लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०१४
← अध्यायः १३ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः १४ [[लेखकः :|]] |
अध्यायः १५ → |
श्रीपुरुषोत्तम उवाच-
एवं नारायणीश्रि! स्वसदृशं च परेश्वरम् ।
स्त्रीभूतं समलोक्यैवाऽऽश्चर्य नार्यो गतास्तदा ।। १ ।।
दृष्ट्वा नारायणीद्वन्द्वं राधाद्वन्द्वं समानकम् ।
सेवाऽर्हं स्पृश्यमेवापि सिषेविरे सतीस्त्रियः ।। २ ।।
सर्वास्ता ब्रह्मचारिण्यस्तत्रोत्सवे हरिं स्त्रियम् ।
सर्वभावैर्योग्यसेवाप्रकारैर्वै सिषेविरे ।। ३ ।।
समायाताः स्त्रियः सर्वा नरपूर्वाः समन्ततः ।
समाजश्चाऽभवन्मन्दाकिन्यास्तीरे ह्यसंख्यकः ।। ४ ।।
स्त्रीसमाजे स्त्रीस्वरूपश्चाऽहं तत्र विराजितः ।
नारीभिश्चार्थितश्चाहं स्त्रीभावमोचनं प्रति ।। ५ ।।
वयं नार्यो नरपूर्वाः सुदर्शन्याः प्रशापतः ।
जाताः स्मोऽत्र विना दोषं दुष्टदैत्यादिदोषतः ।। ६ ।।
दुष्टराजन्यदोषैश्च सतीधर्षणपापकैः ।
निर्दोषा अपि भूवासा नरा नारीत्वमागताः ।। ७ ।।
सुदर्शन्या भक्त्या ते दण्डोऽतिक्रमितः कृतः ।
तस्मात् कृत्वा कृपां कृष्ण पतीन्नो देहि पुंतनुम् ।। ८ ।।
नार्योऽपि नैसर्गसिद्धा अर्थयामासुरित्यपि ।
पतीन्नो देहि भगवन् बालान् बालात्मकान् कुरु ।। ९ ।।
पूर्वनरान् विधेह्यत्र नरान्नृलोकवासिनः ।
हरिश्चाहं च तत्छ्रुप्वा जगाद् स्त्रीसमाजके ।। 3.14.१० ।।
भक्ताऽग्रेऽहं पराधीनो भक्तोक्तं लंघयामि न ।
सुर्द्शनीं याचमानो मिलित्वा स्त्रीजना वयम् ।। ११ ।।
इत्यहं समुपादिश्य समाजे चोत्थितोऽभवम् ।
समाहूतां समाजे च सुदर्शनीं तदाऽवदम् ।। १२ ।।
भक्ते ब्रह्मपरे साध्वि! महैश्वर्यसमन्विते! ।
दुष्टानां दण्डनं युक्तं रक्षणं स्वव्रतस्य च ।। १३ ।।
अयुक्तं दण्डनं यद्वै निरपराधदेहिनाम् ।
बालकानां च वृद्धानां यूनां धर्मवतामपि ।। १४।।
तस्माद् याचे स्वयं चाहमनादिः पुरुषोत्तमः ।
नारीरूपस्तव वाक्याद् वारितं वचनं कुरु ।। १५।।
शापनिवारणं सर्वलोकानां कुरु भामिनी ।
नारीमयं जगत् सर्वं विना नरं न यास्यति ।। १६ ।।
विचार्य शापसंहारं कुरु भक्ते मदर्थितम् ।
श्रुत्वा सुदर्शनी देवी विचार्य तूर्णमाह माम् ।। १७।।
शापस्य कारणं कृष्ण देवदैत्यनरादिभिः ।
प्रधर्षणं सतीनां वै क्रियते चाश्रमेष्वपि ।। १८।।
तन्मा भूदिति कृत्वैव सदा नार्यो मया कृताः ।
यदि त्वं चेद् रक्षणस्य कर्ता नो दुष्टनाशकृत् ।। १९ ।।
आकल्पान्तं वस भूमौ तदा शापं हराम्यहम् ।
इत्युक्त्वा सा सती सुदर्शनी मे पादयोस्तदा ।। 3.14.२०।।
पतिता दण्डवत् पूजां प्रचकार सुमादिभिः ।
मालिकां प्रददौ कण्ठे स्त्रीव्रजे स्त्रीस्वरूपिणः ।। २१ ।।
अहं भक्ताप्ररक्षार्थं ओं तथास्त्वित्युवाच ताम् ।
सती सुदर्शनी पश्चाज्जलं हस्ते निधाय च ।। २२।।
शापनिमित्तेन प्रापितः परमेश्वरः ।
भूतले धन्यभाग्योऽयं लोको यत्र पुमुत्तमः ।। २३ ।।
हरिश्चात्र निजावासं त्वाकल्पान्तं करिष्यति ।
रक्षां ब्रह्मव्रतिनीनां करिष्यति कुसंगितः ।।२४।।
एवं विनिमयेनाऽहं मम शापं महोल्बणम् ।
संहरामि जगत्साम्ये श्रीहरेः सन्निधाविह ।। २५।।
इत्युक्त्वा करतोयं सा मुमोच कृष्णपादयोः ।
भूमौ तावत् समाजे चाऽन्यत्र लोके स्थलान्तरे ।। २६।।
सत्ये स्वर्गे मानवे च पातालादौ च येऽभवन् ।
नरपूर्वा नारिकास्ता द्राङ्नरा अभवँस्तदा ।। २७ । ।
त्रिलोकीयं यथापूर्वा तदाऽऽसन् युगलात्मिका ।
कृष्णः कृष्णस्वरूपोऽभून्नारायणो निजात्मकः ।। २८ । ।
पुरुषोत्तम एवापि पुरुषोत्तमरूपधृक् ।
तथैव च यथापूर्वं सर्वं तत्र व्यजायत । । २९ । ।
नारायणः स्वयं प्राह समाजेऽहं तदा पुनः ।
सतीधर्षणकृन्मेऽत्र वध्यः सुदर्शनेन वै । । 3.14.३० ।।
भविष्यति न सन्देहो देहान्ते स्त्री भविष्यति ।
दैत्याश्च दानवाश्चापि नृपाश्च सुरकोटयः ।। ३१ ।।
सतीधर्षणकर्तारो वीक्ष्य दुष्टाः सुदर्शनम् ।
निकृन्तनं तैजसं च दुःसहं दारुणं ततः । । ३२ ।।
क्षमामयाचिरे तत्र विवासिताश्च ते तदा ।
दूरं ते प्रययुः सर्वे दुःखिता वै वनान्तरे ।। ३३ । ।
अथापि दुष्टभावा ये ते चक्रेण निकृन्तिताः ।
निषूदिताः परे लोके दुष्टभावाऽन्विताश्च ये ।। ३४। ।
साध्व्यः सत्यश्च वै सर्वा ब्रह्मचर्यपरायणाः ।
अपि धर्षणमापन्ना या यास्ता हरिसन्निधौ । । ३५ ।।
समागत्य हरेर्वारि पादयोस्ताः पपुः शुभम् ।
पावनं सर्वपापानां तेन वै शुद्धतां ययुः । । ३६ ।।
संसेव्यं नवधा भक्त्या प्रत्यक्षं पुरुषोत्तमम् ।
पावन्यस्ता हि संजाता मुक्तान्यस्त्वैक्षरार्थिकाः ।। ३७। ।
अहं लक्ष्मि! त्वया साकं श्रीपतिः पुरुषोत्तमः ।
न्यवसं चाप्यनादिश्रीस्त्रीपुंनारायणाभिधः । । ३८ । ।
अयोनिजः स्वतन्त्रश्च प्राकट्यं समुपाश्रितः ।
भक्तानाम्ना प्रसिद्धिस्ते लक्ष्मि! सुदर्शनी यथा ।। ३९ ।।
तथा सुदर्शनीश्रीस्त्वं प्रसिद्धा परमेश्वरी ।
जाता सुदर्शनीयोगात् शीलव्रतस्य पोषिणी । । 3.14.४० । ।
इत्येवं शिवसुक्तेश्रि प्राकट्यं मम वै पुरा ।
कथितं स्मर सर्वं तत् स्त्रीमयं जगदद्भुतम् । । ४१ ।।
अथाऽन्येऽपि मेऽवतारास्तत्राऽभवन् हि कोटिशः ।
सर्वान् जानाम्यहं लक्ष्मि! यथाकार्यं मया कृतान् । । ४२।।
शृणु त्वन्यन्मम चापि प्राकट्यं चान्यवत्सरे ।
सप्तदशे वत्सरे चाऽप्रज्ञाताख्ये तु वेधसः । । ४३ । ।
कल्पे त्रयोदशे चापि मनौ तु दशमे तदा ।
आसीज्जगन्महादैत्यकुलेनाऽतीव पीडितम् ।।४ ४।।
तिमिंगिलो महादैत्यो माकरो वरुणाकरे ।
अभूत् पुरा तदा कामरूपधृग जलसञ्चरः ।। ४५ ।।
श्रीशीलिके जलव्याप्ते द्वीपे यस्याऽभवद् गृहम् ।
तज्जातिकास्तथा चान्ये कामरूपधरा अपि ।।४६।।
माकराश्च वसन्ति स्माऽयुतसाहस्रसंख्यकाः ।
नरा नार्यो भवन्ति स्म विनिर्यान्ति जलाद् बहिः ।।४७।।
निवसन्ति महाद्वीपे श्रीशीलिके गृहेषु च ।
बहिर्यान्त्यपि देशेषु मांसादास्ते नरान् पशून् ।।४८।।
अपहृत्य जलमध्ये द्वीपे वा भक्षयन्ति तान् ।
नररूपाश्च ते भूमौ प्रयान्ति नगरादिषु ।।४९।।
अपहरन्ति नारीश्च बालकान् बालिकास्तथा ।
व्योम्ना यान्ति महाभूभृत्सानुष्वपि च माकराः ।।3.14.५०।।
वनस्थान् पर्वतस्थाँश्च गह्वरस्थान् हि तापसान् ।
ऋषीन् द्विजान् पशून् पक्षिगणान् हरन्ति वै बलात् ।।।५१ ।।
द्वीपे नीत्वा भक्षयन्ति नरमांसादमाकराः ।
समुद्रे जलमध्ये च मत्स्यान् जलेचरानपि ।।५२।।
नौकागान्मानवाँश्चापि भक्षयन्ति स्म वै बलात् ।
इत्येवं शतवर्षाणि भक्षिता मानवादयः ।।५३।।
लोकेषु सर्वखण्डेषूद्घोषो महानजायत ।
पर्वतेषु गह्वरेषु तापसेष्वपि सर्वतः ।।५४।।
माकराणां भयं चास्ते त्रसन्ति स्म च देहिनः ।
बलिनां सन्निधौ केऽपि प्रयान्ति नैव रक्षणे ।।५५।।
राजानोऽपि भयोद्विग्नास्तदा जाताः समन्ततः ।
चक्रवर्ती महाराजस्तदासीद् धर्मवाहनः ।।५६।।
योद्धुं ययौ समुद्रान्ते व्योम्ना रणे तु माकरैः ।
बहुरूपधरैर्व्योम्ना मायावृष्ट्या निपातितः ।।५७।।
समुद्रे च मृतः सोऽपि राजा वै धर्मवाहनः ।
ततो लोके भयं यान्ति चान्ये माकरयुद्धतः ।।५८।।
माकराणां बलं पुष्टं जातो राज्ञो विनाशतः ।
प्रसह्याऽब्धितटस्थानामाहरन्ति धनस्त्रियः ।।५९।।
बालांश्च बालिका गाश्चाभूषणाम्बरसम्पदः ।
भुञ्जते निर्भयाश्चापि चैधिताश्च समन्ततः ।।3.14.६ ०।।
अथ ये खण्डराजानस्तेऽपि तैश्च शनैः शनैः ।
पृथक् पृथक् हृताश्चापि माकरैर्मांसभोजनैः ।।६ १ ।।
द्वीपाश्च द्वीपकल्पाश्च भूभागा वशगाः कृताः ।
भुञ्जते स्म यथेष्टं ते मायारूपप्रधारिणः ।।६२ ।।
अत्याचारो महान् खण्डे खण्डे स्म जायते तदा ।
रुदन्ति निर्बला लोका नरा नार्यः प्रधर्षिताः ।।६३ ।।
भक्षिता बालका येषां पत्न्यश्च पतयस्तथा ।
निर्वंशा बहवो जाता माकरोपद्रवैस्तदा ।।६४।।
एवं ते शतवर्षान्ते वृद्धिमाप्ता हि माकराः ।
कोटिसंख्याः प्रजाता वै राक्षसा इव सर्वतः ।।६५।।
जलप्रान्ते वसन्त्येते सबला अपि वै क्वचित् ।
निर्बलत्वक्षणे वार्धौ प्रविशन्ति स्म तत्क्षणम् ।।६६।।
युद्धेष्वेभिर्जयं नैव लभन्ते मानवा नृपाः ।
मायामन्त्रकरा नैकरूपधृगोऽतिदारुणाः ।।६७।।
नृपान् विजित्य राज्यानि चक्रुर्वशानि खण्डशः ।
अथ प्रजास्तदा चात्याचारं माकरकासुरैः ।।६८।।
कृतं नैव सहन्ते स्माऽसह्म सर्वविनाशनम् ।
यज्ञाः सर्वत्र नाश्यन्ते व्योममार्गेण तैस्तदा ।।६९।।
उत्सवा देवनिलया नाश्यन्तेऽपि समन्ततः ।
उद्यानानि विनाश्यन्ते फलपुष्पमयान्यपि ।।3.14.७० ।।
सस्यानि च कणाढ्यानि नाश्यन्तेऽपि समन्ततः ।
यद्यद् रत्नमयं लोके ह्रियन्ते सर्वमेव तैः ।।७१ ।।
एवं तूपद्रवे जाते मानवाः परमेश्वरम् ।
परब्रह्माऽक्षरातीतं तदा मां चार्थयन्मुहुः ।।७२।।
समस्तैर्हृज्जन्यभावैः पूजयन्ति स्म मां हृदि ।
प्रार्थयन्ति स्म रक्षार्थं दीनाऽनाथाऽबलादिकाः ।।७३ ।।
ततो मया श्रुतं तेषामाराधनं तदाऽक्षरे ।
माकराणां विनाशार्थं धर्मरक्षणहेतवे ।।७४।।
मानवानां रक्षणार्थं त्वया साकं तदा द्रुतम् ।
अहं सायुध एवापि विमानेन भुवं प्रति ।।७५।।
आजगामाऽम्बरात् तूर्णं द्वारद्वीपमुपाश्रितः ।
विमानं वै मया तत्राऽदृश्यभावं कृतं क्षणात् ।।७६।।
आरण्यकं मया रूपं त्वयाऽप्यारण्यकं कृतम् ।
तापसं चापि तद्रूपं धृत्वाहं व्यचरं वने ।।७७।।
अथ ते माकरा लोका द्वीपादागत्य मां त्वया ।
साकं जह्रुर्निजे द्वीपे तपस्विनं ततो मया ।।७८।।
दृष्टो द्वीपः सन्निवेशग्रामपत्तनशोभितः ।
मां खादितुं माकरास्ते त्वायाताः सोत्सवास्ततः ।।७९ ।।
मया सुदर्शनं चक्रं प्रहितं तत्क्षणान्ननु
तच्च व्यापादयद् वह्निज्वालया चाऽदहत्तथा ।।3.14.८० ।।
घटिकाकालमात्रेण द्वीपो निर्माकरः कृतः ।
दद्रुवुर्माकरा माकर्यश्च सरीसृपा झषाः ।।८१ ।।
यादांसि च तथा भूत्वा विविशुर्मकरालयम् ।
द्वीपमध्ये तापसोऽहं त्वया साकं तदाऽवसम् ।।८२।।
पत्तनानि तु शून्यानि वर्तन्ते स्म तदा खलु ।
अथ दैत्यो माकरेशो युद्धार्थं जलमध्यतः ।।८३ ।।
सन्नद्धश्च परो भूत्वा ससैन्यः समुपाययौ ।
मया सुदर्शनेनैव निकृन्तिता हि माकराः ।।८४।।
दैत्यः पराजयं वीक्ष्य प्राणत्राणपरायणः ।
दुद्राव सहसा चाब्धौ विवेश गहनं तलम् ।।८५।।
सहस्रहस्तवान् दैत्यः सहस्रमस्तकस्तथा ।
सहस्रपादसम्पन्नः पुनर्युद्धार्थमाययौ ।।८६ ।।
मया पुनः प्रेरितं च चक्रं सुदर्शनं मम ।
निकृत्ता बाहवश्चास्य बहवो वै तदा हि सः ।।८७।।
पुनर्विवेश जलधिमथाऽहमपि वै तदा ।
खण्डे खण्डे स्थितान् मार्गयित्वा तान् माकराऽसुरान् ।।८८।।
सुदर्शनेन चक्रेण व्यापादयं समन्ततः ।
पृथ्व्यां यत्र च यत्रैते ह्यासन् माकरदानवाः ।।८९।।
तान् सर्वानहनं चक्रधारेणाऽवसरे तदा ।
अथ वै माकरो दैत्योऽयुतहस्तसमन्वितः ।।3.14.९० ।।
अयुतानन एवाप्ययुतपात् समुपाययौ ।
मे भातं च विनाशोऽस्य कर्तव्योऽवश्यमेव ह ।।९१ ।।
ततः शान्तिं माकराणामुपद्रवः प्रयास्यति ।
अथाऽहं सङ्गरं चक्रे माकरेण दुरात्मना ।। ९२।।
हता हस्ताः सहस्राणि त्रीणि त्रीण्याननानि च ।
यदा तदा माकरेशो दुद्राव जलधिं ययौ ।।९३ ।।
अहं साकं त्वया लक्ष्मि! चाऽभवं जलमानवः ।
लक्षहस्तो लक्षमुखो लक्षपाल्लक्षहेतिकः ।।९४।।
लक्षजालसमायुक्तः प्राविशं माकरालयम् ।
स मां दृष्ट्वा महद्रूपं चक्रे वार्षु पलायनम् ।।९५।।
अब्धितश्चाऽन्यमब्धिं च ततोऽब्ध्यन्तरमित्यपि ।
पृष्ठे यान्तं तु मां वीक्ष्य प्राणत्राणपरायणः ।।९६ ।।
भयोद्विग्नो बभूवाऽति क्षीरसागरमाविशत् ।
मया सुदर्शनं चक्रं प्रहितं तस्य मृत्यवे ।।९७।।
पृष्ठलग्नं प्रजज्वाल ददाह तं समन्ततः ।
चुक्षोभ सागरः सर्वश्चकम्पे पृथिवी मुहुः ।।९८।।
अथ ज्ञात्वा निधनं स्वं युद्धार्थं सम्मुखोऽभवत् ।
मया युद्धं न्यायसारं दत्तं तस्मै महात्मने ।। ९९।।
यथा यथाऽहं तं हन्मि तथा स नूतनः ।
उत्पद्यते माकरोऽपि मायया कोटिरूपधृक् ।। 3.14.१०० ।।
मासान्ते स मया वार्धौ युद्धं दत्वा हतोऽसुरः ।
सुदर्शनेन चक्रेण लक्षकण्ठा निकृन्तिताः ।। १० १।।
तदा व्योम्नि निनेदुर्वै दुन्दुभयो द्युवासिनाम् ।
पुष्पाणां वर्षणं जातं समुद्रो मामपूजयत् ।। १ ०२।।
पार्षदाः सर्वधाम्नां च मुक्ताश्चेशाः समाययुः ।
सुराश्च मानवाश्चापि पुपूजुर्मां पुमुत्तमम् ।। १०३।।
जलमानवरूपं मां श्रीपतिं पुरुषोत्तमम् ।
लक्षाननं लक्षहस्तं लक्षहेतिसमन्वितम् ।। १ ०४।।
लक्षपादं श्वेतवर्णं कोमलं चन्द्रभासनम् ।
जलावासं जलदेवीदेवैः प्रपूजितं हि माम् ।। १ ०५।।
दुःखमुक्ता देहिनश्चाऽऽनर्चुर्मां परमेश्वरम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।। १ ०६।।
जलमानवरूपं मां स्वयं श्रीपरमेश्वरम् ।
अनादिश्रीजलनारायणाह्वयं तदा प्रिये! ।। १ ०७।।
त्वामनादिजलनारायणीं चानर्चुरेव ते ।
अथ जलाद् विनिर्गत्य श्रीशीलिके भुवस्तले ।। १ ०८।।
द्वीपे वासं चकाराऽहं माकराणां हि पत्तने ।
ततो मे पार्षदास्तत्र त्वायाता बहवस्तदा ।। १ ०९।।
श्रीद्वीपो मेऽभवद् द्वीपः समुद्रतटवर्तनः ।
तापसानां च मुक्तानां तपोऽर्थं तत्र कल्पके ।। 3.14.११ ०।।
ब्रह्मणो वत्सरे सप्तदशे लक्ष्मि! च तं स्मर ।
श्वेतद्वीपो यथा चाद्यस्तथा श्रीद्वीपनामकः ।। ११ १।।
श्रीशीलद्वीप एवाऽभून्मम ते वासकारणात् ।
जलद्वीपस्तथा श्वेतनारायणालयोऽपि सः ।। १ १२।।
तदा लोकाश्च शास्त्राणि कथयन्ति स्म नैकधा ।
स्मर सर्वं हि तल्लक्ष्मि! पुरातनात्पुरातनम् ।। १ १३।।
चकत्कारमयं स्थानं दिव्यं मया पुरार्जितम् ।
पठनाच्छ्रवणादस्य स्मरणान्मोक्षमाव्रजेत् ।। १ १४।।
अन्ये तथाऽवतारा मे जाताश्चापि सहस्रशः ।
तानहं वेद्मि सर्वान् वै प्रत्यक्षज्ञानवानहम् ।। १ १५।।
ततो भक्ता मया पृथ्व्यां पार्षदैर्मम योगिभिः ।
ऋषिभिर्मुनिभिश्चापि साधुभिर्वैष्णवाः कृताः ।। १ १६।।
प्रजाः सर्वास्ततो जाता वैष्णव्यो मम चाश्रिताः ।
मुक्तिमार्गः प्रवृत्तश्च यज्ञयागादयोऽभवन् ।। १ १७।।
प्रजाश्च सुखिता जाता मानवा निर्भया अपि ।
दृश्यन्ते वैष्णवा भूमौ मम पूजापरायणाः ।। १ १८।।
नरा नार्यो व्योमगाश्चाऽऽयान्ति मद्दर्शनाय ह ।
सर्वाभ्यः खलु दिग्भ्यश्च श्रीद्वीपो मोक्षदोऽभवत् ।। १ १९।।
आकल्पान्तं ततश्चाऽहं न्यवसं श्रीसुशीलिके ।
द्वीपे तत्र ततश्चाऽहं स्वाऽक्षरं प्रययौ प्रिये! ।। 3.14.१ २०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्त्रीभूतानां भूतलवासिप्रजानां रक्षणार्थं प्रार्थनयाऽनादिस्त्रीपुंनारायणस्य, सप्तदशे वेधसो वत्सरे च माकरादि-
दैत्यनाशार्थम् अनादिश्रीजलनारायणस्य च प्राकट्यमित्यादिनिरूपणनामा चतुर्दशोऽध्यायः ।। १४ ।।