लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१३

← अध्यायः ३१२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१३
[[लेखकः :|]]
अध्यायः ३१४ →


श्रीनारायण उवाच-
 श्रूयतां च त्वया लक्ष्मि! श्रीपुरुषोत्तमाश्रिता । कथा सम्पत्प्रदा सौख्यप्रदा सर्वेष्टदा सदा ।। १ ।।
 पूर्वे कल्पे ब्रह्मणो वै मरुदेशेऽतिधार्मिकः । धनाढ्यो ब्राह्मणो नाम्ना देवयवो बभूव ह ।। २ ।।
 तस्य पत्नी देवजुष्टाऽप्यासीत्पतिव्रता शुभा । तयोर्भृत्यो गिरिक्षितो भृत्या चाद्रिद्युतिस्तथा ।। ३ ।।
 बभूवतुः सदा कृष्णनारायणपरायणौ । स्वामिकार्यं विधायैव कृष्णचर्या प्रचक्रतुः ।। ४ ।।
 ब्रह्मकर्मपरा नित्यं षट्कर्मादिपरायणाः । चत्वारस्ते बभूवुर्वै कृष्णभक्तिपरायणाः ।। ५ ।।
 ब्राह्मणौ स्वामिनौ चापि विप्राण्यौ सेविके च ते । हर्यर्थं मनसा वाण्या तन्वा निन्युः क्षणात्क्षणम् ।। ६ ।।
 मरुदेशाधिपतिना राज्ञा देवसखेन वै । नगर्यां भास्वतीनाम्न्यां कारितं विष्णुमन्दिरम् ।। ७ ।।
 सप्तशिखरसंशोभं त्र्यग्रगोलमनोहरम् । स्वर्णस्तंभांगनरम्यं त्रिप्राकारमनोहरम् ।। ८ ।।
 मध्ये तु शिखराऽन्तःस्थसिंहासने चतुर्भुजः । कृष्णनारायणो विष्णुर्लक्ष्मीराधासमन्वितः ।। ९ ।।
 दक्षशिखरगर्भेषु श्रीप्रभापार्वतीत्रिकम् । स्वस्वदासीसमाजुष्टं प्रत्येकं राजते शुभम् ।। १० ।।
 वामशिखरगर्भेषु माणिक्या ललिता जया । स्वस्वदासीसमाजुष्टा प्रत्येकं राजते त्रिषु ।। १ १।।
 तत्सेवाया नियुक्तास्ते चत्वारो वै पृथक् पृथक् । देवयवो मध्यभागे पूजां करोति सर्वदा ।। १ २।।
 गिरिक्षितो बहिश्चन्दनादिकार्यकरोऽभवत् । देवजुष्टा दक्षभागे पार्वतीश्रीप्रभार्चनम् ।। १३ ।।
 अद्रिद्युतिर्वामभागे माणिक्याद्यर्चनादिकम् । करोत्येव विभागेन राजा ददाति वेतनम् ।। १४।।
 भवनं वासयोग्यं च जीविकां वाटिकादिकाम् । वार्षिकं च तथा द्रव्यं तथा स्वर्णसहस्रकम् ।। १५।।
 वस्त्रान्नभूषणादीनि ददाति चोत्सवेऽधिकम् । देवपूजासुनैवेद्यादिकं ददाति भूपतिः ।। १६ ।।
 एवं वै वर्तमानेन विप्रदेवयवेन वै । लोभाकृष्टेन मनसा गृह्यते ढब्बुकं क्वचित् ।। १७।।
 क्वचित्तु रूप्यकं स्वर्णमुद्रा यात्रालुभिः खलु । देवायाऽर्पितमित्येतद्देवद्रव्यं मुमोष सः ।। १८ ।।
 तेन चौर्यदुरितेन देवधनेन मिश्रितम् । देवयवस्य सद्द्रव्यं दूषितं त्वास चञ्चलम् ।। १ ९।।
 इयेष गन्तुमन्यत्र चंचला हि श्रियो मताः । देवद्रव्यान्वितं यत्तत् समूलं नाशमेति वै ।। २० ।।
 यद्यपि न्यायलब्धं स्वं देवद्रव्यस्पृशिं गतम् । दूषितं तद् विनश्येद्वै लक्षं नीत्वा प्रगच्छति ।। २ १ ।।
 अन्नं चापि सुरान्नादिमिश्रितं नश्यति द्रुतम् । वस्त्रं देवाम्बरयुक्तं नाशयत्येव देहिनम् ।। २२।।
 वस्तुमात्रं चौर्यलब्धं यन्न प्रसादरूपतः । पूजकाचार्यगुरुभिर्दत्तं देवस्वरूपि तत् ।।।२३ ।।
 यत्र क्षिप्तं तु तत् सर्व मूलीयमपि दह्यति । चुल्लीकाष्ठाऽनलोऽरण्यगतोऽरण्यं प्रदह्यति ।। २४।।।
 गवामन्नं भिक्षुकान्नं विप्रान्नं प्रमदान्नकम् । अनाथान्नं निराधारान्नमग्निः कुपितः स वै ।। २५।।
 ब्रह्मस्वं विधवास्वं च देवस्वं भिक्षुनाणकम् । अनाढ्यस्वं महानग्निः पतेद् यत्र स दह्यति ।। २६।।
 देवपूजाकृता किञ्चित्फलं चान्नं च ढब्बुकम् । न ग्राह्यं देवतात्वं चेद् यतो दहति तत्कुलम् ।। २७।।
 पूर्वैः पूर्वतमैश्चापि मुषितं देवनाणकम् । तदेवान्यदपि न्याय्यं मुष्णाति मुषकस्य वै ।। २८ ।।
 देवयवोऽपि देवस्य मन्दिरे हरिसन्निधौ । यात्रालुभिस्त्वर्पितं च प्रक्षिप्तं ढब्बुकादिकम् ।।।२ ९।।
 पुष्णात्येव स्वके द्रव्ये निक्षिपति च वृद्धये । येन केन निमित्तेन तस्य नाशं उपागतः ।। ३० ।।
 मरुकोसलयोः राज्ञोर्युद्धं घोरं बभूव ह । कोसलस्य तु सैन्यैर्वै विजितो मरुभूपतिः ।। ३१ ।।
 सैन्यैस्तु नगरी सर्वा भास्वती ध्वंसिता तदा । धनाढ्यानां नाणकानि हृतानि वै प्रसह्य तैः ।। ३ २।।
 नृपमान्यं द्विजं ज्ञात्वा सर्वं तस्य हृतं धनम् । निष्कासितस्ततः स्थानात् सभार्याभृत्यमात्रकः ।। ३३ ।।
 ययौ स रैवतगिरौ हिरण्यायास्तटे शुभे । सोमनाथस्य निकषां वने मूलफलाशनः ।। ३४।।
 निर्गमयत्यहान्येव पर्यटन् भृत्यदारयुक् । सरस्वतीं नदी प्राचीं गत्वा पिप्पलशाखिनम् ।। ३५।।
 निषसाद जलं पीत्वा विशश्राम क्षणं तदा । सस्मार च हरिं कृष्णनारायणं जगद्गुरुम् ।। ३६ ।।
 चिन्तयामासुरन्योन्यं शत्रुजन्यं पराभवम् । गिरिक्षितस्तदा भृत्यः प्राह देवयवं द्विजम् ।। ३७।।
 यस्य वै पूजनं सम्यक् कृतं तेनापि शार्ङ्गिणा । रक्षिता न वयं शत्रोरुपद्रवेऽपि सेवकाः ।। ३८।।
 सर्वस्वं वै हृतं सैन्यैर्मन्दिरस्यापि कांचनम्। तत्रापि रक्षणं नैव कृतं श्रीविष्णुना तदा ।। ३९।।
 परस्य रक्षणं कस्मात् कुर्याद् यः स्वं न रक्षयेत् । इत्युक्ते ब्राह्मणो देवयवः प्राह स्वभृत्यकम् ।। ४० ।।
 मैवं वद तथा नास्ति यथा त्वं वदसि द्विज! । रक्षति श्रीहरिः सर्वान् जीवतो रक्षिता वयम् ।।४ १ ।।
 रक्षा कृता चतुर्णां वै यज्जीवामोऽत्र संयुताः । देवद्रव्यापहारस्य पातकं त्वन्तवर्जितम् ।।४२।।
 तत्कृतं वै मया तच्च द्रव्यं स्वद्रव्यमिश्रितम् । तेन सर्वं गतो नो वै द्रव्यं मत्पातकेन वै ।।४३।।
 देवद्रव्यं च देवान्नं यस्य कोशे हि जीर्यति । तस्य सर्वस्वनाशाय फलं भवति निश्चितम् ।।४४।।
 सर्वस्वं तद्गतं योग्यं फलमत्रैव चार्जितम् । यमलोकोऽपि भोक्तव्यो ह्यधुना शिष्यतेऽपि हि ।।४५।।
 तथापि सेवनस्यैतत्फलं रक्षति नोऽत्र वै । यद्वयं घातिता नैव रक्षिताः परमात्मना ।।४६ ।।
 देवद्रव्यं न भोक्तव्यं पत्रं पुष्पं फलादिकम् । वस्त्रं यानं गृहं पात्रं भोक्तव्यं नैव सर्वथा ।।४७।।
 अन्यायेनापि लोभेनाऽज्ञानेनापि प्रसह्य वा । भुक्तं यदि तदा तत्तु भोक्तुर्नाशकरं भवेत् । । ४८।।
 तद्वयं नाशिता नैव कृपा सेयं हरेर्द्विज । अथ यत्नः प्रकर्तव्यो यथा यमो न संचरेत् ।।४९ ।।
 प्रपन्नानां हरिस्त्राता यमस्तत्र न संचरेत् । प्रपत्तौ षड्विधत्वं वै नारायणेन दर्शितम् ।।५ ० ।।
 विश्वासो वरणं न्यासः कार्पण्यं च स्थिरा मतिः । आनुकूल्यस्य संकल्पः प्रातिकूल्यविवर्जनम् ।।५ १ ।।
 तत्र हरिर्मदर्थं यत् करोति सकलं तु तत् । मदर्थं योग्यमेवाऽस्ति त्वेवं विश्वासमाचरेत् ।।५२ ।।
 त्वं ममासि तवाहं चेत्येवं वरणमर्थयेत् । सर्वस्वोऽहं पादयोस्ते न्यस्तोऽस्मि न्यासमाचरेत् ।।५ ३ ।।
 सत्यपि सार्वभौमेऽपि कार्पण्यं दासवच्चरेत् । सर्वनाशेऽपि खेदं न कुर्यान्मतिं स्थिरां चरेत् ।।५ ४।।
 तव तोषो मम तोषो नान्यथेति सुकल्पयेत् । इत्येवं तस्य यद्रम्यं रम्यमेव ममापि तत् ।।५ ५ ।।
 नान्यदिति प्रकुर्याद्वै मत्वा भक्तिं सदा हरेः । अपराधान् क्षमाप्यैव सोऽस्मान् संतारयिष्यति ।।५६ ।।
 उदरार्थं प्रलोभेन कृतं चौर्यादि पातकम् । तत्सर्वं भगवान् भक्त्या ध्रुवं प्रज्वालयिष्यति ।।५७।।
 कृष्णनारायणं ब्रह्म व्याहरँस्तं त्वनुस्मरन् । यः प्रयाति त्यजन्वर्ष्म स याति परमं पदम् ।।५ ८ ।।
 तस्मादत्रैव सत्तीर्थे ह्युषित्वा चिरमेव तु । आराध्य तं कृष्णनारायणं यास्याम वै पुनः ।।५९।।
 यद्वाऽऽयुष्यक्षये तस्य धाम प्राप्स्याम ईप्सितम् । अपराधसहस्राणि स श्रीहरिः क्षमिष्यते ।।६ ०।।
 इति विचार्य चत्वारः कृष्णनारायणाभिधाम् । जपयज्ञं प्रचक्रुस्ते प्राचीसरस्वतीस्थले ।।६ १ ।।
 प्रातः स्नात्वा हरिं ध्यात्वा पुपूजुर्नित्यमेव ते । दलं पुष्पं फलं तोयं कन्दादि यदुपस्थितम् ।।६२।।
 अर्पयन्ति हरये ते जलार्थं प्रार्थनादिकम् । कुर्वन्ति स्म प्रगे मध्ये सायं निशि पुनः पुनः ।।६३।।
 एवं वै वर्तमानेषु व्योममार्गेण संश्रुतः । दुन्दुभिस्त्वधिमासस्य श्रीपुरुषोत्तमोदितः ।।६४।।
 षष्ठ्यां प्रातर्दुन्दुभेस्तु पुरुषोत्तममासि वै । घोषणा मोक्षदा यद्वा सकामानां तु भोगदा ।।६५।।
 प्रवर्तते स्म सा कर्णपथं प्राप्ता मनोरमा । चतुर्भिस्त्वपि सध्यानां विचार्वाऽवधृता हृदि ।।६६ ।।
 शृण्वन्तु मानवाः सर्वे निर्धनाः सधना अपि । निरागसः सापराधास्तथा नार्यो नरा अपि ।।६७।।
 पूजायां मे त्वपराधा भवन्ति बहवोपि वै । यदि कैश्चित् कृतास्तान् वै गणयिष्ये मनाङ् न वै ।।६८।।
 कुर्वन्तु व्रतमद्यैव षष्ठ्यां द्वितीयपक्षके । पुरुषोत्तममास्यस्मिन् क्षमयिष्ये नु पातकम् ।।६९।।
 वज्रलेपादिकं पापं क्षालयिष्येऽद्य वै व्रतात् । एकभुक्तं च वा नक्तं विना याञ्चां समागतम् ।।७०।।
 गृहीत्वापि तु षष्ठ्यां वै व्रतं कार्यं ममात्र हि । फलं भुक्त्वा जलं पीत्वा ग्रसित्वा पवनं च वा ।।७ १।।
 व्रतं कार्य मम षष्ठ्यां तस्मै दास्ये यथेप्सितम् । प्राक् कृतं मे विपरीतं स्मरिष्ये तन्न सर्वथा ।।७२।।
 अद्याऽहं कृपया दास्ये तदिष्टं पुरुषोत्तमः । पुरुषोत्तममासोऽयं वर्तते भुवनत्रये ।।७३।।
 ईशलोकेऽप्ययं मासो ममाऽऽज्ञया प्रवर्तते । सर्वमूर्धन्यमासोऽयं मूर्धन्यपुरुषोत्तमात् ।।७४।।
 मूर्धन्यफलदस्तस्माद् वृणुतेप्सितमुत्तमम् । इत्युक्त्वा दुन्दुभिस्तस्मात् स्थानात् स्थानान्तरं ययौ ।।७५।।
 चत्वारो ब्राह्मणास्ते तु दारिद्र्यदुःखपीडिताः । षष्ठ्यां व्रतं प्रचक्रुस्ते श्रुत्वा दुन्दुभिशब्दितम् ।।७६।।
 दारिद्र्यं नष्टतां गच्छेत् सुखं वैभवसंभवम् । पूर्वतोऽप्यधिकं स्याच्च विशाला धनसम्पदः ।।७७।।
 यानवाहनसौधानि दासा दास्यः समुज्ज्वलाः । राज्यादप्यधिकं सर्वं भवेत्तर्हि सुखं भवेत् ।।७८।।
 इत्यभिलष्य तैः सर्वैस्तूपवासव्रतं कृतम् । पूर्वं संभोगिनः पश्चाद् वाञ्छन्ति भोगसम्पदः ।।७९।।
 स्वभावं यान्ति भूतानि निग्रहस्तु दुराधरः । यावद्वाञ्च्छा न वै शान्ता तावज्ज्ञाता प्रवर्तते ।।८०।।
 भक्तानामपि चेष्टेषु भोग्येष्वस्ति प्रवर्तनम् । रागशून्यस्य नास्त्येव समद्रष्टुः प्रवर्तनम् ।।८१ ।।
 विचार्य विषवत् त्यक्तं यदि रागो न लीयते । तर्हि सुयोगे सम्पन्ने पुनरादातुमिच्छति ।।८२।।
 तस्मादिन्द्रियनैर्बल्यं साधयन्ति सुयोगिनः । तपसा क्षालितपापबला जयन्ति मायिकम् ।।८३।।
 अनाहारेण विजयो बहुक्लेशेन वा जयः । शैथिल्येन च विजयो भवत्याहारशालिनाम् ।।८४।।
 एभिस्तु ब्राह्मणैर्दारायुक्तैर्न विजयः कृतः । इष्टं वै मायिकं तैस्तु राज्यं वै पूर्वतोऽधिकम् ।।८५।।
 पारमेष्ठ्यपदं यद्वा सूर्यचन्द्रादिकं पदम् । इन्द्रपदसमं देवराजवन्नाऽन्यदस्ति तत् ।।८६।।
 ब्रह्मणः सर्वदा त्वस्ति वार्धक्यं स्वप्रजाः प्रति । सूर्यचन्द्रादिका व्योम्नि भ्रमन्ति परवश्यगाः ।।८७।।
 प्रवासिनां सुखं नास्ति विश्रामो नास्ति वै क्वचित् । अविश्रान्तः सदा क्लिष्टस्तस्मादैन्द्रपदं वरम् ।।८८।।
 राज्यं सर्वसुराणां वै दाराधामधनादिकम् । स्वर्गे लक्ष्मीः शाश्वती च स्मृद्धिरिन्द्रस्य वर्तते ।।८९।।
 तस्मादैन्द्रपदं ग्राह्यं भोगोत्तमप्रदं शुभम् । पश्चाद् भक्त्या समुपार्ज्य वैकुण्ठं दिव्यसाधनम् ।।९० ।।
 एवं निश्चित्य तैः सर्वैः कृतं षष्ठ्यां व्रतं शुभम् । प्रातः स्नात्वा मृदो मूर्तिं कारयित्वा हरेस्तदा ।।९१ ।।
 पार्श्वे स्फटिकपाषाणं स्थापयित्वा ततश्च ते । आवाहयित्वा श्रीकृष्णनारायणं पुमुत्तमम् ।।।९२।।
 संस्नाप्य पंचदुग्धाद्यमृतेन च जलेन च । वस्त्राभूषाद्रवद्द्रव्याक्षतपुष्पादिचन्दनैः ।।९३।।
 धूपदीपसुनेवेद्यैः फलपत्रजलादिभिः । संपूज्याऽर्घ्यं बिल्वफलैर्युक्तं दत्वा नमः स्तुतिम् ।।९४।।
 प्रार्थनां स्तवनं पुष्पाञ्जलीन्समर्प्य विष्णवे । आन्दोलयांचक्रिरे च लतारज्ज्वादिदोलने ।।९५।।
 मध्याह्ने च तथा सायं रात्रौ पूजां सजागराम् । चक्रुस्ते नृत्यगीतादि तत्राऽऽविरास केशवः ।।९६।।
 वरान् वृणुत भक्ताः स्थ गतं दुःखं व्रतेन मे । यथेष्टं त्वर्पयितुं चागतोऽस्मि तोषितोऽस्मि च ।।९७।।
 दृष्ट्वा श्रुत्वा कृष्णनारायणं हरिं चतुर्भुजम् । नत्वा ते पादयोः पुष्पांजलिं वारि ददुस्तदा ।।९८।।
 वव्रिरे देवसदनं महेन्द्रपदमृद्धिमत् । तथास्त्विति वरं दत्वा हरिस्तिरोबभूव ह ।।९९।।
 अधिमासे सरस्वत्यास्तटे प्राच्याः सुपिप्पले । स्थले त्यक्त्वा शरीराणि चत्वारो दिवमागताः ।। १ ००।।
 प्रान्तेन्द्रस्याऽऽयुषो नाशे दशलोकिक्षयोत्तरम् । चत्वारस्ते ययुः सौम्ये महर्लोके चिरंस्थिताः ।। १० १।।
 पुनः कल्पान्तरारंभे चत्वारो दिवमागताः । देवयवो महेन्द्रो वै बभूव व्रतपुण्यतः ।। १ ०२।।
 देवजुष्टा महेन्द्राणी संबभूव हरेः प्रिया । गिरिक्षितो बभूवेन्द्रपुत्रो जयन्तनामकः ।। १ ०३।।
 अद्रिद्युतिर्विजयन्तपत्नी जाता तु मानसी । विश्वकर्मसुता त्वेषा स्नुषा त्विन्द्रस्य या मता ।। १०४।।
 पुलोमजाऽभवदिन्द्राणीति सा मानसी सुता । इन्द्रपत्नी संबभूव दासीदासाऽर्बुदाऽन्विता ।। १०५।।
 षष्ठीव्रतेन विप्रैस्तैराप्तं त्वैन्द्रपदं शुभम् । सुखं देवेश्वरपदं प्राप्तं श्रीहर्यनुग्रहात् ।। १०६।।
 इमां कथां पठेद् यस्तु शृणुयाद्वा समाहितः । तस्य षष्ठीफलं स्याद्वै तथेष्टं संलभेत च ।। १ ०७।।
 इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये मरुदेशीयदेवयवगिरिक्षितविप्रयोस्तत्पत्न्योर्देवजुष्टाऽऽर्द्रद्युत्योश्च देवद्रव्यचौर्येण सर्वस्व-नाशोत्तरं त्वधिकमासस्य द्वितीयपक्षस्य षष्ठ्या व्रतेन महेन्द्रजयन्तमहेन्द्राणीजायन्तीपद-प्राप्तिनिरूपणनामा त्रयोदशाधिकत्रिशत-तमोऽध्यायः ।।१.३१३।।