लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १४८

← अध्यायः १४७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १४८
[[लेखकः :|]]
अध्यायः १४९ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणस्ततः ।
देवायतनकायाऽऽह पञ्च तत्ते वदामि च ।। १ ।।
ततो वायवीयपीठे योगिनीक्षेत्रपालकान् ।
पूजयेद् विधिना समावाह्य शोडशवस्तुभिः ।। २ । ।
ओं दिव्ययोगिनीमावाहयामि स्थापयामि च ।
ओं दिव्ययोगिनीं नौमि क्षेत्ररक्षणकारिणीम् । । ३ । ।
ओं महायोगिनीमावाहयामि स्थापयामि च ।
पूजयामि च गन्धाद्यैस्तां तस्यै ते नमो नमः ।। ४ ।।
ओं सिद्धयोगिनीमावाहयामि स्थापयामि च ।
पूजयामि च गन्धाद्यैस्तां तस्यै ते नमो नमः ।। ।१ ।।
ओं श्रीगणेश्वरीमावाहयामि स्थापयामि च ।
पूजयामि च गन्धाद्यैस्तां तस्यै ते नमो नमः ।। ६ ।।
ओं प्रेताक्षीं डाकिनीं च कालीं च कालरात्रिकाम् ।
आवाहयामि स्थापयामि पूजयामि च वो नमः । । ७ । ।
निशाचरीमो हूँकारी सिद्धिवेतालिनीं तथा ।
आवाहयामि स्थापयामि पूजयामि च वो नमः ।। ८ ।।
ओं ह्रींकारीं भूतडामरीमूर्ध्वकेशीं च ओं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः । । ९ ।।
विरूपाक्षीं च शुष्कांगीं नरभोजनां च ओं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। 2.148.१० । ।
ओं कंकारीं वीरभद्रां धूम्राक्षीं ओं कलिप्रियाम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ११ । ।
राक्षसीं घोरराक्षसीं विरूपाक्षीं भयंकरीम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १२ ।।
विशालाक्षीं कामरीं च चण्डीं वाराहिनीं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।।१ ३ ।।
मुण्डधर्त्रीं भैरवीं चक्रिणीं क्रोधां च दुर्मुखीम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १ ४।।
प्रेतवाहनां कुरंगीं प्रलम्बौष्ठीं मालिनीं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १५ ।।
मन्त्रयोगिनीं कालाग्नीं मोहिनीं वक्रिकां तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १६ ।।
कुण्डलिनीं बालकीं च कौमारीं यमदूतिकाम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १७। ।
औं करालीं कौशिकीं च यक्षिणीं भक्षिणीं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १८ ।।
कुमारिकां यन्त्रवाहां विशालाक्षीं च कामुकीम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। १९ ।।
ओं वाध्रीं राक्षसीं प्रेतभक्षिणीं धूर्जटीं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। 2.148.२० ।।
ओं विकटां च घोरां च कपालीं विमलां तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। २१ ।।
ओं मालां सर्वसिद्धां चाऽऽवाहयामि च वां नमः ।
स्थापयामि पूजयामि सर्वाः सन्तु च सिद्धिदाः ।। २२।।
अनया पूजया षोडशोपचारादिभिरिह ।
प्रीयन्तां पायसबलिं ददामि योगिनीगणाः ।। २३ ।।
अथ क्षेत्रपालपीठदेवताः संप्रपूजयेत् ।
ओमजरमावाहयामि स्थापयामि च ते नमः ।। २४।।
पूजयामि बलिं चार्पयामि नमोऽजराय ते ।
इन्द्रचोरम् आह्वयामि स्थापयामि च ते नमः ।। २५।।
व्यापकं चेन्द्रमूर्तिं चोक्ष्णं कूष्माण्डं वरुणकम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। २६ ।।
वामुकं च विमुक्तं च लीलालोपं च शप्तकम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। २७।।
ऐरावतं चैकदंष्ट्रम् ओषधिघ्नं च बन्धनम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। २८ ।।
दिव्यकरं कम्बलं च गवयवं च क्षोभणम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। २९।।
कालं बलधरं चाऽण्डं चन्द्रवारणकं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। 2.148.३० ।।
फटाटोपं च जटिलम् ऋतुं घण्टेश्वरं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ३१ ।।
विकटं चाणिमं गुणत्रन्धं च डामरं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ३२।।
ठंठफणं स्थविलं च दन्तुरं धनदं तथा ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ३३ ।।
नागकर्णं फोत्करं च महादलं च चीरकम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ३४।।
ओं सिंहं च मृगं यक्षं मेघवाहनमित्यपि ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ३५ । ।
ओं तीक्ष्णौष्ठमनलं सुक्रतुं युधापं वक्रकम् ।
आह्वयामि स्थापयामि पूजयामि च वो नमः ।। ३६ । ।
ओं वातं यापनं चावाहयामि स्थापयामि च ।
पूजयामि बलिं चार्पयामि वा प्रणमामि च ।। ३७।।
पञ्चाशत्क्षेत्रपालाश्चेहागच्छतात्र तिष्ठत ।
आसनं च तथा पाद्यमर्घ्यमाचमनीयकम् ।। ३८ ।।
पञ्चामृताप्लवनं चाभिषेकं चाम्बराणि च ।
भूषाश्चन्दनगन्धादि चाक्षतान् कुंकुमादिकम् ।। ३९।।
पुष्पहारान् कज्जलं च धूपं दीपं निवेदनम् ।
भोजनं जलपानं च फलं ताम्बूलकादिकम् ।। 2.148.४० ।।
नीराजनादिकं समर्पयामि सन्तु रक्षकाः ।
ओं ह्रां ह्रीं ह्रुं स्वाहा बटुकाय प्रभूतबलिमर्पयेत् ।। ४१ ।।
योगिन्यः क्षेत्रपालाश्च सर्वे यत्र वसन्ति हि ।
ततश्चात्र समागत्य बलिं गृह्णन्तु मेऽमृतम् ।। ४२।।
बलिदानेन सन्तुष्टाः प्रयच्छन्तु ममेप्सितम् ।
यज्ञे कार्याणि कुर्वन्तु दोषाँश्च घ्नन्तु मे मखे ।।४३ ।।
इति दत्वाऽर्थयित्या च प्रणमेत् सर्वदेवताः ।
ततः श्रीमण्डपपूजां कुर्यात् षोडशवस्तुभिः ।।४४।।
ऋत्विभिर्गुरुणा चापि स्नापितो यजमानकः ।
सर्वौषधिसलिलेन शुक्लमाल्याम्बरस्तथा ।।४५।।
शुक्लगन्धानुलेपश्च सपत्नीपुत्रपौत्रकः ।
साऽऽचार्यर्त्विक् करे पूर्णकलशस्तूर्यनादने ।। ४६।।
मुख्यदेवं ध्यायमानो मण्डपध्यानतत्परः ।
वेदघोषान् प्रशृण्वानो मण्डपं पूजयेत् सुधीः ।। ४७।।
ओं भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाऽक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवाँसस्तनूभिर्व्यशेमहि देवहितं यदायुः ।।४८ ।।
आचम्य प्राणानायम्य देशकालौ प्रकीर्त्य च ।
मुख्यदेवप्रतिष्ठाने यज्ञांगं पूजनं शुभम् ।।४९।।
गणेशस्य देवतानां मण्डपस्य करोम्यहम् ।
आवाहनं स्थापनं च नमनं प्रकरोमि च ।।2.148.५० ।।
ओं श्रीगणेश्वरमावाहयामि स्थापयामि च ।
षोडशवस्तुभिः सम्पूजयामि प्रणमामि च ।।५१ ।।
एवं गणेशं सम्पूज्य दत्वा नैवेद्यकं तथा ।
स्तम्भपूजां ततः कुर्यादीशानादिक्रमान्मखी ।।५२।।
ओमीशान्यां ब्रह्ममूर्तिमावाहयामि वेधसम् ।
स्थापयामि पुस्तकाऽक्षसूत्रशूलकमण्डलून् ।।।५३ ।।
दधान देवतायुक्तं हंसस्थं तं पितामहम् ।
आगच्छ सृष्टिकृद् ब्रह्मन् प्रथमस्तंभवासकृत्। ।।५४।।
ओं व्रह्म यज्ञानं प्रथमं पुरस्ताद्
विसीमतः सुरुचो वेन आवः ।
सबुध्न्याः उपमा अस्य विष्ठाः
सतश्च योनिमसतश्च विवः ।।५५।।
ओं ओं भूर्भुवः स्वर्ब्रह्मन्निहागच्छ च तिष्ठ च ।
नम ओं ब्रह्मणे षोडशोपचारान् ददामि ते ।।५६ ।।
अथाऽऽग्नेये शुभे स्तंभे विष्णुमावाहयामि च ।
शंखचक्रगदापद्मचतुर्बाहुं रमापतिम् ।।५७।।
गरुडस्थं कमलाश्रीलक्ष्मीगणप्रसेवितम् ।
आगच्छ भगवन् विष्णो द्वितीयस्तंभवासकृत् ।।५८ ।।
स्थापयामि प्रभुं त्वां च पूजयामि नमामि च ।
ओं ओं भूर्भुवः स्वः विष्णो इहागच्छ च तिष्ठ च ।।५९ ।।
नम ओं विष्णवे षोडशोपचारान् ददामि ते ।
ओम् इदं विष्णुर्विचक्रमे त्रेधा च निदधे पदम् ।।2.148.६ ० ।।
समूढमस्य पांसुरे आ विष्णवे ते नमो नमः ।
अथ नैर्ऋत्यकस्तंभे शिवमावाहयामि च ।।६ १ ।।
वृषभस्थं चन्द्रभालं शूलिनं मुण्डमालिनम् ।
उमागणसमाजुष्टं नागयज्ञोपवीतकम् ।।।६२।।
आगच्छ भगवन् शंभो तृतीयस्तंभवासकृत् ।
स्थापयामि हरं त्वां च पूजयामि नमामि च ।।६ ३ ।।
ओं भूर्भुवः स्वः शंभो इहागच्छ च तिष्ठ च ।
नम ओं शंभवे षोडशोपचारान् ददामि ते ।।६४। ।
ओं नमस्ते रुद्रमन्यव उतोत इषवे नमः ।
बाहुभ्यामुत ते नमः ओं शंभवे ते नमो नमः । ।६५।।
अथ वायुकोणस्तंभे इन्द्रमावाहयामि च ।
सहस्राक्षं गजारूढं वज्रिणं च शचीपतिम् ।।।६६ ।।
आगच्छ भगवन्निन्द्र चतुर्थस्तम्भवासकृत् ।
स्थापयामि महेन्द्रं त्वां पूजयामि नमामि च ।। ६७।।
ओं भूर्भुवः स्वः इन्द्र इहागच्छ च तिष्ठ च ।
नम इन्द्राय ओं षोडशोपचारान् ददामि ते ।।६८ ।।
ओं त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ।।६९ ।।
ओं इन्द्राय नमस्ततो द्वादशस्तंभपूजनम् ।
बाह्यभागे मण्डपस्य करोमीशानतः क्रमात् ।।2.148.७ ० ।।
अथेशाने सूर्यमावाहयामि स्थापयामि च ।
सप्ताश्वरथसंरूढं रक्तांगं तिग्मतेजसम् ।।७ १ ।।
सपद्मं पूजयाम्यत्र पञ्चमस्तंभसंस्थितम् ।
त्रैलोक्यनेत्ररूपं चं कुण्डलादिविराजितम् ।।७२।।
ओं आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्मयेन सविता रथेनादेवो याति भुवनानि पश्यन् ।।।७३ ।।
ओं भूर्भुवः स्वः सूर्य इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ।।७४ ।।
अथेशानपूर्वयोस्तु मध्ये स्तंभे गणेशकम् ।
आहयामि स्थापयामि विघ्नहरं गजाननम् ।।७५।।
सिद्धिबुद्धिप्रदातारं प्रणमामि विनायकम् ।
आगच्छ गणनाथ त्वं षष्ठस्तंभे च तिष्ठ च ।।७६ ।।
ओं गणानां त्वा गणपतिं हवामहे ।
ओं प्रियाणां त्वा प्रियपतिं हवामहे ।
ओं निधीनां त्वा निधिपतिं हवामहे ।
वसो मम आहमजानिर्गर्भधमात्वामजासिगर्भधम् ।।७७।।
ओं भूर्भुवः स्वः गणपते इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्न च ते नमः ।।७८ ।।
अथ पूर्वाऽग्न्यन्तरालस्तम्भे यमं यमाधिपम् ।
आह्वयामि स्थापयामि सर्वजन्तुभयंकरम् ।।७९ ।।
रौद्रमूर्तिं कृष्णवर्णं प्रणमामि सदण्डकम् ।
माहिषवाहनं कर्मसाक्षिणं धर्ममूर्तिकम् ।।।2.148.८ ० ।।
आगच्छ धर्मराज त्वं सप्तमस्तंभके विश ।
ओं यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।।८ १ ।।
देवस्त्वा सवितामद्धानक्तुपृथिव्याः संस्पृशस्पाहि ।
अर्चिरसि शोचिरसि तपोऽसि ब्रह्ममूर्तिकः ।। ८ २।।
ओं भूर्भुवः स्वः यम इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूता पूजा गृह्ण च ते नमः । ।८ ३ । ।
अथाऽग्निकोणके स्तंभे शेषं पातालवासिनम् ।
आह्वयामि स्थापयामि सहस्रशिरसं शुभम् । ।८४।।
स्वस्तिकरेखया युक्तफणामणिविभूषितम् ।
नारायणासनं देवं प्रणमामि विषान्वितम् ।।८५।।
आगच्छ शेषराज त्वं चाष्टमस्तंभके विश ।
ओ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।।८६ ।।
येऽन्तरिक्षे ये च दिवि तत्सर्पेभ्यो नमो नमः ।
ओं भूर्भुवः स्वः शेष इहागच्छ च तिष्ठ च । ।८७।।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ।
अथाऽग्निदक्षमध्यस्थे स्तम्भे स्कन्दं तु षण्मुखम् ।।८८ ।।
आह्वयामि स्थापयामि कार्तिकेयं हि शांकरम् ।
सर्वतत्त्वब्रह्मविदं मयूरस्थं नमामि च ।।८ ९ ।।
आगच्छ शरजन्म त्वं नवमे स्तम्भके विश ।
देवसेनापते गागेयक वाह्नेयक प्रभो ।। 2.148.९० ।।
ओं यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहु उपस्तुत्यं महि जातं तेऽर्वन् ।। ९१ ।।
ओं भूर्भुवः स्वः स्कन्द इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ।। ९२।।
दक्षनैर्ऋत्यान्तरालस्तंभे वायुं प्राणं देहिनाम् ।
कृष्णमृगसमारूढं सर्वाधारं ध्वजायुधम् ।। ९३ ।।
आह्वयामि स्थापयामि प्रणमामि सदागतिम् ।
आगच्छात्र वायुदेव दशमे स्तंभके विश ।। ९४।।
ओं वायो ये ते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्सोमपीतये प्राणीत्यदभ्रमात्मसु ।। ९५।।
ओं भूर्भुवः स्वः वायो इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ।। ९६ ।।
नैर्ऋत्यकोणके स्तंभे सोमं वै रात्रिनायकम् ।
शशिनं रुद्रशीर्षस्थं श्वेतं क्षीरोदपुत्रकम् ।। ९७।।
आह्वयामि स्थापयामि प्रणमामि सुशीतलम् ।
आगच्छात्र सोमदेवैकादशस्तंभके विश ।।९८ ।।
ओं आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवाव्वाजस्य संगथेऽमृतवर्षी प्रपोषिता । । ९९ । ।
ओं भूर्भुवः स्वः सोमदेव इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः । । 2.148.१०० । ।
निर्ऋतिपश्चमध्यस्थे स्तंभे तु वरुणं सुरम् ।
कुंभीरथसमारूढं पाशहस्तं समुज्ज्वलम् । । १०१ । ।
आह्वयामि स्थापयामि प्रणमामि जलेश्वरम् ।
आगच्छात्र वरुणेश द्वादशस्तंभके विश । । १०२ । ।
ओम् इमम्मे वरुण श्रुधी हवमद्या च मृडय ।
त्वामवस्युराचके तृट्प्रभाहन् विपाशकृत् । । १०३ ।।
ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः । । १० ४। ।
पश्चवाय्वोरन्तराले स्तंभेऽष्टवसुसत्तमान् ।
अश्वस्थान् पुष्पमालाद्यैर्धनस्मृद्ध्या समन्वितान् । । १०५ । ।
आह्वयामि स्थापयामि प्रणमामि वसुभृतान् ।
अत्रागच्छत वसवो विशन्तु च त्रयोदशे । । १०६ । ।
ओं वसोः पवित्रमसि शतधारं
वसोः पवित्रमसि सहस्रधारम् ।
देवस्त्वा सविता पुनातु वसोः
पवित्रेण शतधारेण सुप्वा कामधुक्षः । । १०७ । ।
ओं भूर्भुवः स्वः वसवो इहागच्छत तिष्ठत ।
षोडशवस्तुसंभूतां पूजां गृह्णन्तु वो नमः । । १०८ । ।
वायुस्तंभे धनदं सयक्षं नरयानं गदाधरम् ।
आह्वयामि स्थापयामि प्रणमामि कुबेरकम् । । १०९ । ।
अत्रागच्छ च धनद विश स्तंभे चतुर्दशे ।
ओं वयं सोमव्रते तव मनस्तनूषु बिभ्रतः । । 2.148.११० । ।
प्रजावन्तः सचेमहि स्वर्णवन्तोः भवेमहि ।
ओं भूर्भुवः स्वः धनद इहागच्छ च तिष्ठ च । । १११ । ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ।
वायूत्तरान्तरालस्थस्तंभं बृहस्पतिं गुरुम् । । ११२।।
आह्वयामि स्थापयामि प्रणमामि गिरां निधिम् ।
अत्रागच्छ बृहस्पते स्तंभे पञ्चदशे विश । । ११ ३। ।
ओं बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवस ऋतप्प्रजात तदस्मासु द्रविणं धेहि चित्रम् । । ११ ४। ।
ओं भूर्भुवः स्वः बृहस्पते इहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः । । ११ ५।।
उत्तरेशानयोर्मध्येस्तंभे तु विश्वकर्मकम् ।
आह्वयामि स्थापयामि प्रणमामि सुतेजसम् ।। ११६।।
श्वेतं शिल्पकलाढ्यं च सर्वज्ञं च सनातनम् ।
अत्रागच्छ विश्वकर्मन् स्तंभे षोडशके विश । । ११७
ओं विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवर्द्धयम् ।
तस्मै विशः समनमन्तपूर्वीरयमुग्रो विहव्यो यथासत् । । ११८
ओ भूर्भुवः स्वः विश्वकर्मन्निहागच्छ च तिष्ठ च ।
षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः । । ११९
इत्येवं षोडशस्तंभान् पूजयेद् राधिके धरान् ।
यदाह भगवान् कृष्णस्तत्ते प्रोक्तं मयात्र च । । 2.148.१२०
इति श्रीलक्ष्मीनारायणीयसंहिताया द्वितीये त्रेतासन्ताने देवप्रतिष्ठाने चतुष्षष्टियोगिनीपञ्चाशत्क्षेत्रपालमण्डपी षोडशस्तंभदेवावाहनपूजनादिनिरूपणनामाऽष्टचत्वारिंशदधिकशततमोऽध्यायः । । १४८ । ।