लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ००९

← अध्यायः ८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

श्रीनरनारायण उवाच-
शृणु बद्रीरमे देवि कथां भक्तस्य पावनीम् ।
नाम्ना निकामदेवस्य सौराष्ट्रे धूनिवासिनः ।। १ ।।
धूनिग्रामेऽवसद् विप्रः श्वशुरस्य गृहे शुभे ।
रैवताद्रेररण्येषु वसतीनां गुरुर्हि सः ।। २ ।।
वैदिकः कर्मधर्मस्थः क्रियाकाण्डपरायणः १
पञ्चदेवार्चनरतो यजमानसुखावहः ।। ३ ।।
बभूव स क्रिया यत्र संस्कारमूलिकास्तथा ।
विवाहादिस्वरूपिण्यो यत्र सप्ताहवाचनम् ।। ४ ।।
देवोत्सवा वत्सरस्योत्सवास्तत्र प्रजाजनैः ।
आकारितः प्रयात्येव बहुमान्यपुरःसरम् ।। ५ ।।
निष्पादयति कार्याणि समस्तानि यथाविधि ।
ग्रामे ग्रामे यजमानाः सहस्रशोऽस्य चाऽभवन् ।। ६ ।।
यत्र यत्र प्रयात्येव तस्माद् द्रविणमुत्तमम् ।
विपुलं समवाप्नोति गृहं नयति चोत्सुकः ।। ७ ।।
अन्नं वस्त्राणि बहूनि विभूषा विन्दतेऽपि च ।
यानवाहनपात्राणि तथोपकरणान्यपि ।। ८ ।।
गृहीत्वा स्वगृहं याति लोभप्रधान एव ह ।
नाऽन्येभ्यश्चापि विप्रेभ्योऽनाथेभ्यः प्रददात्यपि ।। ९ ।।
सञ्चयं कुरुते सौधे वस्तूनां नित्यमेव ह ।
स्वज्ञातीनां तथान्येषां कार्यार्थं न ददात्यपि ।। 4.9.१० ।।
गृहमध्ये भवन्त्येव जीर्णानि शरदादिभिः ।
वर्षाभिश्चापि नष्टानि जायन्ते चातपादिभिः ।। १ १।।
कीटाः खादन्ति वस्त्राणि चान्नान्यपि बहूनि च ।
तथापि नैव लोकेभ्यः प्रददाति हि लोभवान् ।। १२।।
निकामदेवविप्रस्य पत्नी नाम्ना सुरेश्वरी ।
भक्ताऽभूद्दानकार्येषु महोदार्यवती तथा ।। १ ३।।
भिक्षुकेभ्यः प्रददाति यथा जानाति नैव सः ।
अन्नं वस्त्रं च पात्रं च ददात्यनाथदेहिने ।। १४।।
परमेशः प्रसन्नोऽस्तु चान्तरात्मा हरिः प्रभुः ।
एवमुच्चार्य विप्राणी देहिभ्यः प्रददाति वै ।। १५।।
कृष्णार्पणविधानेन ददाति भक्तियोगिनी ।
पुण्यं चास्यास्ततो नित्यं जायते शाश्वतं बहु ।। १६।।
अन्तरात्मा प्रभुश्चास्याः प्रसन्नो वर्तते ह्यति ।
पूजाकाले च विप्राणी यदर्पयति शार्ङ्गिणे ।। १७।।
मूर्तौ हरिः समस्तं तद् गृह्णाति दिव्यरूपवान् ।
अनादिश्रीकृष्णनारायणः श्रीवल्लभः स्वयम् ।। १८।।
श्वश्र्वाऽर्पितं बदरं सा बुभुजे पुत्रिकार्थिनी ।
पुत्रीं तथेहमानाया विप्राण्यास्तु गृहे क्वचित् ।। १ ९।।
बद्रीरूपा नववर्षा कन्या काचित् समाययौ ।
न मे रक्षाकरः कश्चिन्मातापितृविहीनिका ।।4.9.२०।।
न कुटुम्बं वर्तते मे रक्ष मां ब्रह्मपत्निके ।
इत्येवमार्थयत् कन्या सुरेश्वरी मुहुर्मुहुः ।।२१ ।।
सुरेश्वरी ततो बद्रि स्नेहपरा ररक्ष ताम् ।
कुरु कार्याणि सर्वाणि गृहस्येव सुता मम ।।।२।।
पालयिष्ये सदा त्वां वै मानसी त्वं सुता मम ।
इत्येवं स्वाश्रये पृष्ट्वा पतिं ररक्ष सा तु ताम् ।।२३।।
कन्याऽपि सेवते मत्वा मातरं पितरं च तौ ।
अथ काले गते प्राप्ते यौवने बालयोगिनी ।।२४।।
बलं प्राप्याऽपीन्द्रियाणां विकृतिं न जगाम सा ।
पृष्टा विवाहविषये नेत्येवं प्राह भूसुरौ ।।२५।।
उवाच मातरं त्वाध्यात्मिकं प्राग्भवयोगिनी ।
मातर्मनुष्यदेहोऽयं मोक्षार्थं मुख्यतोऽर्जितः ।। २६।।
न मात्रार्थं प्रयोक्तव्यो भवार्थं वा मुमुक्षुणा ।
गतान्यनेकजन्मानि तन्मात्राणि सुखानि च ।।२७।।
तत्र भुक्तानि सर्वाणि न तृष्णान्तो विलोकितः ।
भोगे तु जायते तृष्णाऽधिका या न निवर्तते ।।२८।।
अक्षताया न मे तृष्णा विद्यते जायतेऽपि च ।
अभुक्तायाश्च मुक्ताया मोक्षो हस्ततले मम ।।२९।।
ब्रह्म सम्पाद्यमेवाऽस्ति विवाह्यश्च नरायणः ।
गन्तव्यं त्वात्मना तत्र श्रीमन्नारायणगृहे ।।4.9.३०।।
हरेः संगो हि सत्संगस्तदन्यस्तु कुसंगकः ।
सत्संगं दुर्लभं प्राप्य लब्धव्यः परमेश्वरः ।।३ १।।
जीवोऽयं मानवे लोके बहुधा स्त्रीर्व्यजायत ।
नरोऽपि संबभूवैषः कामनां त्यक्तवान्नहि ।।३२।।
यदा सत्संगमेत्यत्र विज्ञानं ज्ञानमित्यपि ।
विवेकं भेदविज्ञानं लभते भक्तिमेति च ।।३३।।
प्रत्यक्षे श्रीकृष्णनारायणे शक्तिनिधौ प्रभौ ।
तदा संसारपारं वै याति भक्तजनो मुदा ।।३४।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
वर्तते भूतले मातर्गोपालकृष्णबालकः ।।३५।।
दिव्योऽनन्तब्रह्मप्रियापतिः श्रीपरमेश्वरः ।
तं भजित्वा भयं नास्ति कालमायाकुकर्मणाम् ।।३६।।
ये भजन्ते परात्मानं त्यक्तदैहिकवासनाः ।
साधवस्ते सदोक्ता वै साध्व्यस्ता योषितोऽपि च ।।३७।।
कामक्रोधादयो येषां सन्ति नैव कदाचन ।
भक्तेषु चेत् क्वचित् कामो दृश्येताऽपि न बन्धकृत् ।।३८।।
भगवत्संगमाप्तस्य दिव्याः कामादयः सदा ।
कृष्णमाहात्म्ययोगेन मायाऽपि चैति दिव्यताम् ।।३९।।
अतः कृष्णे कृष्णभक्ते दुर्गुणोऽपि गुणोत्तमः ।
दिव्य एव भवत्येव मोक्षदः पापनाशकः ।।4.9.४०।।
यत्र यत्र कृष्णनारायणो यत्र च तत्प्रियाः ।
तद्रजोधूसरं देहं वाञ्च्छन्ति भक्तिवेदिनः ।।४१ ।।
अपि वृक्षास्तृणगुल्मा वल्लिका पशुपक्षिणः ।
कृष्णसम्बन्धमापन्नास्ते सर्वे दिव्यतां गताः ।।४२।।
देवपूज्या भवन्त्येव तेषां संगात् प्रमोक्षणम् ।
किं पुनर्मानवा भक्ताः कृष्णसेवापरायणाः ।।४३।।
सदा कृष्णध्यानपूजानामस्मृत्यादिकारकाः ।
मातस्त्वं भजसे कृष्णं श्रीपतिं पुरुषोत्तमम् ।।४४।।
ततोऽहं दिव्यतां प्राप्ता सेवया ते निरन्तम् ।
नाऽन्यं पतिं समिच्छामि श्रीकृष्णकान्तमन्तरा ।।४५।।
सर्वत्र भगवत्प्रीतिहेतुस्तप उदीरितम् ।
प्रसादितो वेधसाऽपि हरिः पूर्वं तपोमयैः ।।४६।।
निष्कामार्पणभावैश्च सनकाद्यैः प्रसादितः ।
अन्ये विवेकवन्तोऽपि विष्णोस्तोषणहेतवे ।।४७।।
समाचरन्ति बहुधा तपांसि संयमानपि ।
संयमेन च वर्तन्ते भगवत्प्रीतिकामुकाः ।।४८।।
बदर्यां श्वेतभवने तपः कुर्वन्ति साधवः ।
भगवत्प्रेमलब्ध्यर्थं सेवाप्राप्त्यर्थमित्यपि ।।४९।।
अनेन वा परैश्चापि जन्मभिः पुरुषोत्तमः ।
यावत्प्रीतो भवेत्तावत्तपः कुर्यां हि शीलिनी ।।4.9.५०।।
हरेर्दास्यप्रतापेन शिवाब्राह्मीरमासमा ।
भविष्यामि हरेर्भक्त्या मातस्ते कृपयाऽपि च ।।५१ ।।
स्रक्चन्दनांऽशुकाऽऽभूषानैवेद्यसेवनादिभिः ।
प्रसाद्य श्रीहरिं कान्तं प्राप्स्यामि स्वामिनं प्रभुम् ।।।५२।।
इहाऽमुत्र च सर्वासां निःश्रेयसकरं हि तत् ।
दास्यं तपःस्वरूपं वै श्रीकृष्णस्य महात्मनः ।।५३।।
तत्रोद्युक्तस्य विघ्नौघा भवन्ति न कदाचन ।
नानाविधानि भोग्यानि स्वर्णाऽलंकारसम्पदः ।।५४।।
खाद्यपेयरसाद्याश्च जायन्ते बन्धनाय न ।
मातर्लोकप्रवाहोऽयमन्धानामन्धगामिवत् ।।५५।।
वहत्येव विना ज्ञानं यत्पारो नैव लभ्यते ।
कामिन्यो विधवाश्चापि कामतृष्णाऽऽकुलास्तु याः ।।५६।।
मृतं कान्तं प्रशोचन्ति चाश्रयन्ति नरान्तरम् ।
कृष्णैकभक्तिमत्यस्तु तरुण्यः सधवा अपि ।।५७।।
कामसुखं त्ववमप्य भजन्ति श्रीहरिं पतिम् ।
एषणा वासना चाप्यविवेकस्तत्र बन्धनम् ।।५८।।
दिव्यता भावना चात्मज्ञानं निःश्रेयसां प्रदम् ।
तस्मात् प्रीतये कृष्णस्य प्रेमभक्तियुतं तपः ।।५९ ।।
कर्तव्यं मोक्षदं मातर्मया त्वत्सन्निधाविह ।
कृष्णे प्रीतिः प्रकर्तव्या मातः प्रेष्ठतमे मया ।।4.9.६०।।
यद्यत् प्रियं भवत्यस्य कार्यं तत्तन्मया सदा ।
तस्य रुच्यनुसारेण वृत्त्यं नित्यं मया तथा ।।६ १ ।।
विप्रकृष्टेऽन्तिके वापि स्थेयं तदाज्ञया सदा ।
नाऽप्रियं निजभक्तस्य क्वापि कृष्णः करोति हि ।।६२।।
भक्तिमती यत्र यत्र वर्तते च तदाज्ञया ।
तत्र तत्र हरिर्याति भक्तायाः प्रेमसंवशः ।।६३।।
अतो नैव हि भक्ताया विरहोऽस्य भवेत् क्वचित् ।
कृष्णो भक्तस्य विरहं सोढुं शक्तो न वै क्वचित् ।।६४।।
मातः शरीरमेतत्तु मायिकं जीवबन्धकृत् ।
जन्मनः कारणं माया तमोऽज्ञानं च मोहनम् ।।६५।।
सत्संगं सम्विधायैव मायामोहादि नाशयेत् ।
प्रेम्णा ध्यायेत् परब्रह्म साक्षाद्धरिं रमापतिम् ।।६६।।
क्षेत्रज्ञेशं परमेशं हृत्स्थं कान्तं मनोहरम् ।
दिव्यानन्दप्रदं ध्यायेद् बालकृष्णं जगत्पतिम् ।।६७।।
कर्णाभ्यां शृणुयात्तस्य लीलाचरित्रमुत्सवात् ।
हरेलींला गरीयस्यस्तपोदानेभ्य उत्तमाः ।।६८।।
हरेर्योगेन मातर्वै निष्कामत्वं सदा भवेत् ।
पूर्णकामस्य योगेन सदा स्यात् पूर्णकामता ।।६९।।
दृष्ट्वा नरं बालकं वा युवानं वृद्धमित्यपि ।
विक्रियां प्राप्नुयान्नारी मायायुक्ता हि सा मता ।।4.9.७०।।
नरस्य त्रिविधस्याऽपि त्वंगानां दर्शने सति ।
विक्रियां तु मनाक् प्राप्ता भवेत् साऽपि तु मायिकी ।।७१ ।।
पशुं दृष्ट्वा यथा तद्वन्नरं दृष्ट्वा न विक्रियाम् ।
प्राप्नुयात् सा भवेज्जितेन्द्रिया नारी विरागिणी ।।७२।।
रहो विकारमापन्ना मध्यरागा हि सोच्यते ।
पुंसो योगेऽपि यस्या न विकृतिः सा तु चेश्वरी ।।७३।।
ब्राह्मी मुक्तानिका बोध्या ब्रह्मप्रिया हरिप्रिया ।
महावैराग्यसम्पन्ना दिव्यनाराणप्रिया ।।७४।।
एतादृशी तु या नारी नारायणपरेश्वरे ।
वीक्ष्य कामं मदं क्रोधं दिव्यं तं मनुते सदा ।।७५।।
तस्या ज्ञेयोपासना तु मेरुतुल्या हि निश्चला ।
तयाऽऽप्नुयान्महासिद्धिमुत्तमामिह जन्मनि ।।७६।।
मायादोषैः काममानस्वादैर्दग्धाशयस्त्रियाः ।
कृतार्थता न वै स्याद्धि प्राप्तौ सत्यामपि प्रभोः ।।७७।।
मायादोषा नाशनीया अमायिकप्रसेवनैः ।
अमायिको हरिः साक्षात्तत्सन्तश्चाप्यमायिकाः ।।।७८।।।
तेषां समागमात् त्याज्या माया च मायिकाऽरयः ।
ब्रह्मभूतया वृत्त्यं वै दास्या कृष्णस्य योषिता ।।७९।।
न स्थातव्यं क्षणं चापि विना कार्ष्णीं हि संगतिम् ।
नराकारे हरौ स्थेयं सर्वानन्दप्रदे प्रभौ ।।4.9.८०।।
साधुवाक्यानि संगृह्य वृत्त्यं श्रीपरमेश्वरे ।
अहंममते सन्त्यज्य वर्तितव्यं मया हरौ ।।८१ ।।
कठिनानि सद्वचांसि ह्यपि ग्राह्याणि सर्वथा ।
अगुणाः संविनश्यन्ति प्रसादात् परमात्मनः ।।८२।।
दुर्गुणाश्च विनश्यन्ति सतां प्रसादनात्ततः ।
वृत्त्यं तदग्रे निश्छद्ममनोदेहेन्द्रियादिभिः ।।८३।।
सर्वथा तत्प्रियं कार्यं कार्यं नैवाऽपराधनम् ।
अपराघे क्वचिज्जाते प्रसादनीयाः सेवनैः ।।८४।।
सन्तो यस्याः प्रसन्नाः स्युस्तस्याः कालभयं नहि ।
श्रेयः परं निश्चितं च तस्याः स्यान्नात्र संशयः ।।८५।।
ज्ञानवती ब्रह्मरूपा न बिभेति कुतश्चन ।
कृतार्था कृष्णयोगेन मातर्भवति भामिनी ।।८६।।
विश्वस्ता श्रीहरौ सत्सु न बिभेति कुतश्चन ।
अनादि श्रीकृष्णनारायणस्याऽस्मीतिनिश्चिता ।।८७।।
स्निग्धप्रीतिमती कृष्णे न बिभेति कुतश्चन ।
कृष्ण एव वरस्तस्याः पातिव्रत्यं हरौ सदा ।।८८।।
हृदयेऽस्या भयं नास्ति कृतार्थाया हरेः श्रियाः ।
कृष्णस्य वा सतां प्रीत्यै सर्वं जह्याद्धि मायिकम् ।।८९।।
राज्यं पतिं च भोगाँश्च गृहं कुटुम्बिनः स्त्रियम् ।
न तस्याः क्वापि किमपि भयं त्वन्यत् प्रजायते ।।4.9.९०।।
दिक्करिणी मदोन्मत्ता यथा तथैव सा भवेत् ।
कृष्णग्रहगृहीतात्मा नान्यदिच्छेत् कदाचन ।।९ १ ।।
अनेनैव हि देहेन यायात् सा परमां गतिम् ।
संस्कृता चाऽसंस्कृता वा भगवद्धाम याति सा ।।९२।।
ब्रह्मधामाऽधिपः कृष्णो विरहाऽक्षमिणामिह ।
सुखायाऽऽयाति च सुखयित्वा नयति चाऽक्षरम् ।।।९३।।।
एवं सर्वेषु चाण्डेषु भक्तसुखाय जायते ।
सुखयित्वा सखीन् सखीर्नयत्यक्षरधाम सः ।।९४।।
देवेषु जायते कृष्णः क्वचिदृषिषु पितृषु ।
क्यचिन्नरेषु नारीषु यादस्सु पशुपक्षिषु ।।९५।।
यावदर्थं विनिर्वर्त्य मूलरूपं व्रजत्ययम् ।
द्विभुजं तु निजं रूपं न्राकृति मुक्तसेवितम् ।।९६।।
भक्तेच्छया क्वचिन्निजेच्छयाऽपि बहुबाहुमान् ।
गृहस्थो वा विरक्तो वा जायते पुरुषोत्तमः ।।९७।।
श्रेयोमूर्तिः सर्वथैव मातः सोऽस्ति परेश्वरः ।
बहुरूपं महैश्वर्यं मातस्तस्य कृपानिधेः ।।९८।।
दास्यो जानन्ति नाऽन्यास्तु कृष्णस्य चान्तरात्मनः ।
सोऽन्तर्यामिस्वरूपेण सर्वत्राऽऽस्ते वरः प्रभुः ।।९९।।
तस्मै समर्पिता चास्मि मातः कृष्णाय सर्वथा ।
कृष्णाश्रयबला चाहं नान्यं पतिं वृणोमि वै ।। 4.9.१ ००।।
हरे कृष्ण बालकृष्ण श्रीकान्त पुरुषोत्तम ।
त्वमेव मे पतिर्नित्यस्तवाऽस्मि शरणं गता ।। १० १।।
इत्युक्त्वा सा विरराम बद्रिके बालयोगिनी ।
सुरेश्वरी च माताऽपि महाश्चर्यपराऽभवत् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां सुरेश्वरीविप्राण्यै पुत्रीरूपाया बदर्या बालयोगिन्या मुक्ताया ब्रह्मभावोपदेशादिरितिनिरूपणनामा नवमोऽध्यायः ।। ९ ।।