भोजराजः
(क्रि. श. १०१९–क्रि. श. १०६३)
भोजराजः मालवाधिपतिः ।

कृतयः सम्पाद्यताम्

  1. चम्पूरामायणम्
  2. सरस्वतीकण्ठाभरणम्
  3. शृङ्गारप्रकाशः
  4. शब्दानुशासनम्
  5. सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३

एषः विदर्भदेशस्य राजा इति केचन वदन्ति । धारानगरं मालवदेशस्य राजधानी । ऐतिहासिकप्रमाणैः ज्ञायते यत् भोजदेवः एकादशे शतके (क्रि. श. १०१९-१०६३) आसीत् इति । भोजः स्वयं कविः आसीत्, बहूनां पण्डितानाम् आश्रयदाता अपि आसीत् । भोजदेवेन चम्पूरामायणम्, सरस्वतीकण्ठाभरणम्, शृङ्गारप्रकाशः, शब्दानुशासनम् इत्यादयः ग्रन्थाः अपि रचिताः सन्ति । चम्पूरामायणे बालकाण्डतः युद्धकाण्डपर्यन्ता कथा पञ्चसु काण्डेषु निरूपिता अस्ति । रामायणस्य एव कथा अस्ति अस्मिन् ग्रन्थे । ललितमनोहरशैली, कोमलः पदविन्यासः, सुन्दराः अलङ्काराः, हृदयहारि भावाविष्करणम् इत्यादयः एतस्य ग्रन्थस्य वैशिष्ट्यानि । चम्पूरामायणस्य बहूनि व्याख्यानानि उपलभ्यन्ते ।

"https://sa.wikisource.org/w/index.php?title=लेखकः:भोजराजः&oldid=219676" इत्यस्माद् प्रतिप्राप्तम्