लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०८७

← अध्यायः ०८६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०८७
[[लेखकः :|]]
अध्यायः ०८८ →

श्रीनारायणीश्रीरुवाच-
ब्रह्मपुत्रा ब्राह्मणा ये तनवस्ते भवन्ति मे ।
पावनाः सर्वथा लोके सर्ववर्णोत्तमा यतः ।। १ ।।
कामक्रोधमहामोहलोभपाशावृताः सदा ।
नारीवन्तो गृहधर्मा आशातृष्णादिसंवृताः ।। २ ।।
ते श्रेष्ठा वा निरालम्बा विरागाः साधवस्तव ।
कामक्रोधादिशून्याश्च तृष्णाऽऽशादिविवर्जिताः ।। ३ ।।
लोभपाशादिशून्याश्च शुभाः सर्वाश्रमोत्तमाः ।
अगृहधर्मा निर्दोषा मोक्षमार्गपरायणाः ।। ४ ।।
सन्त_ श्रेष्ठा द्वयोर्मध्ये श्रैष्ठ्यं कुत्र वद प्रभो ।
उभे ते वै शरीरे स्तो द्वयोर्भेदोऽस्ति वा न वा ।। ५ ।।
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि हितं तथ्यं पथ्यं प्रत्यक्षदर्शनम् ।
अकामेभ्यस्तु निष्कामाः श्रेष्ठतमा भवन्ति वै ।। ६ ।।
सस्त्रीकेभ्यो यतयस्तु सदा श्रेष्ठतमाः प्रियाः ।
कामक्रोधमहामोहा नारीयोगे भवन्ति वै ।। ७ ।।
रतिप्रिया मे तनवः श्रेष्ठाः श्रेष्ठतमास्तु न ।
श्रेष्ठतमाः साधवो मे सर्वमायाविवर्जिताः ।। ८ ।।
मायावन्तो गृहस्था वै नित्यं निरययोगिनः ।
श्मशानानि नरकाणि नित्यं भजन्ति नारकाः ।। ९ ।।
मायाशून्या यतयो वै नित्यं माधवयोगिनः ।
वैकुण्ठसमयद्वासान् सेवन्ते हरियोगिनः ।। 3.87.१ ०।।
त्यागाश्रमात्तु गार्हस्थ्यं निम्नं भवति सर्वदा ।
वर्णेषु ब्राह्मणाः श्रेष्ठाः स्त्रीमत्सु न तु सर्वथा ।। १ १।।
वर्णाश्रमेषु वै श्रेष्ठतमा मे साधवो मम ।
ब्रह्मचर्यं सदा श्रेष्ठं साधुत्वं श्रेष्ठमेव च ।। १ रे।।
वानप्रस्थाश्रमः श्रेष्ठो मनाक् न तु च साधुवत् ।
रतिप्रिया वृथा मानं वहन्ते नारका यथा ।। १ ३।।
सन्न्यासवन्महत्स्थानं श्रेष्ठं क्वापि न विद्यते ।
माया मायिककर्माणि निकृष्टानि स्वभावतः ।। १४।।
अमायिकव्रतस्था वै साधवः सर्वतोऽधिकाः ।
ईश्वरा अपि दारस्थाः पूजयन्ति सतो जनान् ।। १५।।
द्विजा नृपाः सुराश्चापि साधून् प्रपूजयन्ति हि ।
सेवावृत्तिचरेभ्यस्तु कृषिकाराः सदोत्तमाः ।। १६।।
कर्षुकेभ्यो रक्षकाश्च रक्षकेभ्यस्तु तापसाः ।
तापसा ब्राह्मणास्तेभ्यो दारवर्ज्या हि साधवः ।। १७।।
ब्रह्मपरा आत्मपरा मुक्तिपरा हि साधवः ।
दोषहीना चोर्ध्ववीर्या ब्रह्मसत्त्वा हि साधवः ।। १८।।
वर्णानां ब्राह्मणः श्रेष्ठो ब्राह्मणानां तु साधवः ।
विप्राणां पूजनीयाश्च पावनानां हि पावनाः ।। १ ९।।
तामस्यो मे तनवस्तु राक्षसा दैत्यदानवाः ।
राजस्यो मे तनवश्च क्षत्रियाद्या निजार्थिनः ।।3.87.२०।।
सात्विक्यो मे तनवश्च विद्यावन्तो द्विजातयः ।
निर्गुणा दिव्यतनवः साधवो मे प्रमुक्तिदाः ।।२१।।
ततः श्रेष्ठतमा लक्ष्मि! साधवोऽति न तु द्विजाः ।
क्षत्रतेजांसि सर्वाणि विप्रतेजसि यन्ति हि ।।२२।।
विप्रतेजांसि सर्वाणि साधुतेजसि यन्ति हि ।
साधुतेजांसि सर्वाणि लीयन्ते मयि माधवे ।।२३।।
मत्सदृशाः सदा सन्तो विप्राणां तारका भुवि ।
पापप्रज्वालकाः सन्तो मोक्षदा दारयोगिनाम् ।। २४।।
तपस्तेजो व्रतं सत्यं चमत्कारः सुशीलता ।
पुण्यं स्रवन्ति चैतानि नारीयोगेन देहिनः ।।२५।।
साधूनां तानि सर्वाणि वर्धन्ते शीलयोगिनाम् ।
नारायणा इव सन्तो जायन्ते वै नरायणाः ।।२६।।।
ततः श्रेष्ठा ब्राह्मणाश्च सन्तः श्रेष्ठतमाः सदा ।
ब्रह्मा रुष्टः पुरा सनत्कुमाराय हि साधवे ।।२७।।
तोलयामास वै श्रैष्ठ्यं साधुत्वब्राह्मणत्वयोः ।
साधुत्वं श्रेष्ठतमतां प्राप्तं द्विजत्वसन्निधौ ।। २८ ।।
पश्चात्पुनश्चैकतुलामध्ये न्यधाद्धि विप्रताम् ।
क्षत्रियतां वैश्यतां च शूद्रतां ब्रह्मचारिताम् ।। २९ ।।
गृहितां वनितां चापि ततोऽन्यस्यां न्यधादजः ।
साधुत्वं केवलं सत्ये पश्यतां सर्वदेहिनाम् ।। 3.87.३० ।।
साधुत्वं गौरवं प्राप्तं सप्तभ्यश्चैव सर्वथा ।
तस्माच्छ्रेष्ठतमं सृष्टौ साधुत्वं मोक्षणेष्वपि ।। ३१ । ।
श्रेष्ठं पात्रं ब्राह्मणा वै श्रेष्ठतमं तु साधवः ।
महाभागवताः श्रेष्ठा गृहिणस्तेषु साधवः ।। ३२ ।।
त्यागवन्तः सदा श्रेष्ठा नारायणपरायणाः ।
भारवाहा न वै श्रेष्ठा गन्धज्ञा उत्तमा यथा ।। ३३ ।।
तथा दारवहा नैव श्रेष्ठाः श्रेष्ठास्तु साधवः ।
लक्ष्मि! चाऽहं गृहस्थोऽस्मि पूजयामि सतो जनान् ।। ३४।।
मुक्ता ये ब्रह्मलोकस्थाः सर्वे ते साधवो मम ।
तान् जपामि पूजयामि नारायणनरायणान् ।। ३५ ।।
विप्रविप्रान् ब्राह्मणानां ब्राह्मणान् ब्रह्मयोगिनः ।
शीलिनां शीलिनश्चापि यतीनां च यतीन्परान् ।। ३६ ।।
अस्वादरसलुब्धाँश्च ह्यनिन्द्रियसुखान् सतः ।
अप्रमदागन्धसहान् पूजयामि निरन्तरम् । । ३७ ।।
न मे लक्ष्मि रोचतेऽयं गृहाश्रमो हि कल्मषी ।
भक्तानीनां भवतीनामिच्छया चाऽभवं गृही ।। ३८ ।।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजामि वै ।
प्रतिज्ञा मे सदा चास्ते भक्तेच्छापूरको ह्यहम् ।। ३९ । ।
कामिनीनां कामदानैश्चार्तानां चार्तिनाशनैः ।
अर्थार्थिनामर्थदानैः पूरयामि मनोरथान् ।।3.87.४ ० ।।
ज्ञानिनां निर्गुणो भूत्वा करोमि मोक्षणं प्रिये ।
साधवो मेऽवतारा वै तेषु वसामि नित्यदा । ।४ १ ।।
सत्सु वसामि यावाँश्च विशेषतः समस्ततः ।
अन्यत्र तु यथाकार्यं यथाजोषं यथाफलम् ।।४२ । ।
तस्माच्छ्रेष्ठतमा नित्यं साधवः शीलयोगिनः ।
अथैकदा स्वयं विष्णुर्लक्ष्मीयुक्तो ययौ वनम् ।।४३ । ।
तपश्चचार बहुधा वर्षपूगसहस्रकम् ।
सेवायां वर्तते लक्ष्मीस्तां न पस्पर्श तापसः ।।४४।।
तदा लक्ष्मीर्नम्रभावा पप्रच्छ परमेश्वरम् ।
कथं न स्पृशसि विष्णो! कारणं नु वदाऽत्र मे ।।४५।।
विष्णुः प्राह व्रतश्रेष्ठं नारीस्पर्शो न यत्र तु ।
ब्रह्मचर्यं व्रतं तपःसिद्धिप्रदं परात्परम् ।।४६ ।।
स्त्र्यस्पर्शः साधुता श्रेष्ठा साधुत्वं तपसां बलम् ।
साधुत्वे जायते सिद्धिस्तपसां चाऽपराजिता ।।४७।।
लक्ष्मीः सन्देहमापन्ना स्वयं नारायणोऽपि सन् ।
निर्दोषोऽपि कथं वक्ति प्रभुः प्राकृतजीववत् ।।४८।।
अथ विष्णुस्तपःपूर्णसिद्ध्युत्तरं श्रियः खलु ।
सन्देहनाशनार्थं वै ययौ वैकुण्ठमेव तु ।।४९।।
तत्र नारायणो देवो लक्ष्म्या साकं विराजते ।
सोऽपि नित्यं सतः साधून् पूजयत्येव योगिनः ।।3.87.५०।।
इत्येवं सम्प्रदर्श्यैव लक्ष्मीं ततो ययौ परम् ।
गोलोकं श्रीकृष्णधाम तत्र कृष्णः सराधिकः ।।५१ ।।
नित्यं साधूनर्चयतीत्येवं प्रदर्श्य वै ततः ।
ययौ विष्णुश्चाऽक्षराख्यं धाम धामोत्तमं परम् ।।५२।।
तत्राऽनादिकृष्णनारायणो ब्रह्मप्रियाऽन्वितः ।
साधून् मुक्तान् पूजयति दर्शयामास तच्छ्रियम् ।।५३।।
ततो लक्ष्म्यास्तु सन्देहो निवृत्तो मूलतः खलु ।
अथ विष्णुर्निजे रूपे लक्ष्मीमन्तर्विभाव्य च ।।५४।।
लक्ष्म्यै सन्दर्शयामास लक्ष्म्या रूपं सनातनम् ।
ब्रहाचर्यस्वरूपं यच्छीलं सा लक्ष्मीरेव ह ।।५५।।
इच्छया वर्तते नारी वस्तुतः शीलरूपिणी ।
अभिन्ना भगवत्येव सा त्वं लक्ष्मि! मम प्रिया ।।५६।।
वर्तसे शीलरूपेति साध्वीरूपेति मत्प्रिया ।
ब्रह्मशीलं चाति चाति प्रियं मे नाऽपरं तथा ।।५७।।
तद्रूपा त्वं प्रिया नित्यं नेतरन्मे प्रियं ततः ।
त्वत्स्वरूपाश्च मे सन्तः सर्वे प्रियतमा मम ।।५८।।
साधवो हृदयं मेऽस्ति लक्ष्मीर्मे हृदयं तथा ।
कौस्तुभो मे हृदयेऽस्ति श्रीवत्सो हृदये च मे ।।५९।।
श्रीवत्साः साधवो मे वै हृदये मे वसन्ति हि ।
श्रीपतिश्च यथा चाहं सत्पतिश्च तथाऽस्मि च ।।3.87.६०।।
प्रेमपतिः सदा चास्मि शीलपतिः सदाऽस्मि च ।
साधुपतिः सदा चाऽस्मि लक्ष्मीपतिः सदाऽस्मि च ।।६१।।
लक्ष्मि चिह्नं प्रेमरूपं शीलाख्यं मयि वर्तते ।
तद्यत्र विद्यते तद्धि लक्ष्मीति परिकीर्त्यते ।।६२।।
तद्वती त्वं मदिच्छाऽसि साधवो मम मूर्तयः ।
शीलं मम गुणः शश्वत् सोऽहं साधुस्वरूपवान् ।।६३।।
अतः श्रेष्ठतमाः सन्तः सर्वसृष्टिभ्य एव ह ।
कियन्तो ब्राह्मणास्तत्र नारीकल्मषयोजिताः ।।६४।।
न देवा नेश्वराश्चापि साधुतुल्याः कथञ्चन ।
नर्षयः पार्षदाश्चापि नारीयोगमुपागताः ।।६५।।
तेभ्यो मे साधवः श्रेष्ठतमा लक्ष्मि परात्पराः ।
शीलयुक्तं तपः श्रेष्ठं तादृक्तपस्तु साधुषु ।।६६।।
तस्माद् वै साधवः श्रेष्ठास्तव पूज्याः सदा रमे ।
अथ ते संशयो मा स्यात् कथं श्रेष्ठा हि साधवः ।।६७।।
अश्वपट्टसरःक्षेत्रे भज साधून् समागतान् ।
अतिथीन् त्यागयोगाँश्च सम्मानय समर्हणैः ।।६८।।
तेषामाशीर्वचोभिश्च परमं श्रेय ईयते ।
तेषां प्रसन्नताजन्यं पुण्यं भवेद्धि शाश्वतम् ।।६९।।
तेषां सेवाफलं कोटिगोलोकानन्दसदृशम् ।
जायते च ततः सर्वा ब्रह्मप्रिया हरिप्रियाः ।।3.87.७०।।
साधुसेवां प्रकुर्वन्तु तोषयन्तु सतो जनान् ।
निर्विकारान् मोक्षदांश्च मायापारकरान् गुरून् ।।७ १ ।।
दुर्गा चण्डी महाकात्यायनी हत्वा महासुरान् ।
महिषादींस्ततः शंभुं पप्रच्छ परमेश्वरी ।।७२।।
अहिंसा परमो धर्मः स्वयं शंभो निगद्यसे ।
हिंसा क्षयकरी सा च मया कृताऽतिदारुणा ।।७३ ।।
निपातिता हि बहवो विदारिता हि काश्यपाः ।
दानवाश्चासुरा दैत्या ये ये रणे समागताः ।।७४।।
तेषां पापं तथा तेषां नारीणां रोदनादिकम् ।
वैधव्यजं च मे पापं बालाऽनाथनिकन्दनम् ।।७५।।
कथं वै परिहर्तव्यं मया केन हि शोधिना ।
कर्मणा वा व्रतेनापि प्रायश्चित्तेन वा वद ।।७६।।
श्रुत्वा शंभुस्तदा प्राह त्वं साक्षात्पारमेश्वरी ।
दिव्या ब्राह्मी महाशक्तिर्यत्र पापं न विद्यते ।।७७।।
नित्यशुद्धस्वरूपाऽसि त्वं लक्ष्मीस्त्वं रमा रतिः ।
त्वं माया त्वं महालक्ष्मीः पापं ते नैव विद्यते ।।७८।।
अहं संहारकृद् रुद्रो रुद्राणी त्वं विनाशिनी ।
महाकाली महाशक्तिः पावनी लोकभक्षिणी ।।७९।।
मत्स्वरूपा सदा त्वं वै ब्रह्माऽहं परमेश्वरः ।
नारायणी जगद्धात्री शिवा पुण्यमयी शुभा ।।3.87.८०।।
सती साध्वी वह्निरूपा शुद्धाऽसि पौरुषोत्तमी ।
तथापि ते मनःशान्त्यै लोकसंग्रहहेतवे ।।८१ ।।
दर्शयामि तथा तत्त्वं समाचर महेश्वरि ।
पापक्षालनशक्तं वै तीर्थं व्रतं तपस्त्रयम् ।।८२।।
तेभ्यश्च बलवद् दुर्गे साधुसेवनमुत्तमम् ।
साधूनां दर्शनं पुण्यं स्पर्शनं सम्प्रतोषणम् ।।८३।।
वन्दनं दास्यमेवाऽपि पादसंवाहनादिकम् ।
प्रसन्नताकरं सर्वं सद्यःपापप्रणाशकम् ।।८४।।
तत् त्वं याहि विशालां च साधुर्यत्र स्वयं हरिः ।
धर्मपुत्रः परमात्मा नारायणो विराजते ।।।८५।।
सदा व्रती तापसश्च ब्रह्मचारी गुरुर्मम ।
तत्सेवया महापापादीनां नाशो भविष्यति ।।८६।।
तत्राऽन्ये साधवो दिव्या महाभागवताः सति! ।
वर्तन्ते भक्तिसम्पन्ना दर्शनान्मोक्षदायिनः ।।८७।।
पावना ब्रह्मरूपाश्च नित्यमायान्ति तत्र च ।
नारदाद्यास्तथा सनत्कुमाराद्या हि साधवः ।।८८ ।।
लोमशाद्याः साधवश्च तेषां दर्शनसेवनात् ।
बदर्याश्रमवासात् स्यात् सर्वकल्मषनाशनम् ।।८९।।
इत्युक्ता प्राह शंभुं तु सती यामि तवाऽऽज्ञया ।
यदि ते रोचते शंभो ह्यागन्तव्यं त्वया प्रभो ।। 3.87.९० ।।
तथाऽस्त्विति हरो मत्वा ययौ देव्या समं गणैः ।
बदरीं व्योममार्गेण नेमे नारायणं गुरुम् ।। ९१ ।।
सती नेमे ततो नारायणाय विनिवेद्य तत् ।
साधुसेवात्मकं सर्वं सेवनं प्रचकार सा ।।९२।।
नारायणस्याऽऽसनस्य बदर्याः सन्निधेस्तथा ।
भूभागस्य सदा प्रातर्मार्जनं च जलार्पणम् ।। ९३।।
पत्रपुष्पार्पणं मालार्पणं ध्यानं च दर्शनम् ।
जपं चेत्यादि दुर्गा सा प्रचकार यथायथम् ।। ९४।।
शंभुश्चापि महर्षीणां सेवनादि चकार ह ।
साधूनां च यथापेक्षं स्वागतादि चकार ह ।। ९५।।
एवं वै मासमात्रं श्रीनारायणस्य सद्गुरोः ।
सती सेवां प्रचकार प्रसन्नो भगवान् हरिः ।। ९६ ।।
उवाच तां वद दुर्गे! कथं किं समपेक्षसे ।
दुर्गा प्राह कृपासिन्धो! तवाऽस्मि वैष्णवी सुता ।। ९७।।
शंभोः प्राप्ता मया दीक्षा पावनी दीक्षया सदा ।
तथापि लोकरक्षार्थं दैत्यानां नाशकारिणी ।। ९८।।
जाताऽस्मि तेन हत्यादिमहापापाभिशंकिनी ।
हराऽऽज्ञया क्षालयितुं शरणं ते समागता ।। ९९।।
साधोर्नारायणस्य श्रीहरेस्ते सेवया प्रभो ।
सर्वपापानि नश्यन्तु चेच्छा मे हृदि वर्तते ।। 3.87.१०० ।।
श्रुत्वैवं श्रीहरिर्नारायणः प्राह शिवे! त्वयि ।
पापलेशो न चैवाऽस्ति ब्राह्मी त्वं पारमेश्वरी ।। १०१ ।।
वर्तसे शिवशक्तिस्त्वं महापातकनाशिनी ।
तथापि लोकलाभार्थं करोषि तादृशं व्रतम् ।। १० २।।
तव पापानि सर्वाणि दैत्यहत्यात्मकानि वै ।
शान्तानि पावनी त्वं वै साधोर्ममैव दर्शनात् ।। १०३ ।।
साध्वर्षीणां सेवनाच्च नष्टान्यद्यानि ते सति ।
इत्युक्त्वा भगवान्नारायणो वारि ददौ तदा ।। १ ०४।।
कमण्डलोः प्रसादाख्यामृतं वारि पपौ सती ।
अथ शिवा शिवो नैजगणैः साकं हरिं प्रभुम् ।। १ ०५।।
प्रपूज्याऽऽज्ञां समादाय कैलासं प्रति जग्मतुः ।
इत्येवं शंभुना लक्ष्मि माहात्म्यमुत्तमं सताम् ।। १ ०६।।
सेवायाः फलरूपं च दर्शितं पापनाशकम् ।
स्वर्गमोक्षप्रदं भुक्तिप्रदं मुक्तिप्रदं तथा ।। १ ०७।।
धनसम्पत्प्रदं चापि साधुसेवनमुत्तमम् ।
वंशप्रदं तारकं च दारिद्र्यदुःखनाशकम् ।। १० ८।।
अज्ञानतिमिरघ्नं च नारायणाप्तिकारकम् ।
सुखदं धामदं चापि साधूनां सेवनं रमे! ।। १ ०९।।
पठनाच्छ्रवणाच्चाऽस्य स्मरणाद्वाचनादपि ।
भुक्तिः स्वर्गं भवेच्चापि मुक्तिः स्यात्पारमेश्वरी ।। 3.87.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विप्रगृहिभ्यः साधवः सर्वथा श्रेष्ठतमा इत्यर्थे विष्णोर्निदर्शनं दुर्गाया अपि साधुसेवानिदर्शनं चेत्यादिनिरूपणनामा सप्ताऽशीतितमोऽध्यायः ।। ८७ ।।