लिङ्गपुराणम् - उत्तरभागः/अध्यायः ४२
सनत्कुमार उवाच।।
गजदानं प्रवक्ष्यामि यथावदनुपूर्वशः।।
द्विजाय वा शिवायाथ दातव्यः पूज्य पूर्ववत्।। ४२.१ ।।
गजं सुलक्षणोपेतं हैमं वा राजतं तु वा।।
सहस्रनिष्कमात्रेण तदर्धेनापि कारयेत्।। ४२.२ ।।
तदर्धार्धेन वा कुर्यात्सर्वलक्षणभूषितम्।।
पूर्वोक्तदेशकाले च देवाय विनिवेदयेत्।। ४२.३ ।।
अष्टम्यां वा प्रदातव्यं शिवाय परमेष्ठिने।।
ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये।। ४२.४ ।।
शिवमुद्दिश्य दातव्यं शिवं संपूज्य पूर्ववत्।।
एतद्यः कुरुते दानं शिवभक्तिसमाहितम्।। ४२.५ ।।
स्थित्वा स्वर्गे चिरं कालं राजा गजपतिर्भवेत्।। ४२.६ ।।
इति श्रीलिङ्गमहापुराणे उत्तरभागे द्विचत्वारिंशोऽध्यायः।। ४२ ।।