लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९९

← अध्यायः ०९८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०९९
[[लेखकः :|]]
अध्यायः १०० →

श्रीनारायणीश्रीरुवाच-
सत्यं तद्भगवन् कृष्णनारायण जगत्प्रभो ।
यत्र ते साधवः सन्ति तत्र पुमर्थसिद्धयः ।। १ ।।
ये च सन्तो निर्मला मे पत्युः प्रियतमा जनाः ।
तेषां पादरजश्चाऽहं वहामि शिरसा सदा ।। २ ।।
तेषामाज्ञामर्थकरीं शुभां वाऽप्यथवाऽशुभाम् ।
वहामि सर्वदानेन निःशंका तव कारणात् ।। ३ ।।
सतां वाणी सत्यपूता यादृशी तादृशी ह्यपि ।
सतां वाणी परो वेदो भवान् यत्र प्रतिष्ठति ।। ४ ।।
मौनव्रतं सदा चास्ते सतां वैखर्यनावृतम् ।
सन्तो विनाऽर्थं परमं वदन्त्येव न लौकिकम् ।। ५ ।।
मुखमस्तीति वक्तव्यं निसर्गोऽयं न वै सताम् ।
सूक्ष्मा गतिर्हि सत्यस्य दुर्ज्ञेया ह्यकृतात्मभिः ।। ६ ।।
मूढरुच्यनुसारेण वक्तव्यं न सता क्वचित् ।
वचने दोषसंक्रान्तिस्ततो मौनं वरं सताम् ।। ७ ।।
मानवास्तादृशा लोके जायन्ते च भवन्ति च ।
गुरुश्चाऽप्युपदेष्टाऽपि स्वमतं चेद्वदेद् यदि ।। ८ ।।
तदा स गुरुराट् श्रेष्ठोऽन्यथाऽज्ञः परिकीर्त्यते ।
एतादृशा भवन्त्येव शिष्या घोरतमोवृताः ।। ९ ।।
स्वमतमनुद्वेष्टा वै गुरुर्गुरुर्न चान्यथा ।
तस्मात्ते नारकाश्चात्र परत्रापि भवन्ति हि ।। 3.99.१ ०।।
अतः शिष्याभिरेवाऽत्र शिष्यैर्वा यन्मतं मतम् ।
तन्मतं चेद् विरुद्धं वै शास्त्रधर्मादिबाधकम् ।। १ १।।
तदा न गुरुणा ग्राह्यं त्याज्याः शिष्यास्तु तादृशाः ।
प्रायशो बहवो लोके मृषापण्डाभिमानिनः ।। १२।।
विज्ञंमन्या भवन्त्येव शिष्या गुरुनियामकाः ।
अपथे गम्यमानास्ते पतन्त्येव ह्यधो ह्यधः ।। १३।।
असद्वाणी महापापा न वक्तव्या कदाचन ।
तत्र सद्भिर्न वक्तव्या कस्यचित् किञ्चिदग्रतः ।। १४।।
वरां मौनेन मुनयो दीक्षां कुर्वन्ति संयमे ।
दुरुक्तस्य भयात् कृष्ण नाऽऽभाषन्ते वृथा मृषा ।। १५।।
धार्मिका गुणसम्पन्नाः सत्यभक्तिसमन्विताः ।
सत्योपदेशैर्मुनयः प्रापयन्ति परं पदम् ।। १६।।
दुष्कृतं दारयन्त्येव श्रोतॄणां ब्रह्मदानतः ।
आनन्दाऽब्धिं प्रार्पयन्ति परमेशप्रसंगदाः ।। १७।।
अपात्रं शरणं यायात् परीक्षणीयं सर्वथा ।
उपदेशो न कर्तव्यः सहसा स्थितिमन्तरा ।। १८।।
अपात्रे चोपदेशात् तत्पापं संक्रमते गुरौ ।
विमृश्य ज्ञानदानं वै कर्तव्यं सत्यसंजुषा ।। १ ९।।
अनृते चाऽप्यपात्रे चोपदेशः स्वं हिनस्ति हि ।
तादृग्बोधः प्रदातव्यो येन सत्यं प्ररक्षयेत् ।।3.99.२०।।
येन सनातनो देवो नारायणः प्रसाद्यते ।
एतादृशाः सत्यशीलाः सत्यनारायणाश्रिताः ।।२ १।।
सत्यसनातनभक्ताः साधवो गुरवो मम ।
वसामि भगवँस्तत्र यत्र मे गुरवोऽमलाः ।।२२।।।
पूज्यन्ते भवता साकं सुभगा ब्रह्मवेदिनः ।
प्रगल्भा भक्तिदक्षाश्च श्रीहरिव्यवसायिनः ।।२३।।
देवभक्ताः कृतज्ञाश्च जितेन्द्रियाश्च सात्त्विकाः ।
पुरुषार्थपरा दिव्याः सन्तो यत्र वसाम्यहम् ।।२४।।
यत्र कान्तो मम नारायणः श्रीपुरुषोत्तमः ।
भवानास्ते निवसामि तत्र सर्वस्वदानतः ।।२५।।
न वसाम्यपुमर्थाढ्ये नास्तिके कृतघातिनि ।
धर्मसांकरिके नैव भिन्नसेतौ वसामि न ।।२६।।
नृशंसे निन्दके दुष्टे चौरे गुरुष्वसूयिनि ।
साधूनां द्वेषिणि दृप्ते नैव वसामि सर्वथा ।। २७।।
अल्पतेजसि सत्त्वेन विहीने बलवर्जिते ।
क्लिष्टे क्रुद्धे न तिष्ठामि चाऽस्थिरे स्थितिवर्जिते ।।२८।।
अप्रार्थिनि स्वभावेन विहतेऽल्पप्रतोषिणि ।
बहुव्यये व्यसनिनि नाऽहं वसामि सर्वदा ।।२९।।
धर्माढ्ये धर्मविदुषि दान्ते वृद्धोपसेविनि ।
क्षान्तिपरे कृतकृत्ये निवसामि महोत्सवे ।।3.99.३ ०।।
सत्यस्वभावासु दान्तास्वबलासु वसामि च ।
आर्जवाढ्यासु साधूनां सेविकासु वसामि च ।।३ १।।
देहद्विजगुरुस्वामिपूजिकासु वसामि च ।
मलिनां चाऽस्थिरां नैजकार्यालसां विरोधिनीम् ।।३२।।
प्रतिकूलस्थितिं भर्तुः परपक्षसहायिनीम् ।
अलज्जां चाऽसहमानां वर्जयामि सदा त्वहम् ।। ३३।।
पापामसाधुसेवाढ्यां क्रुद्धां धैर्यविवर्जिताम् ।
शठां कलहमूलां च बहुनिद्रां त्यजामि च ।।३४।।
सत्यव्रतासु दिव्यासु गुणसौभाग्यदासु च ।
पतिव्रतासु शीलासु वसामि भूषितासु च ।।३५।।
यानेषु साधुयुक्तेषु भक्तासु कन्यकासु च ।
यज्ञेषु साधुयुक्तेषु मन्दिरे च वसाम्यहम् ।।३६।।
पुष्पेषु सस्यगात्रेषु गजेषु मन्दुरासु च ।
गोष्ठेषु साधुपादेषु पंकजेषु वसाम्यहम् ।।३७।।
नदीयुक्तप्रदेशेषु तपस्विसिद्धयोगिषु ।
वृषभे गोमण्डले च नरेन्द्रे सज्जने तथा ।।३८।।
उच्चासने च हव्यादे सुरगोब्रह्मपूजके ।
आतिथ्यशोभने सौधे नित्यं वसामि माधव ।।३९।।
अनादिश्रीकृष्णनारायणे साधौ च तेऽनुगे ।
साध्व्यां भक्तजने चापि वसामि नित्यमूर्जिता ।।3.99.४०।।
प्रसन्नाश्चाऽदृश्यभावा यत्र वसामि केशव! ।
त्वदाज्ञया वर्धयामि धर्मयशोऽर्थकामनैः ।।४१ ।।
भगवन् मे रहस्यं तु कथयामीह सर्वथा ।
साधवो यत्र सेव्यन्ते तत्र वसामि सर्वदा ।।४२।।
साधवो भगवद्रूपा मम नाथस्य मूर्तयः ।
तेषां सेवादिलाभार्थं तव प्रसन्नताऽऽप्तये ।।४३।।
नित्यं वसामि साधूनां सेविकायां च सेवके ।
यत्र गोपालकृष्णश्च यत्र श्रीकंभरासती ।।४४।।
सन्तुष्टा यत्र वै चास्ते यत्र श्रीहरिवल्लभः ।
तत्र वसामि नित्यं वै यत्र पूजा हरेस्तव ।।४५।।
सर्वस्वार्पणभावेन भजन्ते ये जना हरिम् ।
स्वार्थभावविहीनास्तान् नैव त्यजामि कर्हिचित् ।।४६।।
यत्र साध्वन्नसत्राणि यत्र साध्वाश्रमाः सदा ।
यत्र सतां शुभा सेवा तत्र वसामि वृद्धिदा ।।४७।।
यत्र निष्कपटा बुद्धिर्वर्तते सेवके जने ।
निर्दोषा च मतिर्यत्र तत्र वसामि सर्वथा ।।४८।।
गृहदारसुतापुत्रधनेभ्यश्चाऽधिकास्तथा ।
यस्य सन्तो मतास्तस्य गृहे वसामि सर्वथा ।।४९।।
पतिदेवश्वशुरेभ्योऽधिका यत्र हि साधवः ।
पूज्यन्ते योषितां तासां गृहे वसामि सर्वथा ।।3.99.५०।।
साधूनां रटणं यत्र साधूनां यत्र दर्शनम् ।
स्नेहो यत्र सदा सत्सु तत्र वसामि सर्वथा ।।५१।।
भगवान् भगवन्तश्च हरिश्च साधवस्तथा ।
स्वामी च सेवका यत्र तत्र वसामि सर्वदा ।।५२।।
यत्र स्वामी न मे चास्ते न तद्भक्ता हि साधवः ।
सूर्यवत् पुण्ययोगेनोदयित्वाऽस्तं प्रयाम्यहम् ।।५३।।
यद्गृहे दिवसो याति विना त्वन्नामकीर्तनम् ।
तद्गृहं सन्त्यजाम्येव मूर्छया पीडिता सती ।।५४।।
यत्र ते सत्पूरुषाणां भोजनं विद्यते न वै ।
तद्गृहं गह्वरं मत्वा श्मशानवत्त्यजाम्यहम् ।।५५।।
यत्र साधुजनपादं वर्षेऽपि नैव दृश्यते ।
तद्गहं पुण्यशून्यं वै श्मशानवत् त्यजाम्यहम् ।।५६।।
यत्रोत्सवो न कृष्णस्य वर्षान्तरेऽपि जायते ।
तद्गृहं सन्त्यजाम्येव तवोत्सवविवर्जितम् ।।५७।।
यत्र भक्ता न ते सन्ति वसन्ति नैव च क्वचित् ।
तत्र मे रोचते नैव वासः कर्दमसागरे ।।५८।।
यत्र सौधे मन्दिरे वा भवने देवतालये ।
पतिर्नारायणो नास्ति तत्र नैव वसाम्यहम् ।।५९।।
यत्र स्वर्णालये स्वर्णकोशे राज्यासनेऽपि वा ।
नारायणार्पणं प्रातर्नास्ति नैव वसाम्यहम् ।।3.99.६ ० ।।
यत्र हरेः पूजनाग्रे घृतदीपो न विद्यते ।
धूपश्चारार्त्रिकं नास्ति तत्र नैव वसामि च ।।६ १ ।।
यत्र नैवेद्यकं विष्णोः कृते नास्ति जलं न च ।
यत्र विष्णुजनः क्वापि न भुंक्ते न वसाम्यहम् ।।६२।।
यत्राऽष्टमीजयन्त्याश्च त्रयोदश्या महोत्सवः ।
ऊर्जे कृष्णे न चास्त्येव तत्र नैव वसाम्यहम् ।।६३।।
यत्राऽवतारगाथास्ते नैव श्रूयन्त ऐश्वरम् ।
पूजनं वा प्रतिमानं नास्ति नैव वसाम्यहम् ।।६४।।
शंखचक्रादिचिह्नानि तुलसीवृक्षमित्यपि ।
यत्र नैव प्रविद्यन्ते तत्र नैव वसाम्यहम् ।।६५।।
यत्र लक्ष्म्यवताराणां कथा मूर्तिर्न चाऽस्ति च ।
नारायणावताराणां नापि तत्र वसामि न ।।६६।।
यत्र सतां न सत्कारो वृद्धानां सेवनं न च ।
गवां सम्माननं नास्ति तत्र नैव वसामि च ।।६७।।
यत्र श्राद्धं न देवानां पितॄणां जीवतां च वा ।
पुण्यदानं न यत्रास्ति तत्र नैव वसामि च ।।६८।।
यद्गृहे बालका नैव रक्ष्यन्ते भोजनादिभिः ।
उत्ताप्यन्ते स्त्रियो यत्र तत्र नैव वसामि च ।।६९।।
पंक्तिभेदो गृहे यत्र चाश्रितानां प्रपीडनम् ।
पशूनां रोधनं यत्र तत्र नैव वसामि च ।।3.99.७०।।
गोपुरे यन्नगरस्य नारायणप्रतिकृतिः ।
विद्यते नैव तत्रापि चिरं नैव वसाम्यहम् ।।७ १ ।।
यत्र सरस्वती लक्ष्मीर्हस्तिकमलमालिनी ।
राजते चन्द्रशालादौ तद्गृहे निवसामि च ।।७२।।
यत्र गणेशो नास्ति न सन्ति श्रीमातरः कृताः ।
बिन्दुरूपास्तत्र नैव वसाम्यहं चिरं क्वचित् ।।७३।।
यत्र नरे च नार्या च वैमनस्यं सुतादिषु ।
भृत्यस्वामिषु चौदासीनता तत्र वसामि न ।।७४।।
यत्रास्ते रक्षकः स्वामी भक्षको धर्मवर्जितः ।
नारायणस्य वै द्वेषी चौरस्तत्र वसामि न ।।७५।।।
यत्र वाट्यां देववृक्षा विद्यन्ते नैव सर्वथा ।
यज्ञीया वल्लयो वृक्षा नैव तत्र वसामि न ।।७६।।
यत्र क्षेत्रे सस्यशोभे सतां विचरणं नहि ।
तत्र कणेषु नैवाऽहं संभवाम्यतिवर्तिनी ।।७७।।
यत्र. सन्तो न सरसि नद्यां नदे तडागके ।
कूपे स्नान्ति क्वचित्तत्र जले रसे वसामि न ।।७८।।
यत्र लोकसमाजे वा तथा देवसमाजके ।
विदुषां च समाजे न साधुस्तत्र वसामि न ।।७९।।
यत्र राजसमाजे वा प्रजासमाजके तथा ।
तीर्थे वा नास्ति भक्तात्मा तस्मादपसराम्यहम् ।।3.99.८०।।
या सभा साधुशून्या या कृतिर्हर्यर्पणं विना ।
प्राप्तिर्या दानशून्या च ततोऽप्यपसराम्यहम् ।।८ १।।
यत्रेन्द्रो विजयो लक्ष्मीर्यूपे स्तम्भे गृहे तथा ।
यत्र श्रीशः स्वयं चास्ते तत्र वसामि केशव ।।८२।।
यत्र रात्रौ न दीपोऽस्ति दिवा निवेदनं न च ।
यत्र स्नेह्यागमो नास्ति ततश्चापसराम्यहम् ।।८३।।
दारिद्र्यं राजते यत्र धर्मकर्माऽर्हणादिषु ।
जीर्णदानं च यत्र स्यात् ततोऽप्यपसराम्यहम् ।।८४।।
यत्र सीता च वृषभाः पूज्यन्ते न कृषिक्षणे ।
भूमिर्न पूज्यते यत्र तत्र नैव भवाम्यहम् ।।८५।।
यत्र भाले न चन्द्रोऽस्ति कौंकुमश्चान्दनोऽपि वा ।
सौभाग्यभूषणं नास्ति ततश्चापसराम्यहम् ।।८६।।
यत्राऽऽस्ते चाऽभयदानं मोक्षमार्गप्रदर्शनम् ।
भक्तगाथाचरित्राणि तत्र वसामि केशव ।।८७।।
सतां शीलस्वभावानामपरिग्रहयोगिनाम् ।
वाचि हृदि पादयोश्च वसामि मुदिता सदा ।।८८।।
हरेः पूजाऽवशिष्टे च जले पत्रे सुमे कणे ।
प्रसादेऽन्नेऽम्बरे द्रव्ये वसामि सर्ववस्तुषु ।।८९।।
दीक्षिते सात्त्वते भक्ते साध्व्यां च ब्रह्मयोषिति ।
हर्यर्थं पाचिकायां च निवसामि ह्यतन्द्रिता ।।3.99.९०।।
पत्नीव्रतः सदा त्वं वै नारायणो भवस्यतः ।
मद्धस्तमन्तरा नैव गृह्णास्यन्यसमर्पितम् ।।९१।।
तस्मात् समर्पके तूर्णं निवसामि नियोगतः ।
निवेदको मत्स्वरूपः सेवको योऽपि कोऽपि वा ।। ९२।।
या वा का वा सेविका ते लक्ष्मीरूपा न संशयः ।
साधवः सेवकास्ते वै सर्वथाऽऽत्मनिवेदिनः ।। ९३ ।।
तेषु मयाऽपि वसतिः सर्वदाऽऽचर्य्यते प्रभो ।
हरेर्भक्ताश्च ये नारीनराश्चापि भवन्ति च ।। ९४।।
देवाश्च पितरश्चापि महर्षयश्च मानवाः ।
नागा दैत्या राक्षाश्च दानवा भक्तिकारिणः ।। ९५।।
साध्या विश्वे मरुतश्चाऽऽदित्या रुद्रा वसूत्तमाः ।
सिद्धाश्च किन्नराः सूता मागधा बन्दिनस्तथा ।।९६।।
किम्पुमांसश्च गन्धर्वा अप्सरसोऽपि चेशिकाः ।
योगिन्यो मातरश्चापि शक्तयः साधिकास्तथा ।।९७ ।।
गणिकाश्च गणाश्चापि कन्याः कुमारकास्तथा ।
यक्षाश्च लोकपालाश्च दिक्पालास्तीर्थकोटयः ।। ९८।।
तिर्यञ्चो वा तैजसाश्च तामसा वा चतुष्पदाः ।
कीटा वा पक्षिणश्चापि ये केऽपि जडचेतनाः ।। ९९।।
तव भक्त्यर्थमेवैते उद्यतास्तत्र तत्र च ।
शीघ्रं वसामि गत्वैव करोमि पावनाँश्च तान् ।। 3.99.१०० ।।
ततो गृह्णासि तद्दत्तं नारायण करान्मम ।
एतादृशं निजपत्नीव्रतं नान्यत्र विद्यते ।। १०१ ।।
पातिव्रत्यं तथा लक्ष्म्यां तदन्यत्र न विद्यते ।
सन्तस्ते सर्वदा सत्यपातिव्रत्यान्विताः खलु ।। १० २।।
यथा लक्ष्मीस्तथा सन्तः सन्तो लक्ष्यस्तव प्रियाः ।
अतो निगद्यसे कृष्ण लक्ष्मीकान्तः सतां पतिः ।। १०३ ।।
अतोऽहं मत्सपत्नीनां सतां देहेषु सर्वदा ।
अभिन्ना संवसाम्येव नैतज्जानाति चेतरः ।। १ ०४।।
नमस्तस्मै भगवते कृष्णनारायणाय ते ।
साधुभ्यश्च नमो लक्ष्म्यै लक्ष्म्याढ्येभ्यो नमोऽपि च ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुजनेषु सदा लक्ष्मीनिवासः लक्ष्मीनिवासस्थानानि, पापिप्रभतिष्वनिवासश्चेत्यादिनिरूपणनामा
नवनवतितमोऽध्यायः ।। ९९ ।।