लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४
← सर्गः ३ | लघुयोगवासिष्ठः सर्गः ४ [[लेखकः :|]] |
सर्गः ५ → |
प्रह्लादोपाख्यानम्।।
चतुर्थः सर्गः।।
वसिष्ठ उवाच।।
अथेमं परमं राम विज्ञानाधिगमक्रमम्।
शृणु दैत्येश्वरः सिद्धः प्रह्लादः स्वात्मना यथा।।[5-4-1]
हते त्रिदशवृन्दानां हिरण्यकशिपौ रिपौ।
प्रह्लादश्चिन्तयामास शोकसंविग्नमानसः।।[5-4-2]
एते तातादयः सर्वे विष्णुनाऽसुरसत्तमाः।
घातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः।।[5-4-3]
अभ्यस्ता बहवस्तेन मिथः प्रेरितपर्वताः।
भीमाः समरसंरम्भाः सममस्मत्पितामहैः।।[5-4-4]
तासु तास्वतिघोरासु विततास्वसुरराजिषु।
यो न भीत इदानीं स भयमेष्यति का कथा।।[5-4-5]
तस्मात्तस्यातिवीरस्य हरेराक्रमणे स्फुटम्।
मन्ये तद्व्यतिरेकेण विद्यते न प्रतिक्रिया।।[5-4-6]
सर्वात्मना सर्वधिया सर्वसंरम्भरंहसा।
स एव शरणं देवो गतिरस्तीह नान्यथा।।[5-4-7]
अस्मान्निमेषादारभ्य नारायणामजं सदा।
संप्रपन्नोऽस्मि सर्वत्र नारायणमयो ह्यहम्।।[5-4-8]
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः।
नापैति मम हृत्कोशादाकाशादिव मारुतः।। [5-4-9]
अविष्णुः पूजयन्विष्णुं न पूजाफलभाग्भवेत्।
विष्णुर्भूत्वा यजेद्विष्णुमयं विष्णुरहं स्थितः।।[5-4-10]
वसिष्ठ उवाच।।
प्रह्लाद इत्थं संचिन्त्य कृत्वा नारायणीं तनुम्।
पुनः संचिन्तयामास पूजार्थमसुरद्विषम्।।[5-4-11]
पूर्वं पुण्यप्रकर्षात् वैषयिकमपि सुखं क्वचिच्चित्तोपशान्तये भवतीत्युक्तम्। इदानीमीश्वरानुग्रहादेव कदाचिदात्मतत्त्वावबोधो भवतीति प्रह्लादाख्यानेन प्रतिपाद्यते। तत्र प्रह्लादवृत्तान्तं तावत्प्रस्तौति-अथेत्यादिना।।[5-4-1,2,3,4,5,6,7,8,9,10,11]
वपुषो वैष्णवादस्मान्मरुन्मूर्तिः परावरः।
अयं प्राणप्रवाहेण बहिर्विष्णुः स्थितोऽपरः।।[5-4-12]
तत्र वपुष इति श्लोकद्वयं वाक्यम्। परावरः परे ब्रह्मादयोऽप्यवरे अधमा यस्मात् सोऽयं विष्णुः वैष्णवादस्माद्वपुषो बहिः प्राणप्रवाहेण वायोर्निःसरणेन मरुन्मूर्तिर्वायुरूपो योऽपरः स्थितः।।
तमेनं पूजयाम्याशु परिवारसमन्वितम्।
सपर्यया मनोमय्या सर्वसंभाररम्यया।।[5-4-13]
तमेनं वायुस्वरूपे वर्तमानं विष्णुं पूजयामीत्यन्वयः।।
प्रह्लाद इति संचिन्त्य संभारभारभारिणा।
मनसा पूजयामास माधवं कमलाधवम्।।[5-4-14]
रत्नार्घपात्रपटलैश्चन्दनादिविलेपनैः।
धूपैर्दीपैः परित्रैश्च नानाविभावभूषणैः।।[5-4।।
प्रह्लाद इति श्लोकद्वयं वाक्यम्।। संभारभरभारिणा संभारः पूजोपकरणानि।।[5-4-14,15]
अथ देवगृहे तस्मिन्बाह्यार्थपरिपूर्णया।
पूजया पूजयामास दानवेन्द्रो जनार्दनम्।।[5-4-16]
ततस्ततः प्रभृत्येव प्रह्लादः परमेश्वरम्।
तथैव प्रत्यहं भक्त्या पूजयामास पूर्णया।।[5-4-17]
अथ तस्मिन्पुरे दैत्यास्ततः प्रभृति वैष्णवाः।
सर्व एवाभवन्भक्त्या राजा ह्याचारकारणम्।।[5-4-18]
जगाम वार्ता गगनं देवलोकमथारिहन्।
विष्णोर्द्वेषं परित्यज्य भक्त्या दैत्याः श्रिता इति।।[5-4-19]
देवा विस्मयमाजग्मुः शक्राद्याः समरुद्गणाः।
गृहीता वैष्णवीभक्तिर्दैत्यैः किमिति राघवः।।[5-4-20]
क्षीरोदे भोगिभोगस्थं विबुधा विस्मयाकुलाः।
जग्मुरम्बरमुत्सृज्य हरिमाहवशालिनम्।।[5-4-21]
देवा ऊचुः।।
किमेतद्भगवन्दैत्या विरुद्धा ये सदैव ते।
ते हि त्वन्मयतां याता विस्मयो नो विजृम्भते।।[5-4-22]
क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः।
क्व पाश्चात्त्यमहाजन्मलभ्या भक्तिर्जनार्दने।।[5-4-23]
प्राकृतो गुणवाञ्जात इत्येषा भगवन्कथा।
अकालपुष्पमालेवासुखायोद्वेजनाय च।।[5-4-24]
अथेति।। पूजया पूजाविधिना।।[5-4-16,17,18,19,20,21,22,23,24]
क्वाधमः प्राकृतारम्भो हीनकर्ममतिः सदा।
वराको दानवस्तुच्छजातिर्भक्तिः क्व वैष्णवी।।[5-4-25]
श्रीभगवानुवाच।।
विबुधा मा विषण्णाः स्थ प्रह्लादो भक्तिमानिति।
पाश्चात्त्यं जन्म तस्येदं मोक्षार्होऽसावरिन्दमाः।।[5-4-26]
गुणवान्निर्गुणो जात इत्यनर्थक्रमं विदुः।
निर्गुणो गुणवाञ्जात इत्याहुः सिद्धिदं क्रमम्।।[5-4-27]
क्वेति।। वराकः शोच्यः[5-4-25,26,27]
आत्मीयानि विचित्राणि भुवनान्यमरोत्तमाः।
प्रयात नासुखायैषा प्राह्लादी गुणितोद्भवा।।[5-4-28]
आत्मीयानीति।। प्राह्लादी प्रह्लादसंबन्धिनी। गुणिता गुणवत्तोद्भवोत्कृष्टप्रभावा।।
इत्युक्त्वा भगवांस्तत्र क्षीरोदार्णववीचिषु।
अन्तर्धानं ययौ देवस्तटतापिच्छगुच्छवत्।।[5-4-29]
सोऽपि संपूजितहरिः सुरौघोऽव्रजदम्बरम्।
प्रह्लादं प्रति गीर्वाणास्ततः स्निग्धत्वमाययुः।।[5-4-30]
वसिष्ठ उवाच।।
प्रत्यहं पूजयामास देवदेवं जनार्दनम्।
मनसा वर्मणा वाचा प्रह्लादो भक्तिमानिति।।[5-4-31]
अथ पूजापरस्यास्य दृश्ये स्थल इवाब्जिनी।
न विशश्राम चेतोऽस्य भोगत्यागानुरङ्गतः।।[5-4-32]
त्यक्तभोगादिकथनं विश्रान्तिमनुपागतम्।
चेतः केवलमस्यासीद्दोलायामिव योजितम्।।[5-4-33]
इतीति।। तापिच्छगुच्छवत्तमालपुष्पस्तबकवत्।।[5-4-29,30,31,32,33]
प्रह्लादीं तां स्थितिं कृष्णो देवः क्षीरोदमन्दिरात्।
विवेद सर्वगतया धिया परमकान्तया।।[5-4-34]
प्राह्लादीमिति।। क्षीरोदमन्दिरात्क्षीरोदमन्दिरे स्थित्वैव सर्वगतया धिया विवेदेत्यन्वयः। मन्दिरादिति `अधिकरणे चोपसंख्यानम्' इति ल्यब्लोपे पञ्चमी।।
अथ पातालमार्गेण विष्णुराह्लादिताग्रगः।
देवपूजागृहं तस्य प्रह्लादस्य समाययौ।।[5-4-35]
विज्ञायाभ्यागतं देवं पूजया द्विगुणेद्धया।
दैत्येन्द्रः पुण्डीकाक्षमादरात्प्रत्यपूजयत्।।[5-4-36]
पूजागृहगतं देवं प्रत्यक्षावस्थितं हरिम्।
प्रह्लादः सुपरिप्रीतो गिरा तुष्टाव पुष्टया।।[5-4-37]
अथेति।। विष्णुः पातालमार्गेण तस्य देवपूजागृहं समाययौ। क्षीरोदे निमज्ज्य तस्य देवपूजागृहादुन्ममज्जेत्यर्थः। आह्लादिताग्रगः। भक्तानुग्रहव्यग्रतया परितोषिपरिवार इत्यर्थः।।[5-4-35,36,37]
प्रह्लाद उवाच।।
त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं चकास्ति।
अशरणशरणं शरण्यमीशं हरिमजमच्युतमीश्वरं प्रपद्ये।।[5-4-38]
अथाष्टभिः श्लोकैः प्रह्लादो विष्णुं स्तौति-त्रिभुवनेति।। त्रिभुवनमेव भवनं तस्याभिरामः कोशोऽर्थैघ इव सर्वैरुपजीव्यत्वात्तादृशम्।।
कुवलयदलशैलसंनिकाशं शरदमलाम्बरकोटरोपमानम्।
भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये।।[5-4-39]
कुवलयेति।। कुवलयदलानां शैलः शैलाकारो राशिस्तत्संनिकाशम्। भ्रमरतिरमिरकज्जलाञ्जनाभं कज्जलरूपमञ्जनम्। अञ्जनस्य नयनप्रसादहेतोः द्रव्यस्य बहुविधत्वाद्विशेषणोपादानम्।।
विमलमलिकलापकोमलाङ्गं सितदलपङ्कजकुड्मलाभशङ्खम्।
श्रुतिरणितविरिञ्चिचञ्चरीकं स्वहृदयपद्मजलाशयं प्रपद्ये।।[5-4-40]
विमलेति।। श्रुतिभिर्वेदै रणितो मुखरितो विरिञ्चिरेव चञ्चरीको भ्रमरो यस्मिंस्तम्। स्वहृदयस्य प्रह्लादहृदयस्यैव पद्मस्य जलाशयमिवाश्रयभूतम्।।
सितनखतरतारकावकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम्।
हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरमानतं प्रपद्ये।।[5-4-41]
सितेति।। हृदयमणिमरीचिजालगङ्गं वक्षसि स्थितानां मुक्तामणीनां मरीचिजालमेव गङ्गा मन्दाकिनी यस्य तम्।।
त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपमग्र्यम्।
स्फुटतरमजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये।।[5-4-42]
त्रिभुवनेति।। त्रिभुवनमेव नलिनी सरसी तस्यां सितारविन्दम्। सितत्वं च नरसिंहाद्यवताराभिप्रायेण। तिमिरसमानविमोहदीपं ज्ञानप्रतिबन्धकत्वात्तिमिरसमानस्य मोहस्य दीपमिव निवर्तकम्।।
नवविकसितपद्मरेणुगौरस्फुटकमलावपुषोपभूषिताङ्गम्।
दिनशमसमयारुणाङ्गरागं कनकनिभाम्बरसुन्दरं प्रपद्ये।।[5-4-43]
नवेति।। नवविकसितपद्मरेणुवद्गौरेण कमलाया वक्षःस्थलस्थितायाः श्रियो वपुषा उपभूषितानि अङ्गानि यस्य। दिनशमसमयः संध्या तद्वदरुणोऽङ्गरागो यस्य।।
अविरतकृतिविश्वसर्गलीलं सततमजातमवर्धनं विशालम्।
युगशतजरठाभिजातदेहं तरुदलशायिनमर्भकं प्रपद्ये।।[5-4-44]
अविरतेति।। अत्र अविरतकृतविश्वसर्गलीलस्य सततमजातत्वं अवर्धनस्य विशालत्वं जरठस्य अभिजातदेहत्वं अर्भकत्वं च विरुद्धमिति विरोधाभासः प्रतीयते। अवर्धनं विशालम्। असत्येव वर्धने विपुलं स्वभावतएव व्यापकत्वात्। युगशतजरठाभिजातदेहं युगशतेषु जरठो जीर्णोऽप्यभिजातो रम्यो देहो यस्य तम्। तरुदलशायिनं वटपत्रशायिनम्।।
दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम्।
कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये।।[5-4-45]
इति गुणबहुलाभिर्वाग्भिरभ्यर्चितोऽसौ हरिरसुरविनाशी श्रीनिषण्णांसदेशः।
जलद इव मयूरे प्रीतिमान्प्रीयमाणं कुवलयदलनीलः प्रत्युवाचासुरेन्द्रम्।।[5-4-46]
श्रीभगवानुवाच।।
वरं कुलनिधे दैत्यकुलानर्घ्यमहामणे।
गृहाणाभिमतं भूयो जन्मदुःखोपशान्तये।।[5-4-47]
प्रह्लाद उवाच।।
सर्वसंकल्पफलदः सर्वलोकान्तरस्थितः।
यदुदारतमं वेत्सि तदेवादिश मे विभो।।[5-4-48]
श्रीभगवानुवाच।।
सर्वसंभ्रमसंशान्त्यै परमाय फलाय च।
ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ।।[5-4-49]
वसिष्ठ उवाच।।
इत्युक्त्वा दितिपुत्रेन्द्रं विष्णुरन्तरधीयत।
कृतघर्घरनिर्ह्रादस्तरङ्गस्तोयधेरिव।।[5-4-50]
दितिसुतेति।। दितिसुता एव नलिन्यः तासां तुषारपातः संहारहेतुत्वात्। कमलजो ब्रह्मा स एव नलिनी अनेकमुखपद्मयुक्तत्वात् तस्या जलावपूरो जलाशयः तम्। हृदि नलिनीनिलयम्। नलिनीशब्दोऽत्र पद्ममात्रवाची। हृदि वक्षसि या नलिनी यत्पुण्डरीकं तन्निलयम्।।[5-4-45,46,47,48,49,50]
विष्णावन्तर्हिते देवे पूजायै कुसुमाञ्जलिम्।
पाश्चात्त्यं दानवस्त्यक्त्वा मणिरत्नपरिष्कृतम्।।[5-4-51]
विष्णाविति।। पाश्चात्त्यं पश्चाद्भवम्। उद्वासनाङ्गभूतमित्यर्थः। मणिरत्नपरिष्कृतं मणिश्रेष्ठैरलंकृतम्।।
पद्मासनस्थोऽपि मुदा ह्युपविष्टोऽधरासने।
स्तोत्रपाठविधिप्रान्ते चिन्तयामास चिन्तया।।[5-4-52]
विचारवानेव भवान्भवत्विति भवारिणा।
देवेनोक्तोऽस्मि तेनान्तः करोम्यात्मविचारणम्।।[5-4-53]
पद्मेति।। पद्मासनं तु-`ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे। पद्मासनं भवेदेतत्सर्वेषामपि पूजितम्' इत्युक्तलक्षणम्। स्तोत्रपाठविधावत्र पूर्वोक्तस्तोत्रविषये।।[5-4-52,53]
किमहं तावदेव स्यां योऽस्मिन्भुवनडम्बरे।
वच्मि गच्छामि तिष्ठामि प्रयते विहरामि च।।[5-4-54]
किमिति।। वच्मीत्यादि सर्वेन्द्रियव्यापारोपलक्षणम्। वच्मीत्यादिरूपेण सर्वेन्द्रियव्यापारभिमानी अहं किं स्यामिति विचारोपक्रमः।।
जगत्तावदिदं नाहं सवृक्षतृणवीरुधम्।
यद्बाह्यं जडमत्यन्तं तत्स्यां कथमहं किल।।[5-4-55]
इदं जगदहं न। बाह्यत्वाज्जडत्वाच्चेत्यर्थः।।
असन्नभ्युत्थितो मूकः पवनेनैव विस्फुरन्।
कालेनाल्पेन विलयी देहो नाहमचेतनः।।[5-4-56]
असन्निति।। वस्तुतोऽसन्नेवाभ्युत्थितः कल्पितः। भूतेन्द्रियसंघातस्य देहव्यपदेशाद्देहो नाहं अचेतनत्वाज्जडत्वात्। कुतश्चाचेतनत्वम् असदभ्युत्थत्वान्मूकत्वात्पवनप्रेर्यत्वाच्चेत्यर्थः।।
जडया कर्णशष्कुल्या कल्पमानः क्षणस्थया।
शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः।।[5-4-57]
जडयेति।। शून्याकृतिः अमूर्तत्वात्। शून्यभवः आकाशप्रभवत्वात्। अत्रापि पूर्ववत्साध्यसाधनभावो योज्यः।।
त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा।
चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचेतनः।।[5-4-58]
त्वचेति।। त्वचा त्वगिन्द्रियेण प्राप्यः प्रकारान्तरेण त्वप्राप्यत्वात् चित्प्रसादेन इन्द्रियप्रवर्तकतया बहिः प्रसृतेन। उपलब्धात्मा प्रकाशितस्वरूपः।।
लब्धात्मा जिह्वया तुच्छो लोलक्षणिकसत्तया।
स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः।।[5-4-59]
लब्धेति।। लोला क्षणिका सत्ता यस्यास्तया।।
दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः।
केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम्।।[5-4-60]
दृश्येति।। दृश्यं घटादि दर्शनं चक्षुस्तयोर्लीनं समवेतम्। केवले द्रष्टरि क्षीणमविद्यमानम्। केवलग्रहणमुपहितनिवृत्त्यर्थम्।।
नासया गन्धजडया क्षयिणा परिकल्पितः।
पेलवो नियताकारो गन्धो नाहमचेतनः।।[5-4-61]
नासयेति।। गन्धजडया गन्धवत्या जडया चेत्यर्थः। पेलवो विरलः। अनियताकारः क्षणान्तरे गन्धान्तरस्य प्रादुर्भावात्।।
निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः।
शुद्धचेतन एवाहं कलाकलनवर्जितः।।[5-4-62]
तर्हि कस्त्वमित्यत्राह-निर्मम इति।। तत्र गतपञ्चेन्द्रियभ्रमः इत्यनेन चक्षुरादीन्द्रियतादात्म्यं वारयति। अमनन इति मनोरूपता। मननं हि मनोव्यापारः। निर्मम इत्यनहंकारत्वम्। ममेत्यव्ययम्। निर्गतो ममेत्यभिमानो यस्मात्। कलाकलनवर्जित इति मायासंबन्धरहित इत्यर्थः।।
चेत्यवर्जितचिन्मात्रमहमेवावभासकः।
सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः।।[5-4-63]
जीवभावं च वारयति-चेत्येति।। निष्कलामलसन्मयः निष्कलं निरंशं अमलं च यत्सद्वस्तु तद्रूपः।।
आ इदानीं स्मृतं सत्यमेतत्तदखिलं मया।
निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः।।[5-4-64]
आ इति।। आ इति स्मृतिद्योतकमव्ययम्। सत्यमखिलं सर्वात्मकं चैतद्रूपं मया स्मृतमित्यन्वयः।।
मयैव चेतनेनेमे सर्वे घटपटादयः।
सूर्यान्ता अवभासन्ते दीपेनोत्तमतेजसा।।[5-4-65]
तदेव रूपं निर्विकल्पेत्यादिना दर्शयति-मयैवेति।। मयैव दीपेन चेतनेनेमे घटपटादयः सूर्यान्ता अवभासन्ते। `तस्य भासा सर्वमिदं विभाति' इति श्रुतेः।।
मयैवैताः स्पुरन्तीह विचित्रेन्द्रियवृत्तयः।
तेजसान्तःप्रकाशेन यताग्निकणपङ्क्तयः।।[5-4-66]
मयैवेति।। एता विचित्रा इन्द्रियवृत्तयोऽपि अन्तःप्रकाशमानेन मयैव तेजसा स्फुरन्ति अन्तर्गताग्नयः काष्ठशलाका इवेति।।
विरिञ्चिसदनात्पारे कल्पान्तेऽप्याहरत्पदम्।
प्रसरत्येव मे रूपमद्यापि न निवर्तते।।[5-4-67]
विरिञ्चीति।। मे रूपं चैतन्यं विरिञ्चिसदनात्सत्यलोकात्परतोऽपि कल्पान्तेऽपि पदं स्थानमाहरत् संपादयत् प्रसरत्येव अद्यापि न निवर्तते। देशकालाभ्यामपरिच्छिन्नत्वात्सर्वत्र परिपूर्णं मे स्वरूपमित्यर्थः।।
अयं नामाहमित्यन्तः कुतो निरवलम्बनः।
अपर्यन्ताकृतेरेषा किलासीत्स्वल्पता मम।।[5-4-68]
अयमिति।। अपरिच्छिन्नस्यात्मनोऽयमिति परिच्छेदो निरालम्बो निर्हतुकश्चेत्यर्थः।।
अनन्तानन्दसंभोगा परोपशमशालिनी।
सुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु।।[5-4-69]
अनन्तेति।। प्रकृष्टोपशमशालिनी इयं मदीया दृष्टिः अखिलदृष्टिषु समस्तवस्तुदर्शनेषु अनन्तमानन्दमनुभवती चिन्मयी जयतीत्यन्वयः।।
सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने।
प्रत्यक्चेतनरूपाय मह्यमेव नमोनमः।।[5-4-70]
सर्वेति।। `आत्मैव देवताः सर्वा' इति श्रुतेः आत्मनश्चाद्वितीयत्वात् स्वस्यैव नमस्कारो युज्यते। सर्वपदार्थान्तर्यामिणे विषयासंस्पृष्टसद्रूपाय प्रत्यगात्मने मह्यं नमः।।
विचित्राः शक्तयः स्वच्छसमया निर्विकारया।
चिता क्रियन्ते परया कलङ्कमलमुक्तया।।[5-4-71]
विचित्रेति।। स्वच्छया समया निर्विकारया च परया चितैव कलङ्कमलमुक्तया विचित्राः शक्तयो जगत्सृष्ट्याद्यनुकूला ब्रह्मादिरूपा मूर्तयः क्रियन्ते।।
कालत्रयमुपेक्षिण्या हीनायाश्चेत्यबन्धनैः।
चितश्चेत्यमुपेक्षित्र्याः समतैवावशिष्यते।।[5-4-72]
कालेति।। अतीतमनागतं वर्तमानं च कालमुपेक्षते नानुसंधत्ते या चित्सा चेत्यबन्धनैः हर्षविषादादिभिः हीयते। तस्याश्च चेत्यं दृश्यभेदमुपेक्षमाणायाश्चितः समतैव पूर्णतैवावशिष्यते। उपेक्षित्र्या इति तृन्नन्तात् `ऋन्नेभ्यो ङीप्' इति ङीपि रूपम्।।
सा हि वाचामगम्यत्मवादसत्तामिव शाश्वतीम्।
नैरात्म्यसिद्धान्तदशामुपयातेव तिष्ठति।।[5-4-73]
सा हीति। सा हि समतामापन्ना चिद्वाचामगम्यत्वादव्यपदेश्यत्वात् शाश्वतीं समतामुपगतेव नैरात्म्यसिद्धान्तदशां शून्यवादिसिद्धान्तावस्थां शून्यरूपतामुपयातेवावशिष्यते।।ईहानीहमयैरन्तर्या चिदावलिता मलैः।
सा हि नोत्पितितुं शक्ता पाशबद्धेव पक्षिणी।।[5-4-74]
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः।
धराविवरलग्नानां कीटानां समतां गताः।।[5-4-75]
ईहेति।। ईहानीहमयैः रागद्वेषमूलैर्मलैः मनोदोषैर्या चिदावलिता वेष्टिता भवति सा चित् पाशबद्धा पक्षिणीव उत्पतितुं मुक्ता भवितुं न शक्ता।।[5-4-74,75]
आत्मनेऽस्तु नमो मह्यमविच्छिन्नचिदात्मने।
लोकालोकमणे देव चिरेणाधिगतोऽस्म्यहम्।।[5-4-76]
आत्मन इति।। लोकालोकमणे लोकानालोकयति प्रकाशयतीति लोकालोकः स चासौ मणिश्च तस्यामन्त्रणम्।।
परामृष्टोऽसि लब्धोऽसि प्रोदितोऽस्यचिराय च।
उद्धृतोऽसि विकल्पेभ्यो योऽसि सोऽसि नमोऽस्तु ते।।[5-4-77]
परामृष्ट इति। परामृष्टः श्रुत्याचार्यवाक्यैः सम्यग्विचारितोऽसि ततो विकल्पेभ्यः कल्पिताकारेभ्य उद्धृतोऽसि। ततश्च प्रोदितोऽसि कृप्रष्टेन सत्यज्ञानानन्दादिलक्षणेन स्वरूपेण प्रादुर्भूतोऽसि। ततश्च लब्धोऽसि ऐक्येन सोऽहमित्यपरोक्षमनुभूतोऽसि। इत्थं पूर्वं योऽसि यद्रूपोऽसि तद्रूप एवेदानीमसि कल्पिताकारनिवृत्त्या स्वरूपेणैवावस्थितोऽसि तथाभूताय ते नमोऽस्त्वित्यन्वयः।।
मह्यं तुभ्यमनन्ताय तुभ्यं मह्यं सिवात्मने।
नमो देवाधिदेवाय पराय परमात्मने।।[5-4-78]
मह्यमिति।। जीवपरमात्मनोरैक्यान्मह्यं मद्रूपाय तुभ्यं नमः। तुभ्यं त्वद्रूपाय मह्यं नमः। देवानामधिदेवाय पराय परमात्मने नमः।।
गतघनमिव पूर्णमिन्दुबिम्बं गतकलनावरणं स्वमेव रूपम्।
स्ववपुषि मुदिते स्वयं स्वसंस्थं स्वयमुदितं स्ववशं स्वयं नामामि।।[5-4-79]
गतेति।। गतकलनावरणं निवृत्ताविद्यावरणम्। अतश्च गतघनं पूर्णमिन्दुबिम्बमिव स्थितम्। मुदिते आनन्दात्मके स्ववपुषि स्वरूपे न पुनः स्वव्यतिरिक्त आधारेः स्वयमात्मनैव न कारणान्तरेण। स्वसंस्थं स्वस्वरूपभूतं नतु क्रियारूपा संस्था स्थितिर्यस्य तम्। स्वयमेव उदितं आविर्भूतम्। स्ववशं अनन्याधीनं स्वमेव रूपं नामामि।।
तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति।
शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते।।[5-4-80]
तिष्ठन्निति।। निष्क्रियत्वात्तिन्नपि आसीनो न भवति। अवस्थितदेहानभिमानात्। गच्छन्नपि देशान्तरं व्याप्नुवन्नपि न गच्छति गमनक्रियाया देहनिष्ठत्वात्। आत्मनश्च तद्व्यतिरिक्तत्वात्। शान्तोऽपि निर्विकारचित्तोऽपि व्यवहारस्थः सर्वेन्द्रियप्रवर्तकत्वात्। इत्थं कुर्वन्नपि व्यवहरन्नपि आत्मा न लिप्यते पुण्यपापैर्नश्लिष्यते अहंकारस्य निवृत्तात्वात्।।
मनांसि क्षोभयत्येष पल्लवानिव मारुतः।
वाहयत्यक्षपङ्क्तिं स्वामश्वालीमिव सारथिः।।[5-4-81]
मनांसीति।। मनांसि मनोबुद्ध्यादीन्यन्तःकरणानि। अक्षपङ्क्तिं बाह्येन्द्रियगणम्।।
एष एव सदान्वेष्यः स्तुत्यो ध्यातव्य एव च।
जरामरणसंमोहादनेनोत्तीर्य गम्यते।।[5-4-82]
सुलभश्चायमत्यन्तं सुजेयश्चाप्तबन्धुवत्।
शरीरपद्मकुहरे सर्वेषामिव षट्पदः।।[5-4-83]
न मे भोगस्थितौ वाञ्छा न मे भोगविवर्जने।
यदायाति तदायातु यत्प्रयाति प्रयातु तत्।।[5-4-84]
एष इति। एष आत्मैव सादन्वेष्यः। `सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' इति श्रुतेः। एवं च सति अनेनात्मना जरामरणसंमोहात्संसारादुत्तीर्य स्वरूपं गम्यते।।[5-4-82,83,84]
एतावन्तमहं कालमज्ञानरिपुणामुना।
हृत्वा विवेकसर्वस्वमेकान्तमवपोथितः।।[5-4-85]
एतावन्तमिति।। एकान्तं परैरविज्ञातं यथा तथा। अवपोथितो हिंसितः।।
मनसा मनसि छिन्ने निरहंकारतां गते।
भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः।।[5-4-86]
मनसेति।। मनसा शास्त्रसंस्कृतेन मनोवृत्तिविशेषेण मनसि संसारवासिते चेतसि छिन्ने निरहंकारतां गते सति भावेन ब्रह्माद्वैतविषयेण तात्पर्येण संसारालम्बिनि भावे गलिते सति केवलः स्वच्छः तिष्ठामि।।
निर्भावं निरहंकारं निर्मनस्कमनीहितम्।
केवलास्पन्दशुद्धात्मन्यवतिष्ठति मे वपुः।।[5-4-87]
तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात्।
न जाने क्व गतोड्डीय दुरहंकृतिपक्षिणी।।[5-4-88]
विद्यमानापि वस्तुश्रीर्न स्थिता त्वयि न स्थिरे।
वनितारूपलावण्यसत्तेव गतचक्षुषः।।[5-4-89]
निर्भावमिति।। निर्भावमित्यादि तिष्ठतिक्रियाविशेषणम्। भावः संसारवासना।।[5-4-87,88,89]
जय प्रोड्डामराकार जय शान्तिपरायण।
जय सर्वागमातीत जय सर्वागमास्पद।।[5-4-90]
जय जात जयाजात जय क्षत जयाक्षत।
जय भाव जयाभाव जय जेय जयाजय।।[5-4-91]
वसिष्ठ उवाच।।
इति संचिन्तयन्नेव प्रह्लादः परवीरहता।
निर्विकल्पपरानन्दसमाधिं समुपाययौ।।[5-4-92]
निर्विकल्पसमाधिस्थश्चित्रार्पित इवाबभौ।
पञ्चवर्षसहस्राणि पीनांसोऽतिष्ठदेकदृक्।।[5-4-93]
जयेति श्लोकद्वयेनात्मानं स्तौति। प्रोड्डामरो भयंकरो भैरवाद्याकारो यस्य। सर्वागमातीतनामजात्याद्यभावात्। सर्वागमास्पद सर्वोपनिषत्समन्वयगम्यत्वात् सर्वात्मकत्वात् जाताजातादिरूपत्वम्।।[5-4-90,91,92,93]
एतावता च कालेन तद्रसातलमण्डलम्।
बभूवाराजकं तीक्ष्णं मात्स्यन्यायकदर्थितम्।।[5-4-94]
एतावतेति।। तीक्ष्णं हिंसाभूयिष्ठम्। मात्स्यन्यायो नाम बलवता दुर्बलस्य बाधः। मत्स्या हि महान्तः स्वल्पान्मत्स्यान्गिलन्ति।।
अथाखिलजगज्जालक्रमपालनदेहवान्।
क्षीरोदसागरे शेषशय्यासनगतो हरिः।।[5-4-95]
अथेति।। अखिलानां जगतां जालस्य तत्क्रमस्य वर्णाश्रमधर्ममर्यादायाश्च पालनाय देहवान्।।
इदं संचिन्तयामास त्रैलोक्याम्भोरुहांशुमान्।
प्रह्लादे पदविश्रान्ते पाताले गतनायके।।[5-4-96]
अष्टभिः श्लोकैर्भगवतश्चिन्ता। इत्थं च चिन्तायाः क्रमः-प्रह्लादस्य स्वपदविश्रान्तत्वात् पाताले गतनायके सति तत्रत्यानामनाथतया क्षये।।
कष्टं सृष्टिरियं प्रायो निर्दैत्यत्वमुपागता।
दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता।
शममेष्यत्यपद्वन्द्वं मोक्षाख्यं पदमाप्स्यति।।[5-4-97]
सुरश्रेणीविजिगीषां विहायोपशान्ता सती मुमुक्षेत।।
देवौघे शान्तिमायाते भुवि यज्ञतपःक्रियाः।
भविष्यन्त्यफलाः सर्वाः शममेष्यन्त्यसंशयम्।।[5-4-98]
ततस्तद्भोगभूमेः स्वर्गस्याभावाद्भुवि यज्ञतपःप्रमुखानि स्वर्गफलानि सत्कर्माण्युच्छिद्येरन्।।
क्रियास्वथोपशान्तासु भूर्लोकोऽस्तमुपैष्यति।
असंसारप्रसङ्गोऽथ शेषेऽप्यर्थे भविष्यति।।[5-4-99]
ततो धर्मस्याप्रवृत्तेः भूलोकस्याप्युपरतौ असंसारप्रसङ्ग सति पालनीयस्याभावान्।।
ततोऽहमपि शून्येऽस्मिन्नष्टचन्द्रार्कतारके।
चेतःप्रशान्तिमाधाय स्थितिमेष्यामि तत्पदे।।[5-4-100]
अहमपि स्वपदे विश्राम्येयम्।।
अकाण्ड एवमेवं हि जगत्युपशमं गते।
नेह श्रेयोऽनुपश्यामि मन्ये जीवन्तु दानवाः।।[5-4-101]
ततश्चाकाण्ड एव प्रलयः स्यादिति दानवानां जीवनमेव वरं मन्ये।।
दैत्योद्योगेन विबुधास्ततो यज्ञतपःक्रियाः।
तेन संसारसंस्थानमसंसारक्रमोऽन्यथा।।[5-4-102]
आकल्पमिह वस्तव्यं देहेनानेन तेन च।
एवं हि नियतिर्दैवी निश्चिता पारमेश्वरी।।[5-4-103]
इति संचिन्त्य सर्वात्मा निर्गत्य क्षीरसागरात्।
प्रह्लादनगरं प्राप्य प्रासादतलमाविशत्।।[5-4-104]
वैनतेयासनस्थोऽसौ लक्ष्मीविधुतचामरः।
स्वायुधादिपरीवारो देवर्षिमुनिवन्दितः।।[5-4-105]
महात्मन्संप्रबुध्यस्वेत्येव विष्णुरुदाहरन्।
पाञ्चजन्यं प्रदध्मानो ध्वनयन्ककुभां गणम्।।[5-4-106]
ततो दैत्योद्योगेन विबुधानां विजीगीषायां यज्ञादिक्रियाप्रवृत्तौ संसारस्य स्थितिर्नान्यथेति।।[102,103,104,105,106]
महता तेन शब्देन वैष्णवप्राणजन्मना।
बभूव स प्रबुद्धात्मा दानवेशः शनैःशनैः।।[5-4-107]
महतेति।। वैष्णवप्रामजन्मना विष्णुसंबन्धप्राणवायुजनितेन।।
ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिरथासुरम्।
शनैराक्रमयामास नाडीभ्यः सर्वतोमुखम्।।[5-4-108]
ब्रह्मरन्ध्रेति।। अथ प्रबोधानन्तरं प्राणशक्तिश्चैतन्यशक्तिः ब्रह्मरन्ध्रकृतोत्थाना पूर्वं समाधिसमये तत्रैव ब्रह्मरन्ध्रे स्थितोति तत उत्थिता सती सर्वाभ्यो नाडीभ्यः शनैरसुरमाक्रमयामास व्याप्तवती।।
प्राणेषु रन्ध्रवक्त्रेषु प्रवृत्तेष्वथ तस्य चित्।
चेत्योन्मुखी बभूवान्तःप्राणदर्पणबिम्बिता।।[5-4-109]
प्राणेष्विति।। रन्ध्रवक्त्रेषु नवकेषु नवसु रन्ध्रेषु प्राणेष्विन्द्रियेषु प्रवृत्तेषु सत्सु तस्य चित् अन्तःप्राणदर्पणबिम्बिता अन्तःप्राणे अन्तरिन्द्रिय एव दर्पणे प्रतिबिम्बिता चेत्योन्मुखी बभूव।।
चेतनीयोन्मुक्ती चेत्यचिन्मनस्तामुपाययौ।
द्वित्वं मुकुरसंक्रान्ता मुखश्रीरिव राघव।।[5-4-110]
किंचिदङ्कुरिते चित्रे नेत्रे विकसनोन्मुखे।
शनैर्बभूवतुस्तस्य प्रान्तनीले यथोत्पले।।[5-4-111]
चेतनीयेति।। चेतनीयं चेत्यं दृश्यमिति पर्यायाः। चेतनीयोन्मुखी चेत्यचित् अन्तःकरणप्रतिबिमिबितत्वाच्चेत्यभूता सा चित् मनस्तां मनोरूपतामुपाययौ। मुखश्रीर्मुखशोभामुकुरसंक्रान्ता दर्पणप्रतिफलिता द्वित्वं रूपान्तरमिवेति।।[5-4-110,111]
प्राणापानपरामृष्टनाडीविवरसंविदः।
वातार्तस्येव पद्मस्य स्पन्दोऽस्य समजायत।।[5-4-112]
निमेषान्तरमात्रेण मनः पीवरतां ययौ।
अथासौ विकसन्नेत्रमनःप्राणवपुर्षभौ।।[5-4-113]
प्रफुल्लनयनं जातं मानसं पीवरं स्मृताम्।
उवाचैनां त्रिलोकेशः पर्जन्य इव बर्हिणम्।।[5-4-114]
साधो स्मर महालक्ष्मीमात्मीयां स्मर चाकृतिम्।
अकाण्ड एव किं देहविरामः क्रियते त्वया।।[5-4-115]
प्राणेति।। प्राणापानपरामृष्टनाडीविवरसंविदः प्राणापानाभ्यां परामृष्टा प्रबोधिता नाडीविवरेषु संविच्चेतना यस्य तस्य वातेरितपद्मस्येव स्पन्दः समजायतेति।।[5-4-112,113,114,115]
हेयोपादेयसंकल्पविहीनस्य शरीरगैः।
भावाभावैस्तवानर्थः कस्तिष्ठोत्तिष्ठ संप्रति।।[5-4-116]
हेयेति।। हेयोपादेयविषयसंकल्पविहीनस्य तव शरीरगैर्भावाभावैः इष्टानिष्टैः कोऽनर्थः का हानिः। तस्माज्जीवन्मुक्तपदे तिष्ठ समाधेरुत्तिष्ठ।।
जीवन्मुक्तेन भवता राज्य एव हि तिष्ठता।
क्षेपणीया गतोद्वेगमाकल्पान्तमियं तनुः।।[5-4-117]
नोदिता द्वादशादित्या न विलीनाः शिलोच्चयाः।
न जगज्ज्वलितं साधो तनुं त्यजसि वै मुधा।।[5-4-118]
जीवन्निति।। क्षेपणीया प्रवर्तनीया। गतोद्वेगं विगतभयम्।।[5-4-117,118]
कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः।
मतिं यस्यावलुम्पन्ति मरणं तस्य राजते।।[5-4-119]
कृश इति।। दारिद्र्यादिदुःखवासनाविलुप्तधैर्यस्यैव मरणं शोभत इत्यर्थः।।
आशापाशनिबद्धोऽन्तरितश्चेतश्च नीयते।
यो विलोलमनोवृत्त्या मरणं तस्य राजते।।[5-4-120]
आशेति।। अन्तः अन्तःकरणे आशापाशनिबद्धत्वात् विलोलमनोवृत्त्या पशुपदितस्ततो नीयमानस्य सुखलेशाभावान्मरणमेव वरमित्यर्थः।।
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।
यः समः सर्वभूतेषु जीवितं तस्य शोभते।।[5-4-121]
योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया।
साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते।।[5-4-122]
जीवन्मुक्तस्य तु जीवितमेव शोभत इत्याह त्रिभिः-यस्येति।। यस्य भावोऽन्तःकरणवृत्तिः नाहंकृतं देहावहंममाभिमानशून्यः बुद्धिश्च हर्षविषादादिभिः न लिप्यते न स्पृश्यते यश्च सर्वभूतेषु समः समदर्शी तस्य जीवितं शोभते।।[5-4-121,122]
येन सम्यक्परिज्ञाय हेयोपादेयमुक्तताः।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते।।[5-4-123]
येनेति।। सम्यक्परिज्ञाय। आत्मतत्त्वमिति शेषः। चित्तस्यान्ते चित्तलयस्थाने स्वात्मन्येव चित्तमर्पितम्। तदायत्तं कृतमित्यर्थः।।
ग्राह्यग्राहकसंबन्धे क्षीणशान्तिरुदेत्यलम्।
स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाभिधीयते।।[5-4-124]
तदुत्तिष्ठासुराधीश सिंहासनमुपाश्रय।
यावदाश्वभिषेकं ते स्वयमेव ददाम्यहम्।।[5-4-125]
पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः।
सिद्धाः साध्याः सुरौघाश्च कुर्वन्तु तव मङ्गलम्।।[5-4-126]
अथैनं हरिराहूतैः क्षीरोदाद्यैर्महाब्धिभिः।
गङ्गादिभिः सरित्पूरैः सर्वतीर्थजलैस्तथा।।[5-4-127]
सुरासुरैः स्तूयमानं स्तूयमानः सुरासुरैः।
अभिषिक्तमुवाचेदं प्रह्लादं मधुसूदनः।।[5-4-128]
यावन्मेरुर्धरा यावद्यावच्चन्द्रार्कमण्डलम्।
आखण्डितगुणश्लाघी तावद्राजा भवानघ।।[5-4-129]
वसिष्ठ उवाच।।
इत्युक्त्वा पुण्डरीकाक्षः सनरामरकिंनरः।
द्वितीय इव संहारस्तत्रैवान्तर्धिमाययौ।।[5-4-130]
ग्राह्येति।। ग्राह्यग्राहकसंबन्धे क्षीणे ग्राह्यादिभेदप्रतीतौ निवृत्तायां या शान्तिः चित्तस्य निर्विकारता उदेति सैव स्थितिमभ्यागतासती मोक्ष इत्युच्यते।।[5-4-24,25,26,27,28,29,30]
राम उवाच।।
परे पदे परिणतं पाञ्चजन्यस्वनैर्मनः।
कथं प्रबुद्धं भगवन्प्रह्लादस्य महात्मनः।।[5-4-131]
परे पद इति।। परे पदे ब्रह्मणि परिणतं तादात्म्यमापन्नम्।।
वसिष्ठ उवाच।।
भ्रष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता।
हृदि जीवद्विमुक्तानां शुद्धा वसति वासना।।[5-4-132]
भ्रष्टेति।। भ्रष्टबीजोपमा अतएव भूयो जन्मरूपेणाङ्कुरेण विवर्जिता शुद्धा वासना जीवन्मुक्तानां हृदि वसति।।
पावनी परमोदारा शुद्धसत्त्वानुपातिनी।
आत्मध्यानमयी नित्यं सुषुप्तस्थेव तिष्ठति।।[5-4-133]
तामेव विशिनष्टि-पावनीति।। पावनी पापलेपाभावात्। परमोदारा कैवल्यसुखप्रदत्वात्। शुद्धसत्त्वानुपातिनी रजस्तमोभ्यामसंभिन्नं सत्त्वगुणमेवानुवर्तमाना आत्मध्यानमयी सा शुद्धवासना जीवन्मुक्ते सुषुप्तस्थवासनावन्निलीना तिष्ठति।।
अपि वर्षसहस्रान्ते तयैवान्तरवस्थया।
सति देहे प्रबुध्यन्ते कुतोऽत्युच्छ्रनया शनैः।।[5-4-134]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरणे प्रह्लादोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।
अपीति।। अन्तरवस्थया अन्तरवस्था यस्यास्तया कुतोऽपि कारणात् शनैरुच्छूनया प्रवृद्धया तयैव वासनया देहे सति वर्षसहस्रान्तेऽपि प्रबुध्यन्ते।।
इति संसारतरणिनाम्नि वासिष्ठविवरण उपशमप्रकरणे प्रह्लादोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।