लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १५६

← अध्यायः १५५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १५६
[[लेखकः :|]]
अध्यायः १५७ →

श्रीकृष्ण उवाच-
ततः श्रीभगवानाह देवायतनकाय यत् ।
स्नानविध्यादिकं सर्वं तद् राधे कथयामि ते ।। १ ।।
गुरुः स्नानस्य शालायां कृत्वा तु वेदिकात्रयम् ।
कृत्वोत्तरोत्तरं चाथ स्नपनद्रव्यसंभृतिम् ।। २ ।।
कृत्वा च पञ्चगव्येन भूमिं संप्रोक्ष्य वेदिकाः ।
वालुकायुक्तवेद्यां वै दक्षिणायां तदाऽक्षतैः ।। ३ ।।
स्वस्तिकं तु समुल्लिख्य भद्रपीठं विधाय च ।
पश्चाच्च वेदिकायास्तु कलशान् षड् निधापयेत् ।। ४ ।।
वारिपूर्णान् पल्लवाढ्यान् तथा पञ्चाऽपरानपि ।
मृत्पल्लववृक्षीयकषायगोमूत्रगोमयैः ।। ६ ।।
भस्मगन्धोदकैर्भृत्वा पञ्चदेवप्रसंज्ञकान् ।
उदक्संऽस्थपंक्तिरीत्या घटान् निधापयेत् ततः ।। ६ ।।
अन्त्यस्थपतिकलशम् वेद्याः पश्चे ह्येकादश ।
स्थाप्यैतान् भद्रपीठस्योत्तरवेद्यां घटाष्टके ।। ७ ।।
परितः पूर्वक्रमशः क्षीरं दधिं घृतं सुराम् ।
इक्षुरसं दूर्वोदकं दर्भोदकं निधाय च ।। ८ ।।
हिरण्यगर्भादिमन्त्रैर्विन्यस्येत् तद्घटाष्टकम् ।
ततोऽन्ये पश्चिमे वेद्या दश मृतिकया क्रमात् ।। ९ ।।
गोमूत्रेण गोमयेन भस्मना पञ्चगव्यकैः ।
क्षीरेण दध्ना घृतेन मधुना खण्डया युताः ।। 2.156.१ ०।।
घटाः स्थाप्यास्तथा तत्र चतुर्दशघटाः पुनः ।
शुद्धजलैर्भृताश्चान्येऽप्यथ पञ्चत्रिंशद्घटाः ।। ११ ।।
स्थापनीयास्तेषु मध्ये पञ्च पञ्चामृतैर्युताः ।
पञ्चजलयुताश्चाथ पञ्च पत्रकषायिणः ।। १ २।।
पुनर्दश क्रमात् पुष्पैः फलै सौवर्णवारिभिः ।
गवां शृंगोदकैश्चापि धान्यैः सहस्रछिद्रकैः ।। १ ३।।
सर्वौषधिभिश्च पञ्चपल्लवैदूर्वया तथा ।
नवरत्नैर्युता कार्या अविशिष्टा दशाऽथ तु ।। १४।।
पूरणीया स्वच्छवारिभिः कदम्बादिपल्लवैः ।
तत्राऽऽवाह्य लोकपालान् आजिघ्रकलशं धरेत् ।। १५।।
कादम्बं शाल्मलीपत्रं जाम्बवं चाऽप्यशोकजम् ।
प्लक्षपत्रमुदुम्बरदलं वटदलं तथा ।। १६।।
बिल्वपत्रं नागवल्लीपत्रं पलाशपत्रकम् ।
तथाऽन्यान्यपि वस्तूनि सूक्ष्मवस्त्रं सुगन्धि च ।। १७।।
सुतैलं यवचूर्णं चोद्वर्तनार्थं तथाऽपरम् ।
सुगन्धामलकीचूर्णं जटामांस्यादिकं शुभम् ।। १८।।
सर्वमासादयेत्तत्र वेदीमध्ये घटेषु च ।
अन्त्यस्थपतिसंज्ञं च घटं तीर्थोदकान्वितम् ।। १९।।
कृत्वा देवसमीपे च तीर्थान्यावाहयेज्जले ।
गंगे च यमुने सरस्वति चेरावति तथा ।।2.156.२० ।।
मेनकांगे ब्रह्मपुत्रि नारायणि तथोरले ।
कंगो नाये च वाल्गे चैमे कारुलिंगिके मकि ।।२ १ ।।
दीनाप् नीपे तथार्थे च नर्मदे गण्डकि हरे ।
स्वर्णरेखे पुष्करं च मानसं चाश्वपट्टकम् ।। २२।।
बालकृष्णं तथा नारायणं चापि सरोवरम् ।
सागराश्चापि तीर्थानि विशन्त्वत्र घटे शुभाः ।।।२३ ।।
ततो जलेन देवं वै स्नापयेद् वेदमन्त्रकैः ।
यजमानः प्रदद्याच्च शिल्पिभ्यः पारितोषिकम् ।।२४।।
अथाचार्यो बलिं दद्यात् सिद्धार्थघृतपायसैः ।
दिक्पालेभ्यः सर्वदिक्षु पूर्वादिक्रमतो बहिः ।।।२५।।
आचमनं प्रकुर्याच्च पूर्वे इन्द्राय वै बलिम् ।
अर्पयामि दिशं रक्ष यजमानोदयं कुरु ।।२६।।
आग्नेय्यामग्नये सांगायाऽर्पयामि बलिं नमः ।
दक्षिणे यमदेवाय चार्पयामि बलिं नमः ।।२७।।।
नैर्ऋत्ये निर्ऋतये चार्पयामि बलिं नमः ।
पश्चिमे वरुणायैवाऽर्पयामि च बलिं नमः ।।२८।।
वायव्यां वायवे चार्पयामि बलिं च ते नमः ।
उत्तरे च कुबेराय अर्पयामि बलिं नमः ।।।२९।।
ईशाने चेशदेवाय चार्पयामि बलिं नमः ।
बलिं दत्वाऽऽचम्य देवं प्रस्नापयेद् विधानतः ।। 2.156.३० ।।
अग्निर्मूर्द्धेति च मृदा यज्ञायेति कषायकैः ।
गोमूत्रेण च गायत्र्या गन्धेति गोमयेन च ।। ३१ ।।
भस्मना मानस्तोकेति गायत्र्या गन्धवारिणा ।
पञ्चदैवत्यकलशैः स्नापयेच्च ततः परम् ।।३२।।
नमःशिवेतिचाद्येन हंसेतिद्वितीयेन च ।
यातेति तृतीयेनापि विष्णोश्चतुर्थकेन च ।। ३३ ।।
ब्रह्मेति पञ्चमेनापि शुद्धोदकेन वै ततः ।
पुष्पाक्षताद्यैः संपूज्याऽऽच्छाद्य पिताम्बरेण च ।।३४।।
द्वितीयायां च वै वेद्यां भद्रासनं निधाय च ।
प्रागग्रगान् कुशानास्तीर्य च देवं निधाय च ।। ३५।।
उदङ्मुखो महाचार्यः कुंकुमसूत्रकेण ह ।
मूर्तिमावेष्ट्य च ततो हिरण्यगर्भमन्त्रतः ।। ३६ ।।
पात्रे मधुघृतं मिश्रिं मधुवातेतिमन्त्रयेत् ।
ततो मधुघृताक्तां च शलाकां कानकीं धरेत् ।। ३७।।
ओं चित्रं देवानामुदगादनीकं
चक्षुर्मित्रस्य वरुणस्य अग्नेः ।
ओं अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा
सूर्य्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ।। ३८।।
ओं अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा
सूर्यो वर्चोज्योतिर्वर्चः स्वाहा ।
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहेति
कल्पयेत् प्रतिमायास्तु नेत्रके ।।३९।।
ओं आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्मयेन सविता रथेनादेवो याति भुवनानि पश्यन् ।।2.156.४० ।।
इत्यनेन पद्मपुटद्वये कुर्यात् कनीनिकाम् ।
नेत्रोन्मीलनकाले न द्रष्टव्यं देवसन्मुखे ।।४१ ।।
आदर्शस्वर्णभक्ष्यपायसफलानि दर्शयेत् ।
सौम्या शुभा भवेद् दृष्टिर्देवस्य तु तथाकृते ।।४२।।
शिल्पी शस्त्रेण च रेखामुल्लेखयेद् विधानतः ।
गुरुरभ्युज्य मधुना घृतेनाभ्युक्ष्य मन्त्रतः ।।४३ ।।
स्नापयेन्मृद्गोमयेन शस्त्रदोषनिवृत्तये ।
स्वर्णपात्रशलाकादि वस्त्रादि शिल्पिनेऽर्पयेत् ।।४४।।
गोदानं गुरवे चापि दत्वा कुण्डे हवं चरेत् ।
दिक्पालेभ्यो बलिं दत्वा ब्राह्मणान् चतुरः शुभान् ।।४५।।
भोजयित्वा दक्षिणादि प्रदत्वा तान् विसर्जयेत् ।
इति नेत्राञ्जनं कृत्वा संकीर्त्य देशकालकौ ।।४६।।
महास्नानं कारयेच्च देवस्य परमात्मनः ।
भद्रासनात् प्रतिमामुत्थापयेन्मन्त्रकं गृणन् ।।४७।।
ओं उत्तिष्ठ ब्रह्मणस्पते देवयंतस्त्वेमहे ।
उपप्रयन्तु मरुतः सुदानव इन्द्र प्रासूर्भवा सचा ।।४८।।
इत्युत्थाप्य भद्रं कर्णेभीति वेद्याम् उदङ्दिशि ।
भद्रासने स्थापयित्वा पादपीठं प्रकल्पयेत् ।।४९।।
ओं समुद्रेतिमन्त्रैश्च स्नापयेच्चतुर्भिर्घटैः ।
दधिदूर्वाऽक्षताद्यैः सम्पूज्याऽऽरार्त्रिकमाचरेत् ।।2.156.५० ।।
नमस्तेऽर्चे सुरेशानि प्रकृते विश्वकर्मणः ।
प्रभाविताऽशेषजगद्धात्रि तुभ्यं नमो नमः ।।।५ १ ।।
त्वयि सम्पूजयामीशं नारायणं परात्परम् ।
हरिताशेषदोषे त्वम् ऋद्धियुक्ता सदा भव ।।५२।।
ततो दक्षे करे चौर्णसूत्रं वितस्तिमात्रकम् ।
यदा वघ्नन्नितिमन्त्रैर्बध्नीयात्प्रणमेत्तथा ।।५३ ।।
इदमापेतिमन्त्रैश्च प्रस्नापयेच्चतुर्घटैः ।
अग्निर्मूर्द्धेति च मृदा ततः शुद्धोदकेन च ।।५४।।
गोमयेन गोमूत्रेण भस्मना शुद्धवारिणा ।
पञ्चगव्येन शुद्धाद्भिः क्षीरेण शुद्धवारिणा ।।५५।।
दध्ना शुद्धजलेनापि मधुना च जलेन च ।
शर्करया जलेनापि स्नापयेन्मार्जयेत्ततः ।।।५६।।
पञ्चामृतानां मन्त्राँश्चोच्चारयेत् स्नानकारकः ।
यज्ञायेति सुगन्धेन तैलेन चाभियोजयेत् ।।५७।।
ओं द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।
पूतं पवित्रेणेवाऽऽज्यमापः शुन्धन्तु मैनसः ।।५८।।
यवशालिगोधूमादिमसूरबिल्वचूर्णकैः ।
उद्वर्त्य ओं यातेति च लिम्पयेद् यक्षकर्दमैः ।।५९।।
कस्तूर्यंशद्वयं कुंकुमांशत्रयं शश्येककम् ।
चन्दनांशत्रयं यक्षकर्दमः सोऽयमुच्यते ।।2.156.६ ०।।
जटामांस्याऽनुसंलिप्य घटद्वयेन स्नापयेत् ।
मानस्तोकप्रतद्विष्णुमन्त्रद्वयं समुच्चरेत् ।।६ १ ।।
पञ्चनद्य इतिपञ्चामृतेन च पृथकपृऽथक् ।
तत्तन्मन्त्रेण संस्नाप्य शुद्धोदकेन वै ततः ।।६२।।
गन्धोदकेन च पञ्चपत्रकषायवारिणा ।
ओषधीकलशेनापि सितपुष्पोदकेन च ।।६३ ।।
शान्तिघटोदकेनापि फलघटोदकेन च ।
स्वर्णोदकघटेनापि हिरण्येतिमनुं गृणन् ।।६४।।
ततः शृंगोदकेनापि ततो धन्योदकेन च ।
सहस्रधाराकलशैः सर्वौषधीजलेन च ।।६५।।।
पत्रोदकेन च दूर्वोदकेन च रत्नवारिभिः ।
तीर्थोदकेन च वार्धिघटैः संस्नापयेत्ततः ।।६६ ।।
क्षारोदकेन च क्षीरकुंभोदकेन वै ततः ।
दधिकुंभेन च घृतेनेक्षुरसेन वै ततः ।।६७।।
सुरोदकेन च ततः स्वादूदकेन वै ततः ।
नारिकेलजलेनापि लोकपालघटैस्ततः ।।६८।।
कदम्बपत्रकुंभेन शाल्मलीकुंभकोदकैः ।
जम्बूपत्रघटेनापि चाशोकपत्रवारिणा ।।६९।।
प्लक्षपल्लवसलिलैश्चूतपत्रघटेन च ।
वटपत्रोदकेनापि बिल्वपत्रोदकेन च ।।2.156.७०।।
नागवल्लीदलेनापि पालाशपल्लवेन च ।
रुद्राक्षवारिणा चापि संस्नाप्य चावमार्जयेत् ।।७ १ ।।
देवमावाहयेन्मन्त्रैरेहि चात्र स्थिरो भव ।
यज्ञभागं गृहाणेमं परमेश नमोस्तु ते ।।७२।।
हिरण्यपात्रपाद्यं च दद्यादर्घ्यं तथा शुभम् ।
आचमनं चन्दनादि दद्यात्तथोपवीतकम् ।।७३ ।।
वेदाहमेतमिति सूत्र युवास्विति तथाऽम्बरम् ।
वेदाहेत्युत्तरीयं च इदं विष्णुः सुपुष्पकम् ।।७४।।
धूरसीति ततो धूपं चन्द्रमा इति दीपकम् ।
अन्नपते च नैवेद्यं करोद्वर्तनमाचमम् ।।७५।।
ताम्बूलकं फलं यज्ञेनेति पुष्पाञ्जलिं तथा ।
दत्वा च शिल्पिने पात्रवस्त्रादि सर्वमर्पयेत् ।।७६।।
अन्नाधिवासनं कुर्यात् कोणे तु मण्डपस्य वै ।
सप्तसु धान्यशृंगेषु देवानामुपवेशनम् ।।७७।।
कृत्वा देवेश्वरं शय्यायां तु समधिवासयेत् ।
ब्राह्मणादीन् भोजयेच्च द्वादश प्रीयतामिति ।।७८।।
गोदानं च ततः कृत्वा प्रासादमुखदक्षगाम् ।
कोणगां शयनीं कृत्वा स्तुत्वा देवमुत्थापयेत् ।।७९।।
रथे त्वारोपयेच्चापि प्रादक्षिण्येन मन्दिरात् ।
आनीय यागमण्डक्ष्मां निवेश्य द्वारि पश्चिमे ।।2.156.८० ।।
मध्यवेद्याः पश्चपीठे प्राङ्मुखं तं निधाय च ।
दद्यान्मन्त्रैर्मधुपर्कं पुरुष एवेदमितिना ।।८ १ ।।
पाद्यं चार्घ्यं मधुपर्कं मन्त्रैर्दद्यात्ततः परम् ।
मध्यवेद्यां धान्यपुञ्जे काष्ठशय्यां तु प्राक्शिराम् ।।८२।।
आस्तीर्य शुक्लवसनेऽक्षतस्वस्तिकमालिखेत् ।
प्रागग्रगान् कुशानास्तीर्य पूर्वादिषु पूजयेत्। ।।८३।।
पूर्वे नमो विष्णवे दक्षे मधुसूदनाय च ।
पश्चिमे त्रिविक्रमायोत्तरे वामनकाय च ।।८४।।
आग्नेय्यां श्रीधरायेति ऋषिकेशाय निर्ऋतौ ।
वायव्ये पद्मनाभायेशान्यां दामोदराय च ।।८५।।
नमः सम्पूजयामीति ततस्तान् त्रिःपरिक्रमेत् ।
देवं च शयने कृत्वा त्रिभिः पट्टदुकूलकैः ।।८६।।
आच्छाद्य च शिरोदेशे निद्राकलशमान्यसेत् ।
सहिरण्याम्बरम् आपोदेवीमन्त्रेण सन्न्यसेत् ।।८७।।
आपो अस्मान्मातरश्चेतिमन्त्रैः प्रतिष्ठापयेत् ।
आप्यायस्वेति मधुना घृतेनाऽभ्यंजयेत्ततः ।।८८।।
या ते रुद्रेतिमनुनोपलिपेत्तैलसर्षपैः ।
गन्धाद्यैरभ्यर्च्य सितं परिधानं समर्पयेत् ।।८९।।
बृहस्पतेति मनुना करे दद्यात्तु कंकणम् ।
विश्वतेति पादनाभिवक्षःशिरस्स्वालम्भनम् ।।2.156.९०।।
पुरतः पादुके पार्श्वयोः शान्तिकुंभकौ तथा ।
दक्षे छत्रं व्यजने च पुरतश्चासनं तथा ।।९ १ ।।
घण्टां भक्ष्यं जलं दर्पणादिकं स्थापयेत्ततः ।
समन्ताद् भस्मना दर्भतिलैः प्राकारकत्रयम् ।।९२।।
कृत्वा च मण्डपाद् बाह्ये लोकपेभ्योऽर्पयेद् बलिम् ।
दिक्षु दत्वा वलिं कुण्डमागत्य होममाचरेत्। ।। ९३।।
ओं पराय विष्णवात्मने नमः स्वाहेदं विष्णवे ।
अष्टोत्तरशतंहोमं कुर्यात् तिलयवादिभिः ।।९४।।
न्यासान् कुर्याद् यथा यं पादयोः ऊं हृदये तथा ।
मं ललाटे इति रीत्या मूर्तौ प्रणवमर्पयेत् ।।९५।।
भूः पादयोर्भुवौ हृदि स्वर्भाले व्याहृतीर्न्यसेत् ।
अं तालौ आं मुखे इं दक्षे ईं वामे च नेत्रके ।। ९६।।
उं दक्षे ऊं वामकर्णे कं दक्षिणगण्डके ।
ऋं वामगण्डके लं दक्षिणनासापुटे तथा ।। ९७।।
लूं वामे नासिकापत्रे एं ऊर्ध्वे ओष्ठके तथा ।
ऐं अधरोष्ठे ओं दन्तेषु औं दन्तेषु अधःसु च ।।९८।।
अं ललाटे अः जिह्वायां यं त्वचि रं तु चक्षुषोः ।
लं नासायां वं दशनेषु शं श्रोत्रयोः षं चोदरे ।।९९।।
सं करौ हं हृदि क्षं नाभ्यां लं लिंगे न्यसेत्तथा ।
पफबभम दक्षिणे बाहौ तंथंदंधंनं वामके ।। 2.156.१०० ।।
टंठंडंढंणं दक्षायां जंघायां चंछंजंझंञं वामायाम् ।
कंखंगंघंङं चांगुलिषु मातृकान्यासमाचरेत् ।। १०१ ।।
ओं रविचन्द्राभ्यां नेत्रयोर्भौमाय हृदये तथा ।
स्कन्धे बुधाय जिह्वायां बृहस्पतये वै तथा ।। १० २।।
लिंगे शुक्राय च शनैश्चराय तु ललाटके ।
राहवे पादयोश्चापि केशेषु केतवे तथा ।। १ ०३।।
रोहिणीभ्योऽपि हृदये मृगशिरसे मस्तके ।
आर्द्रायै चापि केशेषु पुनर्वसवे भालके ।। १ ०४।।
पुष्याय तु मुखे आश्लेषाभ्यो नासापुटे तथा ।
मघाभ्यो दन्तवर्गेषु न्यासान् समाचरेत्तथा ।। १ ०५।।
दक्षकर्णे तु पूर्वाफाल्गुनीभ्यो वामकर्णके ।
उत्तराफाल्गुनीभ्यश्च हस्ताय हस्तयोस्तथा ।। १ ०६।।
चित्रायै दक्षिणभुजे स्वात्यै च वामबाहुके ।
विशाखानुराधाभ्यां स्तनयो दक्षिणे त्वथ ।। १ ०७।।
कुक्षौ ज्येष्ठाभ्यो मूलाय वामकुक्षौ ततस्तथा ।
कट्यां च पार्श्वयोः पूर्वाषाढाभ्यो लिंगके तथा ।। १ ०८।।
उत्तराषाढाभ्य एव वृषणे श्रवणाय तु ।
धनिष्ठायै तथा नेत्रे शतभिषाभ्य एव च ।। १ ०९।।
ऊर्वोः पूर्वाभाद्रपदोत्तराभाद्रपदाभ्यां तथा ।
रेवतीभ्योऽश्विनीभ्यश्च नाभ्यां ध्रुवाय वै नमः ।
सप्तर्षिभ्यः कण्ठदेशे मातृकाभ्यः कट्यां नमः ।। 2.156.११ ० ।।
विष्णुपदेभ्यः पादयोस्ताराभ्यो रोमकूपिषु ।
नागवीथ्यै चांगवीथ्यै वनमालायां नमः ।। १११ ।।
कौस्तुभेऽगस्तिमुनये नमो ग्रहेभ्य इत्यपि ।
हरिः राधे न्यासभेदानाह प्रोक्ता मयाऽपि ते ।। ११ २।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने स्नानकलशस्थापनदिक्पालबलिस्वर्णशलाकानेत्रांजनबहुघटस्नानपत्रस्नानपू जनाऽऽभरणनैवेद्यहोमप्रणवन्यासमातृकान्यासनक्षत्रन्यासादिनिरूपणनामा षट्पंचाशदधिकशततमोऽध्यायः ।। १५६ ।।