लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १६

← सर्गः १५ लघुयोगवासिष्ठः
सर्गः १६
[[लेखकः :|]]
सर्गः १७ →

शास्त्रग्रहणफलनिर्देशः।।
षोडशः सर्गः।।
वसिष्ठ उवाच।।
प्रसद्य वेधसः सृष्टिं यत्कटाख्यारसाञ्जनम्।
वादी वाग्ग्मी कविश्चायं राम कीर्तिं सृजत्यहो।।[6-16-1]
निन्दन्ति ये हरिहरार्यकृपामृताब्धिं स्वच्छन्दसंचरणसंचितवाञ्छितार्थाः।
निन्दन्ति ते जलनिधिं बहिरुत्क्षिपन्ते स्नातुं समागतवतोऽपि तरङ्गहस्तैः।।[6-16-2]
मज्जन्तमप्यनुदिनं द्विजराजमेकमद्यापि नैव जलधिर्विमलीकरोति।
स्पष्टोऽप्यहो हरिहरार्यकृपाम्बुधिस्ते प्रक्षालयत्यमतिपङ्कमपि द्विजानाम्।।[6-16-3]
मन्यामहे हरिहरार्थगुरो त्वदीयवाणीसुधाजलधिमेव वरं वरेण्यम्।
आनन्दकन्दलितनन्दनपारिजातनिष्यन्दमानमकरन्दमहीनदीनाम्।।[6-16-4]
वाल्मीकिरुवाच।।
इत्युक्तत्यथ मुनौ दिवसो जगाम स्नातुं समाकृतमुनिप्रणतिर्जगाम।
सायंतनास्तविधयेऽस्तमितो जगाम श्यामाक्षये रविकरैश्च सभा जगाम।।[6-16-5]
अष्टादशेति दिवसान्विदधे गरिष्ठां गोष्ठीं वसिष्ठमुनिना सह रामचन्द्रः।
हित्वा भवप्रभवमोहमथावतस्थे निर्वातवारिधिरिवाचलसत्त्वपूर्णः।।[6-16-6]
तस्मिन्क्षणे कल्पतरुप्रसूतप्रसूनसङ्घस्य पपात वृष्टिः।
संतुष्टगीर्वाणगणप्रमुक्ता मुक्ताफलादभ्रमिवाभ्रपूर्णा।।[6-16-7]
अवतीर्य स्वयं विष्णुर्मानुष्यो रामनामधृक्।
खिन्नः संसारजालेऽस्मिन्योगज्ञानेन बोधितः।।[6-16-8]
प्रबुद्धेनाथ रामेण संपूज्याभिष्टुतो मुहुः।
पितृभ्रातृसमेतेन प्रणम्याभिहितो मुनिः।।[6-16-9]
त्वत्प्रसादाद्भो भगवन्निःसंशयमिदं मनः।
विज्वरं शीतलं शान्तं संजातमविकारि मे।।[6-16-10]
सर्वार्तिहर्ता सर्वज्ञः सर्वदेवाश्रितो गुरुः।
मोहान्धकारविध्वंसः सवितेव भवानिति।।[6-16-11]
ततस्तदानीं मुनिना रामाय गगनस्थिताः।
श्रोतुमभ्यागता देवा आहूय प्रकटीकृताः।।[6-16-12]
यक्षगन्धर्वसिद्धर्षिविद्याधरमहोरगाः।
रामेण प्रणताश्चैनमूचुः संतुष्टमानसाः।।[6-16-13]
श्रुतमस्माभिरखिलं ज्ञानमेतन्महोदयम्।
त्रैलोक्यमोहार्तिहरौ भवन्तौ प्रणता वयम्।।[6-16-14]
भवद्गुरोर्वसिष्ठस्य भवतश्च महात्मनः।
मिथः संवादमखिलं ज्ञानमेतन्महोदयम्।।[6-16-15]
ततः सिद्धैरयोध्यायां स्तुत्वैतदवतारितम्।
काश्मीरमण्डलस्यान्तर्भूतानामनुकम्पया।।[6-16-16]
अथ सर्वाणि कार्याणि ज्ञाततत्त्वो गतव्यथः।
निर्ममो निर्ममे रामो निष्कामो जनको यथा।।[6-16-17]
यताम्बु बिसिनीपत्रे सज्जते नाम्बुमज्जनैः।
तथास्य राज्यभोगेन न चेतो रज्यतेऽमलम्।।[6-16-18]
शास्त्रं त्विदं विरक्ता ये सत्सङ्गाः सत्क्रियापराः।
तेषां धर्मात्मनामेव प्रदातव्यं प्रयत्नतः।।[6-16-19]
सर्वा सर्वोपकाराय मतिश्चेदस्ति वः शुभा।
तदिदं सर्वथा देयं विद्यादानं महाफलम्।।[6-16-20]
दुर्ग्रहग्रस्तमनसामसाधूनां प्रमादिनाम्।
निन्दकानामिदं शास्त्रं रहस्यं न प्रकाशयेत्।।[6-16-21]
पूर्वं नाराधितो येन भगवानिन्दुशेखरः।
हरिर्ब्रह्मा रविश्चापि न लभेदिदमद्भुतम्।।[6-16-22]
महेश्वरेण यत्प्रोक्तं देव्या यच्चापि विष्णुना।
मुनीनां नारदादीनां तदिदं ज्ञानमुत्तमम्।।[6-16-23]
महारामायणाख्यं यन्मोक्षोपायापराभिधम्।
ततः क्षीरनिधिप्रख्यात्पीयूषमिदमुद्धृतम्।।[6-16-24]
सामान्येन विचारेण क्षयमायाति दुष्कृतम्।
सम्यगस्य विचारेण को न याति परं पदम्।।[6-16-25]
एकवेलमधीतेन शास्त्रेणानेन किल्बिलम्।
प्रणश्यति नृणां सर्वं क्षिप्रं बोधश्च जायते।।[6-16-26]
अप्रबुद्धोऽपि यश्चेदं भावयेद्भक्तिभावितः।
तस्य निर्मलतासिद्धं चित्तं नास्त्यत्र संशयः।।[6-16-27]
मूढैर्मुमुक्षुभिर्वापि संयतैर्वाप्यसंयतैः।
परमार्थमिदं चिन्त्यं दुर्लभं ब्रह्मदर्शनम्।।[6-16-28]
किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा।
सौख्यापहं तथा सास्त्रमन्यदस्ति न किंचन।।[6-16-29]
भुक्तिमुक्तिप्रदमिदं योगिनां परमं प्रियम्।
हस्तस्थं प्राप्य चिद्रूपं प्राक्‌पुण्यैरेव लभ्यते।।[6-16-30]
सर्वागमार्थसंवेत्ता वसिष्ठः परमो मतः।
मोक्षोपायस्य सारोऽयमिति सर्वत्र गीयते।।[6-16-31]
प्रियार्थादिवियोगेन जातखेदस्य देहिनः।
शास्त्रं विना किमत्र स्यादन्तःसंतापशन्तिदम्।।[6-16-32]
चिदम्बरात्प्रोदित एव पूर्णः शास्त्रं नुरानन्दनिधिः सुपादः।
सान्द्रामृतः काव्यरसोपशोभास्फुरन्प्रकाशः क्षपितोऽन्धकारः।।[6-16-33]
स्नातं तेन समस्ततीर्थसलिलैः सर्वापि दत्तावनिर्यज्ञानां च कृतं सहस्रमखिला देवाश्च संपूजिताः।
संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात्।।[6-16-34]
इति श्रीयोगवासिष्ठसारे निर्वामप्रकरणे शास्त्रग्रहणफलनिर्देशो नाम षोडशः सर्गः।। 16 ।।