथानकं पूजनं, शतद्वयकन्यादानं दिव्यदर्शनं, नैकद्वीपीयप्रजाकृतपूजनं, साधुलालासनभोजनं, निसर्गशंखादिनिनादाश्चेत्यादिवर्णननामा द्वात्रिंशदधिकशततमोऽध्यायः ।। १३२ ।।