लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ३
← सर्गः २ | लघुयोगवासिष्ठः सर्गः ३ [[लेखकः :|]] |
सर्गः ४ → |
बल्युपाख्यानम्।।
तृतीयः सर्गः।।
वसिष्ठ उवाच।।
अथवा रघुवंशाख्यनभःपूर्णनिशाकर।
बलिवद्बुद्धिभेदेन ज्ञानमासादयामलम्।।[5-3-1]
श्रीराम उवाच।।
बलिवज्ज्ञानसंप्राप्तिं पुनर्मद्बोधवृद्धये।
विभो कथय खिद्यन्ते सन्तो नावनतं प्रति।।[5-3-2]
वसिष्ठ उवाच।।
अस्त्यस्मिञ्जगतः कोशे कस्मिंश्चिद्दिङ्निकुञ्जके।
पातालमिति विख्यातो लोको भूमेरधः स्थितः।।[5-3-3]
तस्मिन्नसुरदोःस्तम्भधार्यमाणमहाभरे।
बभूव दानवो राजा विरोचनसुतो बलिः।।[5-3-4]
लीलानिर्जितनिःशेषभुवनाभोगभूषणः।
दशकोटीः स वर्षाणां दैत्यराज्यं चकार ह।।[5-3-5]
पूर्वमतीतानेकजन्मानुस्मरणद्वारा स्वरूपज्ञानेन चित्तोपशान्तिरुक्ता। इदानीं पुण्यप्रकर्षात्कुत्रचिद्वैषयिकमपि सुखं चित्तोपशान्तये भवतीति बल्युपाख्यानेन निरूप्यते। तत्र चिरोपभोगाद्भोगेष्वरुचिरुत्पन्नेत्याह-अथेत्यादिना श्लोकद्वयेन।।[5-3-1,2,3,4,5]
अथ गच्छत्स्वनल्पेषु युगेष्वावर्तवृत्तिषु।
सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च।।[5-3-6]
आवर्तवृत्तिषु। `स्यादावर्तोऽम्भसां भ्रमः'। तस्य वृत्तिरिव वृत्तिर्येषां तेषु।।
अजस्रमुपभुक्तेषु त्रैलोक्योदरवर्तिषु।
भोगेष्वभजदुद्वेगं बलिर्दानवनायकः।।[5-3-7]
एकदा चिन्तयामास प्रासादशिखरस्थितः।
महता मम राज्येन त्रैलोक्याद्भुतकारिणा।।[5-3-8]
किं वा भवति भुक्तेन भूरिभोगातिभारिणा।
आपातमात्रमधुरमावश्यकपरिक्षयम्।
भोगोपभोगमात्रं मे किं नामेदं सुखावहम्।।[5-3-9]
उद्वेगमरुचिम्।।[5-3-7,8,9]
पुनरालिङ्ग्यते कान्ता पुनरेव च भुज्यते।
सेयं शिशुजनक्रीडालज्जायै महतामिह।।[5-3-10]
तमेव भुक्तविरसं व्यापारौघं पुनःपुनः।
दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते।।[5-3-11]
पुनरिति।। लज्जायै। महतामुच्छिष्टस्य पुनर्भोगानर्हत्वादिति भावः।।[5-3-10,11]
पुनर्दिनं पुना रात्रिः पुनः कार्यपरम्परा।
पुनःपुनरहं मन्ये प्राज्ञस्येयं विडम्बना।।[5-3-12]
पुनरिति।। पुनःपुनरहं मन्ये इति येषां पुनःपुनः प्रवृत्तिः इयं प्राज्ञस्य विडम्बनेति अहं मन्ये इत्यन्वयः।।
कृतयाप्यनया नित्यं क्रियया कृतकार्यया।
कोऽर्थः स्यात्तादृशो येन पुनः कर्म न विद्यते।।[5-3-13]
कृतयेति।। कृतकार्यया कृतप्रयोजनयाप्यनया क्रियया नित्यं कृतया तादृशः कोऽर्थः स्तात् येनार्थेन पुनः कर्म न विद्यते। कृतकृत्यताहेतुः कापि क्रिया नास्तीत्यर्थः।।
भोगादृते किमन्यत्तत्स्याद्द्रव्यमविनाशि यत्।
एतत्संचिन्तयाम्याशु दध्यौ मत्वेत्यसौ बलिः।।[5-3-14]
भोगादिति।। भोगादृते भोगरूपं विषयसुखं मुक्त्वा यदन्यविनाशि द्रव्यं तत्किं स्यादिति एतद्वस्तु संचिन्तयामीति मत्वा निश्चित्य बलिर्दध्यावित्यन्वयः।।
अथाभ्युवाचासुरराट् आः संस्मृतमिति क्षणात्।
स्वात्मन्येव मनस्यर्थं सभ्रूभङ्गं निवेशयन्।।[5-3-15]
अथेति।। अथानन्तरमसुरराट् बलिर्मनसि विचारितमर्थं सभ्रूभङ्गं स्वात्मन्येव स्वबुद्धावेव निवेशयन्स्थापयन् क्षणात् क्षणादुपरि आः संस्मृतमित्यभ्युवाच। सभ्रूभङ्गमिति विचारदृष्ट्यभिनयः। आः इति स्मृतिद्योतकमव्ययम्।।
पुरा किलेह भगवान्पृष्टोऽभूत्स विरोचनः।
पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः।।[5-3-16]
स्मृतमनुवदति-पुरेत्यादिना।। दृष्टलोकपरावरः। परं पर्यवसानहेतुः। अवरमादिकारणम्।।
पितः सकलदुःखानां सुखानां च महामते।
यत्र सर्वे भ्रमाः शान्ताः कोऽसौ सीमान्त उच्यताम्।।[5-3-17]
स्वप्रश्नप्रकारमनुवदति-पितरिति।। हे पितः, सकलदुःखानां सुखानां च वैषयिकाणां सीमान्तः परमावधिः कोऽसावुच्यताम्।।
क्वोपशान्तो मनोमोहः क्वातीताः सकलैषणाः।
विरागरहितं कुत्र तात विश्रमणं चिरम्।।[5-3-18]
यत्रातिविततानन्दसुन्दरं किंचिदेव मे।
तादृक्कथय तत्रस्थश्चिरं विश्रान्तिमेम्यहम्।।[5-3-19]
सर्वभ्रमाणां शान्तिमेव प्रपञ्चयति-क्वेति श्लोकद्वयं वाक्यम्। यत्र वस्तुनि विरागरहितं अरुचिविनिर्मुक्तं चिरं विश्रमणं विश्रान्तिसुखं संभवति। यत्र वस्तुनि मे मदीयं रूपं अतिविततानन्दसुन्दरं सत्किंचिदेव अव्यपदेश्यमेव भवति तादृग्वस्तु कथय। तत्रस्थोऽहं चिरं विश्रान्तिमेमीत्यन्वयः।।[5-3-18,19]
मत्पितोवाच।।
अस्ति पुत्रातिविततो देशो विपुलकोटरः।
त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्यपि।।[5-3-20]
यत्र पृथ्वी न नाकाशं सागरा न च नाद्रयः।
न वनानि न तीर्थानि न नद्यो न सरांसि च।।[5-3-21]
स्वपितुरुत्तरमनुभाषतेमित्पितेत्यादिना। देशो मोक्षः राजा आत्मा मन्त्री मन इति।।[5-3-20,21]
एक एवास्ति सुमहांस्तत्र राजा महाद्युतिः।
सर्वकृत्सर्वगः सर्वः स च तूष्णीं व्यवस्थितः।।[5-3-22]
बलिप्रश्नानन्तरं विरोचन एव वक्ष्यति।।
तेन संकल्पितो मन्त्री सर्वतो मन्त्रणोन्मुखम्।
अघटं घटयत्याशु घटं विघटयत्यलम्।।[5-3-23]
तेनेति श्लोकद्वयं वाक्यम्। तेन राज्ञा संकल्पितः `स ऐक्षत लोकान्नु सृजा इति'ति सिसृक्षामात्रकल्पितो मन्त्री मन्त्रणोन्मुखं विचारपूर्वकं तत्सर्वं राजकार्यमघटं दुर्घटमपि घटयति। घटं सुघटितमपि कार्यमनभिमतं चेद्वघटयति। नाशयतीत्यर्थः।।
भोक्तुं न किंचिच्छक्नोति न च जानाति किंचन।
राज्यार्थं केवलं सर्वं करोत्यविरतोदयम्।।[5-3-24]
स एव सर्वकार्यैककर्ता तस्य महीपतेः।
राजा केवलमेकान्ते स्वस्थ एवावतिष्ठति।।[5-3-25]
बलिरुवाच।।
आधिव्याधिविनिर्मुक्तः कः स देशो महामते।
कथमासाद्यते वापि केन वाधिगतः प्रभो।।[5-3-26]
कः स तादृग्विधो मन्त्री राजा वापि महाबलः।
हेलालूनजगज्जालैर्योऽस्माभिरपि नो जितः।।[5-3-27]
विरोचन उवाच।।
स तत्र मन्त्री बलवान्देवासुरगणैः सुत।
समेतैर्लक्षगुणितैरपि नाक्रम्यते मनाक्।।[5-3-28]
तत्रासिमुसलप्रासवज्रचक्रगदादयः।
हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः।।[5-3-29]
स मन्त्री केवलं तत्र तेनैव प्रभुणा यदि।
जीयते तत्सुजेयोऽसावन्यथा त्वचलाचलः।।[5-3-30]
पुत्र युक्त्या गृहीतोऽसौ क्षणादायाति वश्यताम्।
युक्तिं विना दहत्येष आशीविष इवोद्धतः।।[5-3-31]
शृणु यः पुत्र देशोऽसौ पूर्वं प्रकटयामि ते।
देशनाम्ना मयोक्तस्ते मोक्षः सकलदुःखहा।।[5-3-32]
राजा तु तत्र भगवानात्मा सर्वपदातिगः।
तेन मन्त्री कृतः प्राज्ञो मनो नाम महामते।।[5-3-33]
विषयान्प्रति भोः पुत्र सर्वानेव हि सर्वथा।
अनास्था परमा ह्येषा सा युक्तिर्मनसो जये।।[5-3-34]
एषैव परमा युक्तिरनयैव महामदः।
स्वमनोमत्तमातङ्गो द्रागित्येव विदम्यते।।[5-3-35]
किंचिदपि भोक्तुं न शक्नोति। किंचन न च जानाति। मनसः अचेतनत्वादिति भावः।।[5-3-24,25,26,27,28,29,30,31,32,33,34,35]
चित्तस्य भोगैर्द्वौ भागौ सास्त्रेणैकं प्रपूरयेत्।
गुरुशुश्रूषया भागमव्युत्पन्नस्य सत्क्रमे।।[5-3-36]
'चित्तजयक्रमं अधिकारिभेदेन त्रिभिः श्लोकैराह-चित्तस्येति।। चित्तस्य व्यवहारकालं चतुर्धा विभज्य सत्क्रमे ज्ञानाभ्यासे अव्युत्पन्नस्याशिक्षितस्य चित्तस्य प्रथमं भोगैर्विषयभोगैर्द्वौ भागौ पूरयेत्। कालद्वयं नयेदित्यर्थः। शास्त्रेण अध्यात्मशास्त्रेणैकं भागं पूरयेत्। गुरुशुश्रूषया चतुर्थं भागं पूरयेत्।।
किंचिद्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत्।
गुरुशुश्रूषया भागौ भागं शास्त्रार्थचिन्तया।।[5-3-37]
किंचिदिति।। किंचिद्व्युत्पत्तियुक्तस्य भोगैरेकं कालं गुरुशुश्रूषया कालद्वयं शास्त्रार्थचिन्तया चतुर्थं कालं नयेदित्यर्थः।।
व्युत्पत्तिमनुयातस्य पूरयेच्चेतसोऽन्वहम्।
द्वौ भागौ शास्त्रवैराग्यैर्द्वौ ध्यानगुरुपूजया।।[5-3-38]
व्युत्पत्तिमिति।। सम्यग्व्युत्पन्नस्य चित्तस्य द्वौ व्यवहारकालौ सास्त्रवैराग्यैरध्यात्मशास्त्रीविचारैर्विषयाणां हेयत्वविचारैश्च द्वौ च कालौ ध्यानसहितया गुरुपूजया च पूरयेत्।।
प्रज्ञाविचारवशतः शममेव सदा सुत।
आत्मावलोकनं तृष्णासंत्यागं च समाहरेत्।।[5-3-39]
प्रज्ञेति।। इत्थं प्रज्ञाविचारवशतः प्रज्ञावसाद्विचारवशाच्च शमं चित्तोपशमं तृष्णायाः संत्यागमात्मावलोकनं च समाहरेत्संपादयेत्।।
विचारो भोगगर्हातो विचाराद्भोगगर्हणम्।
अन्योन्यमेते पूर्येते समुद्रजलदाविव।।[5-3-40]
विचार इति।। भोगगर्हातः विषयसुखानां दोषदर्शनात्पुरुषार्थविचारः पूर्यते। पुरुषार्थविचाराच्च भोगानां गर्हणं अपुरुषार्थत्वात्कुत्सितार्थत्वं च पूर्यत इत्येवमेते विचारभोगगर्हणे अन्योन्यं पूर्येते। यथा समुद्रो जलदाद्वृष्टिद्वारा पूर्यते समुद्रोदकाच्च जलदास्तद्वदित्यर्थः।।
देशक्रमेण धनमल्पविगर्हणेन तेनाङ्ग साधुजनमर्जय मानपूर्वम्।
तत्संगमोत्थविषयाद्यवहेलनेन सम्यग्विचारविभवेन तवात्मलाभः।।[5-3-41]
देशेति। अल्पविगर्हणेन स्वल्पदोषेण देशक्रमेण देशाचारक्रमेण धनमर्जय। तेन च धनेन मानपूर्वं सत्कारपूर्वकं साधुजनमर्जय। तत्संगामोत्थविषयाद्यवहेलनेन साधुसंगमसंजातविषयवैराग्येण सम्भग्विचारविभवेन च तव आत्मलाभो भविष्यतीत्यन्वयः।।
बलिरुवाच।।
एतन्मे कथितं पूर्वं पित्रा चारुविचारिणा।
इदानीं संस्मृतं दिष्ट्या संप्रबोधमहं गतः।।[5-3-42]
एतदिति।। पित्रा मे पूर्वं कथितमेतदिदानीं संस्मृतमित्यन्वयः।।
अद्येयं मम संजाता भोगान्प्रत्यरतिः स्फुटम्।
दिष्ट्या शमसुखं स्वस्थं विशाम्यमृतशीतलम्।।[5-3-43]
दिष्ट्येत्यव्ययमानन्दे।।
अहो नु खलु रम्येयं समभूः शीतलान्तरा।
सर्वा एव समं यान्ति सुखदुःखदृशः शमे।।[5-3-44]
अहो इति।। शमभूः शमदशा।।
कोऽहं तावदयं किं स्यादात्मेत्यात्मावलोकिनम्।
पृच्छाम्युशनसं नाथं नूनमज्ञानशान्तये।।[5-3-45]
वसिष्ठ उवाच।।
इति संचिन्त्य बलवान्बलिरामीलितेक्षणः।
दध्यौ कमलपत्राक्षः शुक्रमाकाशमन्दिरम्।।[5-3-46]
कोऽहमिति।। आत्मावलोकिनमुशनसं नाथं गुरुं कोऽहं अयमात्मा किं स्यादित्यहंशब्दार्थमात्मस्वरूपं च पृच्छामीत्यन्वयः।।[5-3-45,46]
अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः।
आनिनाय सदेहं स्वं रत्नवातायनं बलेः।।[5-3-47]
अथ रत्नार्घदानेन मन्दारकुसुमोत्करैः।
पादाभिवन्दनेनैनं पूजयामास भार्गवम्।।[5-3-48]
बलिरुवाच।।
भार्गव त्वत्प्रसादोत्था प्रतिभेयं पुरस्तव।
नियोजयति मां वक्तुं कार्यं कर्तुमिवार्कभाः।।[5-3-49]
किमिहास्ति कियन्मात्रमिदं किमयमेव वा।
कोऽहं कस्त्वं किमेते वा लोका इति वदाशु मे।।[5-3-50]
शुक्र उवाच।।
बहुनात्र किमुक्तेन खं गन्तुं यत्नवानहम्।
सर्वदानवराजेन्द्र सारं संक्षेपतः श्रृणु।।[5-3-51]
अथेति।। अथ स भार्गवः स्वं देहं बलेरवस्थानप्रदेशभूतं रत्नवातायनमानिनाय। तत्राजगामेत्यर्थः।।[5-3-47,48,49,50,51]
चिदिहास्ति हि चिन्मात्रमिदं चिन्मयमेव च।
चित्त्वं चिदहमेते च लोकाश्चिदिति संग्रहः।।[5-3-52]
भव्योऽसि चेत्तदेतस्मात्सर्वमाप्नोषि निश्चयात्।
नोचेत्तद्बह्वपि प्रोक्तं त्वयि भस्मनि हूयते।।[5-3-53]
चिदिति।। चिन्मात्रं चिद्रूपम्। चिन्मयं चित्प्रकृतिकम्। चिद्व्यतिरेकेण न किंचिदस्तीत्यर्थः।।[5-3-52,53]
चिच्चेत्यकलिता बन्धस्तन्मुक्ता मुक्तिरुच्यते।
चिदचेत्या किलात्मेति सर्वसिद्धान्तसंग्रहः।।[5-3-54]
एवं निश्चयमादाय विलोकय धियेद्धया।
स्वयमैवात्मनात्मानमनन्तपदमाप्स्यसि।।[5-3-55]
खं व्रजाम्यहमत्रैते मुनयः सप्त संगताः।
केनापि सुरकार्येण वस्तव्यं तत्र वै मया।।[5-3-56]
वसिष्ठ उवाच।।
इत्युक्त्वा भगवाञ्छुक्र आरुरोह नभस्तलम्।
बलिस्तु चिन्तयामास चिदात्मकमिदं जगत्।।[5-3-57]
बलिरुवाच।।
युक्तमुक्तं भगवता चिदेवेदं जगत्रयम्।
चिदहं चिदिमे लोकाश्चिदाशाश्चिदियं क्रिया।।[5-3-58]
चिदिति।। चेत्यकलिता चिदेव बन्ध उच्यते। चेत्यं मुक्त्वा तु चिन्मुक्तिरिति। अचेत्या चेत्यासंस्पृष्टा चिदेवात्मेति संग्रहः।।[5-3-54,55,56,57,58]
दृश्यदर्शननिर्मुक्तः केवलामलरूपवान्।
नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः।।[5-3-59]
दृश्येति।। दृश्यदर्शननिर्मुक्तः। दृश्यानि भूतानि भौतिकानि च। दर्शनानि ज्ञानसाधनानि। तेभ्यो निर्मुक्तो व्यतिरिक्तः। अतश्च केवलामलरूपवान्। नित्योदितो नित्यप्रकाशः। निराभासो भासकान्तरनिरपेक्षः। द्रष्टा सर्वसाक्षी परमेश्वरोऽस्मीति।।
चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम्।
संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत्।।[5-3-60]
चेत्येति।। चेत्यनिर्मुक्तचिद्रूपं विशुद्धचिदात्मकम्। विष्वगन्तर्बहिश्च सर्वतो विश्वावपूरकम्। संशान्तसर्वसंवेद्यम् उपरतसर्वविषयवासनम्। महत्परिपूर्णम्। संवन्मात्रमहमस्मि।।
इति संचिन्तयन्नेव बलिः परमकोविदः।
ॐकारादर्धमात्रार्थं भावयन्ध्यानमास्थितः।।[5-3-61]
इतीति।। ॐकारादर्धमात्रार्थं प्रणवान्निष्कृष्य अर्धमात्रार्थमेव परब्रह्मरूपं भावयन्ध्यानमास्थितः।।
संशान्तसर्वसंकल्पः प्रशान्तकलनागमः।
निःशङ्कमतिदूरास्तचेत्यचिन्तकचिन्तनः।।[5-3-62]
ध्यातृध्येयध्यानहीनो निर्मनाः शान्तवासनः।
बभूवावातदीपाभो बलिः प्राप्तमहापदः।।[5-3-63]
प्रशमितैषणया परिपूर्णया मननदोषदशोज्झितयैतया।
बलिरराजत निर्मलसत्तया विघनमच्छतयेव शरन्नभः।।[5-3-64]
वसिष्ठ उवाच।।
अथ ते दानवास्तत्र बलेरनुचरास्तदा।
तद्गृहं स्फाटिकं सौधमुच्चैरारुरुहुः क्षणात्।।[5-3-65]
निर्विकल्पसमाधाने स्थित्वा चिरमुदारधीः।
व्यबुध्यत बलिस्तत्र पुरस्तेषां महामते।।[5-3-66]
संशान्तेति श्लोकद्वयं वाक्यम्। निःशङ्कं यथा तथा अतिदूरे अस्तं क्षिप्तं चेत्यं चिन्तकं चिन्तनं चेति त्रयं येनेत्यनेन बहिर्मुखविक्षेपराहित्यमुक्तम्।।[5-3-62,63,64,65,66]
अथ वैरोचनिस्तत्र ध्येयत्यागमयात्मना।
मनसा सकलान्येव राजकार्याणि संव्यधात्।।[5-3-67]
आपदं संपदं दृष्ट्या समयैव स पश्यति।
नास्तमेति न वोदेति तत्प्रज्ञा सुखदुःखयोः।।[5-3-68]
ध्यातृध्यानध्येयहीन इत्यनेन अन्तर्मुखोऽपि न विक्षेप इत्याह-अथेति।। ध्येयत्यागमयात्मना अहंममतादिवासनात्यागो ध्येयत्यागः तन्मयस्वरूपेण मनसाः इत्थंभूतो राजकार्याणि संव्यधात्।।[5-3-67,68]
ऊहापोहसहस्राणि भावाभावशतानि च।
बलिना परिदृष्टानि क्व समाश्वासमेत्यसौ।।[5-3-69]
ऊहेति। इष्टसाधनोत्प्रेक्षणमूहः। अनिष्टनिरासोत्प्रेक्षणमपोहः। तेषां सहस्राणि पदार्थानां भावाभावशतानि च बलिना परिदृष्टानि तथापि असौ बलिः क्व वा समाश्वासं विश्वासमेति। न क्वापीत्यर्थः। असक्त एव राज्यं चकारेति यावत्।।
धावमानमिहामुत्र लुठितं लोकवृत्तिषु।
संस्थापय निरुध्यैतन्मनो हृदयकोटरे।।[5-3-70]
येषु येषु प्रदेशेषु मनो मज्जति बालवत्।
तेभ्यस्तेभ्यः समुद्धृत्य तद्धि तत्त्वे नियोजयेत्।।[5-3-71]
एवमभ्यसताभ्यासं मनोमत्तमतङ्गजम्।
निबध्य सर्वभावेन परं श्रेयोऽधिगम्यते।।[5-3-72]
इति श्रीमोक्षोपाय उपशमप्रकरणे बल्युपाख्यानं नाम तृतीयः सर्गः।। 3 ।।
श्रीरामं प्रति हितमुपदिशति-धावमानमिति।। इहास्मिंल्लोके अमुत्र परलोके च धावमानं विषयसुखवाञ्छया वेगेन गच्छत् लोकवृत्तिषु आर्थार्जनादिषु लौकिकाव्यापारेषु लुठितमासक्तं एतच्चेतो निरुध्य विवेकवैराग्यादिभिः निरुध्य हृदयकोटरे हृत्पुण्डरीके संस्थापय। आत्मानुसंधानतत्परं कुर्वित्यर्थः।।[5-3-70,71,72]
इति श्रीसंसारतरणिनाम्नि वासिष्ठविवरणे उपशमप्रकरणे बल्युपाख्यानं नाम तृतीयः सर्गः।। 3 ।।