← अध्यायः ३१० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३११
[[लेखकः :|]]
अध्यायः ३१२ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पूर्वकल्पोद्भवा कथा ।
सौराष्ट्रे रैवतभूमौ समित्पीयूषनामकः ॥ १ ॥
राजा बभूव तत्पत्न्यो बभूवुः सप्तविंशतिः ।
ऊर्जाहुतिः पुष्करिणी पद्मपत्रा करीषिणी ॥ २ ॥
विश्वप्रियाऽऽदित्यवर्णा हरिणी हेममालिनी ।
वसुधीतिर्वह्निशिखा पद्माक्षी पद्ममालिनी ॥ ३ ॥
प्रभासा जगती पंक्तिर्बृहतीडा पिशंगिनी ।
सुषुम्णा च पुरीततिर्विश्वार्चिः पद्मनेमिका ॥ ४ ॥
हिरण्यवर्णा चन्द्रा च पद्मवर्णा च वम्रिका ।
विद्युल्लेखा च ताः सर्वाः पातिव्रत्यपरायणाः ॥ ५ ॥
कुर्वन्त्यो भगवद्भक्तिं दानधर्मपरायणाः ।
अतिथीनां च सत्कारं कुर्वन्त्यो भावपूर्वकम् ॥ ६ ॥
स्नानं ध्यानं देवपूजां जपं कुर्वन्ति चादरात् ।
होमं दैवं तथा पैत्र्यं भौतं कुर्वन्ति सत्क्रतुम् ॥ ७ ॥
आश्रितान् भोजयित्वैव भुञ्जन्ति च पिबन्ति च ।
शतसाहस्रदासीषु सतीष्वपि स्वहस्तकैः ॥ ८ ॥
विष्णोः सेवां धवसेवां कुर्वन्ति स्वीयधर्मतः ।
विष्णोरर्थं पाचनं च तण्डुलादिविशोधनम् ॥ ९ ॥
कण्डनं वारिभरणं गृहमार्जनमित्यपि ।
पात्राणां देवपूजाया घर्षणं क्षालनादिकम् ॥ १० ॥
तुलसीपत्रपुष्पाणामाहृत्याद्यं च ताः सदा ।
कुर्वन्त्येव महाभक्त्या नान्यद्वारा कदाचन ॥ ११ ॥
हर्यर्थं खलु भक्तानां किमकार्ये भवेन्ननु ।
सर्वस्वं त्वर्पितं यत्र वर्ष्मणा किं न जायते ॥ १२ ॥
अनित्येन तु देहेन नित्यं पुण्यं समर्जयेत् ।
येन भुक्तिस्तथा मुक्तिः कृष्णस्य कृपया भवेत् ॥ १३ ॥
स एव सर्वथा वन्द्यः पूज्यस्तोष्यः परेश्वरः ।
यस्मात् सर्वं प्रभवति भोग्यं भोज्यं सुखादिकम् ॥ १४॥
सम्पत् स्मृद्धिर्धनं पत्नी पतिः सुतसुतादिकम् ।
क्षेत्रं स्वर्गं महाराज्यं यस्मात्तं वै भजेद् बुधः ॥ १५॥
यावत् स्वास्थ्यं भवेद् देहे वश्यमिन्द्रियमण्डलम् ।
जाठराग्निर्युवा पक्ता दैहिके सानुकूलता ॥ १ ६॥
तावदात्महितं साध्यं काम्यं वा कामवर्जितम् ।
परमेशपदं नित्यानन्दपूर्णं तु शाश्वतम् ॥ १७॥
विगमे विकले भावे न स्याद्वै दर्शनादिकम् ।
श्रीहरेस्तत् सदा कार्यं दर्शनं चक्षुषा मुदा ॥ १८॥
विकर्णे बधिरे भावे न स्यान्नामश्रवो हरेः ।
सुगमे साऽनुकूलेऽस्मिन् कार्यं श्रवणमाच्युतम् ॥ १ ९॥
वृक्णे वा विकले सेवा न भवेद्वै सतां हरेः ।
सुबले सानुकूले च हस्ते सेव्यो हरिः स्वयम् ॥ २० ॥
प्रबले सुगमे पादे गम्यं मन्दिरमैश्वरम् ।
अनुद्विग्नेऽप्रमत्ते च मानसे वाजसंभृते ॥ २ १ ॥
मन्तव्यो भगवान् कृष्णनारायणः सुखप्रदः ।
अन्तरात्मा स्वात्मना वै समुपास्यः सदा प्रभुः ॥ २२॥
भग्ने तु नगरे सर्वे त्यक्त्वा यास्यन्ति विष्टयः ।
दृढपादात्मके तत्र साध्यः श्रीपुरुषोत्तमः ॥ २३॥
एवं निर्णीय सर्वास्ताः समित्पीयूषयोषितः ।
सेवन्ते श्रीहरिं नित्यं मन्दिरे निर्मिते शुभे ॥ २४॥
समित्पीयूषनृपतिश्चक्रे त्रिषवणं सदा ।
त्रिकालं प्रार्चनं कृष्णनारायणस्य सन्दधे ॥ २५॥
एवं वै वर्तमानानां तासां कालो महान् गतः ।
तत्कल्पे कार्तिककृष्णाष्टमी कृष्णाष्टमी ह्यभूत् ॥ २६॥
दीपोत्सवतिथेः पूर्वं सप्ताहव्यवधानिकी ।
इषपूर्णां समारभ्य चक्रुस्ता एकभुक्तकम् ॥२७॥
अष्टम्यामुपवासं च चक्रुस्ता निर्जलं मुदा ।
पुरुषोत्तमसंज्ञस्य कृष्णस्य प्रतिमां शुभाम् ॥२८ ॥
कानकीं कारयित्वा च तथा कृष्णस्य मातरम् ।
कंभराख्यां कानकीं च कारयित्वा च तास्तथा ॥ २९ ॥
गोपालं कृष्णपितरं कारयित्वा तु कानकम् ।
मण्डपं कारयित्वा चाऽऽनर्चुः श्रीपुरुषोत्तमम् ॥ ३० ॥
नृत्यं सवाद्यं चक्रुस्ताः कण्ठस्वरविमिश्रितम् ।
तावदाविर्बभूव श्रीकृष्णनारायणो हरिः ॥ ३१ ॥
चतुर्भुजः कौस्तुभाढ्यः पीताम्बरादिकाम्बरः ।
नवीनजलदश्यामः श्वेतकान्तिविराजितः ॥ ३ २ ॥
दृष्ट्वाऽऽश्चर्य तु ताः प्रापुः क्षणं श्रीपुरुषोत्तमम् ।
ततस्ता मुमुहुस्तत्र दिव्यमूर्तौ मनोहरे ॥ ३३ ॥
दिव्याऽऽभूषादि चानीयाऽर्पयामासुः ससंभ्रमाः ।
ऊर्जाहुती ददौ तस्मै पौरटं मुकुटं तदा ॥ ३४॥
पुष्करिणी ददौ तस्मै पौरटे कुण्डले शुभे ।
पद्मपत्रा तल्ललाटे चक्रे पुण्ड्रं तु चान्दनम् ॥ ३५॥
करीषिणी दृशोस्तस्य चक्रे सत्कज्जलांजनम् ।
विश्वप्रिया स्वर्णपुष्पहारान् ददौ तु शार्ङ्गिणे ॥ ३६ ॥
आदित्यवर्णा प्रददौ कटके भुजबन्धकौ ।
हरिणी त्वर्पितवती ह्यूर्मिकाः कानकीर्नवाः ॥ ३७॥
हेममालिनी प्रददौ रशनां शृंखलां शुभाम् ।
वसुधीतिर्ददौ स्वर्णनूपुरौ किंकिणीयुतौ ॥ ३८ ॥
वह्निशिखाऽर्पितवती पादुके स्वर्णनिर्मिते ।
पद्माक्षी प्रददौ यज्ञोपवीतं योगपट्टकम् ॥ ३९ ॥
पद्ममालिनी प्रददौ मिष्टान्नं शाकपायसम् ।
प्रभासा प्रददौ तस्मै पानाय शीतलं जलम् ॥४० ॥
जगती त्वर्पितवती फलं ताम्बूलकं तथा ।
पंक्तिर्ददौ सुगन्धं च पुष्पसारं च धूपकम् ॥४१ ॥
बृहती प्रददौ तस्मै घृतदीपं सुमंगलम् ।
इडा छत्रं दधाराऽस्य शिरसि स्वर्णभास्वरम् ॥४२॥
सुषुम्णा पिंगला श्वेते दध्यतुश्चामरे ह्युभे ।
पुरीतत् व्यजनं धृत्वा करोति पवनार्पणम् ॥४३ ॥
विश्वार्चिर्नक्तकं रम्यं कृष्णहस्ते ददौ तदा ।
पद्मनेमिर्ददौ पुष्पगुच्छं कृष्णकरे तदा ॥४४॥
हिरण्यवर्णा प्रददौ चक्रं सहस्रनेमिकम् ।
चन्द्रा ददौ कृष्णहस्ते पद्मं सुवर्णनिर्मितम् ॥४५॥
पद्मवर्णा ददौ शंखं वम्री ददौ तदा गदाम् ।
विद्युल्लेखा ददौ चास्मै चूम्बनं परमात्मने ॥४६॥
सा सर्वाभ्यो बभूवाऽतिप्रेमपात्रं परात्मनः ।
तत्पुण्येनाऽत्यधिकं सा पत्युः प्रेमास्पदा पुनः ॥४७॥
चन्द्रपत्नी रोहिणी सा जन्मान्तरे बभूव वै ।
इत्येवं तूपदाः दत्वाऽऽरार्त्रिकं ताश्च चक्रिरे ॥४८॥
अन्यास्तु चूम्बनं दृष्ट्वा लज्जां हृत्सु प्रपेदिरे ।
फलं तासां नातिमानं चन्द्रात् तास्तु प्रपेदिरे ॥।४९॥
दासी सर्वजितानाम्नी पादसंवाहनं व्यधात् ।
सा तु सेवापरा यस्मात् स्नेहपात्रं तदाऽभवत् ॥।५०॥
पुष्पाऽक्षताञ्जलीन् चार्घ्यं ताश्च सर्वा ददुस्ततः ।
प्रदक्षिणनमस्कारस्तवनाद्यं प्रचक्रिरे ॥५१ ॥
कृष्णस्त्वतिप्रसन्नश्च ददौ प्रसादपायसम् ।
गृहीत्वा तृप्तिमापन्ना दध्युस्तं हृदयाम्बुजे ॥५२॥
कृष्णः प्राह तु ता देवीर्भवन्त्वमृतभोजनाः ।
स्वर्णरत्नमणिहारा दिव्या दिवि कृतगृहाः ॥५३ ॥
इत्याशिषः प्रदायैवाऽदृश्यो बभूव केशवः ।
तास्तु पूजां समाप्यैव पतिं प्राहुरुदन्तकम् ॥५४॥
अतितुष्टो बभूवापि समीत्पीयूषभूपतिः ।
नित्यं पत्नीयुतः स्वर्गं वाञ्छति पूजनोत्तरम् ॥५५॥
पत्न्यश्चापि तु वाञ्छंति कृष्णोक्तं नाकमैश्वरम् ।
एवं काले गते कल्पप्रान्ते कृष्णस्य वै श्रुतः ॥५६॥
दुन्दुभिर्घोषणां कुर्वन् पुरुषोत्तमशासनाम् ।
शृण्वन्तु वै नरा नार्यो देवा देव्योपि मद्वचः ॥।५७॥
यासां येषां यथेष्टं यद् दास्यामि तत्तथाविधम् ।
पुरुषोत्तमसंज्ञोऽहं परंब्रह्म सनातनः ॥५८॥
प्रवदामि कृपया वै विना पुण्यस्य तोलनम् ।
स्वल्पे कृतेऽप्यसंख्यातं फलं ददामि सर्वथा ॥५९॥
ये जना मे फलं पुष्पं पत्रं चन्दनमक्षतान् ।
अर्पयिष्यन्त्यधिमासे चतुर्थ्यां काम्यकर्मकृत् ॥६० ॥
तेषां तु कामनाः सर्वाः पूरयिष्ये पुमुत्तमः ।
सर्वं मेऽस्ति मयि सर्वं मया व्याप्त चराचरम् ॥६ १ ॥
नातिरिक्तं स्वतन्त्रं वै किञ्चिदस्ति जडाजडम् ।
जडं चाप्यजडं तत्त्वं मदीयं त्वस्ति सर्वथा ॥६२॥
मोक्षस्थानानि सर्वाणि सिद्ध्यैश्वर्यस्थलान्यपि ।
विभूतयश्चेश्वराणां देवानां च पदानि वै ॥६३॥
मानवानां तथा पातालस्थानां च समृद्धयः ।
सर्वं त्वस्ति ममैवेदं यदिच्छन्तु ददाम्यहम् ॥६४॥
पुरुषोत्तममासस्य व्रतं पाक्षिकमाह्निकम् ।
नैशं वापि कृतं येन तस्य किञ्चिन्न दुर्लभम् ॥६५॥
राजा यथाबलं कुर्याद् व्रतं दानं च पूजनम् ।
प्रजा यथाधनं कुर्याद् व्रतं दानं समर्पणम् ॥६६ ॥
नरो नारी यथाधर्मं कुर्यान्मेऽधिकमासिकम् ।
व्रतं ते मे जनं बाहं विस्मरामि कदाचन ॥६७॥
अद्य कालान्तरे वापि यथातोषं फलं बहु ।
ददाम्येव न सन्देहो न मे भक्तोऽफलो भवेत् ॥६८॥
सकामस्य कृते स्वर्गादयो लोकाः कृता मया ।
अकामस्य कृते ब्रह्मलोकोऽस्ति रक्षितो मया ॥६९॥
सर्वेषु सुखबाहुल्यं ब्रह्मलोके त्वनन्तकम् ।
ददाम्याश्रितभक्ताय मदर्थे व्रतकारिणे ॥७ ० ॥
नात्र मूल्यं स्वकृतस्य मूल्यं तु वचसो मम ।
वचो मम धृतं येन फलं तस्याऽप्यनन्तकम् ॥७ १ ॥
नहि वृष्टिप्रदे यज्ञे कृते वृष्टिर्हि तादृशी ।
यादृशी घनकाले स्यादमाना चाप्यनन्तका ॥७२ ॥
स्वयं वर्षामि भगवान् श्रीहरिः पुरुषोत्तमः ।
कृपया घनरूपोऽहं पुरुषोत्तममासि वै ॥७३ ॥
यथापात्रं यथापेक्षं प्रगृह्णन्तु मयाऽर्पितम् ।
वस्त्रफाले फलं कृत्वा विकीर्यतेऽनु यान्तु तत् ॥७४॥
पुरुषोत्तममासस्य करिष्यन्ति प्रशंसनम् ।
येऽपि तेऽप्यर्जयिष्यन्ति यथेष्टं सुखमुत्तमम् ॥७५॥
पुरुषोत्तममासस्य व्रतार्थे त्वन्यदेहिनाम् ।
अनुमोदं प्रदास्यन्ति तेऽपि स्वःसुखभागिनः ॥७६॥
अधिमासे व्रतकर्तुः साहाय्यं ये तु मानवाः ।
करिष्यन्ति च तेभ्योऽपि दास्ये यथेप्सितं सुखम् ॥७७॥
किमु स्याद् दुर्लभं चाधिमासे भक्तस्य मे खलु ।
धाम दास्ये धनं दास्ये दारान् दास्ये सुतान् पशून् ॥७८ ॥
पतिं दास्ये सुतां दास्ये गां राज्यं चिरजीविताम् ।
आरोग्यं चेन्द्रियानन्दं दास्येऽपि शाश्वतं सुखम् ॥ ७९।।
इति वै -दुन्दुभिं श्रुत्वा समित्पीयूषभूपतिः ।
तत्पत्न्यश्चातिभक्तिस्था अपि वै सप्तविंशतिः ॥८ ० ॥
दासी च दुन्दुभिं नत्वाऽक्षतपुष्पफलादिभिः ।
सम्पूज्य चक्रिरे कर्तुं चतुर्थीव्रतमुत्तमम् ॥८ १ ॥
प्रातः पूजां हरेः कृत्वा मध्याह्नेऽपि सभोजनम् ।
पूजनं कारयित्वैव सायं चक्रुः प्रपूजनम् ॥८२॥
पायसं पूरिकाः भोजयित्वाऽऽरार्त्रिकमादधुः ।
नृत्यगीतप्रवाद्यैश्चक्रिरे जागरणं निशि ॥८३॥
प्रातः स्नात्वा कृष्णनारायणं सम्पूज्य भावतः ।
दानं ददुस्तु रत्नानां रसानां समिधां तथा ॥८४॥
हविष्याणां चामृतानां मिष्टान्नानां च दक्षिणाः ।
स्वर्णरूप्यात्मिकाश्चापि फलवस्तूनि वै ददुः ॥८५॥
चन्द्रकान्तान् ददुः सौम्यान् शीतलान् स्वर्णदान्ददुः ।
तदा विप्रस्वरूपेण श्रीकृष्णः पुरुषोत्तमः ॥८६॥
समाजगाम सत्पात्रं भूत्वा रत्नाभिलाषुकः ।
समित्पीयूषनृपतिस्तदा सर्वप्रियायुतः ॥८७॥
ददौ रत्नाढ्यमालां च नमश्चक्रेऽतिभावतः ।
विप्रः प्राह वरं राजन् याचस्व भविता तथा ॥८८॥
समित्पीयूष आकर्ण्य वव्रे चान्द्रं सुराज्यकम् ।
सुधावर्षित्वरूपं वै ययाचे समिधां कृते ॥८९॥
पत्न्यश्चापि तथा चन्द्रपत्नीत्वं वव्रिरे दिवि ।
तथास्त्विति वरं दत्वा तिरोबभूव भूसुरः ॥९० ॥
कल्पान्ते प्रलयं प्राप्य सृष्ट्यादौ स तु भूपतिः ।
समित्पीयूषनाम्नोऽर्थं सार्थं कुर्वन् हरिच्छया ॥९ १॥
अमृतांशुश्चौषधीनां पोषकश्चन्द्रमा दिवि ।
बभूव तस्य पत्न्यश्च दक्षपुत्र्यः प्रजज्ञिरे ॥९२॥
दक्षेण विधिना दत्तास्तस्मै ताः सप्तविंशतिः ।
विद्युल्लेखा बभूवाग्र्या रोहिणीनामतः प्रिया ॥९३॥
अन्याश्चापि मृगशीर्षा ह्यार्द्रा पुनर्वसुस्तथा ।
पुष्याऽऽश्लेषा मघा पूर्वफाल्गुन्युत्तरफाल्गुनी ॥९४॥
हस्तश्चित्रा तथा स्वाती विशाखा चानुराधिका ।
ज्येष्ठा मूला पूर्वषाढोत्तराषाढा श्रवात्मिका ॥९५॥
धनिष्ठा शतभीषा च पूर्वभाद्रपदा तथा ।
उत्तरभद्रिका चैव रेवती त्वश्विनी तथा ॥९६॥
भरणी कृत्तिका चेति मिलिताः सप्तविंशतिः ।
बभूवुश्च दिवि चन्द्रपत्न्यो देव्योऽमृतप्रदाः ॥९७॥
दासी देवयुतीनाम्नी जाताऽभिजित्समाह्वया ।
मध्याह्नेऽस्याः कृतो वासः सर्वकार्यजयप्रदः ॥९८॥
आकल्पं ताश्च वर्तन्ते चतुर्थ्या व्रतपुण्यतः ।
तस्मात् कार्यमधिवासोऽपरचतुर्थ्युपोषणम् ॥९९॥
एकभुक्तं च वा नक्तं फलाहारं ममार्चनम् ।
श्रोता वक्ता तथा चास्य चतुर्थीव्रतभाग्भवेत् ॥ १०० ॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये समित्पीयूषराज्ञस्तत्सप्तविंशतिपत्नीनां दुन्दुभिश्रवणोत्तरं द्वितीयपक्षचतुर्थीव्रतकरणेन दिवि चन्द्रराज्यनक्षत्रराज्यप्राप्तिर्दास्या अभिजित्त्व-प्राप्तिश्चेत्यादिनिरूपणनामा एकादशा-धिकत्रिशततमोऽध्यायः ॥ १.३११ ॥