← अध्यायः ३०६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०७
[[लेखकः :|]]
अध्यायः ३०८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! धर्मपत्न्या भक्तेः पुत्र्यो कथां शुभाम् ।
अधिमासे मध्यतिथौ जातां वै पावनोत्तमाम् ॥ १ ॥
आदौ कृते युगे भक्तेर्मानस्यौ द्वे कुमारिके ।
प्राविर्भूते सुते नाम्ना प्रेयसी श्रेयसी ह्युभे ॥ २ ॥
सेवेते पितरौ नित्यं यत्र तौ तत्र ते ह्युभौ ।
पितरौ ते परित्यज्य प्राणान् धर्तुं न शेकतुः ॥ ३ ॥
पितृसेवापरे नित्यं स्वकर्तव्यपरायणे ।
प्रातः स्नात्वा च ते पित्रोः पादयोर्नेमतुः सदा ॥ ४ ॥
पित्रोः स्नानादिविध्यर्थं ददतुश्च जलादिकम् ।
स्नापयित्वा च वस्त्राणि ददतुर्धारणाय ते ॥ ५ ॥
चन्दनाऽक्षतसुमनः कुंकुमाद्यैः पुपूजतुः ।
सुमिष्टमृष्टनैवेद्यं फलं ताम्बूलकं जलम् ॥ ६ ॥
समर्प्य चक्रतुश्चोभे वर्ष्मसंवाहनादिकम् ।
मातापित्रोर्यदिष्टं चक्रतुश्चान्यद्विहाय ते ॥ ७ ॥
शयनास्तरणाद्यं च पात्राणां मंजनं तथा ।
गृहस्य मार्जनं वस्त्रक्षालनं त्वन्नपाचनम् ॥ ८ ॥
जलस्याऽऽहरणं कामधेनूनां दोहनादिकम् ।
अन्नानां शोधनं पूजापुष्पाद्यानयनं तथा ॥ ९ ॥
कृष्णनारायणमन्त्रजपनं देवपूजनम् ।
पितृसन्तर्पणं भूतयज्ञं चातिथिपूजनम् ॥ १ ०॥
दानं ज्ञानं चात्मबोधं विज्ञानं ब्राह्ममित्यपि ।
एवं सर्वे गृहकार्ये पित्रोः सेवां मुहुस्तथा ॥ १ १॥
यथापेक्षं तथाऽन्यच्च चक्रतुश्च दिवानिशम् ।
तेनाऽऽशीर्वादपात्रे ते बभूवतुर्बहुप्रिये ॥ १२॥
यथा नाम तथा तत्र गुणा वासं प्रचक्रिरे ।
यथाबलं यथाशक्ति सर्वभावेन सुन्दरी ॥ १ ३॥
अनादृत्यैव देहं स्वं कष्टं यत्र दिवानिशम् ।
सर्वस्वभोगदानेन सेवया प्रेयसी सदा ॥ १४॥
अतिप्रिया ह्यतिप्रेमपात्रं पित्रोर्बभूव सा ।
प्रेयसी तेन सा भुक्तिरिति ख्यातिं जगाम सा ॥ १५॥
पित्रोः श्रेयः परेषां च श्रेयःकर्त्री सदाऽपरा ।
कन्यकाऽऽर्तिजनानां च विधूयाऽऽर्तीन् मुहुर्मुहुः ॥ १६॥
सुखं मोक्षसमं सम्यक् करोतीति सुकर्मभिः ।
श्रेयसी तेन सा मुक्तिरिति ख्यातिं ययावपि ॥ १७॥
प्रेयसीश्रेयसीपुत्र्यौ धर्मभक्त्योः कृपाकणात् ।
भुक्तिर्मुक्तिश्चेति दिव्ये नाम्नी दध्यतुरर्थवत् ॥ १८॥
ययोः पिता स्वयं धर्मो जननी भक्तिरैश्वरी ।
निधानं परमं दिव्यं किमाश्चर्यं तयोर्गुणे ।।१९।।
पित्रोः पवित्रयोः सेवा कं न धत्ते गुणोत्तमम् ।
पितरौ तोषितौ येन तोषितस्तेन माधवः ॥२०।।
तोषिताश्च सुराः सर्वे तोषितं सकलं जगत् ।
अथाऽपुत्रवतोः पित्रोस्तोषदा स्यात् सुता यदि ॥२१॥
सा वै पुत्रसमा प्रोक्ता पितरौ तारितौ तया ।
यया त्वत्र स्वकौ वृद्धौ पितरौ तोषितौ धिया ॥२२॥
सास्ति पुत्रनिभा पुत्री दायभागाधिकारिणी ।
देहे यद्यपि कन्या सा हृदये सुत आत्मनि ॥२३ ॥
सुतवत् सा सदा रक्ष्या तया स्वर्गे तयोर्ध्रुवम् ।
तया दत्तं जलं चान्नं दानं पित्रोः प्रयाति हि ॥२४॥
यस्य सन्ति न वै पुत्राः पुत्री तस्य क्रियाश्चरेत् ।
यशं दानं जपं होमं स्वाध्यायं पितृतर्पणम् ॥२५॥
सर्वं कुर्याद् विधिं पुत्री धारयेदुपवीतकम् ।
तिष्ठेच्च ब्रह्मचर्ये सा यावत् पित्रोः प्रसेवनम् ॥२६॥
जाते पुत्रेऽथवाऽऽदत्ते पश्चात् पित्राज्ञयाऽपि सा ।
ब्रह्मचर्यं प्रसमाप्य विधिना स्याद् विवाहिता ॥२७॥
ब्रह्मचर्यस्थितौ जाते राजस्वल्याद्यशुद्धिके ।
ब्रह्मचर्यस्य तपसः प्राबल्येन न दूषणम् ॥२८॥
अशुद्धिः पालनीया स्याद् यावद्दिनचतुष्टयम् ।
वार्षल्यं वान्यदोषो वा पापं वा नास्ति तत्कृते ॥२९॥।
ब्रह्मचर्याग्निना सर्वं दैह्यं संयाति भस्मताम् ।
ब्रह्मचर्यसमो धर्मो न भूतो न भविष्यति ॥३ ०॥
कन्यां वा लग्नयुक्तां वा ह्यधवां वा धवान्विताम् ।
अयोगां वा सयोगां वा पावयेद् ब्रह्मचर्यकम् ॥३ १॥
ब्रह्मचर्ये ब्रह्मभक्तिर्ब्रह्मव्रतं च यत्र वै ।
तत्र ब्रह्मातिरिक्तं वै भस्मसाद् याति वैशसम् ॥३२॥
बीजघ्नत्वं रजोघ्नत्वं ऋतुघ्नत्वादि दूषणम् ।
ब्रह्मचर्ये भूषणं तद् बीजादि मोक्षकृद्धि तत् ॥३३ ॥
एवं ते कन्यके पित्रोः सेवां चक्रतुरादरात् ।
ब्रह्मचर्यस्थिते नित्यं धर्मभक्तिगृहे शुभे ॥ ३४॥
प्रातस्ते सत्यलोके वै स्वर्णद्यां स्नातुमागते ।
ताभ्यां तु दुन्दुभिः कृष्णनारायणस्य संश्रुतः ॥ ३५॥
धाम्नां धाम्न्यवताराणामवतारी पुमुत्तमः ।
अत्राधिके महामासे ददामि पुरुषोत्तमः ॥ ३६॥
मध्यतिथेर्व्रतकर्त्रेऽक्षरं धाम च सम्पदः ।
मत्सान्निध्यं मम रूपं मदैश्वर्यं ददामि च ॥ ३७॥
मम साम्यं मम राज्यं मम लोकं ददामि च ।
मम योगं मम शक्तिं दिव्यतां मे ददामि च ॥३८॥
मदंकं मम मूर्तिं च मत्समख्यातिमित्यपि ।
मत्समा पूज्यतां चैव श्रेष्ठतां च ददामि वै ॥३९॥
मद्भावं मम दिव्यत्वं मम तेजो ददामि च ।
मम सिंहासनं दिव्यं मद्वद् व्यापकतां तथा ॥४० ॥
मदात्मकत्वं तादात्म्यं मध्याव्रते ददामि च ।
अहं पूर्णोऽर्धमासेऽत्र व्रतं पुष्टफलप्रदम् ॥४ १ ॥
शाश्वतं सत्फलं दास्ये गृह्णन्तु चार्जयन्तु च ।
पुरुषोत्तममासोऽयं मम मासोऽस्ति चोत्तमः ॥४२॥
तदेकदिनजं पुण्यं सर्वेभ्योऽप्यतिरिच्यते ।
अशाश्वतानि चान्यानि ह्येतत्पुण्यं तु शाश्वतम् ॥४३॥
अहं वै शाश्वतो देवो मासोऽपि मम शाश्वतः ।
व्रतं च शाश्वतं मेऽस्ति पुण्यं गृह्णन्तु शाश्वतम् ॥४४॥
माता सन्तोषिता येन भक्त्या संतोषितः पिता ।
मातापितृप्रसादेन फलं गृह्णन्तु शाश्वतम् ॥४५॥
यथेष्टं कल्पयित्वैव कुर्वन्तु मध्यमाव्रतम् ।
पूरयिष्यामि संकल्पान् योग्यान् योग्येतरानपि ॥४६॥
दुन्दुभिः श्रावयित्वैवं क्षणं मौनं दधार च ।
कन्यादत्तं पत्रपुष्पफलं त्वादाय निर्ययौ ॥४७॥
कन्यके कृतसंकल्पे मध्यातिथेर्व्रताय वै ।
गत्वा गृहं च विधिवत् पूजयामासतुः प्रभुम् ॥४८॥
सौवर्णी प्रतिमां कृष्णनारायणस्य शोभनाम् ।
कारयित्वाऽऽवाहनं चक्रतुः षोडशवस्तुभिः ॥४९॥
क्रमेण पूजनं योग्यं प्रथमं पयआदिना ।
पञ्चामृतेन संस्नाप्य कारयामासतुस्ततः ॥५० ॥
तीर्थोदकेन संस्नानं मार्जयामासतुस्ततः ।
वस्त्रेणाऽङ्गं च धौत्रादि धारयामासतुस्ततः ॥५ १ ॥
भूषयामासतुराभूषणैश्चन्दनकज्जलैः ।
शृंगारयामासतुश्च पुष्पहारादिभिस्ततः ॥५२॥
शोभयामासतुः कृष्णनारायणं द्रवोत्तमैः ।
नुगन्धयामासतुश्च गन्धसारादिभिश्च ते ॥५३॥
कुंकुमाऽक्षततुलसीपत्रादि शेखरादिकम् ।
अर्पयामासतुस्तस्मै पुरुषोत्तमरूपिणे ॥५४॥
धूपं दीपं सुनैवेद्यं मिष्टान्नं पायसादिकम् ।
निवेदयामासतुश्च फलं ताम्बूलचूर्णकम् ॥५५॥
प्रदक्षिणां दण्डवच्च नमस्कारं क्षमापनम् ।
आरार्त्रिकं स्तुतिं पुष्पाञ्जलिं ददतुरादरात् ॥५६॥
अर्घ्यं दत्वा च संकल्पं पुरुषोत्तमलब्धिकम् ।
विज्ञापयामासतुश्च हृदा प्रार्थनया मुहुः ॥५७॥
कुमारीत्वं सदाकालं योग्यं वै ब्रह्मधामनि ।
मुक्तत्वं तत्र योग्यं वै दिव्यावस्थादिशोभितम् ॥५८॥
ब्रह्मचर्यं ब्रह्मरूपं ब्रह्मैव परमेश्वरः ।
आवयोः रक्षकश्चाऽस्तु कृष्णनारायाणो हरिः ॥५९॥
रक्षकः प्रेरको धाता विधाता धारको हि सः ।
पोषकः सहजो नाथः सर्वेश्वरेश्वरेश्वरः ॥६० ॥
अक्षराधिपतिः कृष्णो ब्रह्मेशः पुरुषोत्तमः ।
नाथः पाता तं विनाऽन्यः कश्चित्पाताऽस्ति नाऽऽवयोः ॥६ १॥
कृपानाथ क्रियानाथ यत्ननाथ फलप्रद ।
वर्ष्मनाथाऽऽत्मनोर्नाथ सर्वनाथाऽक्षरं नय ॥६२॥
तव स्वो दासिके कृष्णनारायण हृदिस्थित ।
अन्तर्यामिन् व्रतपुण्यप्रदातर्हृदयंगम! ॥६३॥
हृन्निवास हृदयज्ञ भावज्ञ पूरयाऽऽन्तरम् ।
करौ संगृह्य नौ कृष्ण शीघ्रं नयाऽक्षरं प्रभो ॥६४॥
इति स्तुत्वा ददतुस्ते स्वक्षतान् मूर्तये यदा ।
तावत्तत्र दयालुः स आविर्बभूव सुन्दरः ॥६५॥
किशोरो दिव्यरूपश्च कृष्णनारायणो हरिः ।
गजपृष्ठे स्थितो दिव्यरूपानुवयवः पुमान् ॥६६॥
यत्केशानां प्रान्तभागाः कोटिविद्युत्समोज्ज्वलाः ।
आमूलात् स्निग्धकृष्णाभा मञ्जुलाश्च तरंगिताः ॥६७॥
चमत्कृतिंभरा भंगीशोभितास्तस्य मूर्धजाः ।
पश्चात्तु कर्णयोर्मध्ये प्रान्तेऽप्याकर्षकाः शुभाः ॥६८॥
ललाटफलकं चोर्ध्वरेखाचन्द्रविराजितम् ।
भ्रूधनुःकोटिकामानां शुभं गर्वापहारकम् ॥६९॥
भालेऽविच्छिन्नसद्रेख ब्रह्ममार्गप्रसूचिका ।
कर्णयोर्निकषा गत्वा लोकद्वयविबोधिका ॥७०॥
शष्कुलीद्वयशोभाढ्यौ कर्णौ मोहकरावुभौ ।
सुरक्तपुण्डरीकाभे नेत्रे द्वे सुदलायते ॥७१॥
विद्युत्समातिसूक्ष्माभा रेखाः सन्ति मनोहराः ।
आकर्णान्तं सकोणं च भावगर्भं च कामिनम् ॥७२॥
एह्यागच्छेति हृदयस्थितस्य व्यञ्जकं हि तत् ।
सुरक्त प्रोन्नतं हास्यबोधकं नेत्रगण्डकम् ॥७३॥
तस्यासीन्नासिका रम्या तिलपुष्पसमाकृतिः ।
ओष्ठौ पक्वसुरक्ताढ्य बिम्बतुल्यौ बभूवतुः ॥७४॥
सूक्ष्म रम्या नातिगम्या श्मश्रुरेखा स्म राजते ।
कम्बुकण्ठः पुष्टवक्षाः स्कन्धौ पुष्टौ तथा हरेः ॥७५॥
भुजंगभोगवद्धस्तौ नखचन्द्रावलिश्रयौ ।
ध्वजधनुर्महामीनबाणस्वस्तिकराजितौ ॥७६॥
शूलचक्राब्धिजरेखान्वितौ कराञ्जली हरेः ।
रोमराजिमयौ शुभ्ररक्तरंगौ करावुभौ ॥७७॥
श्रीवत्सकौस्तुभलक्ष्मीरेखाहारमुरःस्थलम् ।
उदरं त्रिवलीशोभं नाभौ ब्रह्मासनं शुभम् ॥७८॥
कटिः कृशा तथा गुप्तं सच्चिदानन्दपूरितम् ।
हस्तिकरोपमे रम्ये सक्थिनी रोमराजिते ॥७९॥
जानू च वर्तुलौ तस्य जङ्घे पुष्टोत्तरे कृशे ।
गुल्फत्रयं प्रतिपादं मध्योन्नतं प्रकाशकृत् ॥८०॥
षोडशांकसुरेखाभी राजन्नखमणिप्रभम् ।
सर्वं द्व्यष्टसमं पुष्टं तेजःपूरितविग्रहम् ॥८१॥
सुरूपं श्रीकृष्णनारायणस्य परमाद्भुतम् ।
अपश्यतां च ते कन्ये प्रेयसीश्रेयसी ह्युभे ॥८२॥
जहर्षतुश्च वै तत्र प्राप्य श्रीपुरुषोत्तमम् ।
पुष्पमाले धारयामासतुः कण्ठे हरेरुभे ॥८३ ॥
उभे च ' सन्निधौ तस्य स्थिते भावाऽऽर्द्रतां गते ।
हरिस्ते प्राह भक्त्या मे व्रतेनाऽथ च भावतः ॥८४॥
वां नयामि मम धामाऽक्षरं सुखसुपूरितम् ।
मयि तादात्म्यभावेन वां नयामि च वर्ष्मणी ॥८५॥
इत्युक्त्वा भगवाँस्तत्र तिरोबभूव तत्क्षणम् ।
ते ह्युभे चाति संविग्ने ह्यभूतां तद्वियोगतः ॥८६॥
मध्याह्ने तादृशीं पूजां सायं चापि तथा निशि ।
चक्रतुर्विधिना कृष्णनारायणस्य जागरम् ॥८७॥
नर्तनं गायनं दिव्यं चक्रतुर्मध्यरात्रिके ।
तावत्पुनः समायातो द्रुतं रात्रौ महाप्रभुः ॥८८॥
स्वज्योत्स्नाव्याप्तधवलः सर्वेषां श्रेयसांकरः ।
यथा प्राप्तस्तथा रात्रौ राजते स्म हरिः स्वयम् ॥८९॥
गृहे तत्रोत्सवे प्राप्तं ज्ञात्वा श्रीपुरुषोत्तमम् ।
धर्मो भक्तिश्च तं नत्वा ज्ञात्वा श्रीहरिमागतम् ॥९० ॥
पुत्रीद्वयं स्वकं धाम नेतुमाज्ञां प्रचक्रतुः ।
प्रेयसी श्रेयसी प्राप्य हरिं श्रीपुरुषोत्तमम् ॥९ १ ॥
कृतकृत्येऽतिसम्पन्नेऽक्षरे धाम्नि विराजिते ।
भुक्तिर्मुक्तिश्च ते ख्याते दिव्ये धामनि तत्र वै ॥ ९२॥
धर्मभक्त्योश्च सेवार्थं कृष्णनारायणेन च ।
द्वेधा रूपे च ते कृत्वाऽर्पिते पित्रोर्गृहेऽपि च ॥९३॥
यत्र धर्मश्च भक्तिश्च तत्र भुक्तिश्च मुक्तिका ।
लोकेऽपि द्वे च वर्तंते वर्तेते चापि धामनि ॥ ९४॥
तेऽश्नुवाते सर्वकामान् ब्रह्मणा सह शाश्वतान् ।
एवं ते प्राप्तवत्यौ वै धाम श्रीपरमात्मनः ॥ ९५॥
यश्चात्र धर्मवान् भक्तिमाँश्च स्यात्परमेश्वरे ।
भुक्तिं मुक्तिं स चासाद्य मोदते ब्रह्मणा सह ॥९६ ॥
प्रेयसीं श्रेयसीं प्राप्य मोदतेऽक्षरधामनि ।
श्रोता वक्ताऽस्य लभते पूर्णं व्रतफलं प्रिये ॥ ९७॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मभक्त्योर्मानसीपुत्र्योः प्रेयसी-श्रेयस्योः पितृसेवा, मासमध्यमायास्तिथेर्व्रतेनाऽक्षरधाम्नि श्रीपुरुषोत्तमप्राप्तिः, भुक्तिमुक्तिरिति ख्यातिश्चेत्यादि-निरूपणनामा सप्ताधिकत्रिशत-तमोऽध्यायः ॥ १.३०७॥