← अध्यायः ११३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११४
[[लेखकः :|]]
अध्यायः ११५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो देव्या वैष्णव्या प्रार्थितं पुनः ।
शंभोरग्रे कथयामि श्रवणार्हं परं यतः ।। १ ।।
पार्वत्युवाच देवेश महादेव सुरेश्वर।
विष्णुभक्तिं ममाऽऽचक्ष्व मुक्तिदां विस्तरात्पुनः ।। २
नारायणस्वरूपाणि मन्त्रपूजाविधींस्तथा ।
तद्विभूतिगुणादींश्च तद्धामगतिसाधनम् ।। ३
धाम्नस्तस्य स्वरूपं च चिह्नमाहात्म्यमित्यपि ।
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ।। ४ ।
इति पृष्टो महादेव्या शंभुवैष्णवसत्तमः ।
उवाच परमप्रेम्णा नत्वा नारायणं हरिम् ।। ५ ।
साधु पृष्टं महादेवि! सर्वजीवहितैषिणि! ।
भक्तवर्ये! शीलरूपगुणोपेते! महेश्वरि! ।। ६ ।
परितुष्टोऽस्मि ते प्रश्नाद् धन्याऽसि वैष्णवि! प्रिये! ।
कृतपुण्याऽसि भक्ताऽसि प्रभोर्नारायणस्य च ।। ७ ।
वक्ष्याम्यहं च ते देवि! भगवद्भक्तिमुत्तमाम् ।
नारायणस्वरूपं च मन्त्रपूजाविधिं तथा ।। ८ ।
परब्रह्म परमात्मा परमेश्वर एव सः ।
सर्वेश्वरो महामुक्तेश्वरोऽक्षरपरः प्रभुः ।। ९ ।।
परमः पुरुषः पुरुषोत्तमः श्रीहरिः स्वयम् ।
भगवानक्षरातीतो वासुदेवोऽच्युतः परः ।। 1.114.१ ०।।
कृष्णो नारायणो देवेश्वरो विष्णुः सनातनः ।
ईशेश्वरो महामायेश्वरः साक्षी सदाशिवः ।। १ १।।
हिरण्यगर्भः श्रीमान् श्रीयज्ञो नारायणो नरः ।
लक्ष्मीपतिः स्वाम्यनन्तश्चात्मारामो गुणातिगः ।। १ २।।
सर्वनेत्रसर्वविज्ञः सर्वहृत्स्थो य नियामकः ।
गुणाकरो दिव्यमूर्तिः श्यामलो हृदयंगमः ।। ०१ ३।।
नित्यं भक्तेषु वसति रक्षत्यपि स्वकान् जनान् ।
शेषवेदोपवेदाद्यैः सबृहस्पतिदेवतैः ।। १४।।
माहात्म्यं तस्य देवस्य वक्तुं नैव हि पार्यते ।
तस्य भक्तिकलापं ते वच्मि शृणु पृथक्प्रिये ।। १५।।
मूर्तिर्हरेः सदा ध्येया स्वात्मन्येव मुहुर्मुहुः ।
तस्य चक्रस्य शंखस्य ह्यंकन प्रथमं मतम् ।। १६।।
धारणं चोर्ध्वपुंड्राणा तन्मन्त्राणां परिग्रहः ।
अर्चनं तज्जपो ध्यानं तन्नामस्मरणं मुहुः ।। १७।
कीर्तनं श्रवणं तस्य वन्दनं चरणार्हणम् ।
चरणामृतपानं च तन्निवेदितभोजनम् ।। १८।।
तदीयानां सतां सेवा द्वादश्येकादशीव्रतम् ।
तुलसीरोपणं चैव भक्तिः षोडशधा हि सा ।। १९।
अथ श्रीमन्दिरे तस्य मार्जनं लेपनं तथा ।
क्षालनं धूपनं चैवान्दोलनं दीपनं तथा ।।1.114.२०
-२ वीजनं मर्दनं रंगरंजनं चांजनं तथा ।
सुगन्धनं तथा वस्तुप्रदापनमनुव्रतम् ।।२१।।
हासनं वार्तनं चैव स्वापणं षोडशाऽपराः ।
भक्तिभेदा भवन्त्येव क्रियारूपा हरेः कृते ।।।२२।।
एतैः सेवाप्रभेदैश्च भबबन्धो विनश्यति ।
सर्वेषामेव देवानां देवीनां च ममापि च ।।२३।।।
साधूनां ब्राह्मणानां च वैष्णवानां विशेषतः ।
पूजनीयो हरिर्नित्यं विधिवत्पूजयेद्धि तम् ।।।२।।
शंखचक्रगदापद्मांकनं वै बाहुमूलयोः ।
धारयित्वैव विधिवद् ब्रह्मपूजां समाचरेत् ।।।२५।।
पापानि क्षालयित्वा स याति विष्णोः परं पदम् ।
चक्रांकनविहीनेन कृता पूजा निरर्थिका ।। २६।।
विष्णुचक्रविहीनेन भुक्तं श्राद्धे निरर्थकम् ।
निराशाः पितरो यान्ति तदा दृष्ट्वा त्ववैष्णवम् ।।।२७।।
देयं गोभूहिरण्यादि चक्रांकितभुजाय वै ।
चक्रहीनाय यद्दत्तं तद्गृह्णन्त्यसुरा बलात् ।।।२८।।
तप्तचक्रांकितं बाहुमूला यान्ति हरेः पदम् ।
चक्रचिह्नितभक्तेषु तीर्थयज्ञा वसन्ति वै ।। २९।।
चक्रचिह्नविहीनस्तु ब्राह्मणः प्राकृतौ मतः ।
न तस्य किंचिदश्नीयादपि क्रतुसहस्रिणः ।।।1.114.३०।।
चक्रं नारायणस्यैव संसारचक्रनाशकम् ।
तप्तं वा चान्दनं चक्र धार्यं कर्मप्रसिद्धये ।।।३ १।।
श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यर्थमेव च ।
हरेरर्चनसिद्ध्यर्थं वैष्णवत्त्वस्य सिद्धये ।।।३२।।
ज्ञानस्य सिद्धये चैव चक्रं धार्यं विशेषतः ।
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ।।।३३।।
वाहने तं समारोप्य बहिः कुर्यात्स्वपत्तनात् ।
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् ।।।३४।।
दक्षिणे तु भुजे विप्रो बिभृयाच्च सुदर्शनम् ।
वामे शंखं तु बिभृयादिति बोध्यं परेश्वरि! ।।३५।।
गोविन्दस्याऽऽयुधान्यंगे बिभ्रन् सुश्रोणि! वै द्विजः ।
तुरीयं धाम तद्विष्णोर्महिष्ठः प्राप्नुयादिति ।।३६।।
चमूषच्छ्येनः शकुनो बिभृत्वेति ऋगब्रवीत् ।
ब्राह्मणे तु शतपथे तप्तं चक्रं द्विहस्तयोः ।।।३७।।
धार्यमग्निहोत्रमेव भवति ब्रह्ममुक्तिदम् ।
तप्तं चक्रं भुजे धार्यं विष्णुलोकगतिर्भवेत् ।।३८।।
सुदर्शनं तु सन्धार्यमित्यूर्ध्वपुंड्रमित्यपि ।
द्विरेखं भवति वेद ब्रह्मसायुज्यमेति सः ।।३९।।
तप्तं चक्रं भुजे धार्यं ब्रह्मसायुज्यमिच्छता ।
तप्तं चक्रं भुजे धार्यं तत्पुरुषपरेण हि ।।1.114.४०।।
देवासः पितरौ येन विधूतेन च बाहुना ।
सुदर्शनेन प्रयतात्स्वर्गं लोकं यदंकितः ।।४१।।
मनवो लोकसृष्टिं वै वितन्वन्ति तदंकिताः ।
तप्तं चक्रं भुजे धार्यमूर्ध्वपुंड्रं समालिखेत् ।।४२।
द्विरेखं भवति तेन पुनरागमनं नहि ।
विष्णुदैवतप्तं तच्चक्रं धार्यं भुजद्वये ।।।४३ ।।
तप्तं चक्रं भुजे धृत्वा देवा गच्छन्ति केशवम् ।
ब्राह्मणा धारयन्त्यूर्ध्वपुंड्रं द्विरेखमीशदम् ।।४४।।
निचक्षेप सुषणं भिद्यमानं मध्ये बाहुमदधत् सुदर्शनं च ।
विष्णोरिदं भूरिदं भूरितेजो दिवानक्तं बिभृयुस्तज्जनासः ।।४५ ।।
पवित्रमित्यग्निर्नेमिः सहस्रारस्तन्नेमिना ।
तप्ततनूर्ब्राह्मणो वै ब्रह्मसायुज्यमाप्नुयात् ।।४६।।
चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममितस्य विष्णोः ।
स एति नाकं दुरितानि विधूय प्रयान्ति यद्यतयो वीतरागाः।।४७।।
एभिर्वयमुरुविक्रमस्य चिह्नै-
रंकिता लोके नु सुभगा भवामः ।
तद्विष्णोः परमं पदमक्षराख्यं
ये गच्छन्ति लांछितास्तैः परस्मिन् ।।४८।।
प्र ते विष्णो ह्यब्जचक्रे पवित्रे
जन्मांभोधिं तर्तवे चर्षणीन्द्राः ।
मूले बाह्वोर्दधतेऽन्ये पुराणा
लिंगान्यंगे तावकान्यर्पितानि ।।४९ ।।
धृतोर्ध्वपुंड्रः कृतचक्रधारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदिस्थितं
परात्परं यन्महतो महान्तम् ।।1.114.५ ०।।
ऊर्ध्वपुंड्रं तथा चक्रं नित्यं धारयते जनः ।
तेन तस्याऽशुभं नश्येच्छुभमस्य विवर्धते ।।५ १।।
उपवीतादिबद्धार्याः शंखचक्रगदादयः ।
महापस्तु प्ररक्षन्ति विष्णुरिव तदायुधाः ।।५ २।।
सुदर्शनेन यस्यांगं लांछितं तु भवेत्सदा ।
देहे तस्य वसेन्नित्यं श्रिया युक्तः स्वयं हरिः ।।।५३।।
चक्रायुधांकितं दृष्ट्वा यमोऽपि हृदि शंकते ।
प्रणामं दूरतः कृत्वा विष्णुभक्तं प्रयाति वै ।।५४।।
पशुपुत्रादिकं सर्वं गृहोपकरणानि च ।
अंकयेच्छंखचक्राभ्यां नाम कुर्याच्च वैष्णवम्।।५५।।
अंकयेच्छंखचक्राभ्यां नाम कुर्याच्च वैष्णवम् ।।५५ ।।
पत्नी पतिश्च कुर्यातां संस्कारपंचकं यदा ।
सधर्मिणौ भवेतां तु तदा भक्तौ न चान्यथा ।।५६।।
वैष्णवा मुनयः सर्वे सुदर्शनेन मुद्रिताः ।
तेषां पादोदकं पीत्वा सर्वपापैः प्रमुच्यते ।।५७।।
धृतोर्ध्वपुंड्रः परमेशितारं
नारायणं सांख्ययोगाधिगम्यम् ।
ध्यात्वा विमुच्येत नरः समस्तैः
संसारपाशैरिह चैति विष्णुम् ।।५८।।
धृतोर्ध्वपुंड्रो धृतचक्रलांछनो
नारायणं पूजयति स्म लक्ष्मीम् ।
अर्घ्यादिभिः पौरुषसूक्तमन्त्रैः
स प्राप्नुयाद्विष्णुपदं महात्मा ।।।५९।।
तत्प्रियार्थं शुभार्थं च रक्षार्थं मुक्तिलब्धये ।
सद्भक्तो धारयेन्नित्यमूर्ध्वपुंड्रं भयापहम् ।।1.114.६०।।
शंखचक्रगदापद्मखड्गशार्गांदिचिह्नितः ।
तुलसीचन्दनैर्लिप्तः कुर्यात्सन्ध्यामुपासनाम् ।।६ १ ।।
स्नानं दानं जपो होमः सन्ध्या स्वाध्यायकर्म च ।
यशः पितृक्रियोर्ध्वपुंड्रं विना निष्फलं मतम् ।।६२।।
अतप्ततनुर्न तदामो अश्नुते शृतास वै ।
इद्वहन्तस्तत्समाशत वृत्तदीर्घे कराधिकृण्महे ।।६३।।
अस्य विष्णोस्तप्ततनवः तरेयुः पातकांबुधिम् ।
पवित्रं चरणं नेमिहरेश्चक्रं सुदर्शनम् ।।६४।।
दीर्घं समूर्ध्वतिलकं कृत्वा यान्ति परं पदम् ।
तेन तप्ता तनुर्येषां ते यान्ति परमाक्षरम् ।।६५।।
सहस्रारं प्राकृतघ्नं ब्रह्मद्वारं महौजसम् ।
पवित्रमर्चिवदग्ने ब्रह्म तेन पुनीहि नः ।।६६।।
येन देवाः पवित्रेण ह्यात्मानं पुनते सदा ।
तेन सहस्रधारेण पवमान्यः पुनन्तु माम् ।।६७।।
प्राजापत्यं पवित्रं तच्छतोद्यामं हिरण्मयम् ।
वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे ।।६८।।
सनेमिचक्रं सततं चाक्षरस्य महात्मनः ।
तस्मिँश्चक्रवृते देहे महोन्नतिपदं लसेत् ।।६९।।
दिवस्पतेः सुविततं पवित्रं यस्य दक्षिणे ।
न तप्यते भुजे सम्यक्तस्य शोचन्ति वै क्रियाः ।।1.114.७०।।
ये वहन्ति भुजे चक्रं शंखं च विधिना जनाः ।
परानपि विलोमस्थांस्ते रक्षन्ति हरेः प्रियाः ।।७१ ।।
द्विविधं वैष्णवं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
शंखचक्रादिभिर्बाह्यमान्तरं हरिरक्षणम् ।।७२।।
अंगे चक्रादिहेतीनामंकनं वैष्णवं पुरा ।
भक्त्या हृदि सदा श्रीमन्नारायणसुसेवनम् ।।७३।।
तदेतद्द्वययुक्तत्वे वैष्णवत्वं भुवं भवेत् ।
इत्येवं चक्रमाहात्म्यं वैदिकार्थपुषं बहु ।।७४।।
तस्माद्धार्यं महादेवि! पार्वती! तत्सुदर्शनम् ।
येन रक्षा तथा मुक्तिरुभयं जायते ध्रुवम् ।।७५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने षोडशविधभक्तितप्तचक्रपुंड्रादिमहिमवर्णननामा
चतुर्दशाधिकशततमोऽध्यायः ।। १ १४।।