लिङ्गपुराणम् - उत्तरभागः/अध्यायः ३४
सनत्कुमार उवाच।।
गणेशेशं प्रवक्ष्यामि दानं पूर्वोक्तमंडपे।।
संपूज्य देवदेवेसं लोकपालसमावृतम्।। ३४.१ ।।
विश्वेश्वरान्यथाशास्त्रं सर्वाभरणसंयुतान्।।
दशनिष्केण वै कृत्वा संपूज्य च विधानतः।। ३४.२ ।।
अष्टदक्ष्वष्टकुंडेषु पूर्ववद्धोममाचरेत्।।
पंचावरणमार्गेण पारंपर्यक्रमेण च।। ३४.३ ।।
सप्तविप्रान्समभ्यर्च्य कन्यामेकां तथोत्तरे।।
दापयेत्सर्वमंत्राणि स्वैःस्वैर्मंत्रैरनुक्रमात्।। ३४.४ ।।
दत्त्वैवं सर्वपापेभ्यो मुच्यते नात्र संशयः।। ३४.५ ।।
इति श्रीलिंगमहापुराणे उत्तरभागे गणेशेशदानविदिनिरूपणं नाम चतुस्त्रिंशोऽध्यायः।। ३४ ।।