लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १४४

← अध्यायः १४३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १४४
[[लेखकः :|]]
अध्यायः १४५ →

श्रीनारायणीश्रीरुवाच-
युगधर्मा हरे नित्या आहोस्वित् परिवर्तिनः ।
युगेऽन्ये चान्ययुगजा प्रवर्तन्ते न वा वृषाः ।। १ ।।
श्रीपुरुषोत्तम उवाच-
युगधर्मा रमे नित्या युगो धर्मात्मको हि सः ।
किन्तु बलिष्ठपुरुषैर्विवर्त्यन्तेऽन्ययौगिकाः ।। २ ।।
कल्मषाः कलिधर्मा वै विवर्त्यन्ते ऋतंभरैः ।
देहधर्मा विवर्त्यन्ते बलिष्ठैर्योगिभिस्तथा ।। ३ ।।
कालधर्मा विवर्त्यन्ते सतीभिः साध्विकादिभिः ।
दोषधर्मा विवर्त्यन्ते सिद्धैश्च साधुभिस्तथा ।। ४ ।।
देशधर्मा विवर्त्यन्ते समर्थाचार्यपुंगवैः ।
प्रजाधर्मा विवर्त्यन्ते राजभिश्च प्रशासकैः ।। ५ ।।
यतिधर्मा विवर्त्यन्ते चमत्कार्यवतारकैः ।
कन्याधर्मा विवर्त्यन्ते समाजैर्लोकपूजितैः ।। ६ ।।
उत्सवाद्या विवर्त्यन्ते सिद्धवाग्भिर्जनैरिह ।
वर्णधर्मा विवर्त्यन्ते वर्णाग्र्यनीतिवेदिभिः ।। ७ ।।
आश्रयाः परिवर्त्यन्ते त्यागिविदेहिभिर्जनैः ।
मानसानि विवर्त्यन्ते त्वाकर्षणपरैर्जनैः ।। ८ ।।
सत्यधर्मा यत्र सत्यं पुरुषे तत्र सन्ति वै ।
त्रेताधर्मा रजोयुक्तं सत्त्वं यत्र प्रवर्तते ।। ९ ।।
द्वापरस्य रजोयुक्तं तमो मनाक् प्रवर्तते ।
कलेर्धर्मास्तामसा वै तमो यत्र प्रवर्तते ।। 3.144.१ ०।।
सात्त्विके सत्त्वधर्मा वै तामसे कलियोजिताः ।
सत्त्वरजोयुते त्रेतारजस्तमोयुते द्विकः ।। ११ ।।
कृते युगे चतुष्पाद्वै लक्ष्मि धर्मः प्रवर्तते ।
प्राप्यते भगवाँस्तेन धर्मकामार्थमोक्षदः ।। १ २।।
धर्मो हि भगवान् कृष्णः पूजा कृष्णो हि तर्पणम् ।
होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ।।१ ३।।
पादा धर्मस्य चत्वारः सत्यं दानं तपो दया ।
धर्मपाता हरिश्चाऽहं पादाः सत्यादयो मम ।। १४।।
त्रेतायुगे त्रिपाद्धर्मः सत्यदानदयात्मकः ।
यज्ञयागादयः सर्वं त्रेतायामप्यहं रमे ।।१५।।
द्वापरे द्विचरणश्च दानदयात्मकस्त्वहम् ।
कलौ दानं पादमेकं दानात्मकोऽस्म्यहं रमे ।। १ ६।।
सत्ये श्वेतो भवाम्येव त्रेतायां रक्तवर्णवान् ।
द्वापरेऽहं पिशंगश्च कलौ कृष्णो भवाम्यहम् ।। १७।।
सत्त्वं रजस्तम इति वर्तन्ते पुरुषे गुणाः ।
पूरुषनोदितास्तेऽपि परिवर्तन्त आत्मसु ।। १८।।
प्रभूतं तु यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ।।१ ९।।
यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम् ।
तदा त्रेता हृदये वै रजोभूतिर्मतो बहिः ।।3.144.२०।।
यदा लोभस्त्वसन्तोषो मानो दंभश्च मत्सरः ।
काम्यकर्मरतिश्चापि द्वापरं तद्रजस्तमः ।।२१ ।।
यदा सदाऽनृतं निद्रा हिंसा क्लेशश्च तन्द्रिका ।
शोकमोहौ भयं दैन्यं तिष्यस्तदा तमो मतः ।।२२।।
द्वापरे विगते लक्ष्मि जनाः कटुकभाषिणः ।
कामप्रधानभावाश्च देशा दस्युविशेषकाः ।।२३।।
धर्माः पाखण्डपूर्णाश्च प्रजाभक्षा नृपास्तदा ।
शिश्नोदरस्पर्शतृपाः प्रजा भूभृत आर्थिकाः ।।२४।।
अव्रता बटवोऽशौचा विभवश्च कुटुम्बिनः ।
तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः ।।२५।।
महाहारा महातृष्णाः कलौ तु साधवस्तदा ।
त्यजन्ति स्वामिनं भृत्यास्तापसस्त्यजति व्रतम् ।।२६।।
शूद्रास्तु प्रतिगृह्णन्ति वैश्यास्तपःपरायणाः ।
उद्विग्नाश्च जनास्तिष्ये पिशाचसदृशीप्रजाः ।।२७।।
अन्यायभोजका देवातिथिपूजाविवर्जिताः ।
स्त्रीपरास्तु नराः सर्वे पित्र्युदकविवर्जिताः ।।२८ ।।
बहुप्रजाऽल्पभाग्याश्च भवन्त्येव कलौ स्त्रियः ।
शिरःकण्डूयनपरा आज्ञां भिन्दन्ति सर्वथा ।।२९।।
तथा मायामसूयां च वधं चापि तपस्विनाम् ।
साधयन्ति स्वार्थपराः पापेन व्याकुलेन्द्रियाः ।।3.144.३० ।।
कलौ प्रमादको रोगः सततं क्षुद्भयानि च ।
अनावृष्टिभयं घोरं देशानां च विपर्ययः ।।३ १ ।।
अनृतं ब्रुवते लुब्धां दुराचारैर्दुरिष्टकाः ।
सर्वेषां मानवानां तु सम्बन्धाः सर्वजातिषु ।।३२।।
शयनासनभोज्यानि चैककीर्णानि सर्वथा ।
भ्रूणहत्या वीरहत्या साधुहत्या स्थले स्थले ।।३३।।
स्वल्पायुष्येऽपि म्रियन्ते क्रमं विना कुटुम्बिनः ।
अल्पतेजोबलाश्चाप्यनृतप्राया अधार्मिकाः ।।३४।।
राजवृत्तिस्थिताश्चौराः कामाचाराश्च पार्थिवाः ।
एकपत्न्यो न शिष्यन्ति वर्धन्ते चाभिचारिकाः ।।३५।।
काषायिणश्च निःकच्छा वृत्त्यर्थं दैवलिङ्गिनः ।
उपहृत्य परान्नादि साधयन्ति निजार्थकम् ।।३६।।
श्वपचा राज्यकर्तारो विप्रास्तेषां हि सेवकाः ।
सेवन्ते श्वपचान् विप्राः श्रुतभाग्यबलाक्षयाः ।।३७।।
वेदशास्त्रागमधर्मा विघ्नरूपाः कलौ रमे ।
उत्सादिता भवन्त्येव धर्मसंकरताऽत्र वै ।।३८।।
यज्ञा नैव भवन्त्येव विवाहा न तदा कलौ ।
मनःप्रसन्नताहेतुर्दाम्पत्ये स्वेष्टचारिता ।।३९।।
म्लेच्छाचारं प्रजाः सर्वाः कलौ श्रेष्ठं वदन्ति हि ।
चित्रवर्षी तदा देवः सस्यानां चित्रपाकता ।।3.144.४० ।।
सर्वे लोभवणिग्वृत्ताः कपटैविक्रयार्थिनः ।
नाऽव्याहृतक्रूरवाक्यो नाऽऽर्जवी नाऽनसूयकः ।।४१।।
नोपकारी न च प्रत्युपकारी पापके युगे ।
नृपशून्या वसुमती न च धान्यधनावृता ।।४२।।
निन्दकाश्च पतिताश्च कलौ भवन्ति सर्वथा ।
मण्डलानि भवन्त्येव देशेषु नगरेषु च ।।४३।।
राजकार्यकराण्येव धर्मघ्नानि कलौ युगे ।
अल्पोदका चाल्पफला वसुहीना वसुन्धरा ।।४४।।
गोप्तारश्चाप्यगोप्तारो लुण्टकाश्चाप्यशासकाः ।
हर्तारः परवित्तानां परस्त्रीपुत्रयोषिताम् ।।४५।।
साहस्रप्रियदुष्टाशाः प्रनष्टचेतना जनाः ।
मुखे मिष्टा हृदि दुष्टा भवन्ति सुहृदः कलौ ।।४६।।
चौराश्चौरस्वहर्तारो हर्तुर्हर्ता कलौ परः ।
कीटमूषकसर्पाश्च धर्षयन्ति कलौ हि तान् ।।४७।।
बहवश्चैव पन्थानः सम्प्रदायाः कलौ युगे ।
प्रच्छन्नाधर्मभोक्तारो बहिश्चेष्टप्रदर्शिनः ।।४८।।
देवसाधुयतियोगिसाध्वीधनान्नभोगिनः ।
क्षुत्तृप्ता मानवा पुष्टिं कुर्वन्ति कुपथस्य वै ।।४९।।
सत्ये शताब्दिको धर्मस्त्रेतायां वार्षिकः स तु ।
द्वापरे मासिकः सोऽपि कलौ चाह्निक एव सः ।।3.144.५०।।
आह्निकं चापि धर्मं तं जहत्येव कलौ जनाः ।
व्याकुलाश्च परिभ्रान्ताः परस्परभयार्दिताः ।।५१।।
स्वान् प्राणान् परिरक्षन्तो निष्कारुण्याः सुदुखिताः ।
निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः ।।५२।।
उद्यमवर्जिताश्चापि मांसाहारा जनाः कलौ ।
समुद्रतीरवासाश्च मत्स्याहारास्तु सर्वथा ।।५३।।
अनिकेता वल्कलाढ्या भूशय्या मानवास्तदा ।
पशवो मानवा दैवाः पक्षिणो जलचारिणः ।।५४।।
समवृत्ताः प्रायशो वै कलौ सांकर्यभोगिनः ।
अहं नारायणस्तत्र प्रेरयामि निजाश्रितान् ।।५५ ।।
दिव्यदेहान् पार्षदान्मे ऋषिरूपान् हि तापसान् ।
धर्मसंस्थापनार्थाय ते वसन्ति ह्यगोचराः ।।५ ६ ।।
पर्वतेषु शुभाचारा वन्यमूलफलाशिनः ।
युगलानि प्रजायन्ते तेभ्यो धर्ममयानि च ।।५७।।
सर्वैश्वर्यसमर्थानि वेदभक्तियुतानि च ।
ममाऽवतारैर्बहवो हन्यन्ते दुष्टजातयः ।।५८।।
अतिवातातिवृष्ट्याद्यैर्नश्यन्ति चाब्धितीरगाः ।
ततो वनानामृषयो मम पुत्राश्च पार्षदाः ।।५९।।।
प्रवर्तन्ते कार्तवीर्या भूमौ सन्तानकारिणः ।
एवं कृतस्य सन्तानः कलेश्चैव क्षयस्तथा ।।3.144.६०।।
कृतस्य योग्यतायुक्ता जायन्ते पार्षदर्षयः ।
उपभोगसमर्थाश्च दिव्यदेहाः ऋतव्रताः ।।६१ ।।
वैराग्ययोगिनः सर्वे चात्मबोधपरास्तथा ।
सन्तुष्टास्तपआस्थाश्च धर्मिष्ठा भक्तिशीलिनः ।।६२।।
सप्तर्षयस्तदा स्वर्गादागत्यैषु वसन्ति च ।
सत्यं सप्तर्षयो धर्मं कथयन्तीह तेषु च ।।६३।।
तिष्ठन्ति ये कलौ सिद्धा अदृष्टा विहरन्ति च ।
प्रकाशं ते समायान्ति ह्याचार्यास्ते भवन्ति हि ।।६४।।
गुरवो लोकरक्षार्हाः प्रजासु विहरन्ति च ।
योग्यब्रह्ममहावंशोत्थेभ्यो राज्यं ददत्यपि ।।६५६।।
एवं कृतं युगं लक्ष्मि! पुनस्तत्र प्रवर्तते ।
त्वं कलौ क्षीणतां याता सत्ये पुनः प्रवर्धसे ।।६६।।
शुद्धिं त्वं लभसे लक्ष्मि साधुसाध्वीसमागमात् ।
आसुरी यातुधानी च पैशाची यक्षराक्षसी ।।६७।।
तिष्या त्वं सत्यरूपा वै दैवी लक्ष्मीः प्रजायसे ।
युगलानि तदा सत्ये प्रायशो गृहधर्मिणः ।।६८।।
यतितुल्याश्च यतयो ब्रह्मचर्यपरायणाः ।
अकामाश्चातिनिष्कामा आत्मानन्दविहारिणः ।।६९।।
संकल्पमात्रयोगाश्च स्त्रीदृष्टिमात्रयोगिनः ।
मानस्यश्च प्रजाश्चापि पुत्रपौत्रादयः पुनः ।।3.144.७० ।।
साधुसाध्वीस्वरूपास्ते भवन्ति चागते कृते ।
देवाऽसुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ।।७१ ।।
धर्मव्रताः प्रजायन्ते सत्ययुगबलाद्धि ते ।
परिणाहोच्छ्रये तुल्या जायन्ते पूर्ववत्पुनः ।।७२।।
बले योगे तथैश्वर्ये सम्पत्सु च समाधिषु ।
व्योमगतौ जलगतौ जायन्ते पूर्ववत्पुनः ।।७३ ।।
मेधायां च विकासे च भौतिकेषु यथा पुरा ।
तथा कृते प्रजायन्ते मम संकल्पनोदिताः ।।७४।।
पशवः पक्षिणश्चापि धेनवः कामधेनवः ।
तरवः कल्पतरवो वल्लिकाः कल्पवल्लिकाः ।।७५।।
मानवा दिव्यदेहाश्च योषितो दिव्ययोषितः ।
तथा कृते प्रजायन्ते यथा पूर्वे कृतेऽभवन् ।।७६ ।।
किन्तु लक्ष्मि ब्राह्मसंज्ञान्मुहूर्तात् प्रातरूनकम् ।
प्रातःकालात् संगवश्च ततो मध्याह्नकं तथा ।।७७।।
ततोऽपरार्धाऽर्धकालः सायं न्यूनबलं ततः ।
एवं कृता युगाः सर्वे पूर्वपूर्वतरूनकाः ।।७८।।
मनाक्स्वल्पबलाश्चापि मनाक् ह्रासप्रमर्दिताः ।
उत्तरोत्तरह्रासयुक्तास्ततस्तुल्या न सर्वथा ।।७९।।
सृष्ट्यारंभस्थसत्याद्वै परे सत्ययुगास्ततः ।
न्यूनबला भवन्त्येव नादिसत्यसमा हि ते ।।3.144.८०।।
मम योगबलं पूर्णं यत्र तत्रादिसदृशाः ।
मन्न्यूनबलवद्व्यक्तौ न्यूनबलं कृतं युगम् ।।८१ ।।
एवमेव विजानीहि मद्विना निर्बलं जगत् ।
यत्राऽहं तत्र सर्वत्र गार्हस्थ्येऽपि हि साधुता ।। ८२।।
यत्र नाऽहं तत्र लक्ष्मि साधुत्वेऽपि न साधुता ।
यस्मिन् कस्मिन् युगे लक्ष्मि येनाऽहं समुपार्जितः ।।।८३।।
तेनाऽर्जितः सत्ययुगः सर्वं तेनार्जितं प्रियम् ।
लक्ष्मि सन्तः प्रवक्ष्यामि साधूनथ ततश्च वै ।।८४।।
संयुज्य ब्रह्मणा ह्यन्तस्तेन सन्तः प्रचक्षते ।
सन्तं श्रीपरमात्मानं तन्वन्ति ये प्रजासु च ।।८५।।
सन्तस्ते साध्नुवन्ति स्वकार्यं मोक्षात्मकं तथा ।
परेषां मोक्षकार्यं च साधयन्ति ह साधवः ।।८६ ।।
दिव्यानां कर्मणां लक्ष्मि साधनात् साधुरुच्यते ।
ब्रह्मणि चरणाल्लक्ष्मि ब्रह्मचारी स एव सः ।।८७।।
गुरोर्हितः स्वहितकृत् सत्ये हिते सदा रतः ।
साधुर्वै ब्रह्मचारी च हितकृत् साधुसत्तमः ।।८८ ।।
कारणात् साधनाच्चैव गृहस्थः साधुरुच्यते ।
सत्ययुगे गृहस्थास्ते साधुतुल्या हि साधवः ।।८९।।
तापसास्ते तथाऽरण्ये वैखानसा हि साधवः ।
यतमाना यतयश्च साधवो योगसाधनात् ।।3.144.९० ।।
धर्मश्चोच्चगतिः प्रोक्तः कुशलानां प्रदायकः ।
नारायणेन ऋषिणा ब्रह्मणा निर्मितो वृषः ।।९१ ।।
दाराग्निहोत्रपूजादिर्वर्णाश्रमविभागशः ।
सद्भिराचरितस्तस्याच्छिष्टाचारः स उच्यते ।।९२।।।
शिष्टा मे पार्षदाः पुत्राः शिष्या महर्षयस्तथा ।
शिष्यन्ते येऽत्र धर्मार्थं लोकसन्तानकारिणः ।। ९३ ।।
पूर्वैः पूर्वतरैः शिष्टैराचर्यते पुनः पुनः ।
पूर्वैः पूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः ।।९४।।
दानं सत्यं तपो भक्तिर्विद्येज्या पूजनं दमः ।
अष्टैतानि चरित्राणि शिष्टाचारो हि सम्मतः ।।९५।।
ब्रह्मचर्यं तपो मौनं निराहारत्वमित्यपि ।
सेवनं निजपित्रोश्च गुरोराश्रयणं तथा ।।९६।।
षट्कमेतत्साधुधर्मो गृहस्थाः साधवस्ततः ।
मायाप्रवाहमासाद्य नो वहते तरत्यपि ।।९७।।
तारकः साधुरेवाऽयं गृहस्थोऽपि हि सज्जनः ।
शिष्टाचारप्रवृद्धश्च वृषो वै साधुसम्मतः ।।९८।।
कर्मणां मयि न्यासस्तु सन्न्यासः साधुधर्मकः ।
ब्रह्मस्तोत्रं विधिस्तोत्रं गुणस्तोत्रं हरेर्मम ।।९९।।
प्रवर्त्यन्ते पूर्वरीत्या शिष्टैः सद्भिः सुधार्मिकैः ।
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ।।3.144.१ ००।।
सांसिद्धिकानि येषां वै साधवः ऋषयश्च ते ।
ऋषन्ते परमं ब्रह्म ततस्ते ऋषयो मतः ।।१ ०१ ।।
गत्यर्थादृषतेर्धातोः सार्थकत्वं हि साधुषु ।
ईश्वराणां सुता ये च मानसाश्चौरसास्तथा ।। १ ०२।।
ऋषिपुत्राः ऋषीकाश्च ऋषयस्ते तपोधनाः ।
ब्रह्मपुत्रा ब्राह्मणाश्च क्षत्रियाश्च विशस्तथा ।। १०३।।
ऋषिपुत्राः ऋषयस्ते लोकसन्तानहेतवः ।
इत्येवं लक्ष्मि बहुधा सत्यधर्मा हि साधवः ।।१ ०४।।
सत्ये पुनः प्रवर्तन्ते गृहस्था अपि साधवः ।
तेषामाश्रयणान्मोक्षो भुक्तिश्च जायते ध्रुवम् ।।१ ०५।।
पठनाच्छ्रवणाच्चापि स्मरणात् साधुसंगतेः ।
फलं भुक्तिमोक्षरूपं जायते नात्र संशयः ।। १ ०६।।
सर्वेष्वपि युगेष्वेव गुणश्चैको महान् रमे ।
कृष्णस्य मे कीर्तनाद्वै भवेदेव हि मोक्षणम् ।।१ ०७।।
कृते यज्ञे हरिर्लभ्यस्त्रेतायां जपतोऽर्ज्यते ।
द्वापरे सेवया प्राप्यो हरिः कलौ तु कीर्तनात् ।। १ ०८।।
कलिर्दोषनिधिस्तत्र गुणो हरिप्रकीर्तनम् ।
द्वापरोऽर्धदुरितोऽपि गुणवान् मम जन्मतः ।। १ ०९।।
सत्यादौ नाऽतिजन्माऽहं सर्वाः साधुप्रजायतः ।
भवाम्यहं कलौ भूयश्चाऽन्ययुगव्यपेक्षया ।।3.144.१ १ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने युगधर्माणां परिवर्तनविवेचनादिनिरूपणनामा चतुश्चत्वारिंशदधिकशततमोऽध्यायः ।। १४४।।