लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१३

← अध्यायः २१२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१३
[[लेखकः :|]]
अध्यायः २१४ →

श्रीकृष्ण उवाच-
राधिके यज्ञभूमौ वै कुण्डे त्वग्निर्महानलः ।
अचुम्बत व्योम हृष्टश्चाशीर्वादान् ददौ तदा ।। १ ।।
भूमिश्चेयं शान्तिवृत्तिः श्रेष्ठस्मृद्धिमयी सदा ।
नीतिसौख्यप्रपूराश्च प्रजाः सन्तु सदा त्विह ।। २ ।।
अमर्यः सुखभाग्याश्च स्मृद्धाः सन्तु सदा त्विह ।
राजानो न्यायमार्गस्था महास्मृद्धा भवन्तु वै ।। ३ ।।
कन्यकाः सुखवत्यश्च कुमाराः स्मृद्धिसंयुताः ।
प्रजा दीर्घजीववत्यो भवन्तु रोगवर्जिताः ।। ४ ।।
सस्यस्मृद्धिः सदा चास्तु स्वर्णरूप्यादिभूरिला ।
बुद्धिमन्तो जनाः सन्तु स्त्रियः सौभाग्यसंभृताः ।। ५ ।।
पशवो बहुदुग्धाश्च पादपा रससंभृताः ।
रसाला पृथिवी चास्तु देवतुल्याः कुटुम्बिनः ।। ६ ।।
साम्राज्यं श्रेष्ठसत्ताकं चास्तु स्मृद्धं धनादिभिः ।
दिव्यो भवतु देशोऽयं खण्डाः सन्तु समृद्धयः ।। ७ ।।
पात्राणि सन्तु मनुजा देवर्षिगुरुपूजकाः ।
यज्ञा भवन्तु लोकेऽत्र स्वर्णं चास्तु समुन्नतम् ।। ८ ।।
इत्येवं वह्निना दत्ता आशीर्वादा हि चाध्वरे ।
अश्रूयन्त जनैः सर्वैः प्रसन्नहृदयैस्तदा ।। ९ ।।
एवमाशीर्वचनानि दत्वा वह्निस्तिरोऽभवत् ।
यज्ञभस्मप्रसादं च जगृहुर्देहिनस्तदा ।। 2.213.१ ०।।
यज्ञे परिहृते चाज्ञा भोजनानां तदाऽभवत् ।
दीयन्ते मिष्टभोज्यानि तदा सर्वविधानि हि ।। १ १।।
भुंजते देहिनः पंक्तिबद्धा ईशसुरादिकाः ।
मानवाश्चान्यजातीयास्तदा मिष्टान्नमध्वरे ।। १ २।।
दीयतां दीयतां चेति भुज्यतां भुज्यतामिति ।
गृह्यतां गृह्यतां चेति वदन्ति परिवेषकाः ।। १३।।
असंख्यान्नं तथा द्रव्यमसंख्यं दीयते तदा ।
अम्बराणि ह्यसंख्यानि पात्राणि विविधानि च ।। १४।।
अन्नान्यपि विविधानि दीयन्ते तत्र चाध्वरे ।
एकादश्यां महादानान्यादीयन्ते समन्ततः ।। १५।।
राजभिश्च प्रजाभिश्च स्वर्णप्रधानकानि वै ।
राधिके ये महीमानास्तेऽपि ददति सर्वशः ।। १६।।
ग्राहकाश्च गृहीत्वैव ददत्यपरयाचिने ।
कोटिशो देहिनस्तत्र भुञ्जते हव्यमुत्तमम् ।। १७।।
एवं समुत्सवे जातेऽवभृथार्थं प्रभुर्जनान् ।
मुनीन् प्रजाजनानाह नदीसरःसमागमे ।। १८।।
स्नातुं गन्तव्यमेवाऽद्य सज्जा भवन्तु वै द्रुतम् ।
पटहो वै महाँस्तत्र ताडितो घोषणाकृते ।। १९।।
अवभृथार्थं चायान्तु भगवाँस्तत्र याति वै ।
यानि कानि च पापानि जन्तुद्रोहोद्भवानि च ।।2.213.२०।।
कर्मकाण्डस्य वैगुण्ये समुत्थानि च यान्यपि ।
कणशालिसमिद्धोमे यानि वा दुरितानि च ।। २१ ।।
तेषां विनाशनार्थं वाऽवभथं शस्यते सदा ।
अवभृथेऽवतारैश्चेश्वरैर्देवैश्च मानवैः ।।२२।।
स्नातव्यं वरुणं सम्पूज्यैवाऽऽपूज्य च वारि च ।
आमलकीफलैश्चापि भस्मना च घृतेन च ।।२३।।।
तीर्थमृदा तिलैश्चापि स्नातव्यं वारिभिस्तदा ।
इत्येवं पटहेनापि बोधिता मानवादयः ।।२४।।
ईश्वरा देवताश्चापि नारायणा नरेश्वराः ।
देव्यः सत्यो भगवत्यः सांख्ययोगिन्य इत्यपि ।।२५।।
वाद्यघोषैर्गीतिभिश्चाययुस्त्वभृथाय वै ।
शेषकाष्ठवनानद्या विनिपारसरोवरे ।।२६।।
संगमे पावने सस्नुर्विधिना मखिनस्तदा ।
यत्र यत्र तटे ये ये त्वभवँस्तत्र तत्र ते ।।२७।।
सस्नुः सम्पूज्य वरुणं तीर्थानि च जलानि च ।
भगवान् श्रीबालकृष्णो ब्रह्मप्रियाश्च योषितः ।।।२८।।
सस्नुर्देवास्तथा देव्यस्तीर्थोत्तमं ह्यभूज्जलम् ।
नारायणाऽवताराश्च तथा राधारमादयः ।। २९।।।
सस्नुस्तत्र तु तीर्थानि पावनान्यपि शुद्धये ।
एवं चाऽवभृथे जाते त्वाययुर्वै गृहान्निजान् ।।2.213.३ ०।।
ततः सभा महत्यासीत् पारितोषिकलब्धये ।
सर्वेभ्यः कर्मचारिभ्यस्तूपदाः स्वर्णनिर्मिताः ।।३ १।।
भूषा द्रव्याणि रत्नानि दीयन्ते माधवेन वै ।
हाराः स्वर्णमयाश्चापि श्रेष्ठाम्बराणि चापि तु ।।३२।।
सुवर्णचन्द्रका रत्ननद्धाः कार्यप्रसूचकाः ।
गुणावेदनरेखाश्च मखचिह्नसमन्वितः ।।३३ ।।
रूप्यचन्द्रास्तथा चौर्णकम्बलाऽम्बरशाटिकाः ।
तन्तिकाः कुण्डले चापि रशनांऽगुलिमुद्रिकाः ।। ३४।।
ऊर्मिकाः कटकाश्चापि मौक्तिकानां स्रजः शुभाः ।
स्वर्णपात्राणि रम्याणि स्थालिकाः कलशास्तथा ।।३५।।।
छत्राणि चामरे चापि व्यजनानि विमानकम् ।
सिंहासनानि रम्याणि पट्टिका च चतुष्पदी ।।३६।।
स्वर्णमणिमहाहारा मालाश्च हीरकैः कृताः ।
पारितोषिकरूपेण ददौ श्रीकृष्णवल्लभः ।।३७।।
क्षत्रियेभ्यश्चायुधानि विप्रेभ्यो याजनानि च ।
अन्येभ्यस्तु यथापेक्षं ददौ वै पारितोषिकम् ।। ३८।।
मूर्तयः स्वर्णमय्यो याः प्राणैः सुप्रतियोजिताः ।
पूजनार्थं ददौ स्वामिकृष्णनारायणार्यकः ।। ३९।।
आचार्यादेशमालम्ब्य भूभृद्भ्यस्तत्र चाध्वरे ।
एवं समाप्य सर्वं वै क्षणं विश्रान्तिमाप ह ।।2.213.४०।।
तावत्तत्र समागत्य रायलम्बारभूपतिः ।
रूपर्तुमहर्षिश्चापि प्रार्थयामासतुर्द्रुतम् ।।४१ ।।
किमुवक्रान् प्रदेशान् नौ किमुवक्रां पुरीं तथा ।
प्रपुनीहि महाराजैकादश्यामद्य शोभनाम् ।।४२।।
हरिस्त्वथाऽस्विति प्राहाऽऽसहत् सज्जो विमानकम् ।
कुटुम्बेन हरेणापि लोमशेन समन्वितः ।।४३।।
राजा तूर्णं ययौ पूर्वं स्वागतार्थं विमानगः ।
हरिः सायं ययौ शीघ्रं किमुवक्रां पुरीं शुभाम् ।।४४।।
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।
उद्याने निजसौधस्य स्वागतं चाचरन् नृपः ।।४५।।
वाद्यानि बहुरम्याणि तदाऽवाद्यन्त सर्वतः ।
प्रजा द्रष्टुं समायाता वर्धयामासुरच्युतम् ।।४६।।
विमानाच्छ्रीहरिस्तत्रोद्याने बहिरुपाययौ ।
लाजाक्षतादिभिः पुष्पैश्चन्दनैः परमेश्वरम् ।।४७।।
वर्धयामासुरत्यर्थं प्रजाद्या नरयोषितः ।
राजा सौधे हरिं नत्वा पुपूज बहुरत्नकैः ।।४८।।
राज्ञी पूजां चकाराऽथ कन्यका भूभृतस्तु षट् ।
वव्रिरे भगवन्तं तं वरमालाप्रदानकैः ।।४९।।
कृतकृत्यास्तु ता जाता राजा मुमोद चाप्यति ।
राज्ञी मुमोद बहुधा ददावुपायनानि च ।।2.213.५०।।
यौतकं प्रददौ राज्ञी नीराजनं ततोऽकरोत् ।
भोजयामास द्ग्धादि पायसं शार्ङ्गिणे तदा ।।५ १ ।।
अथ सैन्येन सहितं त्वाचार्यं कृष्णवल्लभम् ।
नगर्यां भ्रामयामास राजमार्गेण भूपतिः ।।५२।।
प्रधानाः श्रेष्ठिनश्चान्ये वर्धयामासुरीश्वरम् ।
पुपूजुश्च प्रजाः सर्वा वक्रिण्यः कन्यकास्तथा ।।५३।।
हारैः फलैर्धनैश्चापि कम्बलैरम्बरादिभिः ।
विभूषाभिः समानर्चुः सर्वं धनं हरिस्तदा ।।५४।।
रूपर्तुऋषये प्रादाद् यौतकं नीतवान् सह ।
राजसौधं समागत्य निशि विश्रान्तिमाप च ।।५५।।
कन्याषट्क्प्रसेवां च गृह्णन् बुबोध वै प्रगे ।
कृताह्निकः पयः पीत्वा गन्तुं सज्जोऽभवद्धरिः ।।५६।।
सूर्योदये समायाच्च सैन्यसम्मानितो द्रुतम् ।
प्राप्य पूजां यज्ञपृथ्व्यां नैजालये ह्यवातरत् ।।५७।।
एवं वै राधिके कृत्वा किमुवक्रां पुरीं शुभाम् ।
पावनीं द्वादशीप्रातर्यज्ञस्थलीं व्यलोकयत् ।।५८।।
महीमानान्सार्वभौमानाकारयत् सभास्थले ।
मुक्ता धामान्यवतारा नारायणास्तथेश्वराः ।।५९।।.
ऋषयः पितरो देवा दैत्याश्च मानवास्तथा ।
खगा जलगाः पातालावासाः सर्वे समाययुः ।।2.213.६०।।
स्थावरा जंगमाश्चापि जडाश्च चेतनास्तथा ।
दासा भृत्याः स्वामिनश्च स्वामिन्यश्च सभां ययुः ।।६१ ।।
ईश्वराण्यस्तथा नारायण्यः सत्यः सुरप्रियाः ।
सर्वप्रियाश्चाययुश्चाप्सरसो मातृकास्तथा ।।६२।।
यतिन्यो ब्रह्मसरसो ब्रह्मचारिण्य इत्यपि ।
सांख्ययोगिन्य एवापि सृष्टयश्चागताः सभाम् ।।६३ ।।
हरिः प्रसन्नो भगवान् कल्पद्रुधेनुवल्लिकाः ।
कल्पमणीन् सेवकाँश्च पार्षदान् सेविकास्तथा ।।६४।।
पर्षद्याकारयामासाऽऽययुस्ते ताः सभां तदा ।
सिंहासनेषु दिव्येषु भ्राजमानेषु सूर्यवत् ।।६५।।।
आसीनेषु समस्तेषु कृष्णनारायणोऽब्रवीत् ।
आगतेभ्योऽवतारेभ्यः सर्वेभ्यश्चाह माधवः ।।६६।।
सम्माननं धन्यभावं कुर्वेऽहं भवतामिह ।
धामान्यपि विहायैव यज्ञार्थं यदुपागताः ।।६७।।
ईश्वराणामीश्वरीणां सम्मानं धन्यभावनाम् ।
कुर्वेऽहं दूरतश्चापि यज्ञार्थं यदुपागताः ।।६८।।।
ऋषीणां च मुनीनां च पितॄणां योषितां तथा ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ।।६९।।
देवानां काश्यपीनां च प्रजानां मनुजन्मनाम् ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ।।2.213.७०।
वृक्षादीनां तृणादीनां वल्लीनां विरुधां तथा ।
सन्मानं धन्यवाद्ं च कुर्वे यन्मखमागताः ।।७ १ ।
तीर्थानां दैवतत्वानां जडानां च चितामपि ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ।।७२।
पातालतलवासानां जलस्थलनिवासिनाम् ।
वह्निवायुनिवासानां तीर्थानां भूभृतां तथा ।।७३ ।।
लोकानां च दिशां पालकानां च कर्मचारिणाम् ।
पार्षदानां गणानां च गणेशानां च योगिनाम् ।।७४।।
सन्मानं धन्यवादं च कुर्वे यन्मखमागताः ।
यज्ञार्थं कृतयत्नानां सेवकानां समन्ततः ।।७५ ।।
सेविकानां समस्तानां क्षेत्रपानां समन्ततः ।
दासीनां दासवर्गाणां रक्षकाणां समन्ततः ।।७६ ।।
सर्वाधिकारमाप्तानां रसशालाकृतां तथा ।
द्रव्यशालारक्षकाणां संकल्पवस्तुसंजुषाम् ।।७७ ।।
दातॄणां च नृपाणां च नृपीणां ब्रह्मयोषिताम् ।
विप्राणां वेदमन्त्राणां हव्यानां मखपात्रिणाम् ।।७८ ।।
तत्त्वानां जडग्रन्थीनां चैत्यानां विश्वकर्मणाम् ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ।।७९ ।।
विदायं प्राञ्जलिं चात्मप्रसादत्वं शुभाशिषः ।
मन्मूर्तिं स्वर्णरूप्यादि सुधामृतानि सन्ददे ।।2.213.८ ० ।।
मुकुटानि कटकानि सुचन्द्रकाणि सन्ददे ।
भूषाम्बराणि पात्राणि चाम्बराण्यपि सन्ददे ।।८ १ ।।
छत्राणि दिव्ययानानि शाट्यादीनि च सन्ददे ।
शिरस्त्राणानि रम्याणि कौशेयानि च सन्ददे ।।८२ ।।
हस्त्यश्वरथरत्नानि हीरकानपि सन्ददे ।
शृंगाराणि विचित्राणि कञ्चुकादीनि सन्ददे ।।८३ ।।
अक्षयान्यपि पात्राणि कल्पवृक्षादिकान् ददे ।
कल्पवल्लीः कल्पधेनूः कल्पमणीन् ददे च वः ।।८४ ।।
दिव्यज्ञानं महैश्वर्यं दिव्यतेजो ददे च वः ।
दिव्यर्द्धिं शाश्वतीं शान्तिं भक्तिं सेवां ददे च वः ।।८५ ।।
दिव्यसिद्धीर्महालाभं ममाऽमृतं ददे च वः ।
इत्युक्त्वा भगवान् कृष्णवल्लभाचार्य इष्टकृत् ।। ८६ ।।
ददौ दिव्याक्षरस्वर्णकृतकिरीटकुण्डले ।
अवतारेभ्य एवाद्ये ईश्वरेभ्यस्ततः परम् ।।८७ ।।
लोकपालेभ्य एवापि राजभ्यश्च ततः परम् ।
एवं सर्वेभ्य एवापि यथायोग्यं त्वपेक्षितम् ।।८८ ।।
नरनारीसमेतेभ्यो ददौ वै पारितोषिकम् ।
प्रातश्चैवं दानकर्म समाचरद्धरिस्ततः ।।८९ ।।
दासभृत्यादिदेहिभ्यो धनानि व्यतरत्प्रभुः ।
स्वर्णहारान् रत्नहारान् ददौ योग्यान् पुनः पुनः ।। 2.213.९० ।।
नारीभ्यो नारिकायोग्या ददौ भूषाः सुवर्णजाः ।
अन्नपात्रेभ्य एवापि ददावन्नानि सर्वशः ।। ९१ ।।
वस्त्रपात्रेभ्य एवापि ददौ वस्त्राणि सर्वशः ।
बहुभ्यो गृहदानानि ददौ नारायणः प्रभुः ।। १२ ।।
राजद्वाराऽदापयच्च भवनानि द्विजातये ।
एवं सर्वं दानकर्म त्वपारयत्प्रभुः स्वयम् ।। ९३ ।।
भोजनं तु ततश्चैवाऽकारयत् सार्वभौमिकम् ।
पारणात्म शुभं मिष्टं पायसान्नमभोजयत् ।। ९४।।
रसान्नं मधुपर्कान्नं मिष्टान्नं चाप्यभोजयत् ।
सुधान्नं चामृतान्नं च पीयूषान्नमभोजयत् ।। ९५ ।।
पुण्यान्नं भावनान्नं च फलान्नं चाप्यभोजयत् ।
कणान्नं चापि मुन्यन्नं पत्रान्नं चाप्यभोजयत् ।। ९६ ।।
भाजान्नं चांकुरान्नं च सस्यान्नं चाप्यभोजयत् ।
जलीयान्नं पावनान्नं चानलान्नमभोजयत् ।। ९७।।
तैजसान्नं च धामान्नं सात्त्विकान्नमभोजयत् ।
शुद्धसत्त्वान्नकं लीलाविभूत्यन्नमबोधयत् ।। ९८ ।।
ऋत्वन्नं चाप्यऋत्वन्नं देहजान्नमभोजयत् ।
कल्पान्नं चापि सिद्धयन्नं सिद्धान्नं चाप्यभोजयत् ।। ९९ ।।
भावनान्नं च तृप्त्यन्नं सन्तोषान्नमभोजयत् ।
आनन्दान्नं महासौख्यान्नकं सर्वानभोजयत् । । 2.213.१०० ।।
तक्रं च शर्करां दुग्धं सूपं तथौदनादिकम् ।
पूरिकां पोलिकां चापि व्यंजनान्नान्यभोजयत् ।। १०१ ।।
मिष्टान्नानि क्वथिकाश्च चटनीः पर्पटादिकान् ।
सेविकाश्च तथाऽपूपान् संयावं चाप्यभोजयत् ।। १०२।।
चणकाँश्च फुल्लवटीर्भर्जिताश्चाप्यभोजयत् ।
मेशुभाँश्च सुखदाँश्च मोहस्थालानभोजयत् । । १०३ ।।
चक्रपारान् स्थिरकाँश्च ग्रन्थकानप्यभोजयत् ।
राजिकाराद्धमेवाऽपि त्वारनालान्यभोजयत् ।। १ ०४।।
दधिघृतं नवनीतं गूडं मधु ह्यभोजयत् ।
अम्ब्लवान शरत्पिबं चाम्ररसानभोजयत् ।। १०५ । ।
फलानि त्वार्द्रशुष्काणि बीजान्यपि ह्यभोजयत् ।
मुखवासान् गन्धिकणान् ताम्बूलकान्यभोजयत् ।। १०६ ।।
ब्रह्महृदस्य सलिलं सर्वेभ्योऽपाययत् प्रभुः ।
एवं प्रभोजयित्वैव स्वयं तु बुभुजे हरिः ।। १०७ ।।
कुटुम्बेन तु सहितो ब्रह्मप्रियासमन्वितः ।
राधारमासतीलक्ष्मीप्रभापारवतीयुतः ।। १०८ । ।
माणिकीदुःखहालक्ष्मीमंजुलाऽमृतिकायुतः ।
सगुणाशारदाहंसादुर्गासरस्वतीयुतः ।। १०९ ।।
पितरौ बुभुजाते च लोमशाद्या गुरूत्तमाः ।
बुभुजिरे च सर्वे वै देहिनो महीमानकाः ।। 2.213.११० ।।
गांगेयाश्चामरेयाश्च महर्षयश्च कन्यकाः ।
नदा नद्यश्च तीर्थानि बुभुजिरेऽतिकण्ठतः ।। १११ ।।
मध्याह्ने श्रीहरिस्तत्र राजभ्योऽभोजयत्त्वति ।
मध्याह्नोत्तरवेलायां मखस्य महीमानकान् ।। ११ रे।।
गन्तुमाज्ञापयामास स्वस्वलोकान्निजालयान् ।
ऋते ब्रह्मप्रियाः सर्वाः ऋते लोमशकादिकान् ।। ११३ ।।
ऋते नैजं कुटुम्बं चेशानं सतीं गणेश्वरम् ।
ऋते चामरिकर्षींश्च ऋते च तुषितं तथा ।। १ १४।।
ऋते च सच्चिदानन्दं श्रीकृष्णं त्वां च राधिकाम् ।
ऋते नारायणं लक्ष्मीम् ऋतेऽश्वसरसो जनान् ।। १ १५।।
इत्येवं सर्वथा चाज्ञां लब्ध्वा लब्ध्वा च राधिके ।
प्रतस्थिरे विमानैः स्वैः सायं शून्यमिवाऽभवत् ।। १ १६।।
रचनानां मण्डपानां संहारं विश्वकर्मिणः ।
सदासा वै निशायां ते चक्रुः स्थली प्रगेऽभवत् ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वह्नेराशीर्वादो भोजनानि, अवभृथं पारितोषिकाणि, सायं हरेः रायलम्बारनृपराष्ट्रगमनं, किमुवक्रापुर्यां भ्रमणं
पूजनं भोजनं रात्रौ विश्रमणं प्रातर्यज्ञभूमिमागमनं, महीमानसभाकरणं सम्मानधन्यवादोपदापारितोषिकादिदानं, भोजनानि विदायं चेत्यादिनिरूपणनामा त्रयोदशाधिक-
द्विशततमोऽध्यायः ।। २१३ ।।