लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १३३

← अध्यायः १३२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १३३
[[लेखकः :|]]
अध्यायः १३४ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके कृष्णनारायणः स्वयं प्रभुः ।
द्वादश्यां वैश्वदेवान्ते भोजयित्वा मखीयकान् ।। १ ।।
सर्वांश्च देहिनः पश्चाद् भुक्तवा विश्रान्तिमाप ह ।
सायं सभां च महतीं चक्रे वै यज्ञमण्डपे ।। २ ।।
लालासनश्चाऽदृश्यत सभायां क्षणमात्रतः ।
सर्वकाषायवसनो दधानस्तौलसीं स्रजम् ।। ३ ।।
रूपानुरूपावयवो यथा चाक्षरवासकृत् ।
महामुक्तस्वरूपो वै ब्रह्मव्रताभिकाशितः ।। ४ ।।
जपन् संकीर्तयन् कृष्णो बालकृष्णो जयत्विह ।
अनादिश्रीकृष्णनारायणो जयतु सत्पतिः ।। ५ ।।
जय स्वामिन्बालकृष्ण परमात्मन्नमोऽस्तु ते ।
जय श्रीकम्भरापुत्र जय गोपालनन्दन ।। ६ ।।
देशोऽयं मखयोगेन पावितो वैष्णवः कृतः ।
धन्यास्ते मानवा लोके येषां साक्षाद् भवानिह ।। ७ ।।
धन्या नार्यो नराः सर्वे यद्गृहे पुरुषोत्तमः ।
धन्योऽहं सच्चिदानन्दो लालासनोऽपि योगिराट् ।। ८ ।।
यदहं प्राप्तवान् कृष्णनारायणं परप्रभुम् ।
मन्त्रं देहि शरण्य त्वं दीक्षां भागवतीं तथा ।। ९ ।।
प्रदेहि चाऽक्षरं धाम मरणान्ते पदं तव ।
इत्युक्तो भगवाँस्तस्मै ददौ दीक्षां तु वैष्णवीम् ।। 2.133.१ ०।।
राधिके द्वीपवासाय योगिने तु मुमुक्षवे ।
मण्डपं कारयामास भगवाँस्तत्र कादलम् ।। ११ ।।
पत्रतोरणशोभाढ्यं वेदीकलशशोभितम् ।
कुण्डयुक्तं सवितानं गव्यहव्यादिशोभितम् ।। १ २।।
पञ्चगव्येन च शुद्धिं हरिस्तस्याऽप्यकारयत् ।
लासासनस्य भक्तस्य देहशुद्धिमकारयत् ।। १३ ।।
ततः पूर्वमुखं तं च हरिश्चोत्तरकाऽऽननः ।
ददौ वै प्रथमं वारि करे संकल्पसिद्धये ।। १४।।
देशकालादि संकीर्त्य मोचयित्वा जलं क्षितौ ।
मस्तके प्रोक्षणं तस्य कारयित्वा ततो हरिः ।। १५।।
ददौ तं शरणं मन्त्रं दक्षे कर्णे कृपानिधिः ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।। १६।।
मन्त्रमिति प्रदायैव रक्षणमन्त्रकं ददौ ।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।। १७।।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
मन्त्रमिति प्रदायैवाऽर्पणमन्त्रं ततो ददौ ।। १८।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।। १ ९।।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।
इतिमन्त्रान् प्रदायैव कारयित्वोर्ध्वपुण्ड्रकम् ।।2.133.२० ।।
मालां च तौलसीं कण्ठे ददौ द्विगुणितां हरिः ।
मद्यं मासं पारदार्यं चौर्यं कार्यं न वै क्वचित् ।।२ १ ।।
इत्येवं च यमान् तस्मै श्रावयामास माधवः ।
उपकारं विरागं च ज्ञानं भक्तिं ददौ तदा ।।२२।।
नियमान् मोक्षदान् कृष्णः श्रीपतिः पुरुषोत्तमः ।
साधुसंगः सदा कार्यौ मोक्षदश्चेति चाह तम् ।।२३।।
गुरोः सेवा हरेः सेवा पित्रोः सेवा कुटुम्बिनाम् ।
सेवा कार्येति तं प्राह भगवान् पुरुषोत्तमः ।। २४ ।।
न कश्चिदुद्वेजनीयस्तोषणीयः सदा क्षितौ ।
सत्यः साध्व्योः नमस्कार्यास्ता हि परेशशक्तयः ।।२५।।
इत्येवं तमुपादिश्य ततः श्रीपुरुषोत्तमः ।
महादीक्षाप्रदानार्थमुपवासं तमादिशत् ।।२६।।।
उपवासस्थले तत्र गोदानं समकारयत् ।
देहशुद्ध्यर्थमेवं स दत्वोपोषणसद्विधिम् ।।२७।।
नान्दीश्राद्धं स्वस्त्ययनं त्वकारयत् स्वयं हरिः ।
मण्डपे सर्वतोभद्रं मण्डलं धान्यशोभितम् ।।२८।।
अकारयच्च तन्मध्ये हैमं कुंभं न्यधापयत् ।
अष्टदिक्ष्वष्टकुंभाँश्च तोयरत्नफलान्विताम् ।।२९।।
पल्लवाम्बरयुक्ताँश्चाऽस्थापयच्च घटोपरि ।
तिलपूर्णां शुभस्थालीं निधाय प्रतिमां हरेः ।।2.133.३ ०।।।
सनेवेद्यां स्थापयित्वा सौवर्णीं चाऽप्यपूजयत् ।
राधालक्ष्मीब्रह्मविद्यारमाश्रीमाणिकीयुताम् ।।३ १ ।।
ततोऽष्टदिक्षु कलशे पूर्वे सतीं च शंकरम् ।
दक्षिणे भास्करं संज्ञां, प्रतीच्यां तु गणेश्वरम् ।।३२।।
सिद्धिबुद्धिसहितं च, कौबेर्यां श्रीनरायणम् ।
आग्नेय्यां तु चतुर्व्यूहं, नैर्ऋत्यां गरुडं गजम् ।।।३ ३।।
वायव्यां हनुमन्तं चैशान्यां ब्रह्मप्रियागणम् ।
अस्थापयत् स्वयं कृष्णनारायणः परेश्वरः ।।३४।।
स्वस्तिवाचो वृद्धिश्राद्धं भूतशुद्धिं ततः परम् ।
कारयित्वांऽगदेवानामावाहनादिकं तथा ।। ३५।।
मातृकान्यासनं कारयित्वाऽपूजयदच्युतम् ।
उपचारैः शोडशभिर्मन्त्रैस्तथा च वैदिकैः ।।३६।।
अथ कुण्डे वह्निदेवमस्थापयत्तु दक्षिणे ।
वैष्णवं च चरुं चाऽश्रापयच्चाऽपूजयद्धरिम् ।।३७।।
समिदाज्यचरूणां च होमं त्वकारयत्तदा ।
अष्टोत्तरशतसमर्पणमन्त्रैरकारयत् ।। ३८।।
अङ्गाऽङ्गदेवताभ्यश्चैकैकामाहुतिमार्पयत् ।
पूर्णाहुतिं ततो हुत्वा महानीराजनं व्यधात् ।।३९।।
पुष्पाञ्जलिं तदा कृष्णोऽप्यदापयद्धरौ शुभाम् ।
पूर्वमुखं निषाद्यैव शिष्यमुदङ्मुखो हरिः ।।2.133.४० ।।
काषायाम्बरकं दिव्य चोत्तरीयं तथा ददौ ।
यज्ञोपवीतकं चक्रादिकचिह्नचतुष्टयम् ।।४१ ।।
ततो मन्त्रं ददौ तस्मै लालायनाय कर्णके ।
दक्षे त्रिवारमेवाऽर्थसहितं ब्रह्मभावदम् ।।४२।।
'ब्रह्माहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।।४२।।
श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ।
इति मन्त्रं ददौ पश्चात् स्वमूर्तिं पूजनाय वै ।
ददौ स्वर्णां षट्प्रियाभिः सहितां मोक्षहेतवे ।।४४।।
ज्ञानं ददौ तारकं च सच्चिदानन्दबोधकम् ।
आत्मा वै ब्रह्मरूपोऽयं सच्चिदानन्दभासुरः ।।४५।।
तत्र कृष्णं परब्रह्म मां हृदि चिन्तयेः मुने ।
आत्मनिवेदी त्वं चाद्यदिनात् मम समो ह्यसि ।।४६।।
इत्युक्तः स मुनिः समुत्थाय श्रीकृष्णपादयोः।
पतितो दण्डवत् भूमौ दीक्षाविधेस्तु दक्षिणाम् ।।४७।।
पत्रं पुष्पं फलं तोयं हृदयं चाऽसमर्पयत् ।
हरिस्तस्मै ददावाशीर्वादान् मोक्षप्रदान् शुभान् ।।४८।।
ममाऽत्र कृपया भक्त फलितस्ते मनोरथः ।
मां प्रसेव्य चोभयत्र परं सुखमवाप्स्यसि ।।४९।।
यस्य कृष्णे परा भक्तिर्गुरौ श्रीकृष्णवल्लभे ।
तस्य पुमर्थसिद्धिश्च सा तेऽस्त्वनुग्रहान्मम ।।2.133.५० ।।
अथ विसर्जनं चक्रे देवानां श्रीहरिः स्वयम् ।
ततः प्राह हरिस्तं च भज नारायणं तु माम् ।।५१ ।।
उपदेशं मम देहि ममोपासनसंभृतम् ।
अनेन विधिना दीक्षां देहि मुमुक्षवे मुने ।।५२।।।
सच्चिदानन्दनामा त्वं काषायाम्बरधारकः ।
आचार्योऽसि ममाऽऽज्ञां त्वं गृहाण दीक्षणे, जनान् ।।५३ ।।
नारीर्नरान् पशून् पक्षिजातिस्मरान् तृणादिकान् ।
कामरूपधरान् सर्वान् कुरु दीक्षाऽभिपावितान् ।।५४।।
अहं नारायणकृष्णः स्वामी वै सर्वदेहिनाम् ।
सर्वे भजन्तु मां नित्यं पतिं ब्रह्मपरं हरिम् ।।५५।।
त्वं प्रकारय साधो मे भक्तिं पृथ्व्यां जने जने ।
आबालयुववृद्धेषु नरनारीनपुंसु च ।।५६।।
इत्युक्तः सच्चिदानन्दो योगिराट् तत्र संसदि ।
नत्वा स्वामिबालकृष्णं जनानुपादिदेश ह ।।५७।।
ददाति ज्ञानमैशं च पापानि क्षालयत्यपि ।
एतादृशी हरेरिच्छा दीक्षानाम्नी महासती ।।५८।।
ब्रह्मपुत्री ब्रह्मधामप्रदा मुक्तिप्रदा यतः ।
सामान्या च विशेषा वा ग्रहीतव्या जनैः शुभा ।।५९।।
अदीक्षितस्य नाऽश्नाति दत्तमन्नजलं हरिः ।
दीक्षितस्य पत्रमपि न वै त्यजति श्रीहरिः ।।2.133.६ ०।।
दीक्षितो भक्तराट् तीर्थं तीर्थोत्तमं हरिः स्वयम् ।
तत्र तीर्थानि सर्वाणि निवसन्ति पदांऽगुले ।।६ १ ।।
दीक्षिते देवताः सर्वा ईश्वरा अपि सर्वशः ।
निवसन्ति सदा देहे तस्माद्वै दीक्षितो भवेत् ।। ६१।।
दीक्षितस्य तु सेवायाः फलं मोक्षो भवेदिति ।
दीक्षितस्पर्शजं पुण्यं महापापादिनाशकम् ।।६ ३ ।।
दीक्षितस्य प्रसादान्नं पावनं चापि तज्जलम् ।
दीक्षितस्य सहवासो मोक्षदो धामदायकः ।।६४।।
दीक्षितस्य तु सत्संगो भगवत्संगसदृशः ।
दीक्षितस्य क्रियाः सर्वा दिव्या हर्यर्पणात्मिकाः ।।६ ५ ।।
दीक्षिते सर्वयज्ञानां पुण्यानि निवसन्ति वै ।
दीक्षितस्य स्नानवारि पीत्वा तृप्यन्ति पूर्वजाः ।।६६।।
ऋषयो मुनयः सिद्धा योगिनो यतयस्तथा ।
साधवो ब्रह्मशीलाश्च दीक्षितं प्रणमन्ति वै ।।६७।।
दीक्षितो यद्गृहे याति तद्गृहं धामसदृशम् ।
सेवते या दीक्षितं सा बोध्या वै पुण्यशालिनी ।।६८।।
सेवते यो दीक्षितं स जायते पार्षदो हरेः ।
पृथ्वी नित्यं हरेरग्रे प्रार्थयति प्रदीक्षितम् ।।६९।।
साधुदीक्षाप्रपन्नानां चरणैः पावनी ह्यहम् ।
दीक्षितस्नानमात्रेण जलं तीर्थं प्रजायते ।।2.133.७०।।
साधुलालासनश्चाहं सत्यं वदामि वै मुहुः ।
सच्चिदानन्दसंज्ञोऽहं जातो वै दीक्षया हरेः ।।७१ ।।
आबाल्यादपि संग्राह्यः शरणागतमन्त्रकः ।
तस्याश्रयप्रदाता श्रीकृष्णो यत्र भयं न वै ।।७२।।
ततो ग्राह्यो रक्षणस्य मन्त्रोऽप्याबाल्यतोऽपि वै ।
कालान्मायाबन्धनाच्च पापाच्च कर्मबन्धनात् ।।७३।।
शत्रुभ्यो याम्यदुःखाच्च कुमित्राद् यद्भयादिकम् ।
तस्मात् त्रिशूलमत्स्यादिचिह्नोऽवत्येव माधवः ।।७४।।
यद्धस्ते त्रिशूलचिह्नं मीनचिह्नं ध्वजाऽङ्ककम् ।
धनुरंकं चक्रचिह्नं स्वस्तिकाऽङ्कं च वज्रकम् ।।७५।।
तत्र त्रिशूलकं दिव्यं कालभीतिं प्रहन्ति वै ।
दीव्यमीनस्तथा हन्ति मायाभीतिं च बन्धनम् ।।७६।।
ध्वजचिह्नं तथा दिव्यं हन्ति पापभयं सदा ।
धनुरंकं तथा दिव्यं कर्मभीतिं प्रहन्ति च ।।७७।।
चक्रचिह्नं महादिव्यं शत्रून् प्रहन्ति तद्भयम् ।
स्वस्तिचिह्नं तथा दिव्यं यमभीतिं प्रहन्ति च ।।७८।।
कं वज्रं दिव्यमेवैतत् कुहृद्भयं निहन्ति च ।
सप्तचिह्नधरो हस्तो यस्य देहं स्पृशत्यपि ।।७९।।
तद्देहे तूक्तभीतीनां संभवोऽपि न जायते ।
ततः समर्पणो मन्त्रो ग्राह्यो वै ज्ञानपूर्वकः ।।2.133.८०।।
ओंनाम्ने हरये चाऽहं नमस्करोमि सर्वदा ।
स्वामिने श्रीकृष्णनारायणायाऽर्पणतां गतः ।।८ १ ।।
नाऽन्यस्याऽहं भवाम्यद्यदिनात् तस्यैव वै वशे ।
दासो भृत्यो दीनदासी भवाम्यद्यदिनाद्धरे ।।८२।।
इत्येवं त्वात्मदानाख्यं सर्वस्वं तत्र चार्प्यते ।
हुतं घृतं यथा वह्नौ हुतश्चाऽहं तथा हरौ ।।८३।।
पृथग्भावो न मेऽस्त्यद्यदिनाच्छ्रीकृष्णबल्लभात् ।
मत्वैवं निजभावे श्रीहरौ देहे यथात्मनि ।।८४।।
तथा श्रीबालकृष्णोऽत्र परे ब्रह्मणि सर्वदा ।
पतित्वं शाश्वतं ज्ञेयं पितृत्वं बन्धुताऽपि च ।।८५।।
सुहृता मित्रता चापि रक्षयितृत्वमित्यपि ।
पालकत्वं तथा कृष्णे शाश्वतं ज्ञेयमेव च ।।८६ ।।
इत्येवं चार्पणे ज्ञाने परिपक्वे दृढे सति ।
ततो ग्राह्या साधुदीक्षा ब्रह्मभावप्रदा शुभा ।।८७।।
ब्रह्मरूपो यतश्चाहं देहेन्द्रियाद्यहं न वै ।
प्रेमसेवाकरो भक्तः शाश्वतोऽस्मि हरेर्यतः ।।८८।।
अनादिश्रीकृष्णनारायणः सर्वत्वमेव मे ।
पतिः पाता तथा भोक्ता स्वामी नियामको मम ।।८९।।
अन्तरात्मा परात्मा च बाह्यात्माऽपि ममैव सः ।
इन्द्रियात्मा शरीरात्मा दैहिकात्मा ममैव सः ।।2.133.९०।।
इत्येवं श्रीकृष्णनारायणाद् रिक्तोऽस्मि न क्वचित् ।
सदा तन्मूर्तिमग्नोऽस्मि तद्गुणश्च तदंशकः ।। ९१ ।।
एवं वै ब्रह्मभावं स्वं विदित्वा साधुता फलेत् ।
पराऽक्षरे तु विन्देत श्रीहरेः शाश्वतं सुखम् ।।९२।।
एवं दीक्षाग्रहे शीघ्रं दिव्या भवन्ति देहिनः ।
तस्माद् दीक्षा हरेर्ग्राह्या ज्ञानिभिः साधवी परा ।।९३ ।।
तदन्यैः रक्षिणी दीक्षा शरणी वा समर्पणी ।
ग्रहीतव्या विना दीक्षां न स्थेयं मानवैरिह ।।९४।।
देशः कालः शुभः संगो न हातव्यः कदाचन ।
परमेशे गृहे प्राप्ते प्रसन्ने मोक्षदायिनि ।।९५।।
यो न मायां त्यजेन्मूढस्तस्य हानिः पदे पदे ।
दुर्लभं मानुषं वर्ष्म मोक्षसाधनमुत्तमम् ।।९६ ।।
प्राप्य तन्न यतेतापि मोक्षेऽत्र त्वात्महा हि सः ।
तस्मादात्मा न हन्तव्यो मोक्षयोग्योऽपि मानवैः ।।९७।।
गृह्णन्तु साधवीं दीक्षां तदन्यां पात्रता यथा ।
अयं श्रीभगवान् साक्षाद् ददात्येव यथा हि मे ।।९८।।
इत्युक्त्वा विररामाऽसौ सच्चिदानन्दयोगिराट् ।
लक्षशो मानवाः श्रुत्वा दीक्षार्थं समुपागताः ।।९९।।
बालकृष्णो ददौ तेभ्यः शरणं रक्षणं तथा ।
समर्पणं मनुं चापि ज्ञानिभ्यो ब्रह्ममन्त्रकम् ।। 2.133.१ ००।।
पञ्चसाहस्रभक्तास्ते तदा वै साधवोऽभवन् ।
गुरवो लोकजीवानां मोक्षकारिण एव च ।। १०१ ।।
राशियानादिदेशेषूपदेशार्थं निदेशिताः ।
प्रययुर्भिन्नदेशेषु हर्याज्ञया हरेः प्रियाः ।। १ ०२।।
राधे! हरिर्विशश्राम सभान्तं प्रचकार ह ।
निवासेषु प्रगत्वैव विशश्रमुश्च देहिनः ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरिः साधुलालासनयोगिने साधवीं वैष्णवीं दीक्षां दत्वा ततः पञ्चसहस्रेभ्यः साधवीं दीक्षां ददावित्यादिनिरूपणनामा त्रयस्त्रिंशदधिकशततमोऽध्यायः ।। १३३ ।।