लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १५५

← अध्यायः १५४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १५५
[[लेखकः :|]]
अध्यायः १५६ →

श्रीकृष्ण उवाच-
अथ श्रीभगवानाह देवायतनकायवत् ।
यूपारोपणकर्मादि राधिके तद्वदामि ते ।। १ ।।
आचार्यः पूर्वकुण्डाद्वै पूर्वतो मण्डपाच्च वा ।
पादत्रयमितां भूमिं विहाय च ततः परम् ।। २ ।।
यूपस्थानं प्रकुर्वीत प्रासादे शानके च वा ।
षोडश वा दश हस्तान् भूभागान् प्रविहाय वै ।। ३ ।।
यूपस्थानं प्रकुर्वीत पूजनं तस्य वै ततः ।
काष्ठेनाऽरत्निमात्रं तु खातं कृत्वा ततः परम् ।। ४ ।।
यूपस्तुतिं प्रकुर्याद्वै यूप त्वं निर्मितः पुरा ।
यज्ञभागात्मको देवः प्रासादरक्षकः शुभः ।। ५ ।।
पूजां पुष्पबलिं धृत्वा स्थिरो नश्चोदयं कुरु ।
इत्यभ्यर्च्य हरिद्रातैलाक्तं यूपं ततः परम् ।। ६ ।।
शान्तिकुंभोदकैः स्नापयित्वाऽभ्भुज्य घृतेन च ।
पुष्पमालादिनाऽभ्यर्च्य बध्नीयात् पोटलीं ततः ।। ७ ।।
दूर्वागुग्गुलसर्षपनिम्बपत्रगोरोचनैः ।
सहितां यूपमाबध्नन् मन्त्रं वदेन्मखी तदा ।। ८ ।।
ओं यदा बध्नं दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः।
तन्म आबध्नामि शतशारदायुष्माँ जरदष्टिर्यथासम् ।। ९ ।।
ओं युवा सुवासाः परिवीत उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्यायो मनसा देवयन्तः ।
इति वस्त्रेण चावेष्ट्य ततश्चालम्बयेन्मखी ।। 2.155.१० ।।
ओं यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं संभरन्त्युतस्तेषामाभिगूर्तिर्न इन्वतु ।। ११ ।।
ओं उच्छ्रयस्व वनस्पत इत्युच्छ्रित्य च गर्तके ।
अक्षतपुष्पदर्भांश्च प्रक्षिप्य प्रोक्ष्य वारिणा ।। १२ ।।
ओं ध्रुवासीतिमन्त्रेण रोपयेद् यूपदैवतम् ।
सुप्रतिष्ठश्चिरं स्थिरश्चायुदः सौख्यदो भव ।। १३ ।।
ओं ध्रुवासि ध्रुवोऽयं यजमानोऽस्मिन्नायत
प्रजया पशुभिर्भूयात् ।
घृतेन द्यावापृथिवी पूर्य्येथामिन्द्रस्य-
च्छदिरसि विश्वजनस्यच्छाया ।। १४।।
इति गर्तं मृदाऽऽपूर्य दृढीकुर्वन्न वै चलेत् ।
यज्ञायज्ञावो अग्नये गिरागिरा च दक्षसे ।।१५।।
प्रप्रवयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ।
इति मूले जलं दत्वा यूपं कुंकुमरञ्जितम् ।। १६।।
कृत्वा धूपदीपपुष्पगन्धनैवेद्यसत्फलैः ।
दक्षिणाभिश्च संपूज्य तदृक्षे मण्डलं शुभम् ।। १७।।
कुर्याद् यूपदेवतार्थं हस्तमात्रे हि स्थण्डिले ।
शुभ्रवस्त्रं समास्तीर्थं पञ्चविंशतिकोष्ठवत् ।। १८ ।।
पूवोत्तराभिः रेखाभिः षड्भिः षड्भिः सुकोष्ठकम् ।
कृत्वा च व्रीहिभिः रम्यं मण्डपं पूजयेत् सुरान् ।। १९ ।।
ब्रह्माणं मध्यकोष्ठे तु सौमं तथोत्तरेऽर्चयेत् ।
ऐशे शिव च प्रागिन्द्रमाग्नेय्यामग्निमर्चयेत्। ।। 2.155.२० ।।
दक्षे यमं च नैर्ऋत्यां नैर्ऋतिं च समर्चयेत् ।
पश्चिमे वरुणं वायौ वायुं तथा समर्चयेत् ।। २१ ।।
वायुसोमान्तरालेऽष्टवसून् संपूजयेन्मखी ।
सोमेशानान्तराले चैकादशरुद्रदेवताः । । २२ ।।
ईशानपूर्वयोर्मध्ये द्वादशादित्यदेवताः ।
इन्द्राग्नयोश्चान्तरालेऽश्विनौ देवौ समर्चयेत् ।।।३ ।।
आग्नेयदक्षिणमध्ये सप्तमातॄः समर्चयेत् ।
याम्यनैर्ऋत्ययोर्मध्ये गणेशं च समर्चयेत् ।। २४।।
वरुणनिर्ऋतिमध्ये नागान् भूतानि चार्चयेत् ।
वरुणवाय्वन्तराले यक्षरक्षांसि चार्चयेत् ।। २५।।
ब्रह्मतस्तु उदीच्याः प्रादक्षिण्येन मध्यगान् ।
वृषभध्वजकं साध्यान्नारायणं च पितृकान् ।। २६।।
यमं च मृत्युरोगांश्च मरुतश्चित्रगुप्तकम् ।
अष्टौ संस्थाप्य च देवान् पूजयेत्तु ततः परम् ।। २७।।
ब्रह्मणः पादमूले तु पृथिवीं वै समर्चयेत् ।
अभिषेकं प्रकुर्वीत तत्तन्नामानि वै गृणन् ।। २८।।
ओं असंख्याताः सहस्राणि ये रुद्रा अधिभूम्यां वै ।
तेषां सहस्रयोजने ऽवधन्वानितन्मसीति ।। २९ ।।
ओं इमं मे गंगे यमुने सरस्वति
शतद्रुस्तोमं स च तापरुष्ण्या ।
असिक्न्यामहद्विधेवितत्तयार्जीकीये
शृणु ह्याशिषो मया ।। 2.155.३० ।।
ओं इमं मे ब्रह्मपुत्रे इरावति साले
चन्द्रे मेनकांगेंऽगशिक्षांगे चोरले ।
बलो दीनाप् कङ्गो नीपे नायिजे
नरायणि मेके चार्थे कलिंगिनि चेमे ।।३ १ ।।
ओं एका च मे, तिस्रश्च मे तिस्रश्च मे,
पञ्च च मे पञ्च च मे,
सप्त च मे सप्त च मे,
नव च मे नव च मे,
एकादश च मे एकादश च मे,
त्रयोदश च मे त्रयोदश च मे,
पञ्चदश च मे पञ्चदश च मे,
सप्तदश च मे सप्तदश च मे,
नवदश च मे नवदश च मे,
एकविंशतिश्च मे एकविंशतिश्च मे,
त्रयोविंशतिश्च मे त्रयोविंशतिश्च मे,
पञ्चविंशतिश्च मे पञ्चविंशतिश्च मे,
सप्तविंशतिश्च मे सप्तविंशतिश्च मे,
नवविंशतिश्च मे नवविंशतिश्च मे,
एकत्रिंशश्च मे एकत्रिंशश्च मे
त्रयस्त्रिंशच्च मे त्रयस्त्रिंशच्च मे,
यज्ञेन कल्पन्ताम् ।।३२ ।।
चतस्रश्च मेऽष्टौ च मेऽष्टौ च मे,
द्वादश च मे द्वादश च मे,
षोडश च मे षोडश च मे,
विंशतिश्च मे विंशतिश्च मे,
चतुर्विंशतिश्च मे चतुर्विंशतिश्च मे,
ऽष्टाविंशतिश्च मेऽष्टाविंशतिश्च मे,
द्वात्रिंशच्च मे द्वात्रिंशच्च मे,
षट्त्रिंशच्च मे षट्त्रिंशच्च मे,
चत्वारिंशच्च मे चत्वारिंशच्च मे,
चतुश्चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मे,
ऽष्टाचत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे
यज्ञेन कल्पन्ताम् ।। ३३ ।।
ओं ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषां सहृस्रयोजने ऽवधन्न्वानि तन्न्मसि ।। ३४।।
इति यूपमभिषिच्य यूपन्यासान् समाचरेत् ।
यूपस्य शिरसि नमो ब्रह्मणे चक्षुषोस्त्वथ ।।३५।।
सूर्यशशिभ्यां च नमः केशवाय नमो हृदि ।
नमो नाभावग्नये च कटिगुह्योरुषु न्विमान् ।।३६।।
नमाम्येकादशरुद्रान् जंघयोर्मेरवे नमः ।
पादयोर्नागदेवाँश्च नमामि चाथ वै पुनः ।।३७।।
ओं अथेतस्त्थ राष्टदा राष्ट्रं मे दत्त
स्वाहाऽर्थेतस्त्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ।
ओजस्वतीस्त्थ राष्ट्रदा राष्ट्रं मे दत्त
स्वाहौजस्वतीस्त्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ।
आपः परिवाहिणीस्त्थ राष्ट्रदा राष्ट्रं मे दत्त
स्वाहापः परिवारिणीस्त्थ राष्ट्रदा राष्ट्रं मे दत्त ।
अपां पतिरासि राष्टदाराष्ट्रम्मे देहि
स्वाहापाम्पतिरमि राष्टदा राष्ट्रममुष्मै देहि ।
अपां गर्भोऽसि राष्टदा राष्ट्रम्मे देहि
स्वाहापांगर्भोसि राष्ट्रदा राष्ट्रममुष्मै देहि ।
सूर्यत्वचसस्त्थ इति शिखायाम् ।। ३८ । ।
ओं विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति पतत्त्रैर्द्यावाभूमी
जनयन् देव एक इति चक्षुषोः ।। ३ ९।।
ओं वाराहाय नम इति नासिकाभ्यां नमो नमः ।
ओमग्निं दूतं पुरोदधे हव्यावाहमुपब्रुवे ।
देवानासादयादिह चेति मुखे नमो नमः ।।।2.155.४ ० ।।
ओं नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः ।
तेषां सहस्रयोजने वधन्न्वानि तन्मसीति ग्रीवायाम् ।।४ १ । ।
ओं बाह्वोर्मे बलमस्तु चेति बाह्वोश्चापि नमो नमः ।
ओं हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छेति हृदये ।।८२। ।
ओं समुद्रादूर्मिर्मधुमां उदारदुपांशुना सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिरित्युदरे।।४३ ।।
ओं वामद्य सवितुरिति कटिद्वयोः नमो नमः ।
ओं नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर्भसत् ।। ४४।।
आनन्दनन्दावाँण्डौ मे भगः सौभाग्यं पसः ।
जंघाभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठितः इति जंघयोः।। ४५ ।।
ओं आयं गौः पृरग्निरक्रमीदसदन्मातरम्पुरः ।
पितरं च प्रयंत्स्वः इति पादयोस्ते नमो नमः ।। ४६ । ।
एवं यूपे न्यासमाप्त्वाऽऽपूज्य पंचोपचारकैः ।
पूजां बलिं प्रदद्याच्च यूपायैष बलिं नमम ।।४७। ।
एह्येहि धर्मध्वज यज्ञनाथ त्रयीमयो वेदशरीरयूप ।
दधातु देवाध्वरयज्ञरक्षां वलिं गृहाणापि नमोनमस्ते । ।६८८।।
ओं सोमपर्वतेति कुंकुमाक्तसूत्रेण वेष्टयेत् ।
ओं पर्वतस्येति पर्वतान् वरुणं दिक्प्रपालकान् ।।४९।।
यूपे गन्धाद्यैः सम्पूज्य ध्यात्वा चोदङ्मुखः पठेत् ।
मूलच्छेदेन च भूमिघातेन पातकादिकम् ।।2.155.५ ० ।।
यूप व्यापोह्य सर्व यूपस्पृष्टः शुचिः सदा ।
ओं या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।।५१ ।।
मनै नु बभ्रणामहं शतं धामानि सप्त च ।
बध्वैवं पुष्पमालां च यूपं कृत्वा प्रदक्षिणम् ।। ५२।।
गाढमालिङ्ग्य च सर्वं नमस्कुर्यात् कुटुम्बकम् ।
पालाशो ब्राह्मणस्योक्तो नैय्यग्रोधस्तु भूभुजः ।। ५३ । ।
बैल्वो वैश्यस्य यूपः स्याच्छूद्रस्यौदुम्बरः स्मृतः ।
शिरःप्रमाणो विप्रस्य आकण्ठं क्षत्रियस्य च ।।५४।।
उरःप्रमाणो वैश्यस्य शूद्रस्य नाभिमात्रकः ।
प्राच्यां तु पदमात्रान्ते इति नारायणं नमेत्। ।।५५।।
अथाऽधिवासनं कार्यं सायं मुख्यसुरस्य वै ।
आचार्यो यजमानश्च ऋत्विक् सुवासिनी तथा ।। ५६ ।।
गच्छेयुः शिल्पिशालां च देवाग्रे स्थापयेद् घटम् ।
तीर्थान्यावाहयेत् तत्र गंगां यमीं सरस्वतीम् ।। ५७।।
चेरावतीं ब्रह्मपुत्रां नारायणीं च गण्डकीम् ।
समुद्रान् प्रतटाकाँश्च क्षेत्राण्यश्वसरोवरम् ।। ५८।।
पुष्करं बालकृष्णं च मानसं बदरीवनम् ।
आवाहयेद् घटे तानि विशन्तु ब्रह्मशासनात् ।। ५९।।
कुंभस्य तु चतुर्दिक्षु नम इन्द्राय ओमिति ।
नमो यमाय च वरुणाय कुबेरकाय च ।। 2.155.६० ।।
पूजयामि च गन्धाद्यैस्तथा होमं करोमि च ।
प्रतिमायाः शिलायास्तु दोषवारणहेतवे ।। ६१ ।।
घटनादौ जन्तुनाशोत्थादिपापनिवृत्तये ।
स्थण्डिलं प्रतिमायोग्यं कृत्वा च भूतसंस्कृतिम् ।। ६२।।
अग्निं न्यस्य प्रकुर्याच्च होमं तिलैर्वृतादिना ।
हुत्वा चाऽऽघाराज्यभागौ देवमन्त्रेण वै तथा ।। ६३ ।।
आज्याहुतीः शतद्वयं हुत्वा पूर्णाहुतिं तथा ।
प्रार्थयेन्मूर्तिरूपस्त्वं स्मृद्धियुक्तः सदा भव ।। ६४।।
कुशैः सम्मृज्य मध्वाज्याभ्यंगेन व्रणनाशनम् ।
कर्तव्यं करणीयं च मृदा स्नानं विशुद्धया ।। ६५।।
गोमयेन गोमूत्रेण भस्मना पयसा पृथक् ।
मध्ये मध्ये जलेनाऽपि ततोऽभिषेचनं चरेत् । ।६६ ।।
गन्धाद्यैः सितपुष्पैश्चाऽऽपूज्य कुंभोदकेन च ।
संस्नाप्य यजमानः सः शिल्पिने चाम्बरादिकम् ।।।६७।।
दद्याच्चापि तदाचार्यो मूर्तिं विलोक्य सर्वतः ।
देवस्य दक्षिणे हस्ते सितोर्णादिविनिर्मितम् ।। ६८।।
सर्वौषधिमनःफलयुतं वितस्तिमात्रकम् ।
दोरकं मूलमन्त्रेण बध्नीयात् प्रतिमां ततः ।।।६९।।।
रथे चारोपयेद् गीतवाद्यैः शृंगारशोभिताम् ।
आरोपयेद् रथे ब्रह्मा वेदमन्त्रान् समुच्चरन् ।। 2.155.७० ।।
ओं रथे तिष्ठन्नयति वाजिनः पुरो
यत्र यत्र कामयते सुखारथिः ।
अभीशूनां महिमानं पनायतमनः
पश्चादनुयच्छन्ति रश्मयः ।।७ १ ।।
नद्यां वा सरसि कुण्डे नीत्वा तामधिवासयेत् ।
पुण्याहवाचनं कुर्यात् स्वस्तिवाचस्ततोऽपि च ।।।७२।।
ओं आ नो भद्राः क्रतवो यन्तु
विश्वतोदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद्वृधे असन्न-
प्रायुवो रक्षितारो दिवे दिवे ।।७३।।
आ देवानां भद्रा सुमतिर्ऋजूयतां
देवानां रातिरभिनो निवर्तताम् ।
देवानां सख्यमुपसेदिमा वयं देवा न
आयुः प्रतिरन्तु जीवसे ।। ७४।।
ओं तमीशानं जगतस्तस्थुषः
पतिं धियं जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्
वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ७५।।
इत्यादि शान्तिपाठादि प्रोच्चार्य सरितस्तटम् ।
पञ्चगव्येन सम्प्रोक्ष्य न्यस्य पूजाद्रवादिकान् ।।७६।।
वस्त्राच्छादितमूर्तिं च मनुनाऽप्स्वधिवासयेत् ।
उदङमुखो यजमानो देशकालौ प्रकीर्त्य च ।।७७।।
वरुणस्य गणेशस्य मातृक्षेत्रपप्रभृतेः ।
पूजनं च करिष्येऽत्र गणानां त्वा वदन् ततः ।।७८।।
भूर्भुवः स्वः गणेश त्वमिहागच्छ च तिष्ठ च ।
सिद्धिबुद्धिसहितं त्वां पूजयामि नमामि च ।। ७९।।
इदं दीपमाषभक्तबलिं समर्पयामि ते ।
जलमातॄर्जले तद्वदर्चयेच्चार्पयेद्बलिम् ।।2.155.८०।।
नमो मत्स्यै च कच्छप्यै कूर्म्यैं वाराह्यै नमम ।
ददुर्यै शिशुमार्यै चेश्वर्य्ये नमः प्रपूजनम् ।।८ १।।
अक्षतेषु च रेखासु जीवमातृः प्रपूजयेत्। ।
मत्स्यै हृद्यै च गोधायै मकर्यै डुंडुभ्यै नमः ।।।८२।।।
ददुर्य्यै च नमो जल्यै गन्धाद्यैः पूजनं तथा ।
चतुष्षष्टियोगिनीनां कुंकुमाद्यैर्जलेऽर्चनम् ।।८३।।
वायव्यां क्षेत्रपालं कुंकुमाद्यैरर्चयेन्नरम्।
भूर्भुवः स्वः क्षेत्रपाल इहागच्छ च तिष्ठ च ।।८४ । ।
कुंकुमं दीपकं माषदधिभक्तबलिं गृह्ण ।
अथ कुर्याज्जलपूजां नम ओं अद्भ्य एव च ।।८५ । ।
सागरेभ्यः सरोभ्यश्च तीर्थेभ्यो नदीभ्यो नमः ।
गन्धाक्षतान् जले क्षिप्त्वा वरुणं चापि पूजयेत् ।।८६।।
भूर्भुवः स्वः वरुण त्वमिहागच्छ च तिष्ठ च ।
माषभक्तबलिं गृह्ण वरुणाय नमो नमः । ।८७। ।
पञ्चामृतं करे धृत्वा तन्मन्त्रैश्च जले क्षिपेत् ।
जलदेवं प्रार्थयेच्च मूर्तिं जले प्ररक्षयेत् ।।८८।।
सप्त पञ्च त्रिरात्रं चैकरात्रं याममेव वा ।
आचार्याय हिरण्यं चाऽन्येभ्यश्च भूरिदक्षिणाम् । ।८ ९ ।।
दद्यान्मूर्तिं ब्राह्मकाले घटिकाद्वययापिते ।
जलान्निष्कास्य तीरे संस्नाप्य सम्पूज्य सद्द्रवैः ।। 2.155.९० ।।
उत्तिष्ठ श्रीकृष्णनारायण राधारमापते ।
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । । ९१ ।।
उपप्रयन्तु मरुतः सुदानव इन्द्रप्राशुर्भवा सचा ।
इति मन्त्रैः समुत्थाप्य सर्वाभरणभूषिताम् ।। ९२ ।।
वाद्यगीतैः रथे न्यस्य मार्गे च वसतौ नयेत् ।
शिल्पिशालाजले नीत्वा देवमण्डप दक्षिणात् ।। ९३ ।।
भ्रामयित्वाऽऽनयेत् स्नानमण्डपं च ततः परम् ।
वेदिकायां भद्रके चासने प्राङाननं प्रभुम् ।। ९४।।
स्थापयेद् भद्रमन्त्रैश्च ततः स्नानं प्रकारयेत् ।
राधे तुभ्यं मयोक्तं तद् दैवतायाऽऽह यद्धरिः ।। ९५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यूपारोपणं तद्देवादिपूजनं प्रतिमाया जलाधिवासनं नगरभ्रामणं मण्डपानयनं चेत्यादिनिरूपणनामा पञ्चपञ्चाशदधिक शततमोऽध्यायः ।। १५५ ।।