लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १४५

← अध्यायः १४४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १४५
[[लेखकः :|]]
अध्यायः १४६ →

श्रीनारायणीश्रीरुवाच-
कीर्तनं ते कथं कार्यं वद मे भगवँस्तथा ।
यया प्रह्वीभावनया भवेत्तव प्रसन्नता ।। १ ।।
श्रीपुरुषोत्तम उवाच-
कीर्तनं मे सुस्वरेण मिष्टगर्भेण चाऽऽचरेत् ।
सवाद्येन तथा गतिरीत्या संगीतकेन च ।। २ ।।
तालीतालेन च नृत्येनापि किंकिणिकादिभिः ।
अनेकरागरागिण्यादिभिर्मां कीर्तयेद् रमे ।। ३ ।।
गान्धर्वं ते प्रवक्ष्यामि याथातथ्येन संशृणु ।
सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।। ४ ।।
तानाश्चैकोनपञ्चाशदित्येतत् स्वरमण्डलम् ।
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।। ५ ।।
धैवतश्च निषादश्च स्वरास्ते सप्तकीर्तिताः ।
सौवीरा मध्यमा हरिणाश्च ग्रामास्त्रयो हि ते ।। ६ ।।
मूर्छनास्ते वदाम्यत्र दिव्या मूर्छाविधायिकाः ।
हयमेधा ह्रेषिणी वै प्रथमा परिकीर्तिता ।। ७ ।।
अग्निष्टोमा तु चाग्नेयी द्वितीया परिकीर्तिता ।
वाजपेया तृतीया तु श्येनी सा परिकीर्तिता ।। ८ ।।
राजसूया राणिका सा चतुर्थी परिकीर्तिता ।
यवराता वंशिनी सा पञ्चमी परिकीर्तिता ।। ९ ।।
जातरौपी सुवर्णी सा षष्ठी मूर्छा प्रकीर्तिता ।
गोसवना रांभणी सा सप्तमी मूर्छना मता ।।3.145.१ ० ।।
झंझावाती वर्षिणी साऽष्टमी वै मूर्छना मता ।
ब्रह्मदाना गर्जिनी सा नवमी मूर्छना मता ।। ११ ।।
प्राजापत्या लालिनी सा दशमी मूर्छना मता ।
दागयाक्षी तु क्षौती सैकदशी मूर्छना मता ।। १२ ।।
पानक्रान्ता भषिणी तु द्वादशी मूर्छना हि सा ।
मृगाक्रान्ता चित्करी सा त्रयोदशी हि मूर्छना ।।१ ३ ।।
विष्णुक्रान्ता धारिणी सा चतुर्दशी हि मूर्छना ।
सन्तकोकिलिका चोन्मादिनी पञ्चदशी तु सा ।।१४।।
सूर्यक्रान्ता कालरोहिणिका षोडशी चैव सा ।
सर्वतोभद्रिका मोदमादिनी साप्तदाशिकी ।।१५।।
पूर्वभद्रा बालकण्ठी चाष्टादशी हि मूर्छना ।
आलम्बुषी हांसिनी सा नवदशी हि मूर्छना ।।१६।।
सागरा विजया कोकिलिकी विशा मनोहरा ।
नारदी मानवी चेति मूर्छनाश्चैकविंशिकी ।। १७।।
अन्याश्चापि भवन्त्येव गौण्यो वै मूर्छनाः प्रिये ।
मानव्यश्चापि पाक्षिण्यः पाक्षव्यश्चाप्यनेकशः ।।१८ ।।
सर्वास्ताः शारदा वेत्ति सरस्वती च भारती ।
ब्राह्म्यो गाण्यश्च पर्यश्चाप्सर्यो मायूरकीविधाः ।।१९ ।।
याक्ष्यः कैन्नर्यश्च हांस्यो नागिन्यश्चापि वाडवाः ।
पैत्र्यो दैव्यस्तथा क्षौत्यस्ताडिन्यो भौंकिनीविधाः ।।3.145.२०।।।
मैनाक्यः पैक्य एवापि शौक्यः किलायिकास्तथा ।
एता यथायथं बुद्ध्वा गायिका गीतिमाचरेत् ।।।१ ।।
ह्रस्वं दीर्घं प्लुतं ज्ञात्वा स्वरं गाने प्रयोजयेत् ।
अथ तानान् प्रयुञ्जीत प्रवाहे सततं मुहुः ।।२२।।
तानाः स्तरा इति प्रोक्ताः प्रवाहे क्षणयोगिनः ।
विभिद्यन्ते क्षणभेदात् स्फोटतानानुयायिनः ।।२३।।
ब्रह्मतानः प्रथमस्तु गर्भतानो द्वितीयकः ।
व्यज्यः सञ्चरणोऽणुश्च योगश्चारोहणस्तथा ।।२४।।
तनुः पुष्टो विशालश्च विकासः स्तनपस्तथा ।
कुमारो वामनश्चापि द्विस्तरो विकृतस्तथा ।।२५।।
दृढो दुग्धः कलापश्चाऽऽवर्त्तकश्च तरंगकः ।
निम्नः समश्चोर्ध्वकश्च तिर्यक् तथैव कातरः ।।२६।।
कलितश्चाग्रितश्चैषितश्च तप्तस्तु त्रिंशकः ।
शृंगी च तोरणी स्तंभी मुष्णको लीन इत्यपि ।।२७।।
उद्भवश्चांकुरकश्च ग्रन्थिकः शाखिकस्तथा ।
बहुमूलश्च हस्तश्च वर्तुलश्चोच्छ्रयस्तथा ।।२८।।
शृंगो गुरुश्चावरोहो वेगः स्थितिर्घटोदरः ।
एते तानास्तव प्रोक्ता गौणान् तानांस्तथा शृणु ।।२९।।
स्कन्दः काकुः पुष्कलश्च रोपः सन्तारकस्तथा ।
तरणिः संगमश्चाति विगमः क्षेपणो मृधः ।। 3.145.३०।।
प्रोक्षणो मिश्रणश्चापि गलिकः कर्तनस्तथा ।
उल्लेखश्च रयश्चापि षोडशः सप्रकीर्तितः ।।३१।।
उच्चरः शशविन्यासो लक्षधारस्तु विंशकः ।
सहासवः सहयानो निम्नयानस्तथोर्ध्वगः ।।३२।।
गर्भयानः पर्ययश्च विपर्ययोऽभिसञ्चरः ।
सेतुबन्धो धारबन्धस्त्रिंशोऽयं परिकीर्तितः ।।३३।।
अगः सुप्तो मूर्छितश्च कम्पः कूर्दन इत्कृतः ।
अकृतः संहृतश्चापि जीवनश्च विदेहकः ।।३४।।
उत्तारकस्तालवासो द्विचत्वारिंशको मतः ।
पिण्डकः कीर्णको युक्तो भंगी लहरनामकः ।।३५।।
समवायोऽनुवायश्चेत्येवं ताना गुणात्मकाः ।
अथाऽन्ये तारताराद्यास्तारतमादयस्तथा ।।३६।।
विद्यन्ते तानसन्ताना शंसरोदनहर्षणा ।
विभिन्नभावुका लक्ष्मि तान् ज्ञात्वा कीर्तयेत्ततः ।।३७।।
स्थानयत्नान् प्रकुर्वीत श्वासक्रमानुच्चावचान् ।
हावभावानुगाँश्चापि देहचेष्टायुताँस्तथा ।।३८।।
अंगचेष्टायुताँश्चापि प्रत्यंगकर्मयोजितान् ।
आन्तरज्ञानस्फुर्त्त्यादिप्रयुक्तान् कीर्तयेद् रमे ।।३९।।
नामान्येतानि भिद्यन्ते कल्पे कल्पे चतुर्युगे ।
जानाम्येतानि सर्वाणि तत्त्वरूपाऽभिधानकैः ।।3.145.४०।।
पुरा श्रीनारदो योगी गीत्यर्थं मामुपागतः ।
श्रुतं सर्वं मया तस्य किन्तु न्यूनांगकं हि तत् ।।४१ ।।
मया तदोपदिष्टः स शिक्षणार्थं पुनः पुनः ।
तव शिष्योऽभवल्लक्ष्मि भवत्या शिक्षितश्चिरम् ।।४२।।
सर्वांगोपांगसम्पूर्णं चागायत पुरो मम ।
भवत्याः सन्निधौ लक्ष्मि ब्रह्मप्रियासभान्तरे ।।४३।।
कोट्यर्बुदाऽब्जनारीणां गर्वहरोऽभवद्धि सः ।
प्रसन्नेन मया निभालितः श्रीनारदो मुनिः ।।४४।।
मम गायकरूपश्च मया नैजीकृतस्ततः ।
वेत्सि त्वं सर्वमेवैतद् यतो नारायणी ह्यसि ।।४५।।
शारदाऽपि तदा वाणी श्रुत्वा नारदगायनम् ।
क्षणं स्तब्धाऽभवत्तत्र का कथा चान्ययोषिताम् ।।४६।।
धूनयामास बहुधा मस्तकं रसवेदिनी ।
सरस्वत्यः समग्राश्चाऽभवन् प्रमोहिताः क्षणम् ।।४७।।
प्रशंसाऽभूद्गुरोस्तत्र लक्ष्म्यास्ते बहुधा खलु ।
नारदाय मया तत्रार्पितं सत्पारितोषिकम् ।।४८।।
चिन्तामणिस्तथा हारश्चक्रं सुदर्शनं मम ।
शक्तिर्मयाऽर्पिता दिव्या ममैश्वर्यविशेषिणी ।।४९।।
ततः श्रीनारदो जातश्चावतारोंऽशरूपकः ।
नारायणो नारदो वै कृपया नावजायत ।।3.145.५०।।
सभायां नारदश्चापि प्रशशंस कृपां तव ।
यया प्रशिक्षिता विद्या तां त्वां शशंस सर्वथा ।।५१ ।।
तत आरभ्य पत्न्यो मे गीतिरीतिः पुनः पुनः ।
समभ्यसन् सकाशात्तेऽप्सरसश्चापि पद्मजे ।।५२।।
प्रावर्तत ततो विद्या संसारे बहुधा प्रिये ।
शंकरो वैष्णवो भूत्वा सकाशात्तेऽविदत् कलाम् ।।५३।।
कीर्तनस्य ततो नृत्यं चकार गीतिशोभितम् ।
प्रसन्नेन मया तस्मै दत्तं योगविभूषणम् ।।५४।।
स्मर लक्ष्मि पुरा सर्वं भवत्या यत् प्रविद्यते ।
इत्युक्ता च प्रसस्मार सर्वं ददर्श चात्मनि ।।५५।।
संगीतशालां महतीं सहस्रयोजनायताम् ।
श्रीपुरे चैश्वरे धाम्नि भिन्नकक्षासहस्रिकाम् ।।५६।।
ददर्श तत्र चात्मानं सहस्ररूपधारिणीम् ।
शिक्षिकां शिक्षणारूढाम् वाद्यसंगीतकारिणीम् ।।५७।।
शिक्ष्यन्ते तत्र गोप्यश्च पार्षदान्यश्च मुक्तयः ।
ब्रह्मप्रियास्तथेशान्यश्चेश्वराण्यश्च कन्यकाः ।।५८।।
आलापाँस्ताः प्रकुर्वन्त्यः शिक्ष्यन्ते चाप्सरोगणाः ।
देव्यश्च सिद्धयश्चापि योगिन्यः शारदागणाः ।।५९।।
गायत्र्यश्चापि सावित्र्यो ब्राह्म्यश्च देवकन्यकाः ।
गन्धर्व्यश्चापि यक्षाण्यः किन्नर्यश्च परीगणाः ।।3.145.६०।।
शिष्यन्ते धनदानार्थो भक्तान्यः कश्यपात्मजाः ।
गन्धर्वास्तत्र शिक्ष्यन्ते बहवः पूर्वसृष्टिजाः ।।६ १ ।।
दैत्यकुमारिकाश्चापि दानव्योऽसुरपुत्रिकाः ।
मानव्यश्चार्ष्य आकल्पजीविन्यश्चापि कन्यकाः ।।६२।।
शिक्ष्यन्ते गीतशालायां शिक्षिकां च निजामपि ।
नागकन्याः समस्ताश्च ददर्श शिक्षणार्थिनीः ।।६३ ।।
एवं विलोक्य सहसा दिव्यविद्यालयान् स्वयम् ।
महाश्चर्यं गता तत्र पूजिता सर्वदैवतैः ।।६४।।
सर्वासां गोरवीस्थाने स्थितां स्वां कृतकारिणीम् ।
अमन्यताऽतिमानार्हां महिमानं विवेद च ।।६५।।
तत्र पतिं तु मां कृष्णं गायन्तं गीतिकामपि ।
अनादिश्रीकृष्णनारायणं वीक्ष्य प्रभुं निजम् ।।६६।।
उत्थाय पादयोर्लक्ष्मीः पतिता व्याजहार ह ।
नमस्ते भगवन् कृष्ण स्वांऽगनानुग्रहान्वित ।।६७।।
कृपासिन्धो हरे कान्त दर्शितं मेऽतिगौरवम् ।
पश्यामि सर्वमेवैतत् कृपया ते जनार्दन ।।६८।।
श्रीपुरेऽस्मि शिक्षिका वै संगीतगीतिकारिणी ।
या या नार्यो नरा लोके गन्धर्वा देवयोषितः ।।६९।।
शारदाश्च सरस्वत्यः शिष्या मे सन्ति ते खलु ।
शिक्षन्ते कोटिशो मत्तः सर्वाः संगीतमन्दिरे ।।3.145.७० ।।
मत्स्वरूपात् प्रभवन्ति स्वरा ग्रामाश्च मूर्छनाः ।
ब्रह्मण्येव विलीयन्ते यथाऽहं हृदये स्थिता ।।७१ ।।
एतत् सर्वं मयि चास्ते गीतीच्छा वर्तते मम ।
यद्याज्ञा गायनं सर्वांगोपांगादिसमन्वितम् ।।।७२।।
कर्तुमिच्छामि सर्वाभिः सखीभिः परमेश्वर ।
इत्युक्तः श्रीपतिश्चाहं कमलेऽकरणं शुभम् ।।७३।।
मण्डपं सुविशालं चासनानि चाप्ययोजयम् ।
वादित्राणि समाहृत्याऽस्थापयं मण्डपे शुभे ।।७४।।
लक्ष्म्याद्याश्च भवत्यो वै सर्वा ब्रह्मप्रियाः शुभाः ।
आययुर्मण्डपे तत्र यथावत्स्थानमास्थिताः ।।७५।।
चक्रुः संगीतकं लक्ष्मि प्रसन्नोऽहं ततोऽभवम् ।
वरदानं ददौ चापि भूतले तु पुनः पुनः ।।७६।।
करिष्यथ सुसंगीतं मम पत्न्यो भविष्यथ ।
इतिसत्येन कमले चाश्वपट्टसरोवरे ।।७७।।
ब्रह्मप्रियाः समस्ताश्च हरिप्रियास्तथा स्त्रियाः ।
कुंकुमवापिकाक्षेत्रे भवत्य सन्ति मत्प्रियाः ।।७८।।
इत्येवं जायमानायां वार्तायां दिव्यदर्शने ।
तिरोभवत्तदा सर्वं व्यदृश्यताऽश्वसारसम् ।।७९।।
कुंकुमवापिकाक्षेत्रं मन्दिरं कानकं निजम् ।
यथास्थितां मन्दिरे तां स्वां सखीः कान्तमित्यपि ।।3.145.८ ०।।
विलोक्य मुमुदे लक्ष्मीर्महाश्चर्यपराऽभवत् ।
हर्षपूर्णा समुत्थाय श्रीकृष्णं पुरुषोत्तमम् ।।८१।।
आश्लिष्य संगीतिकां च प्रचकार मुदान्विता ।
विरराम ततो लक्ष्मीर्नारायणो हरिस्तदा ।।८२।।
जलं पातुं समीयेष लक्ष्मीर्जलं ददौ ततः ।
माणिक्याश्रीः सुमिष्टान्नं चक्रे सूपौदनं तथा ।।८३।।
बुभुजे श्रीहरिः कृष्णो नारायणी जलं ददौ ।
पद्मावती ददौ ताम्बूलकं प्रज्ञा च नक्तकम् ।।८४।।
विरराम प्रभुः कृष्णः पर्यंके स्वर्णनिर्मिते ।
पादसंवाहनं चक्रे लक्ष्मीः पद्मावती तथा ।।८५।।
प्रज्ञा च माणिकी देहसंवाहनं प्रचक्रतुः ।
अन्या ब्रह्मप्रियाश्चापि स्वस्वगृहे हरिं पतिम् ।।८६।।
तथैव सेवयामासुर्हरिर्विश्रान्तिमाप ह ।
ततः सर्वा जगृहुश्च प्रसादभोजनानि वै ।।८७।।
जलपानानि चक्रुश्च मध्याह्ने मोदमुत्तमम् ।
प्रापुः पतिकृपालेशं गृहकार्याणि चक्रिरे ।।८८।।
इत्येवं शिवराज्ञीश्रि! पूर्ववृत्तं मया तु ते ।
कथितं सर्वमेवाऽत्र गीतवाद्यादियोगजम् ।।८९।।
पठनाच्छ्रवणाच्चास्य स्मरणात् कीर्तनादपि ।
भुक्तिं मुक्तिं प्रलभेत सर्वानन्दभृतो भवेत् ।।3.145.९०।।
कीर्तनं ये करिष्यन्ति स्मृत्वा मां त्वां हरिप्रियाः ।
ब्रह्मप्रियास्तथा लक्ष्मि! तरिष्यन्ति न संशयः ।।९१।।
देहं कृत्वा वियुक्तं वै ज्ञानेन मायिकं तु यः ।
इन्द्रियाणि पृथक्कृत्वा कृत्वा दिव्यनवानि च ।।९२।।
आन्तरीं भावनां दिव्यां कृत्वा दग्ध्वा च वासनाम् ।
प्रणवाऽन्वितसंगीतं मम दिव्यचरित्रकम् ।।९३।।
आत्मना ब्रह्मरूपेण यः करिष्यति मानवः ।
देवो दैत्योऽथवा यक्षो राक्षसोऽसुर एव वा ।।९४।।
सर्पः पशुः पतत्री च किन्नरो गुह्यकोऽपि वा ।
हुत्वाऽऽत्मानं चिदानन्दे मयि योगं विधाय च ।।९५।।
नामकीर्तिं मम लक्ष्मि करिष्यन्ति तु येऽपरे ।
ते सर्वे मम भक्त्यैव लप्स्यन्ते परमं पदम् ।।९६।।
मम मूर्तेः स्मरणेन कृतं कीर्तनमल्पकम् ।
दिव्यं प्रजायते लक्ष्मि मोक्षदं पापनाशकम् ।।९७।।
सर्वात्मना मया चैकीभूय कुर्याद्धि कीर्तनम् ।
सफलं तद् भवेदेव पूर्णानन्दप्रदायकम् ।।९८।।
तीव्रवेगवतां तीव्रफलदं कीर्तनं मम ।
नृत्याम्यहं तदा लक्ष्मि यदा नृत्यन्ति गायिकाः ।।९९।।
गान्धर्वैः सह गायामि न मां पश्यन्ति चर्मिणः ।
प्रमोदं मम भक्तानां वर्धयाम्यर्जयामि च ।।3.145.१ ०० ।।
स्नेहं प्रवर्ध्य तानन्ते नयामि चाऽक्षरं पदम् ।
प्रसह्य ते समायान्ति न मां त्यजन्ति कामदम् ।।१ ०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संकीर्तने संगीतिकास्वरग्राममूर्छनोद्देशो लक्ष्म्याः संगीतशालादिव्यदर्शनं चेत्यादिनिरूपणनामा पञ्चचत्वारिंश-
दधिकशततमोऽध्यायः।। १४५ ।।