लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ००८

← अध्यायः ७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →

श्रीबद्रीश्वर्युवाच-
कोऽसौ विप्रोऽभवत् तत्र तापसो बदरीस्थले ।
यस्मै कन्या च बदरं ददौ ब्रूहि हरे कथाम् ।। १ ।।
श्रीनरनारायण उवाच-
ब्रह्मदेवोऽभवद्विप्रो लूनीग्रामनिवासकृत् ।
सौराष्ट्रे वेदवेदांगप्रवीणो मखकर्मठः ।। २ ।।
प्रातः स्नात्वा पूजयित्वा कृष्णं दैवतपञ्चकम् ।
भिक्षार्थं स प्रयात्येव ग्रामवसतिसद्गृहम् ।। ३ ।।
अलं प्राप्योदरपूर्णं निवर्तते गृहं निजम् ।
अप्राप्य पूर्णं वसतिगृहांगणानि यात्यपि ।। ४ ।।
अलं लब्ध्वा गृहं याति पाचयित्वा स्त्रिया सह ।
नाम्ना तु विशदाक्ष्या ३ भुंक्ते देवार्पणोत्तरम् ।।।५ ।।
इत्येवं वर्तमानस्य गतं वर्षसहस्रकम् ।
व्यजायत न चापत्यं पत्नी शोकातुराऽभवत् ।। ६ ।।
अनपत्यस्य लोका न भवन्ति सुखदायिनः ।
उद्धारोऽपि भवेन्नैव ऋणानुबन्धिनस्तथा ।। ७ ।।
अपि मूर्खोऽपि वंशीयः समुद्धरति पूर्वजान् ।
अपुत्रस्य गतिर्नास्ति वन्ध्याया नहि मोक्षणम् ।। ८ ।।
तस्मात् प्रयतितव्यं वै पुत्रार्थं तपआदिभिः ।
विचार्येत्थं पतिं प्राह विशदाक्षी प्रतापिनी ।। ९ ।।
गतं वर्षसहस्रं वै पुत्रो नास्ति हि मानसः ।
न गर्भजो नांऽकजश्च न दत्तो न च रक्षितः ।। 4.8.१ ०।।
विना पुत्रं गतिर्नास्ति चैषितव्यः सुतस्ततः ।
सर्वेभ्यः खलु पुत्रेभ्यो गरीयान् गर्भजः सुतः ।। १ १।।
औरसो गुणसम्पन्नः पित्रोश्च प्रतिबिम्बकः ।
उत्पादनीयश्चावाभ्यां पुत्रो गर्भज उत्तमः ।। १२।।
देहि गर्भं हरिं ध्यात्वा कृतकृत्या भवामि यत् ।
श्रुत्वैवं प्रमदावाक्यं विप्रः प्राह न मे सुतः ।। १३।।
ललाटे लिखितश्चास्ति न ते पुत्रो भविष्यति ।
स्थेयं तस्मादपुत्राभ्यामावाभ्यां भवसागरे ।। १४।।
श्रुत्वैवं प्रमदा प्राह भाग्यं तपसा वर्धते ।
पुत्रेच्छया तपः कार्यं भवता वा मया त्विह ।। १५।।
अपुत्रयोर्मरणं वै नरकाय भवेदिति ।
ऋणानि त्रीण्यपाकृत्य मोक्षे चित्तं निवेशयेत् ।। १६।।
असाध्यं नास्ति विप्रस्य तपस्विनो विशेषतः ।
तस्मात्तपः परं कार्यं पुत्रार्थं कान्त सर्वथा ।। १७।।
इत्युक्त्वा विररामेयं विप्रश्चिन्तां चकार ह ।
पत्न्या वाक्यं यथार्थं वै नाऽनपत्यस्य सद्गतिः ।। १८।।
संकल्पपूरकं क्षेत्रं दिव्यं बदरिकाश्रमम् ।
गन्तव्यं तत्र यात्रार्थं पुत्रार्थं तपसेऽपि च ।। १९।।
पुत्रप्राप्तिर्भवेद्वा न मोक्षसिद्धिर्भविष्यति ।
तस्मादुभयसिद्ध्यर्थं गन्तव्यं बदरीवनम् ।।4.8.२०।।
निर्णीयेत्थं स्त्रिया साकं ययौ बदरिकाश्रमम् ।
तीर्थविधिं विधायैव कृत्वाऽऽसनं प्रकाशके ।।२१ ।।
तपस्तेपे भूसुरोऽसौ पत्न्या साकमहर्निशम् ।
मासं चक्रे फलाहारं बदरस्यैव केवलम् ।।२२।।
मासं तस्थौ निराहारं हिमानिलकृताशनः ।
मासद्वयान्ते बदरीं स्मृत्वा स्तोत्रं चकार ह ।।२३।।
 'नारायणी सती साध्वी माणिकी श्रीः रमा रतिः ।
हरिणी कमला लक्ष्मीः सदा जयतु माधवी ।।२४।।
मूलिनी पत्त्रिणी देवी शाखावती हिमालया ।
बदराढ्या नरबीजा सदा जयतु माधवी ।।२५।।
शूलांकुशधरा साध्वी ब्राह्मणी बालयोगिनी ।
सर्वर्षिदेववासा श्रीः सदा जयतु माधवी ।।२६।।
कार्ष्णी कृष्णप्रिया शीता हेमानलनिवारिणी ।
हर्यंगना ब्रह्मशीला सदा जयतु माधवी ।।२७।।
सत्त्वमयी बालकृष्णस्वरूपा पुरुषोत्तमी ।
प्रज्ञाऽनादिकृष्णनारायणी जयतु माधवी ।।२८।।
पार्वती ब्रह्ममुक्तादिजगन्माताऽवतारिणी ।
श्रीकृष्णे वल्लभा गोप्त्री सदा जयतु माधवी ।।२९।।
चमत्कारस्थिता देवी तापसी परमेश्वरी ।
भक्तेच्छापूरिका चान्द्री सदा जयतु माधवी ।।4.8.३०।।
एवं स्तुत्वा नमः कृत्वोपारराम स भूसुरः ।
विशदाक्षौ ततो गत्वा पुपूज बदरीश्वरीम् ।।३ १।।
जलं तथाऽक्षतान् पुष्पाण्युत्तमानि च शर्कराः ।
धूपं दीपं चन्दनं च कुंकुमं च तथाऽम्बरम् ।।३२।।
समर्प्य बद्रिकादेव्यै नीराजनं समाचरत्। ।
अपराधक्षमां चापि ययाचे विशदाक्षिका ।।३३।।
ततश्चाकाशवाक् तत्र बदर्यूर्ध्वं मनोहरा ।
अश्रूयत विशदाक्षि बदरीव्रतमाचर ।।३४।।
 'नित्यं प्रातर्बदर्यास्तु मूले सेचय वारि तु ।
बदर्यधःशयनं च बदर्यधो निजासनम् ।।३५।।
बद्रीपत्रप्रपूतं च बदरीफलभोजनम् ।
बद्रीछायां समासाद्य मासमेकं निवासनम् ।।३६।।
बदरीरससम्मिश्रवारिस्नानं तथोत्तमम् ।
बदरीफलमालायाः कण्ठे नित्यं प्रधारणम् ।।३७।।
प्रकोष्ठे बदरीपत्रफलमालावधारणम् ।
कट्यां बदरीपत्राणां मेखलायाः प्रधारणम् ।।३८।।
बदरीपुष्पगन्धस्य मञ्जर्या ग्रहणं तथा ।
धम्मिले बदरीपुष्पमञ्जर्या धारणं तथा ।। ३९।।
सायमाराधनं बद्रीप्रमायाः स्तोत्रकीर्तनम् ।
बद्रीभूमेर्मार्जनं च बद्रीगुन्द्रस्य भक्षणम् ।।4.8.४०।।
बद्रीत्वक्चूर्णयुक्तस्य जलस्य पानमित्यपि ।
मासान्ते बदरीबीजांऽकुररोपणमित्यपि ।।४१।।
उद्यापनं पूजनं च बदराणां प्रदानकम् ।
यथाशक्तिस्वर्णरूप्यभूषारत्नप्रदानकम् ।।४ २।।
अन्नवस्त्रादिदानं च स्मृद्धिराज्यप्रदानकम् ।
यथा वैभवदानं च पूजनं च विसर्जनम् ।।४३।।
साधूनां भोजनं चापि साध्वीनां भोजनं तथा ।
कन्यानां भोजनं चापि कुमाराणां च भोजनम् ।।४४।।
वधूनां भोजनं चापि गर्भिणीनां च भोजनम् ।
शाटिकां घर्घरीं चोलीं कुचलीं स्तनबन्धिनीम् ।।४५।।
दद्याद् दाने प्रमदाभ्यो मम प्रसादकारिणीम् ।
धनं तु दक्षिणां दद्यात् परिहारं ततश्चरेत् ।।४६।।
एवं मासव्रतं कुर्यात्तस्याः पुत्रो भवेदिति ।
पुत्री चापि मया तुल्या भवेन्नास्त्यत्र संशयः ।।४७।।
श्रुत्वैवं व्योमवाणी सा मासं श्रीबदरीव्रतम् ।
प्रचकार यथाप्रोक्तं विप्रोऽपि तप आचरत् ।।४८।।
व्रतान्ते बदरीदेवी प्रसन्ना माणिकीरमा ।
कन्यारूपा स्वयं भूत्वा निर्जगाम द्रुमान्तरात् ।।४९।।
बदरं सा करे धृत्वा ददौ तद् विप्रयोषिते ।
विशदाक्षी फलं नेमे नेमे तां बदरीश्वरीम् ।।4.8.५०।।
पतये फललाभार्थं सा चेयेष हृदन्तरे ।
बदरी सहसा भावं ज्ञात्वा विप्राय तद् ददौ ।।५१।।
प्रथमं बदरं दिव्यं सबीजं पुत्रदायकम् ।
द्वितीयं बदरं चास्यै ब्राह्मण्यै सा ततो ददौ ।।५२।।
उवाच बदरीदेवी विप्रं भुंक्ष्व सबीजकम् ।
पुत्रवान् त्वं यथाकालं पत्नीद्वारा भविष्यसि ।।५३।।
विशदाक्षीं ततः प्राह पुत्रस्तेऽपि ततः परम् ।
स्नुषासंकल्पमात्रेण पुत्रिकावान् भविष्यति ।।५४।।
पुत्रिका सा मानसीति चाकस्माद् बालयोगिनि ।
मत्समा श्रीहरेर्भक्ता नारायणी भविष्यति ।।५५।।
द्वितीयं बदरं तस्माद् रक्ष स्नुषार्थमव्ययम् ।
प्रसन्नाऽस्मि भव ब्राह्मि वंशविस्तारयोगिनी ।।।५६।।
पौत्रीवंशो गानसस्ते बादराख्यो भविष्यति ।
इत्याशीर्वादमेवैतां ब्राह्मणीं ब्राह्मणं तथा ।।५७।।।
दत्वा तिरोऽभवद् बद्रीनारायणी नरेश्वरी ।
कृतकृत्योऽभवद् विप्रो विप्राणी पूर्णमानसा ।।५८।।
नारायणं बदरीशं बद्रीं प्रपूज्य भावतः ।
उद्यापनं समस्तं च यथाशक्ति विधाय च ।।५९।।
यात्रां पूर्णां संविधाय तपःपूर्णं विधाय च ।
ऋषीन्देवान्प्रपूज्याऽपि गंगां विगाह्य वै ततः ।।4.8.६०।।
शनैर्नत्वा हरिं स्मृत्वा न्यवर्ततामुभावपि ।
ऋषीकेशं हरिद्वारं पुष्करं सिद्धपत्तनम् ।।६१।।
कृत्वा तीर्थानि तौ मासचतुष्टयोत्तरं मुदा ।
सौराष्ट्रे त्वाययतुश्च क्षेत्रं कुंकुमवापिकाम् ।।६२।।
तीर्थविधिं विधायाऽपि दृष्ट्वा श्रीलोमशं मुनिम् ।
अनादिश्रीकृष्णनारायणं प्रपूज्य तावुभौ ।।६३।।
प्रापतुः स्वगृहं लूनीग्रामं प्रसन्नमानसौ ।
पूजाभिः पूजितौ वासं चक्रुतुर्गृहधर्मिणौ ।।६४।।
विशदाक्षी बभूवाऽपि पत्युर्दौर्हृदलक्षणा ।
सुषुवे सा सुसमये कुमारं शुभलक्षणम् ।।६५।।
ददौ दानानि विप्रश्च जातकर्मादि चाचरत् ।
विशदाक्षी पुत्रवतीगणनां प्रजगाम ह ।।६६।।
बद्रीपार्वीरमादेव्याः कृपयाऽपत्ययोगिनी ।
जाता सौभाग्यसम्पन्ना सफला गृहधर्मिणी ।।६७।।
अथ काले प्रयाते च सुतो यदा युवाऽभवत् ।
नाम्ना निकामदेवेति ख्यातिं प्राप प्रजास्वपि ।।६८।।
विवाहितः स पित्राऽपि धूनीग्रामे शुभालये ।
गिरीश्वरस्य विप्रस्य सुतां सुरेश्वरीं सतीम् ।।६९।।
कन्यां विवाहविधिना जग्राह स तु मण्डपे ।
साऽपि महेन्द्रतुल्यं वै बदर्यनुग्रहोद्भवम् ।।।4.8.७०।।
पतिं त्वासाद्य मुमुदे निकामदेवनामकम् ।
निकामदेवमाताऽपि स्नुषायै बदरं फलम् ।।७१।।
रक्षितं चिरकालेन सोपाख्यानं ददौ मुदा ।
सुरेश्वरी स्नुषा भुक्त्वा फलं बदरीदैवतम् ।।७२।।।
दिव्यज्ञानवती जाता सत्यसंकल्पशालिनी ।
यत्तत् सुरेश्वरी पत्नी कल्पयत्येव मानसे ।।७३।।
तत्तत् सर्वं भवत्येव यथा लक्ष्मीः सरस्वती ।
एवं ते बद्रिके प्रोक्तं सुरेश्वरीकथानकम् ।।७४।।
अथाऽग्रेऽपि कथयामि कथां ते बालयोगिनि ।
त्वमेव बदरी जाता पुत्रिका बालयोगिनी ।।७५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने लूनीग्रामस्य ब्रह्मदेवविप्रस्याऽनपत्यस्य बद्रिकाश्रमे तपसा प्राप्तवरदानबदरफलाभ्यां पुत्रपौत्रीप्राप्तिप्रभृतिनिरूपणनामाऽष्टमोऽध्यायः ।। ८ ।।