लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २८५

← अध्यायः २८४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २८५
[[लेखकः :|]]
अध्यायः २८६ →

श्रीकृष्ण उवाच-
राधिके! वाहिनीं वीक्ष्याऽम्बरे विमानरूपिणीम् ।
शंकरस्य महीमानाः शिवेश्वरस्तथा नृपः ।। १ ।।
कृष्णयानीं नमस्कृत्य स्वागतार्थं द्रुतं तदा ।
वादित्रकुशलान् सर्वानाज्ञापयन् गवादिकान् ।। २ ।।
वादयितुं च वादित्रोत्तमानि तूर्यवेदिनः ।
वाद्यघोषा अभवँश्च तदाऽम्बरान्तगाः सुखाः ।। ३ ।।
मांगलिकास्तारजन्या भेरीजन्याश्च शोभनाः ।
व्यंगुलादिकजन्याश्च शंखजन्याश्च दूरगाः ।। ४ ।।
मयूरोत्थास्तथा शब्दा वंशीवीणानिनादनाः ।
जलयन्त्रादिजन्याश्च गालजन्याः शुभावहाः ।। ५ ।।
मृदंगकरतालादिजन्याश्चाऽनलयन्त्रजाः ।
वायुस्तरकृताः शब्दा व्योमगीतानि चाऽभवम् ।। ६ ।।
अप्सरसां कण्ठशब्दा योगिनीनां च गीतयः ।
मिष्टा वेदादिनारीणां सरस्वतीनिनादनाः ।। ७ ।।
दूरमिष्टस्वरास्तत्राऽभवन् व्योमान्तगामिनः ।
अश्रूयन्त शुभास्ते च विमानेषु विहायसि ।। ८ ।।
तान् शब्दान् वै समाकर्ण्याऽऽश्चर्यपरा विमानगाः ।
ददृशुस्तां विशालां सुभूमिं वाराणसीमयीम् ।। ९ ।।
सर्वे विमानगा गंगावरणामध्यगां पुरीम् ।
दशयोजनविस्तीर्णां वैकुण्ठसदृशीं तदा ।। 2.285.१ ०।।
पश्चोत्तरे ददृशुश्च विशालं नूतनं कृतम् ।
वरणायास्तटे शिवपुरं विंशतियोजनम् ।। ११ ।।
मयं च विश्वकर्माणं समाहूय विधापितम् ।
कैलासमपरं किं वा गोलोकमपरं च वा ।। १२।।
स्थितं कोटिविधुक्लृप्तं तथा कोटिरविप्रभम् ।
बहुभौमं चाम्बरे संस्थितं किं वा त्रिशूलगम् ।
दिव्यं कैलासमेवैतन्मेनिरे तद्विमानगाः ।। १३ ।।
शिवेश्वरेण स्वपुत्र्याः मांगल्योत्सवसिद्धये ।
निर्मापितं महीमाननिवासार्थं पुरं हि तत्। ।
स्वर्णप्राकारसंशोभं कोटिप्रासादराजितम् ।। १४।।
स्वर्णमन्दिरसच्छालं सुवर्णकलशान्वितम् ।
सुवर्णध्वजसंबोध्यं शातभौमं समन्ततः ।। १५।।
कुबेरनगरी यत्र यत्रेशानपुरी तथा ।
इन्द्रपुरी तथा कोणे वह्निपुरी प्रकोणके ।। १६।।
वारुणी नगरी यत्र धर्मपुरी प्रकोणके ।
मरुतां नगरी कोणे ब्रह्मपुरी प्रकोणके ।। १७।।
सूर्यपुरी तथा विष्णुपुरी कोणे विराजते ।
मध्ये देवनिवासाश्च प्रासादाः शतभूमयः ।। १८।।
उद्यानाऽऽवृतप्रपार्श्वाश्चातिसुगन्धिसंभृताः ।
धवला हिमशैलाश्च यद्वत् शशिनिभास्तथा ।। १९।।
सर्वस्मृद्धिश्रिताः सर्वे प्रासादा नूतनाः कृताः ।
चन्द्रशालाः प्रशोभन्ते ग्रहमार्गगता इव ।। 2.285.२० ।।
नैसर्गिकप्रभास्रावा मणयो यत्र भित्तिषु ।
नैसर्गिकप्रकाशाश्च कम्मानिकासु सन्ति हि ।।२१ ।।
तोरणेषु सुधास्रावा विद्यन्ते कामवल्लिकाः ।
स्तंभेषूर्ध्वप्रदेशेषु विद्यन्ते कामपादपाः ।। २२।।
वलभीषु च विद्यन्ते पयोनद्यश्च कामजाः ।
ऊष्मा यथापेक्षिता च कल्पतारोद्भवाऽस्ति च ।। २३ ।।
शिवपुर्यां च परितः प्रतिप्रासादके तथा ।
प्रतिप्रासादभूमौ च विद्यन्ते कामधेनवः ।।२४।।
कामरूपधरा दिव्या व्योमचाराः सुखप्रदाः ।
कल्पकन्याश्च विद्यन्ते प्रत्येकभूमिमास्थिताः ।।२५१।।
दासा दास्यो दिव्यवर्णा विद्यन्ते सेवकास्तथा ।
सर्वे संकल्पजा दिव्या सेवार्थं निहितास्तदा ।। २६ ।।
देहसंवाहिकाश्चापि गायिका नृत्ययोषितः ।
सर्वाः संकल्पजास्तत्र शंकरेण निधापिताः ।।२७।।
सर्वरसाः सर्वगन्धा सर्वरूपाः सुशोभिनः ।
प्रासादाः सर्वशब्दाश्च सर्वस्पर्शा भवन्ति च ।। २८।।
सौवर्णासनशोभाश्च सिंहासनगजासनः ।
मृदुकोमलशय्याश्च विद्यन्ते यत्र वेदिकाः ।।।२९।।
बृस्यो बहुविधाः सन्ति पर्यंकाः सुखदायिनः ।
आस्तरणानि दिव्यानि कौशेयानि समन्ततः ।। 2.285.३०।।
और्णानि मृदुरम्याणि विचित्राणि शुभानि च ।
रंगचित्राणि चञ्चद्भावन्ति प्रत्याश्रयाणि च ।।३ १ ।।
गेन्दुकानि पार्श्वकानि कशिपवश्च कोमलाः ।
गुप्तदोराण्यमूल्यानि स्वर्णकटानि यानि च ।।३२।।।
निहितानि च तेष्वेव प्रासादेषु हि शंभुना ।
प्रेंखा दोलाः सवल्ल्यश्च मृदुशय्यासमन्विताः ।। ३३ ।।
लम्बन्ते यत्र वल्लीभिः शोभिताऽऽन्दोलनार्थिकाः ।
विमानानि स्वल्पदेहान्यपि भूमिगमानि च ।। ३४।।
वायुमार्गेण च गतिमन्ति सन्ति गृहे गृहे ।
यद्द्वारा चोर्ध्वभूमौ च जनाः स्वस्वनिवासने ।।३५।।
व्योममार्गात्प्रविशन्ति निस्सरन्ति विमानकैः ।
सोपानान्यपि निःश्रेणीबद्धानि मणिमन्ति च ।। ३६ ।।
स्वर्णपात्राणि सर्वाणि कल्पपात्राणि सन्ति च ।
अक्षय्यस्थालिकास्तत्र कल्पघटाः प्रसन्ति च ।। ३७।।
मणिमन्ति समग्राणि तलानि च गृहे गृहे ।
आदर्शाः स्वच्छभावन्तः प्रकाशन्ते गृहे गृहे ।। ३८।।
कपाटानि च देवानां सृष्टिदृष्टिमयानि च ।
पेटिका मञ्जुषाद्याश्चाऽक्षयार्थवत्य एव च ।।३ ९।।
वेषाः समस्ताः सुशोभा विद्यन्ते च गृहे गृहे ।
सुगन्धद्रव्यपात्राणि तैलकेसरकाणि च ।।2.285.४०।।
कस्तूरीकर्पूरस्थाल्यो भवन्ति वै गृहे गृहे ।
रसकुल्या दधिकुल्या मधुकुल्याश्च शर्कराः ।।४१ ।।
इक्षुदण्डा घृतकुल्याः सुधावाप्यो गृहे गृहे ।
पीयूषकुण्डिकाः सन्ति चामृतानां ह्रदास्तथा ।।४२।।
फलानां चापि पुष्पाणां कमलानां ह्रदास्तथा ।
कन्दानामार्द्रशुष्काणां बीजानां चापि संग्रहाः ।।४३।।
हेतीनां रम्यरंगाणां द्यूतानां साधनान्यपि ।
श्रवाणां दर्शनानां च यन्त्राण्यपि गृहे गृहे ।। ४४।।
चैत्यपुत्तलिकाः सन्ति कर्मचार्यो गृहे गृहे ।
रसशालाः पाकशाला विद्याशालाश्च भूगृहाः ।।४५।।
गह्वराणि स्नानशालाश्चान्नशाला गृहे गृहे ।
पेयशालाः शान्तिशाला रतिशाला गृहे गृहे ।। ४६।।
प्रच्छन्ननिद्राशालाश्च वितर्दिका गृहे गृहे ।
शृंगारशाला विविधा वधूशालाः पृथग्विधाः ।।४७।।
वृद्धशालाश्च सुगमाः कल्पवस्तुसमन्विताः ।
शौचशालास्तथा शुद्धिशालाः सन्ति गृहे गृहे ।।४८।।
भोग्यशाला विचित्राश्च सर्वसाधनसंभृताः ।
सभाशालास्तथा विहारालयाश्च गृहे गृहे ।।४९।।
वाहनानि समस्तानि स्थलजाऽर्णवजानि च ।
वायुजानि च तिर्यञ्चि द्वारि द्वारि कृतानि च ।।2.285.५०।।
गोपुरेषु महासिंहा गजाश्चत्वरवर्तिनः ।
गरुडा मन्दिरोर्ध्वे च शार्दूला गोपुरोपरि ।।५१।।
पर्यश्चाप्सरसश्चापि गण्यश्च योगिनीगणाः ।
चेतनास्तत्र तिष्ठन्ति महीमानप्रसेविनः ।।५२।।
विशेषो राधिके! तत्र शंकरेण विधापितः ।
यस्य वासार्थमेवाऽस्ति यद् गृहं तत्र तत्र तु ।।५३।।
स एव स्वकुटुम्बेन राजते प्रतिमाविधः ।
सचेष्ट इव राजा वा देवो दैत्योऽसुरोऽपि वा ।।५४।।
प्रासादेषु तथा तत्त्वं निहितं गुप्तभित्तिषु ।
यो यो वसति प्रासादे स द्विरूपः प्रजायते ।।५५।।
भ्रमो भवति सर्वेषां कोऽत्र सत्यः परश्च कः ।
न विदन्ति च ये बिम्बं भ्रमन्ति प्रतिबिम्बके ।।५६।।
अफलाश्च परावृत्त्य बिम्बं ते मार्गयन्ति हि ।
तत्तत्प्रमाविधुरास्ते भ्रमे प्रमां हि मन्वते ।।५७।।
जले स्थलं स्थले जलं जले तेजोभिलोकिता ।
पृथ्व्यामाकाशभानं च भ्रमन्ति महीमानकाः ।।५८ ।।
सर्वत्रशंकरश्चापि सूक्ष्मरूपः प्रदृश्यते ।
मायैषा शांकरी तत्र प्रासादेषु विधापिता ।।५९।।
व्यजनैश्चाऽनिलदेवः सेवायां प्रतिमानवम् ।
वर्तते च यथापेक्षं सर्वमानसरञ्जनः ।।2.285.६ ० ।।
अदितिश्चान्नदात्री च वर्तते कन्यकात्मिका ।
संकल्पोपस्थिता भूत्वा दत्वा याति तिरःस्थितिम् ।।६ १।।
ओषधयः शंकरेण प्रासादेषु गृहे गृहे ।
स्थापिताः कानका वृक्षा विजयास्तबका नवाः ।।६२।।
सिंहव्याघ्रादिचर्माणि चेतनानीव मध्यतः ।
प्रासादेषु स्थापितानि सुन्दराणि गृहे गृहे ।।६३।।
आभूषणानि नारीणां वेषाश्च सुभगास्तथा ।
शृंगारद्रवपात्राणि स्थापितानि गृहे गृहे ।।६४।।
भक्ष्यभोज्यानि सर्वाणि लेह्यचोश्यानि यानि च ।
आस्वाद्यानि च पेयानि निहितानि गृहे गृहे ।।६५।।।
एकैका चन्द्रमःस्थाली पयोदाऽमृतदायिनी ।
सुखदा स्थापिता पूर्णा शंकरेण गृहे गृहे ।।६६।।
वसन्तश्च समाहूतः स्थापितः शिवपत्तने ।
एतादृशं शिवपुरं वरपक्षनिवासनम् ।।६७।।
ददृशुर्व्योमगाः सर्वे चाऽद्भुतं विश्वकर्मकृत् ।
द्वितीयं ददृशू रम्यं पार्वतीपत्तनं वरम् ।।।६८।।
कन्यापक्षमहीमानाऽऽवासार्थं कारितं तु यत् ।
न न्यूनमस्मात् सर्वांशे वस्तुष्वपि मनागपि ।।६ ९।।
विंशतियोजनायामं वरणाप्राग्भुवस्तले ।
द्वयोर्दिव्याऽभिनवयोः पुरयोर्मध्यवतीं च ।।2.285.७०।।
राजते पार्वतीशस्य प्रासादोऽयुतशृंगवान् ।
विश्वकर्मकृतश्चायं मयेन च परिष्कृतः ।।७१।।
निशेशाऽऽदित्ययोर्मध्ये मेरोः शृंगमिवाऽऽबभौ ।
पार्वतीपत्तने राधे! शिवसम्बन्धिनः खलु ।।७२।।
कन्यापक्षाश्च ये त्वासन् न्यूषुस्ते तत्र शोभने ।
भूतनाथः कोटिगणसमन्वितो हि शंकरः ।।७३।।
पिंगराजः शंकरश्च ईशानः केतुमालगः ।
कामरूपा सती कामाक्षिणी न्यूषुश्च तत्र ते ।।७४।।
नवजीवद्वीपराजः कामनायकनामवान् ।
त एते शंकराः सर्वे न्यूषुः पार्वतीपत्तने ।।७५।।
श्रीकृष्णो भगवान् साक्षाच्छंकरस्य पिता हि सः ।
कोटिगोपांगनागोपैः सहोवास च तत्र ह ।।७६।।
संकर्षणो व्यूहरूपो भगवान् कोटिपार्षदः ।
उवास पार्वतीपुर्यां कोटिकृष्णसमन्वितः ।।७७।।
महामाया कृष्णशक्तिः साऽप्युवास च तत्र ह ।
महाकालो जगद्धर्ता जरामृत्युसमन्वितः ।।७८।।
कोटिशक्तिसमैश्वर्ययुतश्चोवास तत्र च ।
सदाशिवो हि भगवान् वैराजस्य पिता हि सः ।।७९।।
सोऽपि शिवायुतस्तत्रोवासैव पार्वतीपुरे ।
रुद्राः सर्वे तथा रुद्र्यः रुद्रसृष्टिगणादिकाः ।।2.285.८०।।
महीमाना पार्वतीपत्तने न्यूषुः सुखान्विताः ।
शिवः कैलासवासश्च तथा कोटिगणान्वितः ।।८१ ।।
यमराजः कोटिदूतैर्युतश्चोवास तत्पुरे ।
अग्निश्च देवताः सर्वविधा न्यूषुश्च तत्पुरे ।।८२।।
कुबेरश्च निर्ऋतश्च योगिनीचक्रमित्यपि ।
यक्षाश्च राक्षसाश्चापि भूताः प्रेताः पिशाचकाः ।।८३।।
वैनायकाश्च कूष्माण्डा वेतालका गणास्तथा ।
वेतालिन्यश्च शाकिन्यो डाकिन्यश्चण्डिकादिकाः ।।८४।।
ब्रह्मचर्यो मातरश्च दुर्गाश्च शक्तयश्च याः ।
काल्यश्चापि महाकाल्यो भैरवा भद्रकास्तथा ।।८५।।
न्यूषुस्ते पार्वतीसौधनगरे सुखशायिनः ।
ईश्वरा वैकुण्ठवासाश्चाव्याकृतपरास्तथा ।।८६।।
अमृतस्थास्तथा सौराश्चान्द्रा न्यूषुश्च तत्र ह ।
मुनयः सिद्धयोगाश्चावधूता लिङ्गिनस्तथा ।।८७।।
योगिनश्चर्षयश्चापि पितरो न्यूषुरित्यपि ।
ग्रहाश्च तारकाश्चापि नक्षत्राणि च केतवः ।।८८।।
दैत्याश्च दानवाश्चापि न्यूषुस्तत्र पुरे तदा ।
स्वर्गीया लोकपालाश्च क्षेत्रपालादिकास्तथा ।।८९।।
भुवर्वासाः पावनाश्च कुलदेवो हनूयुतः ।
मानवाश्चापि राजानः पातालस्थाः फणीश्वराः ।।2.285.९०।।
हाटकेशस्तथा ज्योतिःस्वरूपाश्च प्रशक्तयः ।
गान्धर्वा गणिकाश्चापि सूताश्च मागधादयः ।।९ १ ।।
विद्याध्राः किन्नराश्चापि शैला हिमालयादयः ।
ऋषयोऽपि ज्वराश्चापि विघ्नाश्च विषसाधकाः ।।९२।।
वृक्षा वल्ल्यश्च तत्त्वानि क्रूराः कालस्य मूर्तयः ।
वृश्चिकाद्याः कामरूपा न्यूषुः पार्वतीपत्तने ।।९३।।
एते चान्ये महीमानाः शंकरस्य गणादयः ।
पार्वतीपत्तनवासाः सर्वेऽम्बरं विलोक्य च ।।९४।।
कृष्णस्य वाहिनी व्योम्ना त्वायातेत्यवगत्य च ।
तूर्णं व्यंगुलनादैश्च भूत्वा सज्जाः शिवगृहम् ।।९५।।
कुटुम्बाद्यैश्च सहिताः सवाद्यमंगलश्रयाः ।
सभूषावेषशोभाश्चाऽऽययुः स्वागतहेतवे ।।९६।।
प्रजाश्चापि तदा वाराणस्याः सर्वाः समाययुः ।
धन्यं भाग्यं स्वं मन्वाना प्रोद्वाहः कृष्णयोरिति ।।९७।।
सोपदाः सफलाश्चापि सपुष्पहारमालिकाः ।
अन्वीयुः पार्वतीशस्य मन्दिरं तूर्णमेव ताः ।।९८।।
शिवेश्वरो द्रुतं नैजं कैलासं दिव्यपूरुषम् ।
हिमाद्रिं च तथा दिव्यं पूरुषं बहुविस्तृतम् ।।९९।।
जगादाऽम्बरदेशे च विमानाधारकं स्थलम् ।
सुदिव्यं भवितुं तत्र क्षणं स्वागतहेतवे ।। 2.285.१० ०।।
राधिके! द्रुतमेवाऽमू कैलासश्च हिमालयः ।
अन्तरीक्षे स्तरं दिव्यं भूमिरूपं स्थिरास्पदम् ।। १०१ ।।
कैलासमपरं तत्र व्यधातां धामनूतनम् ।
शिवाद्याः शिवपक्षाश्च तूर्णं ययुस्तदम्बरे ।। १ ०२।।
धाम्नि वै नूतने रम्ये वाहिनीस्वागताय ह ।
आश्चर्यं चाम्बरे प्रापुर्विमानस्था जनाऽनुगाः ।। १०३ ।।
शिवेश्वरमहैश्वर्यं वीक्ष्य मुग्धास्तदाऽभवन् ।
प्रशसंसुर्ब्रह्मरूपं ब्रह्मात्मानं हरं तदा ।। १ ०४।।
समृद्धं वै महालक्ष्मीपितरं पार्वतीपतिम् ।
श्रीमद्गोपाकृष्णाद्याः प्रसेदुर्वीक्ष्य सम्पदः ।। १ ०५।।
शंकराद्याः कृष्णयानीं वीक्ष्य प्रसेदुरेव च ।
घरस्परं महैश्वर्यं वीक्ष्याऽतिमुमुहुस्तदा ।। १ ०६।।
राधिके यद् द्वयोर्गर्वहरा लक्ष्मीः कुमारिका ।
गर्वहरो बालकृष्णः स्वयं कुमारकोऽस्ति च ।। १ ०७।।
द्वयोर्भगवतोश्चात्रांऽशयोर्योग्यसमागमे ।
विकसन्ति तदंशा वै प्रोद्वाहः कृष्णयोरिति ।। १ ०८।।
यत्राऽहं तव कान्तोऽस्मि कृष्णः संकर्षणः शिवः ।
यत्र विष्णुर्महाविष्णुर्बालकृष्णः परेश्वरः ।। १ ०९।।
सर्वे सृष्टिप्रणेतारस्तत्राऽऽश्चर्यं नु किं भवेत् ।
सर्वं संघटते राधे! प्रोद्वाहः कृष्णयोर्यतः ।। 2.285.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने काशीवाहिनीसम्मानार्थं शिवेश्वरकारितवादित्रनिनादनानि, अम्बरात् काशिकायाः शिवपुरस्यपार्वतीपुरस्य वीक्षणम्, पुरवर्णनम्, पार्वतीपत्तनीयकन्यापक्षीयमहीमानसहितस्य शिवेश्वरस्य वाहिनीस्वागतार्थमम्बरे घटिकास्थायिकैलासरचनमित्यादिनिरूपणनामा पञ्चाशीत्य-
धिकद्विशततमोऽध्यायः ।। २८५ ।।