लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४३

← अध्यायः ४२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि श्रीकृष्णस्य महोत्सवम् ।
एकविंशतिके जन्मदिने कृष्णे तु कार्तिके ।। १ ।।
प्रातरेव हरिं राज्ञ्यः स्नपयित्वा जनार्दनम् ।
सर्वकामप्रदं कान्तं कृष्णनारायणं प्रभुम् ।। २ ।।
चन्दनैर्गन्धसारैश्च महौषधिरसान्वितैः ।
जलैस्तीर्थाहृतैस्तैलमिश्रितैः कैसरै रसैः ।। ३ ।।
उपसंप्रसुमृद्याऽभिषिञ्च्य मार्जनमाचरन् ।
वस्त्रधारणशृंगारभूषापुष्पाद्यधारयन् ।। ४ ।।
मुकुटं कटके स्वर्णजाते हाराँश्च कानकान् ।
रत्नमाणिक्यहीरकमौक्तिकस्फटिकान्वितान् ।। ५ ।।
अधारयन् हरेः कण्ठे तिलकं चन्द्रकं व्यधुः ।
भाले कैसरचन्द्रं च कज्जलं नेत्रयोस्तथा ।। ६ ।।
कर्णावतंसकौ रम्यौ कर्णपूरौ न्यधारयन् ।
रशनां कानकीं कट्यां नूपुरे पादयोस्तथा ।। ७ ।।
प्रकोष्ठयोः शृङ्खले चाऽङ्गुल्यादावूर्मिकादिकम् ।
चूडामणिं कुण्डले च ग्रैवेयकीयमालिकाः ।। ८ ।।
कटके च मणीन् न्यधारयन् सुवर्णपादुके ।
कोट्यर्बुदाब्जमूल्याधिमहामणीनधारयन् ।। ९ ।।
यत्प्रकाशस्तु सर्वत्र मध्यन्दिनभ्रमावहः ।
पादहस्ततलयोश्चालक्तकादि न्यधारयन् ।। 4.43.१० ।।
सौवर्णचूर्णसंव्याप्तगात्राण्यपि ह्यकारयन् ।
सैन्धवाश्वनिभे स्वर्णासने श्रीस्वामिवल्लभम् ।। ११ ।।
न्यषादयँस्तदा राज्ञ्यः सिन्धुजानां तु भूभुजाम् ।
प्रथमं ता मंगलानि कृत्वा कृष्णमपूपुजन् ।। १२।।
धृत्वोपदाः स्वर्णरूप्यमणिहारमयीः पुरः ।
न्यधुस्ते पादयोर्वारि प्रक्षालितं पपुः पयः ।। १३।
आरार्त्रिकं व्यधू राज्ञ्यः पुष्पाक्षतादिवर्धितम् ।
दुःखहान्यञ्जलीन् कृष्णशिरष्टश्चावतारयन् ।। १४।।
प्रदक्षिणं दण्डवच्च क्षमां ययाचिरे दयाम् ।
दिनेश्वरी भाणवाण्या रायहरेर्विचित्तताम् ।। १५।।
निवेद्याऽयाचत स्वास्थ्यं सुखं च शाश्वतं ततः ।
हरिस्तां समुवाचाऽपि स्वास्थ्यमद्यैव शोभनम् ।। १ ६।।
भविष्यत्येव मा चिन्ता कुरु राज्ञि सुखं भवेत् ।
क्षणान्ते कोटिरायोऽपि रायहरिं नृपं त्विह ।। १७।।
नीत्वा त्वायास्पति पूजां कर्तुं मे स्वस्थमानसम् ।
भाणवाणीं पुरो मेऽत्र समानय दिनेश्वरि ।। १८।।
इत्युक्ता बद्रिके दिनेश्वरी राज्ञी द्रुतं तदा ।
भाणवाणीं विचित्तां श्रीकृष्णनारायणान्तिके ।। १ ९।।
दिनेश्वर्यानयत् कृष्णो भाणवाणीं तु मस्तके ।
पस्पर्श पाणिना मीनध्वजशूलधनुष्मता ।।4.43.२०।।
तावत् सा स्वस्थितिमती पावनी ज्ञानयोगिनी ।
निरामया च निर्व्याधिः पण्डितेवाऽभवद् द्रुतम् ।।२१।।
वैचित्त्यं विगतं तस्याः सुबुद्धात्वं समागतम् ।
पतिता पादयोः कृष्णनारायणस्य सा ततः ।।२२।।
पूजां कृत्वा श्रीहरेश्चोपदा ददौ रमाजुषे ।
आरार्त्रिकं विधायाऽपि कृष्णपादजलं पपौ ।।२३।।
अर्थयामास मोक्षं सा सर्वपापविनाशनम् ।
बन्धनानां वासनानां मूलनाशं समार्थयत् ।।२४।।
द्यूतपापविनाशं च व्यवायपापनाशनम् ।
मुक्तानिकास्थितिं साऽपि प्रार्थयत् परमात्मतः ।।२५।।
तथाऽस्त्विति हरिः प्राह तावत् सा दिव्यतां गता ।
दिव्यदेहा देवतावद् दिव्यैश्वर्या बभूव ह ।।२६।।
कृपालेशेन कृष्णस्य निर्वाणिकाऽभवत् सती ।
जीवन्मुक्ताऽभवत्तूर्णं देहावरणवर्जिता ।।२७।।
अहो कृपा हरेर्जाता यत्नशून्येऽपि विग्रहे ।
सयत्नानां तु वै सिद्धिः पूर्वभावं न संगता ।।२८।।
अथ तत्र महाश्चर्यं वीक्ष्य कन्याः सहस्रशः ।
सौभाग्यवत्यो नार्यश्च सधवा विधवा अपि ।।२९।।
बालिकाश्चापि वृद्धाश्च पुपूजुः परमेश्वरम् ।
भाणवाणीं दिव्यदेहां व्यधात् कृष्णेति मोहिताः ।।4.43.३०।।
ताः सर्वा भावनायुक्ता यथाभावास्तथाऽभवन् ।
दिव्यगुणा दिव्यदेहा दिव्यक्रियाः सुदेवताः ।।३ १ ।।
दिव्यनेत्रा दिव्यभावा राधारमासमास्तदा ।
अनादिश्रीकृष्णनारायणस्पर्शेन योषितः ।।३२।।
ब्रह्मप्रिया अभवँश्च हरिप्रियाः सहस्रशः ।
मन्त्रं ता जगृहुः कृष्णमुखात् कार्ष्णीभवेच्छया ।।३३।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
बह्व्यस्तत्राऽभवन् रुग्णास्तद्रोगान् स न्यवारयत् ।।३४।।
बह्वीनां त्वनपत्यत्वं कृष्णस्तत् सन्न्यवारयत् ।
अन्यासां क्लेशवत्त्वादि क्लेशाँस्तासां न्यवारयत् ।।३५।।
तथाऽन्यासां निर्धनत्वं दारिद्र्यं स न्यवारयत् ।
अन्यासां तु पतिप्राप्तिमत्त्वं स कृपयाऽकरोत् ।।३६।।
सौभाग्यवत्त्वमन्यासां सम्पद्वत्त्वं समुत्तमम् ।
चकार श्रीकृष्णनारायणः सर्वसुखार्पणम् ।।३७।।
राज्ञीनां पूजनकार्यं समाप्तं च प्रजास्त्रियः ।
अपूजयन् हरिं सर्वा लक्षशः कोटिशः स्त्रियः ।।३८।।
कोटिरूपधरः कृष्णनारायणो व्यजायत ।
तत्तन्नारीपुरःस्थित्वा कान्तः पूजामवालभत् ।।३९।।
आशीर्वादाँस्ता अगृह्णन् शुभाशिषो ददौ हरिः ।
सर्वासां हृदये कृष्णो दिव्यवासं सदा व्यधात् ।।4.43.४०।।
एवं घटिकामात्रं वै महाश्चर्यचमत्कृतिम् ।
प्रदर्श्य तु ततस्तिरोभूयैकरूपतां ययौ ।।४१ ।।
नारीवर्गे न चाऽप्येका कृष्णयोगेऽवशिष्यते ।
दयां कृत्वा तथा कृष्णः पूजां जग्राह सर्वधृक् ।।४२।।
अथ तृप्तिं गता नार्यो दृष्ट्वा स्पृष्ट्वा प्रपूज्य तम् ।
प्राप्य प्रासादिकं भोज्यं फलं पुष्पं दलं जलम् ।।४३।।
स्नेहं नेत्रकटाक्षं च सौम्यहास्यं मनस्तथा ।
कृतकृत्या अभवँस्ता दिव्यभौतिकविग्रहाः ।।४४।।
एवं हरिः प्राप्य पूजां नारीणां दिव्यभावनाम् ।
दिव्यैश्वर्ययुतां चापि तिरोभावं गतोऽच्युतः ।।४५।।
ततः सर्वाः स्थिरवृत्त्या श्रीकृष्णं विलुलोकिरे ।
परब्रह्म पुनः कश्चिन्नारायणं श्रियः पतिम् । ।४६।।
श्रीकृष्णं राधिकाकान्तं ललितास्वामिनं हरिम् ।
स्वामिनाथं तु माणिक्याः पद्मावत्याः पतिं तथा ।।४७।।
काश्चित्तु बद्रिकानाथं काश्चिच्छ्रीभूपतिं तथा ।
काश्चित्तु कमलानाथं प्रज्ञेशं विलुलोकिरे ।।४८।।
ततः श्रीकुंकुमवापीनाथं तं विलुलोकिरे ।
एवं वीक्ष्य महानन्दं सर्वानन्दाँश्च लेभिरे ।।४९।।
सैन्धव्यः श्रीहरिं प्राप्य धामिन्यः संबभूविरे ।
वैष्णव्यः परमा जाताः पुण्यानां सरितो यथा ।।4.43.५०।।
कृष्णनारायणस्वामिन्वल्लभाऽऽयेति ता जगुः ।
दध्युः श्रीपरमात्मानं चाऽन्तरस्थं बहिःस्थितम् ।।५१ ।।
एवं बद्रीप्रिये प्रातर्नारीपूजनमुत्तमम् ।
निवृत्तं च ततो राजा कोटिरायः समाययौ ।।५२।।
बहुभिर्नृपशार्दूलै राजन्यै राजयोगिभिः ।
राज्यपालै राष्ट्रपालैः सैन्यपालैः सहाऽऽययौ ।।५३।।
राजोपचारैः सकलैः पूजयामास माधवम् ।
कोटिमूल्यमणिरत्ननद्धं मुकुटं कानकम् ।।५४।।
कुण्डले रत्नखचिते कण्ठहारान् सुवर्णजान् ।
कर्णपूरान् कटकाँश्चांगदान् सुवर्णशृंखलाः ।।५५।।
ऊर्मिका रशनां रत्ननद्धां हारान् सुवर्णजान् ।
मणिमाला मणिकल्गिं मणिमञ्जीरनूपुरान् ।।९६।।
आर्पयद्धरये भाले कृत्वा चान्दनचन्द्रकम् ।
सुगन्धमर्पयामास पुष्पहारान् सुमालिकाः ।।५७।।
भूषाशृंगारवस्त्राणि बहुमूल्यानि चार्पयत् ।
स्वर्णपात्राणि रम्याणि स्वर्णहेतीन् सुसुन्दरान् । ।५८।।
सौवर्णखेलकाँश्चापि श्रीकृष्णाय तदाऽऽर्पयत् ।
धूपदीपाऽक्षतवारिनैवेद्याऽऽरार्त्रिकादिभिः ।।५९।।
अमूल्यरत्नमणिभिर्भृतैः स्थालैः सुवर्णजैः ।
स्वर्णाढ्योपकरणाद्यैश्छत्रचामरवेत्रकैः ।।4.43.६ ०।।
पूजयित्वा हरिंकृष्णं तोषयामास भूपतिः ।
तिलकं सुभगं भाले कृष्णस्य नृपमाचरत् ।।६१ ।।
नृपाश्चान्ये च राजन्याः कुमारा राजयोगिनः ।
राजसम्बन्धिनः श्रेष्ठिवर्या राज्याधिकारिणः ।।६२।।
कस्तूरीकेसरगन्धसारकुंकुमकर्दमैः ।
पुष्पाऽक्षतजलवृन्दापत्रयवांकुरादिभिः ।।६३।।
प्रपूज्य माधवीकृष्णं नत्वा पीत्वा पदाऽमृतम् ।
आरार्त्रिकं व्यधुश्चाशीर्वादान् ददुः शुभावहान् ।।६४।।
कोटिरायस्तदा रायहरिं स्वस्थस्थितिं गतम् ।
प्रैरयत् परमेशस्य पूजार्थं तत्र सोत्सुकम् ।।६५ ।।
निरामयो गतशापः सर्वभानप्रबोधवान् ।
श्रीकृष्णंवल्लभंचाऽऽर्यं पुपूज परमादरात् ।।६६।।
अथ सर्वप्रजाः कृष्णं जन्मजयन्तिकोत्सवे ।
उत्सुकाः पूजयामासुरीशेश्वरेश्वरेश्वरम् ।।६७।।
तदाऽनादिकृष्णनारायणदिव्यस्वरूपकम् ।
व्यद्योतताऽक्षरधामाश्रितं यद्वत् परात्परम् ।।६८।।
लोमशाद्या मुनयोऽपि महर्षयश्च देवताः ।
सिद्धाः सत्यः साधवश्चाऽऽनर्चुः श्रीबालकृष्णकम् ।।६९।।
आशीर्वादान् ददुश्चापि सूतमागधचारणाः ।
बन्दिनः कवयो भट्टा ववन्दिरे शुभाशयाः ।।4.43.७० ।।
एवं मध्याह्नवेलान्तं जन्मजयन्तिकोत्सवः ।
समभवत्तदा बद्रि भोजनानि ततोऽभवन् ।।७१।।
सायं सभाऽभवद् रम्या लक्षाधिमानवाऽऽश्रिता ।
स्वप्रकाशो हि भगवान्नुपादिदेश तत्र ह ।।।७३।।
मानवे खलु लोकेऽत्र श्रेष्ठं मानं परेश्वरः ।
परमेशकृतमाना मानिता नेतरे क्वचित् ।।७३।।
श्रीकृष्णश्रीपतिनारायणाऽनादिपुमुत्तमः ।
विराजतेऽत्र भगवान् भवतां मानकारकः ।।७४।।
भवद्भिर्मानितः कृष्णो भवन्तो मानितास्ततः ।
येषां मानं हरेरग्रे तेषां सर्वत्र मानिता ।।७५।।।
यद्गृहे भगवानास्ते सर्वे दिव्या हि ते मताः ।
गृहस्थोऽपि हरिं नैजे गृहे यः स्थापयेत् सदा ।।७६।।
साधुरेव गृहस्थः स यद्गृहं माधवात्मकम् ।
नारी नारायणपूजाकरी साध्वी तु सा मता ।।७७।।
राजाऽपि राजते यत्र श्रीकृष्णेन परात्मना ।
स राजा साधुरेवाऽस्ति यद्गृहे श्रीनरायणः ।।७८।।
राज्ञी निर्मानदासीव सेवते परमेश्वरम् ।
सा राज्ञी सर्वदा साध्वी यतो नारायणश्रिता ।।७९।।
राष्ट्रीयास्तु प्रजा या याः सेवन्ते माधवीश्वरम् ।
सर्वाः साध्व्यो हि मन्तव्या यद्गृहे भगवानिति ।।4.43.८०।।
धनवन्तो हरिं ये तु सेवन्ते साधवोऽपि ते ।
धनं नारायणो येषां ते सन्तः साधुभूषणाः ।।८१।।
सन् वै नारायणस्तं ये चान्ते धरन्ति सर्वथा ।
तरन्ति तेन चान्याँश्च तारयन्ति भवार्णवात् ।।।८२।।
सन्तस्ते त्वत्र संसारे साध्नुवन्ति पुमर्थकम् ।
व्यापारस्तु भवेद् येषां कृष्णार्थं साधवस्तु ते ।।८३।।
व्यवसायो भवेद् येषां कृष्णात्मा साधवोऽपि ते ।
यतयो यत्नवन्तो ये हरौ ते सन्त ईरिताः ।।८४।।
संन्यासिनो हरौ ये ते सन्तो मोक्षपरायणाः ।
वने वासकराः कृष्णे मग्नास्ते साधवो मताः ।।।८५।।
योगं कृष्णे प्रयुञ्जानाः साधवस्तेऽपि योगिनः ।
तपः कृष्णपरं येषां तापसाः साधवस्तु ते ।।८६।।
व्रतं येषां परे कृष्णे साधवो व्रतिनश्च ते ।
यज्ञा येषां हरौ कृष्णे साधवो यज्ञिनस्तु ते ।।।८७।।
जीवनं श्रीहरौ येषां जीवन्मुक्ता हि साधवः ।
रागोऽर्पितो हरौ कृष्णे वीतरागा हि साधवः ।।८८।
इन्द्रियार्थाः कृताः कृष्णे साधकाः साधवस्तु ते ।
प्रवृत्तिं परमेशे ये कुर्वन्ति साधवोऽपि ते ।।८९।।
ब्रह्म श्रीपरमात्मैव तत्र चरन्ति मुक्तये ।
ये ते ब्रह्मचराः प्रोक्ता ब्रह्मचारिण एव ते ।।4.43.९०।।
मननं श्रीहरेर्येषां मुनयः साधवो हि ते ।
आर्षं ज्ञानं हरेर्येषाम् ऋषयः साधवस्तु ते ।।९ १ ।।
दिव्यभावो हरौ येषां देवता अपि साधवः ।
कर्म सर्वं परे येषां परार्थाः साधवोऽपि ते ।।९२।।
वृत्तयः सर्वथा कृष्णे येषां ते ध्यानिसाधवः ।
समाधानं हरौ येषां समाधिस्था हि साधवः ।।९३।।
कुटुम्बं यस्य कृष्णार्थं सन्तः कुटुम्बिनस्तु ते ।
संख्याः सर्वा हरौ येषां सांख्यास्ते साधवो मताः ।।९४।।
अज्ञानात् प्रथमं जन्म ततो ज्ञाने द्वितीयकम् ।
द्विजास्ते साधवो बोध्या मोक्षज्ञानपरायणाः ।।९५।।
देहात्तु प्रथमं जन्म दीक्षया तु द्वितीयकम् ।
नारायणे दीक्षिता ये द्विजास्ते साधवो मताः ।।९६।।
संसारः प्रथमं जन्म मोक्षो जन्म द्वितीयकम् ।
मोक्षद्विजाः साधवस्ते सर्वेषां तारका भुवि ।।९७।।
मायायां साधनं त्वाद्यं ततः साधुषु साधनम् ।
त एते त्यागिनः सन्तः सर्वमायाविवर्जिताः ।।९८।।
पतियोगं प्रपन्नापि प्रपन्ना या नरायणम् ।
सा पत्नी स्त्री भवेत् साध्वी नारायणी सतीश्वरी ।।९९।।
उदासीना गृहे या तु नारायणे तु या स्थिता ।
साधुसेवापरा साध्वी भवेत् सा ब्रह्मचारिणी ।। 4.43.१० ०।।
आत्मसाधनसञ्चारा मोक्षसाधनतत्पराः ।
सक्रियास्ते साधवो वै कृष्णकर्मपरायणाः ।। १०१ ।।
कृष्णे शौचं सदा येषां शुचयः साधवस्तु ते ।
कीर्तनं सर्वदा कृष्णे स्वाध्यायसाधवस्तु ते ।। (१० २।।
हरेः पुरो भवेद् यस्याऽऽसनं साधुः सदासनः ।
प्राणे प्राणे हरिर्यस्य साधुः प्राणासनः स हि ।। १ ०३।।
आहारे भगवान् यस्य साधुराहारनामवान् ।
शान्तिर्हरौ भवेद् यस्य शान्तः साधुः स वै मतः ।। १ ०४।।
योगिना श्रीहरौ कृष्णे भवितव्यं तु देहिना ।
सहनीयं कष्टमाद्यं क्षमा कार्याऽपराधिषु ।। १ ०९।।
न कष्टं सम्प्रदातव्यं कस्यचिदपि कर्मणा ।
मनसा वापि देहेन वचसापि कदाचन ।। १ ०६।।
सत्यं सम्पालनीयं च स्तैन्यं त्याज्यं तु योगिना ।
सन्तोषः सर्वथा रक्ष्यो भाव्यं पाषाणकल्पिना ।। १ ०७।।
स्वादस्तु सर्वथा ग्राह्यो योगिना परमात्मनि ।
रतिः प्रीतिर्हरौ देया योगिना ब्रह्मचारिणा ।। १ ०८।।
आचारोऽपि हरौ पाल्यः साधुना कृष्णयोगिना ।
श्रुतार्थं श्रीहरौ कुर्याच्छ्रौतः साधुः स योगिराट् ।। १ ०९।।
स्मृतार्थं सर्वथा कृष्णे युञ्ज्यात् साधुः स योजकः ।
बाल्यं वा यौवनं वापि वार्धक्यं परमेश्वरे ।। 4.43.११ ०।।
नरत्वं प्रमदात्वं चार्पणीयं परमेश्वरे ।
त एते साधवः सन्ति साधनाच्छ्रीपतेर्हृदि ।। १११ ।।
भूत्वा साधव एवात्र कृष्णं कृत्वा निजं पतिम् ।
प्रयान्तु वै नरा नार्यो धामाऽक्षरं परं प्रभोः ।। ११२।।
अद्यजन्मजयन्त्यस्ति ह्यनादिपरमात्मनः ।
वर्धिता सा भवद्भिर्वै महोत्सवेन योजिता ।। ११ ३।।
भवतां सिन्धुलोकानां करोत्वभ्युदयं परम् ।
परं निःश्रेयसं चापि कल्याणं परमं तथा ।। १ १४।।
शाश्वतं च महानन्दं करोतु श्रीहरेः पदे ।
एनं त्वनादिनिधनं श्रीपतिं पुरुषोत्तमम् ।। १ १५।।
सदा ध्यायन्तु हृदये सन्तो भवन्तु साधवः ।
सर्वविधानि स्वर्गाणि भवन्तु भवतामिह ।। १ १६।।
अनादिश्रीकृष्णनारायणप्रसादतस्त्विह ।
प्रसन्नो भगवान्नस्ति बालकृष्णः परः प्रभुः ।। १ ७।।
स्वस्ति वोऽस्तु कुशलं वो महास्वर्गं सदाऽस्तु वः ।
महावंशादिविस्तारो वैष्णवोऽस्तु सदा तु वः ।। १ १८।।
भवतां च गृहे क्षेत्रे साधुवासोऽस्तु मोक्षदः ।
अनादिश्रीकृष्णनारायणवासो भवत्सु च ।। १ १९।।
इत्याशीर्वचनान्युक्त्वा प्रस्वप्रकाशः ईश्वरः ।
उपारराम युगपज्जयनादास्ततोऽभवन् ।। 4.43.१२०।।
जयत्वनादिभगवान् बालकृष्णो जयत्विह ।
सर्वान्तर्गतिः कृष्णनारायणो जयत्विह ।। १२१ ।।
इत्येवं जयनादैश्च तूर्यनादैः सुरादिभिः ।
कृताभिवादनादैश्च सभा समाप्तिमागमत् ।। १२२।।
हरिर्ययौ निजावासं ययुः सर्वे निजालयान् ।
कोटिरायो रायहरिं नत्वा कृष्णालयं ययौ ।। १ २३।।
उवाच परमात्मानं यदर्थं भगवान्निह ।
आहूतः सर्वमेवात्र सम्पन्नं नृपमोक्षणम् ।। १२४।।।
शापमोक्षोऽत्र सञ्जातः परो मोक्षोऽपि वर्तते ।
करे गतो भगवतो वीक्षणेन हि देहिनाम् ।। १२५ ।।
अथ कृष्णाज्ञया राज्यं सिन्धुदेशप्रदेशजम् ।
अर्धमर्धं चक्रतुस्तौ हायौदर्यं च शार्करम् ।।१ २६।।
कृष्णनारायणं ध्यात्वा लेभाते शाश्वतं सुखम् ।
रात्रौ भोजनपानादि कृत्वा कृष्णनरायणः ।। १ २७।।
विश्रान्तिं परमां लेभे सिषेविरे जनास्तु तम् ।
बद्रिके श्रीहरिर्निद्रामवाप दिव्यविग्राहाम् ।। १२८।।
एवं सिद्धिं परां दिव्यां ददौ तेभ्यो हरिः स्वयम् ।
हरेः कृपा सतां यद्वा मोक्षदा सर्वशान्तिदा ।। १ २९।।
लक्ष्मीनारायणसंहिता तु साध्वी हि मोक्षदा ।
सर्वसिद्धिमयी विद्या परब्रह्मप्रसञ्जिनी ।। 4.43.१ ३०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने जन्मजयन्त्युत्सवे नारीणां नराणां पूजाग्रहणं भाणवाणीरायहर्योर्निरामयताकरणं, सभा, साधुत्वविवेचनं विश्रान्तिश्चेत्यादिनिरूपणनामा
त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।