लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०१५

श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवजन्ये! श्रि! वेधसो वत्सरे ततः ।
अष्टादशे लयभावाऽभिधे द्वादशकल्पके ।। १ ।।
एकादशे मनौ तत्र युगह्रासबलात् खलु ।
विनाशे साधुधर्माणां साधुदीक्षाक्षये तथा ।। २ ।।
मोक्षमार्गस्य रोधे च दैवपैत्र्यविधौ गते ।
पुनस्तत्स्थापनार्थं च रेवया साकं हरिः स्वयम् ।। ३ ।।
प्राविरासं चाऽग्रजस्य वषड्विप्रस्य सद्गृहे ।
वषट्कारोऽभवन्नाम्ना विप्रो व्रतपरायणः ।। ४ ।।
तापसो हृतसर्वस्वो दुष्टनास्तिकमानवैः ।
पीडितो मम भक्तोऽसौ त्यक्त्वा ग्रामे वनं ययौ ।। ५ ।।
भजते स्म सदा मां श्रीकृष्णनारायणं हरिम् ।
फलैर्मूलैर्दलैः पुष्पैर्भावनैर्मानसैस्तथा ।। ६ ।।
नित्यं मां प्रातरेवाऽसौ पूजयत्येव वस्तुभिः ।
भार्या तस्य तथा साध्वी जपसेवापरायणा ।। ७ ।।
नित्यं त्वां श्रीसतीं लक्ष्मीं नारायणीं सनातनीम् ।
पूजयत्येव विधिना भोजयत्येव सत्फलम् ।। ८ ।।
जलं पुष्पं दलं चापि समर्पयति सादरम् ।
कीर्तनं भजनं मे च ते चोभौ कुरुतः सदा ।। ९ ।।
मध्याह्ने च तथा सायं मम ध्यानपरायणौ ।
अरण्यवासौ नित्यं च तावास्तां वै विदेहिनौ ।। १० ।।
देहार्थं वैभवा भोगा यस्य नैव क्वचित् खलु ।
हर्यर्थं वैभवा यस्य विदेहः स भवेत् प्रिये ।। ११ ।।
एवं वै वर्तमानौ तावनपत्यौ सुखाश्रयौ ।
वार्धक्यं किञ्चिदापन्नौ वने वृक्षनिवासिनौ ।। १२।।
तयोरेवं हि वसतोः पुत्रपुत्र्येषणाऽभवत् ।
वषट्कारस्य मनसि पुत्रैषणा व्यजायत ।। १३ ।।
स्वधावत्याश्च मनसि पुत्र्येषणा व्यजायत ।
माता त्विच्छति कन्यां वै सर्वकार्ये सहायिनीम् ।। १४।।
पिता प्रेच्छति पुत्रं वै सर्वकार्ये सहायकम् ।
पुत्रपुत्र्येषणावन्तौ गृहधर्मपरायणौ ।। १५।।
उभौ तौ मां प्रार्थयतः पूजनान्ते मनोरथम् ।
लोके लक्ष्मि! जनानां वै त्र्येषणा जायते मुहुः ।। १६।।
लोकैषणा तथा वित्तैषणा पुत्रैषणा खलु ।
नारायणस्य भक्तानां लोकैषणा प्रशाम्यति ।। १७।।
यतो भक्त्या परं धाम भक्ताः प्राप्स्यन्ति वै ध्रुवम् ।
साधूनां तोषिणां चापि वित्तैषणा प्रशाम्यति ।। १८।।
जलाऽन्नाऽम्बरलाभश्च यात्रामात्रः सतां यतः ।
पुत्रैषणा सपुत्राणां ज्ञानिनां च प्रशाम्यति ।। १ ९।।
उत्तमर्णा धनाप्त्यर्थं जायन्तेऽपत्यरूपिणः ।
तादृशानामपत्यानामसत्त्वे सुखमेव यत् ।। २० ।।
अपत्यानां गर्भकेऽपि जनने पालने तथा ।
पोषणे लग्नकरणे व्यये रोगे हि दुःखकम् ।। २१ ।।
तथापि लोकवाक्यानां स्पर्शो येषां प्रजायते ।
विधुरोऽयं ह्यपुत्रोऽयं निर्वंशोऽयं तथैकलः ।। २२ ।।
एवंविधानां वाक्यानां येषां नास्ति सहिष्णुता ।
तेषां मायाभिभूतानामेषणाद्रुः प्रजायते ।। २३ ।।
ज्ञानहीनस्य भक्तस्य मूल्यं भवति लौकिके ।
ज्ञानिनो मम भक्तस्य दग्धं मामन्तराऽखिलम् ।।२४।।
यस्य दग्धं हि सर्वं वै मायिकं तस्य किं न्विह ।
पुत्रेण लोककार्येण राज्येन वैभवेन वा ।।२५।।।
भौतिकस्य तु पुत्रस्यैषणा बन्धाय कल्प्यते ।
वषट्कारस्य विप्रस्य पुत्रैणषा ह्यभूत् किल ।। २६।।
किन्तु सा मद्गोचराऽभूत् हरिर्मे सुततां व्रजेत् ।
स्वधावत्याश्चैषणाऽपि लक्ष्मीर्मे बालिका भवेत् ।। २७।।
एवं मद्योगसंकल्पौ तयोरास्तां शुभाश्रयौ ।
तौ संकल्पौ सदा दिव्यौ मायाबन्धनवर्जितौ ।। २८ ।।
आस्तां तयोः शुभौ तस्मान्मया ध्यानं कृतं तयोः ।
पितरौ तौ विधातव्यो धर्मस्थापनहेतवे ।। २९।।
तयोस्तु भक्तयोश्चापि संकल्पयोः प्रपूर्तये ।
अनादिश्रीकृष्णनारायणोऽहं च त्वया सह ।।३ ० ।।
विमृश्य तद्वनं यातो गोचरस्तापसोऽभवम् ।
अतिथीभूतश्चाहं त्वं मम सार्था च भिक्षुकी ।। ३१ ।।
गतवन्तौ तयोर्वासं वने वै भक्तयोः पुरम् ।
तापसौ सजटौ चीरवल्कलौ रूक्षवेषिणौ ।।३२।।
विप्रौ नारायणं नाम रटन्तौ मालिकान्वितौ ।
साधुधर्मौ भिक्षुकौ वै मध्याह्ने समुपस्थितौ ।।३३।।
तदा तौ हृष्टमनसौ चक्रतुः स्वागतं शुभम् ।
पाद्यमर्घ्यं चासनं च मधुपर्कं फलादिकम् ।। ३४।।
सलिलं शुभवचनं ददतुस्तौ तदा हि नौ ।
मया भिक्षा स्वीकृता च त्वयाऽपि स्वीकृता ततः ।। ३५।।
पादसंवाहनं तौ चक्राते नौ च प्रषेवणम् ।
धन्यौ स्वो यत् सतोः सेवा साध्वोश्चाद्य प्रपद्यते ।। ३६ ।।
साधुसेवापापहन्त्री दिब्यपुण्यप्रदायिनी ।
भुक्तिदात्री मुक्तिदात्री सर्वसंकल्पपूरणी ।। ३७।।
कल्पवल्लीसमा कल्पद्रुमतुल्या फलप्रदा ।
चिन्तामणिसमा सेवा कामधेनुसमा सताम् ।। ३८।।
साधवो यस्य वै गेहे समायान्ति हरिप्रियाः ।
तद्गृहं सर्वदा तीर्थं वनं वा पत्तनं च वा ।। ३ ९।।
अन्यतीर्थानि कालेन पावयन्ति यथाबलम् ।
साधुतीर्थं तूर्णमेव पुनन्ति सेविनो जनान् ।।४०।।
यत्र साध्वागमस्तत्रागमो वै श्रीहरेर्ध्रुवः ।
यत्र हर्यागमस्तत्र मुक्तानामागमो ध्रुवः ।।४१ ।।
यत्र मुक्तागमस्तत्र मुक्त्यागमश्च वै तथा ।
मुक्तेर्यत्रागमस्तत्र भक्त्यागमोऽपि वै ध्रुवः ।।४२।।।
यत्र भक्त्यागमस्तत्र धर्मागमोऽपि वै ध्रुवः ।
ज्ञानवैराग्ययोश्चाप्यागमश्च सम्पदां ध्रुवः ।। ४३ ।।
यत्र नारायणः कृष्णः सद्भिः सहोपपद्यते ।
तत्र लक्ष्मीश्च कमला श्रीः सिद्धिः शाश्वती ध्रुवा ।।४४।।
यत्र नारायणः कृष्णस्तत्र यज्ञा व्रतानि च ।
तपांसि चापि सर्वाणि सुराः सर्वेऽपि तत्र च ।।४५ ।।
यत्र नारायणः सद्भिर्भुंक्ते फलजलादिकम् ।
तत्र वै भुंजते देवाः पितरश्च जगत्त्रयम् ।।४६ ।।
अद्य वै वनवासो नौ साध्वोरागमकारणात् ।
सफलः खलु सञ्जातो राज्याधिकोऽपि मोददः ।।४७।।
अद्य नौ त्वनपत्यत्वं विलीनं सत्प्रसेवनात् ।
अद्य नौ निर्धनत्वं च महत्यर्थे फलप्रदम् ।।४८।।
अद्य नौ जीवनं जातं सार्थकं सुप्रजीवनम् ।
अद्य नौ मानसौ भावौ पूरितौ निश्चितौ त्विह ।।४९ ।।
मन्यावहेऽद्य कालोऽपि पवित्रतां प्रयास्यति ।
शकुनानि शुभान्येव जायन्ते भवदागमात् ।।५० ।।
स्फुरन्ति शुभबोधानि चाङ्गानि नौ त्वदागमात् ।
वसतामत्र पूज्यौ वै सेवयिष्याव आदरात् ।।५१ ।।
सतां सेवाप्रसंगेन तरन्ति देहिनोऽभवम् ।
वने च निर्जने चात्र भवद्वासेन शोभनः ।।५२।।
सत्संगो मोदजनको नः प्रत्यहं भविष्यति ।
एषा बकुलवृक्षाऽधोभागे वै पर्णशालिका ।।५३।।
भवद्भ्यामर्पिता रम्या शीतातपनिवारणी ।
आवां त्वन्यां करिष्यावः कुटिं स्वाश्रयदायिनीम् ।।५४।।
इत्युक्त्वा विप्रयुगलं पतितं पादयोर्हि नौ ।
मयोक्तं च तदा ताभ्यां कुशलं भवतोः सदा ।।५५।।
निरामयं चाभ्युदयः सुखमस्तु च शाश्वतम् ।
आवां वनेचरौ स्वोऽत्र नैकस्थाननिवासिनौ ।।५६।।
निर्बन्धनौ सर्ववासौ गुप्तकुटिनिवासिनौ ।
भवद्विधानां विप्राणां भक्तानां तु समागमे ।।५७।।
दैवेच्छया जायमाने तिष्ठावो गोप्रदोहनम् ।
तथापीश्वरभक्तानां निर्मलानां तपस्विनाम् ।।५८।।
गृहे सञ्जायते क्वापि पक्षपातो हि नौ मुधा ।
प्रेम्णाऽऽतिथ्यं गृहीतं च गृहीतं स्वागतं तथा ।।।५ ९ ।।
आज्ञां प्राप्य गमिष्यावो वनान्तरं च वोऽस्तु शम् ।
तदा तौ चाश्रूणि मुक्त्वा प्राहतुर्नौ मुदान्वितौ ।।६० ।।
कुटिर्यत्र सतां संगः सा कुटिर्न तु पार्णिकी ।
वासो यत्र सतां योगः स वासो न तु भूमिगः ।।६ १ ।।
जीवनं च सह सद्भिर्जीवनं न तु भोजनम् ।
सुखं. सेवा सतां नित्यं कर्तव्यं नाऽपरं शुभम् ।।६२।।
आवां साधुस्वरूपौ स्वो यास्यावोऽनुभवत्पदम् ।
यद्वाऽत्र कुरुतां वासं सेवालाभो हि नौ भवेत् ।।६३ ।।
भवदागमने वृक्षा मोदन्ते वनपक्षिभिः ।
भवदागमने वल्ल्यो विकासन्ते सुपुष्पकैः ।।६४।।
भवदागमनेऽङ्गानि हृदयाढ्यानि सर्वथा ।
अनुभवन्त्यपूर्वाणि सुखान्यानन्दकानि च ।।६५।।
तिष्ठते च ततोऽत्रैव दासौ स्वो भवतोरिह ।
मयोक्तौ च तदा तौ वै कथमीदृक् पराऽऽग्रहः ।।६६ ।।
क्रियतेऽत्र भवद्भ्यां वै वदतं हार्दमेव नौ ।
तावुभावाहतुस्तत्र वने त्वेकाकिनौ सदा ।।६७।।
आवां वासं प्रकुर्वश्च भवतां तु स्थिताविह ।
सार्थवासो भवेदेव सतां संगो हि दुर्लभः ।।६८।।
सपत्नीकगृहस्थस्य वासस्त्वेकाकिनो वने ।
भयदो वै ततः स्थेयं गृहस्थेन सहायिना ।।६९।।
द्वयोर्गृहस्थयोर्वासः शोभनो वै वनान्तरे ।
त्रयाणां चाधिकानां च वासो वै चातिशोभनः ।।७० ।।
नारीणां तु सतीधर्मान्वितानां धर्मपालने ।
साहाय्यं स्यात् प्रमदा हि साध्व्यः साध्व्यः सुखाश्रयाः ।।७१ ।।
तस्माद् वां रोचयावोऽत्र वासं साधुप्रधर्मिणोः ।
विना वै भवतोर्वासं शान्तिनौ न भविष्यति ।।७२।।
तदा मयोक्तं च तथाऽस्त्वित्योमित्यभिनोदितौ ।
सुखं चावापतुस्तूर्णं हर्षान्वितौ बभूवतुः ।।७३ ।।
आवां सुखस्थितौ तयोश्चावासे कृतपूजनौ ।
मुदा सायं गतं वार्तालापैः सद्धर्मबोधनैः ।।७४।।
सन्ध्यां कृत्वा निशायां च हरेर्वार्ता विधाय च ।
सुष्वुपुश्चापि चत्वारो निशान्ते च द्वयोरपि ।।७५।।
ब्राह्ममुहूर्ते पूर्वे वै समये शोभने तदा ।
विप्रस्य चापि विप्राण्याः स्वप्ने चावामुपागतौ ।।७६।।
लक्ष्मीनारायणौ साक्षात्तापसौ समुपागतौ ।
पुत्ररूपोऽप्यहं जातस्त्वं स्वप्ने पुत्रिकाऽभवः ।।७७।।।
यमलं च द्विजाभ्यां वै प्राप्तं बालस्वरूपि तत् ।
प्राप्य विप्रौ सुमुदितौ ततः स्वप्नं न्यवर्तत ।।७८ ।।
आवामदृश्यतां प्राप्तौ तौ तु जागरितौ तदा ।
अभवतां ततो द्रष्टुं तौ स्वकुट्यां तु नावुभौ ।।७९।।
अदृष्ट्वा सुमहाश्चर्यं प्राप्तौ च मुदितौ ततः ।
आवां तत्र तदा लक्ष्मि! वायुदेवं हि गर्भगम् ।।८ ०।।
समाहूय ददतुश्च गर्भाज्ञां गर्भदर्शनम् ।
प्रकारस्य यथा गर्भवती वै प्रमदा भवेत् ।।८ १ ।।
वायुश्चैवं चकाराऽपि गर्भकुक्षौ वसन् सदा ।
यथा गर्भवती नारी तथौदरमदर्शयत् ।।८२।।
आवामदृश्यरूपेण वर्तमानौ तदाश्रये ।
प्रतिमायां समये त्वागते यमलमेव ह ।।८३।।
प्रादुर्भूतौ यदा वायुर्गर्भद्वाराद् विनिर्ययौ ।
शंखचक्रगदापद्मधारिणौ यमलात्मकौ ।।८४।।
कन्याकुमारकौ चोभावजायेवहि तत्पुरः ।
अयोनिजावपि यद्वद् योनिजाविव वै तदा ।।८५।।
आकाशात्पुष्पवृष्टिश्च देवमुक्तकृताऽभवत् ।
दुन्दुभयो निनेदुश्च वने जातो महोत्सवः ।।८६।।
ऋषयश्च समाजग्मुस्तत्र दर्शनहेतवे ।
मंगलं बहुधा तत्र जातं जनेस्तदाऽऽवयोः ।।।८७।।
कृतसंस्कारकौ सर्वविधौ च यमलात्मकौ ।
आवां वृद्धिं गतौ तत्राऽरण्ये च ब्रह्मचारिणौ ।।८८।।
साधुधर्मपरौ साधुदीक्षायुक्तौ स्वयंकृतौ ।
अजायेवहि तत्रैव ब्रह्मसूत्रान्वितावपि ।।८९।।
अथाऽरण्यनिवासेभ्यो ग्रामवासेभ्य इत्यपि ।
उपादिशावः साधूनां धर्मान् त्यागाश्रमार्थिनाम् ।। ९० ।।
कामदेवस्य वै त्यागो जिह्वारासनवर्जनम् ।
मोहदर्शनसन्त्यागः स्नेहस्पार्शनवर्जनम् ।।९ १ ।।
चलशब्दादिसन्त्यागो विकृतिगन्धवर्जनम् ।
परिग्रहस्याऽसंगश्च रागद्वेषविवर्जनम् ।। ९३ २।।
यात्रामात्राऽन्नसलिलग्रहणं चाऽनिकेतनम् ।
मौनं कर्मपरित्यागो हरौ सर्वार्पणात्मना ।। ९३ ।।
तपोधर्मो निग्रहश्च वासनात्यजनं सदा ।
ममाऽहंत्याजनं चापि दैह्यभिन्नप्रबोधनम् ।। ९४।।
सर्वद्रोहाकरणं च क्षमा सहिष्णुता दया ।
अध्यात्मचिन्तनं नित्यं परमेशस्य पूजनम् ।। ९५ ।।
ब्रह्मस्थित्या वर्तनं च शोकमोहविवर्जनम् ।
अयाचिते च सम्प्राप्ते सन्तोषश्चार्जवं तथा ।। ९६ ।।
काषायाम्बरधारित्वं करपात्रकता तथा ।
यथाऽपेक्षाऽम्बरग्राहो यथासुखं वने स्थितिः ।। ९ ७।।
ओं नमः श्रीशीलनारायणाय परमात्मने ।
इतिमात्रजपश्चापि भक्तिश्च परमात्मनि ।। ९८ ।।
इत्येवं वै नराणां च नारीणां साधुवृत्तिता ।
शिक्षिता वै तदाऽऽवाभ्यां मानवेभ्यः सुखावहा ।। ९९ ।।
अनादिश्रीकृष्णनारायणेन परमात्मना ।
मया त्वया तदाऽनादिसाधुधर्माः प्रवर्तिताः ।। १०० ।।
अनादिश्रीशीलनारायणेन परमात्मना ।
अनादिस्वामिनीनारायण्या त्वयाऽन्वितेन ह । । १०१ ।।
सहोदरेण वै भ्रात्रा मया साधुस्वरूपिणा ।
सहोदर्या च वै स्वस्रा त्वया साध्व्या सुयोषिता ।। १०२ ।।
कोटिशो मानवा जाताः साधवः शीलवर्तनाः ।
साध्व्यश्च कोटिशो जाताः शीलव्रतपरायणाः ।। १०३ ।।
ततो यज्ञाश्च संजाता व्रतानि विविधानि च ।
भजनं पूजनं चापि मन्दिराणि ममापि च । । १ ०४।।
शीलस्य नियमश्चापि दैवपैत्र्यक्रियास्तथा ।
तीर्थसेवा साधुसेवा सर्वे धर्माः प्रवर्तिताः ।। १ ०५।।
अनादिश्रीशीलनारायणेन वै मया तदा ।
सर्वं जानाम्यहं लक्ष्मि! स्मर प्राकट्यमेव यत् ।। १०६ ।।
अन्येऽपि च तदा तत्राऽवतारा मम नैकशः ।
अभवन् कार्यवशगा जानाम्यहं न चेतरः ।। १ ०७।।
इत्येवं कथितं मे ते प्राकट्यं शीलहेतवे ।
स्मरणाच्छ्रवणाच्चापि पाठनान्भुक्तिमुक्तिदम् ।। १ ०८।।
आकल्पान्तं त्वावयोश्च तदाऽभवं निवासनम् ।
धर्मार्थं साधुरूपेण कोटिभिः साधुभिः सह ।। १० ९।।
शिष्यप्रशिष्यशाखाश्च व्यवर्धन्त तदा क्षितौ ।
मात्रे पित्रे ततो मुक्तिं दत्वा गतौ निजाक्षरम् ।। ११० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टादशे वत्सरे साधुधर्मस्थापनार्थम् अनादिश्रीशीलनारायणस्य प्राकट्यमित्यादिनिरूपणनामा पञ्चदशोऽध्यायः ।। १५ ।।