लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १३४

← अध्यायः १३३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १३४
[[लेखकः :|]]
अध्यायः १३५ →

श्रीपुरुषोत्तम उवाच-
शृणुनारायणीश्रि! त्वं लक्षहोमग्रहाध्वरम् ।
सर्वकामप्रदं सर्वविघ्नशान्तिकरं सुखम् ।। १ ।।
पितॄणां वल्लभं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् ।
ग्रहताराबलं दृष्ट्वा कृत्वा ब्राह्मणवाचनम् ।। २ ।।
गृहस्योत्तरपूर्वेण मण्डपं कारयेन्नवम् ।
द्वादशहस्तविस्तारं चतुरस्रमुदङ्मुखम् ।। ३ ।।
दशहस्तमष्टहस्तं च वा प्रकारयेत्तु तम् ।
प्रागुदक्प्लवनां भूमिं कारयेत् सर्वरक्षिणीम् ।। ४ ।।
कुण्डं समेखलं कुर्याच्चतुरस्रं सयोनिकम् ।
प्रागुत्तरे मण्डपाऽधोभागे रंगादिरञ्जितम् ।। ५ ।।
चतुरंगुलविस्तारां मेखलां तद्वदुच्छ्रयाम् ।
द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं शुभम् ।। ६ ।।
लक्षहोमे रचयेद्वै कुण्डं शोभावहं तथा ।
तस्य चोत्तरपूर्वेण वितस्तित्रयमानकम् ।। ७ ।।
प्रागुदक्प्रवणं तच्च चतुरस्रं समन्ततः ।
विष्कम्भाधोच्छ्रितं कार्यं स्थण्डिलं शिल्पकर्मणा ।। ८ ।।
संस्थापनाय देवानां वप्रत्रयसमाव्रतम् ।
द्व्यङ्गुलोर्ध्वः प्रथमस्तु वप्रः कार्यः शुभावहः ।। ९ ।।
वप्रद्वयं चांगुलोर्ध्वं प्रत्येकं वै तथोपरि ।
दशांगुलोच्छ्रिता भित्तिः स्थण्डिले वै तथोपरि ।। 3.134.१ ०।।
तत्र त्वावाहयेत् देवान् पुष्पतण्डुलकासने ।
सूर्यादीनधिदेवादींस्तथा प्रत्यधिदेवताः ।। ११ ।।
गरुत्मानधिकस्तत्र सम्पूज्यः श्रियमिच्छता ।
विष्णुभक्तो महाभक्तो विषपापहरोऽसि वै ।। १ २।।
सुखदो विष्णुभक्तानां शान्तिमृद्धिं प्रयच्छ मे ।
कुंभमामन्त्र्य विधिना लक्षहोमान् समाचरेत् ।। १३।।
समित्संख्याधिकान् होमान् समाचरेत्प्रशान्तये ।
घृतकुंभवसोर्धारां पातयेदनलोपरि ।। १४।।
औदुम्बर्या बाहुमार्गदीर्घया जुहुयात् स्रुवा ।
श्रावयेत् सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम् ।। १५।।
महावैश्वानरं साम ज्येष्ठसाम च वाचयेत् ।
स्नानयेद् यजमानं च स्वस्तिवाचनमुच्चरेत् ।। १६।।
सुदद्याद् दक्षिणाश्चापि भूयसीः शान्तचेतसा ।
ऋत्विग्भ्यश्च चतुर्भ्यो वा द्वाभ्यां वा दक्षिणां ददेत् ।। १७। ।
भक्ष्यभोज्यानि दानानि गोरत्नानि तथाऽर्पयेत् ।
शयनानि सवस्त्राणि हैमानि कटकानि च ।। १८।।
कणांगुलिपवित्राणि कण्ठहारान् सुवर्णजान् ।
भूषणानि धनं दद्याद् वित्तशाठ्यं न चाऽऽचरेत् ।। १९।।
अन्नदानं प्रकुर्याच्च सुभिक्षवर्षदायकम् ।
साधून् विप्रान् बालबाला भोजयेद् विविधान्नकम् ।।3.134.२०।।
अन्नहीनो दहेद् राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ।
यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ।।२१ ।।
सकामो लक्षहोमाँश्च कृत्वेष्टकाममाप्नुयात् ।
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ।।२२।।
भार्यार्थी शोभनां भार्यां पत्यर्थिनी पतिं प्रियम् ।
भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् ।।२३ ।।
मानं लभते मानार्थी प्राधान्यं लोकवन्दितम् ।
विजयार्थी जयं चापि लभते सार्वकालिकम् ।।२४।।
यं यं प्रार्थयते कामं चैश्वर्यं सिद्धिमित्यपि ।
तं तं लभते यज्ञेन ग्रहाणां समनुग्रहात् ।।२५।।।
निष्कामः कुरुते यज्ञं स परब्रह्म गच्छति ।
तत्र भुंक्ते परान् भोगान् सुखमानन्त्यमश्नुते ।।२६।।
अथ नारायणीश्रि त्वं शृणु यज्ञं ततोधिकम् ।
अस्माच्छतगुणो यज्ञः कोटिहोमः प्रजायते ।।२७।।
आहुतिभिः श्रद्धया च दक्षिणाभिः फलेन च ।
मण्डपे ग्रहदेवानावाहयेदुपदेवताः ।।२८।।
प्रत्युपदेवानावाह्य शुद्धिस्नानादि चाचरेत् ।
कोटिहोमे चतुर्हस्तं चतुरस्रं समन्ततः ।।२९।।
योनिवक्रद्वयोपेतं कुर्यात् कुण्डं त्रिमेखलम् ।
प्रथमा द्व्यङ्गुलोर्ध्वा त्र्यङ्गुलोर्ध्वा तु द्वितीयका ।।3.134.३० ।।
उच्छ्रायविस्तराभ्यां तु तृतीया चतुरंगुला ।
वितस्तिमात्रा योनिश्च षट्सप्तांगुलविस्तृता ।।३१ ।।
कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ।
गजोष्ठसदृशी तद्वदायता छिद्रशोभिता ।।३२।।
अश्वत्थपत्रतुल्याऽऽभाऽऽकृतिरेखादिराजिता ।
वेदी चतुर्वितस्तिः स्याच्चतुरस्रा त्रिवप्रिणी ।।३३।।
वप्रप्रमाणं पूर्वोक्तं वेद्युच्छ्रयोऽपि तद्विधः ।
मण्डपः षोडशहस्तश्चतुर्मुखः सुशोभितः ।।३४।।
मण्डपे पूर्वगद्वारे बह्वृचं स्थापयेद् द्विजम् ।
यजुर्विदं दक्षिणे च पश्चिमे सामवेदिनम् ।।३५।।
उत्तरेऽथर्वविज्ञं च तथाऽष्टौ होमकाऽर्थिनः ।
एवं द्वादश विदुषः पूजयेद् भक्तिसंभृतः ।।३६।।
कुंकुमाऽक्षतभूषाद्यैर्वस्त्रमाल्यानुलेपनैः ।
रात्रिसूक्तं रुद्रसूक्तं पवमानं सुमंगलम् ।। ३७।।
शान्तिपाठं वाचयेत् प्राङ्बह्वृचाननतः पुरा ।
शान्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च ।।३८।।
पाठयेद् दक्षिणविप्राननाद् यजुर्विदो ह्यथ ।
सुपर्णं चापि वैराजमाग्नेयं रुद्रसंहिताम् ।।३९।।
ज्येष्ठं साम तथा शान्तिं पठेद्वै पश्चिमो द्विजः ।
शान्तिं सूक्तं च सौरं च तथा शाकुनकं परम् ।।3.134.४०।।
पौष्टिकं च महाराज्यमुत्तरस्थः पठेद् द्विजः ।
पञ्चभिः सप्तभिश्चात्र होमः कार्यो द्विजोत्तमैः ।।४१ ।।
वसोर्धाराविधानं च दशोत्तरं हि पूर्वतः ।
एवं कृत्वा कोटिहोमान् सर्वान् कामानवाप्नुयात् ।।४२।।
विष्णुपदं व्रजेच्चापि पदमिन्द्रस्य गच्छति ।
वैराजं च पदं लब्ध्वा याति धामाऽक्षरं मम ।।४३।।
अश्वमेधाऽध्वराणां यश्चाष्टादशसहस्रकम् ।
कृत्वा यत्फलमाप्नोति कोटिहोमात् तदश्नुते ।।४४।।
ब्रह्महत्यासहस्राणि भ्रूणहत्याऽर्बुदानि च ।
कोटिहोमाध्वरेणैव नश्यन्ति मम योगतः ।।४५।।
ग्रहयज्ञत्रयं कुर्याद् यस्तु प्रसन्नतां मम ।
इच्छन् सोऽपि व्रजेच्छान्तिं पीडानां मे प्रभावतः ।।४६।।
य इदं शृणुयाद्वापि श्रावयेच्च स्मरेदपि ।
न तस्य ग्रहपीडा स्याद् वर्तमाना तु नश्यति ।।४७।।
ग्रहयज्ञत्रयं गेहे लिखितं यस्य विद्यते ।
न पीडा तत्र बालानां न रोगो न च बन्धनम् ।।४८।।
शृणु लक्ष्मि ग्रहमूर्तीर्यथा कार्याः सुवर्णजाः ।
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।।४९।।
सप्ताश्वः सप्तरज्जुश्च द्विभुजश्च किरीटवान् ।
कुण्डलाढ्यः सपरिधिः सूर्यः कार्यः प्रभान्वितः ।।3.134.५० ।।
श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः ।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ।।५१ ।।
रक्तमाल्याम्बरधरः शक्तिशूलगदादिमान् ।
चतुर्भुजः श्वेतरोमा वरदो मंगलो मतः ।।५२।।
पीतमाल्याम्बरधरः कर्णिकारसमप्रभः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ।।५३।।
बृहस्पतिश्च शुक्रश्च पीतः श्वेतः क्रमात्तथा ।
चतुर्भुजौ दण्डिनौ च साक्षसूत्रकमण्डलू ।।५४।।
इन्द्रनीलप्रभः शूली वरदो गृध्रवाहनः ।
शरधनुष्यधारी च कर्तव्यो वै शनैश्चरः ।।५५।।
नीलसिंहासनस्थश्च राहुः कृष्णप्रभो मतः ।
धूम्रा द्विबाहवः सर्वे गदायुता रुषान्विताः ।।५६।।
गृध्रासनाः केतवः कर्तव्याश्च वरदास्तथा ।
सर्वे किरीटिनः कार्या ऊर्ध्वेऽष्टयुक्शतांगुलाः ।।५७।।
शृणुलक्ष्मि पुरा वैश्यो धनधान्यसमृद्धिमान् ।
लोहांगारइतिनाम्नाऽभवद् देशे तु मालवे ।।५८।।
व्यापारेण महाश्रेष्ठी राज्यकोशाभिरक्षकः ।
देशप्रजाद्रव्यपाता द्रव्यदाताऽभवत्तथा ।।५९।।
यस्याऽभवन् गृहे वाजिगजाश्च वाटिकास्तथा ।
उद्यानानि विचित्राणि भवनानि शुभानि च ।।3.134.६० ।।
स्वर्णसिंहासनान्येव कलशाः स्वर्णराजताः ।
नार्यः सौवर्णभूषाढ्या रत्नहारावलीयुताः ।।६१ ।।
विमानेनाऽर्कतुल्येन विहरन्ति परेऽम्बरे ।
दासा दास्यः शतं यस्य भृत्या लक्षं तु नित्यशः ।।६२।।
कर्मचारा भवन्त्यस्य द्रव्योपार्जनतत्पराः ।
प्रजाराजाऽमात्यवर्गेष्वस्य मानं मतं बहु ।।६३।।
सर्वमासाच्छुभं किन्तु ग्रहा दुष्टा यदाऽस्य तु ।
दुष्टस्थाने शनिश्चान्येऽभवँस्तैः पीडितो ह्ययम् ।।६४।।
रोगी जातो मृतप्रायो लक्ष्मीर्द्रव्याणि भूभृता ।
लुण्ठितानि समग्राणि पुत्राः कारागृहे कृताः ।।६५।।
भवनानि चाग्निदग्धान्येव जानाति वै तदा ।
व्यापाराः सर्व एवैते नष्टप्रायास्तदाऽभवन् ।।६६।।
कलंकेन यशोहानिर्जाताऽस्यापि प्रजास्वपि ।
समन्ततो महाकष्टं समायातं भुनक्ति सः ।।६७।।
अथाऽस्याऽऽसीद् गुरुर्विप्रो महर्षिश्चाऽमृषायनः ।
योगी त्रिकालदर्शी च वेदविद् ग्रहपूजकः ।।६८।।
नारायणस्य भक्तोऽपि व्रतशीलोपशोभितः ।
साधुः सात्त्विकभावाढ्यः सत्यव्रतोऽतिविद्यकः ।।६९।।
लौहांऽगारं निज्यशिष्यं श्रुत्वा कष्टप्रमग्नकम् ।
द्रष्टुं गृहे समायातः कृपया प्रेरितस्तदा ।।3.134.७० ।।
वीक्ष्य शिष्यं कष्टमग्नं नष्टद्रव्यं विना यशः ।
पुत्रदण्डं तथा रोगं दयां परामवाप्तवान् ।।७१ ।।
प्राह लोहांगारकं तं कुरु शान्तिं ग्रहस्य वै ।
गृहशान्त्या ग्रहमखैः कष्टं दूरं गमिष्यति ।।७२।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
भजाऽनन्यमनस्कस्त्वं परं सौख्यमवाप्स्यसि ।।७३।।
इत्युक्तः सोऽपि सहसा भक्तिभावसमन्वितः ।
तथैवेति समगृह्य कारयामास मण्डपम् ।।७४।।
कृष्णाष्टम्यामूर्जमासे कुण्डं चकार शोभनम् ।
ग्रहमूर्तीः कानकीश्च मम मूर्तिं च कानकीम् ।।७५।।
त्वया लक्ष्म्या च सहितां चकाराऽतिप्रशोभनाम् ।
वस्त्राभूषणशृंगाराद्यभिशोभितविग्रहाम् ।।७६।।
अधिदेवान् प्रत्यधिदेवताश्च मण्डपे ततः ।
आसनेष्वावाहयामासाऽर्चयामास वैधतः ।।७७।।
अष्टोत्तरशतविप्रान् वव्रे जपार्थमेव सः ।
कोटिजपान् वेदविद्भिः कारयामास सर्वथा ।।७८।।
पूजान्ते प्रददौ दानं गुप्तं पृथ्व्याः प्रगर्ततः ।
निष्कास्य लक्षसौवर्णमुद्राणां लक्ष्यवर्जितम् ।।७९।।
अप्रकाशं यदासीत्तद् रत्नमाणिक्यहीरकान् ।
ददौ दाने तु विप्रेभ्यो गोगजाऽश्वादिकं तथा ।।3.134.८०।।
नैवेद्यानि यथोक्तानि ददौ पेयानि यानि च ।
देवेभ्यो बलिदानानि सात्त्विकानि ददौ तथा ।।८१ ।।
भोजयामास विप्राँश्च साधून् साध्वीश्च योषितः ।
बालाँश्च बालिकाश्चपि दीनकृपणदुःखिनः ।।८२।।
निराश्रितान् निर्धनाँश्च कंगालाँश्च दरिद्रकान् ।
पुण्यान् पुण्यजनाँश्चापि भोजयामास भावतः ।।८३।।
सर्वं चकार विधिना पूजनं मम तेऽपि च ।
ग्रहशान्त्या यज्ञपुण्यैर्मम ते च प्रसादतः ।।८४।।
लोहांगारस्य देहाद्वै रोगोऽनश्यद् द्रुतं तदा ।
स्वस्थोभवत्ततो राजा दयामग्नोऽभवच्च तम् ।।८५।।
समाहूय ददौ मानं पूर्वतोऽभ्यधिकं बहु ।
महामात्यपदं तस्मै प्रायच्छद् देवलाधिपः ।।८६।।
प्रजाश्चापि नमश्चक्रुर्मानयामासुरादरात् ।
पुत्रान् राजा स्वयं कारागारादमोचयत्तदा ।।८७।।
अथ चौराश्च भग्नाशास्त्रस्ता राज्यभयं गताः ।
चोरितं सर्ममेवाऽपि चिक्षिपुर्निशि चत्वरे ।।८८।।
प्रकाशं प्रजया प्रातर्दृष्टं चास्मै निवेदितम् ।
प्राप्तं सर्व धनं चापि ग्रहशान्त्या तदा रमे ।।८९।।
एवं सा प्राप्य सर्वं तत् कल्पयामास दानकम् ।
स्वर्णं रत्नानि माणिक्यं हीरकान् रूप्यकाणि च ।।3.134.९०।।
वैष्णवं च महायज्ञं समारेभे द्विजातिभिः ।
सर्वं प्रत्यागतं द्रव्यं ददौ स दक्षिणाः शुभाः ।।९१।।
अहं प्रसन्नो ह्यभवं तस्य तस्य गुरोस्तथा ।
ददौ स्वदर्शनं लक्ष्मि त्वया साकं ह्यवभृथे ।।९२।।
वराऽर्थं देशितः सोऽपि वरं वव्रे हि भृत्यताम् ।
मयोक्तं कुरु रम्यं मे मन्दिरं मां च मन्दिरे ।।९३।।
प्रतिष्ठाप्य सदा सेवां भृत्यतां कुरु सर्वथा ।
कृत्वा तूर्णं स एवं वै दास्यं चक्रे कुटुम्बवान् ।।९४।।
आत्मनिवेदितां चक्रे भेजे मां पुरुषोत्तमम् ।
वैष्णवः परमो भूत्वा राजानं देवलाभिधम् ।।९५।।
वैष्णवं प्रचकाराऽपि प्रजाश्च वैष्णवीस्तथा ।
चकार निजयोगेन भक्तिमतीः शुभक्रियाः ।।९६।।
लक्षवर्षं क्षितौ स्थित्वा स्वर्गं भुक्त्वा युगाष्टकम् ।
सत्यलोकं कोटिवर्षं वैराजं तु परार्धकम् ।।९७।।
भुक्त्वा वैकुण्ठमेवापि ययौ मे त्वक्षरं पदम् ।
पूर्वकल्पे महालक्ष्मि कथेयं सम्प्रवर्तिता ।।९८ ।।
अद्य मे वर्तते धाम्नि पार्षदः सकुटुम्बकः ।
एवं ग्रहाध्वरं कृत्वा स्वर्गं मोक्षमवाप्नुयात् ।।९९।।
दुःखनाशे सुखं मोदं प्रमोदं लभतेऽन्वहम् ।
अनिष्टानां विनाशं च स्वेष्टानां लभते स्थितिम् ।।3.134.१ ०० ।।
नित्यं राजन् पूजयेद् यस्तस्य शान्तिर्हि शाश्वती ।
ग्रहपीडा न जायेत यक्षरक्षोभवाऽपि न ।।१ ०१ ।।
चौरकालकृता नापि नापि देवकृतापि च ।
ग्रहे शक्तिप्रदाताऽहं रक्षामि वैष्णवं मम ।।१ ०२।।
श्रवणात्पठनादस्य स्मरणाच्चानुमोदनात् ।
ग्रहशान्तिसमां शान्तिं लभते नाऽत्र संशयः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ग्रहमखे लक्षजपहोमकोटिजपहोमादिविधिः, लोहांगारकवैश्यस्य सर्वस्वनाशोत्तरं ग्रहशान्त्या पुनर्लब्धिरित्यादिनिरूपणनामा चतुस्त्रिंशदधिकशततमोऽध्यायः ।। १३४ ।।