प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९० वराहपुराणम्
अध्यायः ९१
[[लेखकः :|]]
अध्यायः ९२ →

श्रीवराह उवाच ।
या मन्दरगता देवी तपस्तप्तुं तु वैष्णवी ।
राजसी परमा शक्तिः कौमारव्रतधारिणी ।। ९१.१ ।।

सैकाकिनी तपस्तेपे विशालायां तु शोभने ।
तस्यास्तपन्त्याः कालेन महता क्षुभितं मनः ।। ९१.२ ।।

तस्मात् क्षोभात् समुत्तस्थुः कुमार्यः सौम्यलोचनाः ।
नीलकुञ्चितकेशान्ता बिम्बोष्ठायतलोचनाः ।
नितम्बरशनोद्दामा नूपुराढ्याः सुवर्चसः ।। ९१.३ ।।

एवंविधाः स्त्रियो देव्या क्षोभिते मनसि द्रुतम् ।
उत्तस्थुः शतसाहस्त्राः कोटिशो विविधाननाः ।। ९१.४ ।।

दृष्ट्वा कुमार्यः सा देवी तस्मिन्नेव गिरौ शुभा ।
तपसा निर्ममे देवी पुरं हर्म्यशताकुलम् ।। ९१.५ ।।

विशालरथ्यं सौवर्णप्रासादैरुपशोभितम् ।
अन्तर्जलानि वेश्मानि मणिसोपानवन्ति च ।
रत्नजालगवाक्षाणि आसन्नोपवनानि च ।। ९१.६ ।।

असंख्यातानि हर्म्याणि तथा कन्या धराधरे ।
प्राधान्येन प्रवक्ष्यामि कन्यानामानि शोभने ।। ९१.७ ।।

विद्युत्प्रभा चन्द्रकान्तिः सूर्यकान्तिस्तथाऽपरा ।
गम्भीरा चारुकेशी च सुजाता मुञ्जकेशिनी ।। ९१.८ ।।

घृताची चोर्वशी चान्या शशिनी शीलमण्डिता ।
चारुकन्या विशालाक्षी धन्या पीनपयोधरा ।। ९१.९ ।।

चन्द्रप्रभा गिरिसुता तथा सूर्यप्रभाऽमृता ।
स्वयंप्रभा चारुमुखी शिवदूती विभावरी ।। ९१.१० ।।

जया च विजया चैव जयन्ती चापराजिता ।
एताश्चान्याश्च शतशः कन्यास्तस्मिन् पुरोत्तमे ।। ९१.११ ।।

देव्या अनुचराः सर्वाः पाशाङ्कुशधराः शुभाः ।
ताभिः परिवृता देवी सिंहासनगता शुभा ।। ९१.१२ ।।

सुसितैश्चामरैः स्त्रीभिर्वीज्यमाना विलासिनी ।
कौमारं व्रतमास्थाय तपः कर्तुं समुद्यता ।। ९१.१३ ।।

यौवनस्था महाभागा पीनवृत्तपयोधरा ।
चम्पकाशोकपुन्नागनागकेसरदामभिः ।। ९१.१४ ।।

सर्वाङ्गेष्वर्चिता देवी ऋषिदेवनमस्कृता ।
पूज्यमाना वरस्त्रीभिः कुमारीभिः समन्ततः ।। ९१.१५ ।।

सर्वाङ्गभोगिनी देवी यावदास्ते तपोऽन्विता ।
तावदागतवांस्तत्र नारदो ब्रह्मणः सुतः ।। ९१.१६ ।।

तं दृष्ट्वा सहसा देवी ब्रह्मपुत्रं तपोधनम् ।
विद्युत्प्रभामुवाचेदमासनं दीयतामिति ।
पाद्यमाचमनीयं च क्षिप्रमस्मै प्रदीयताम् ।। ९१.१७ ।।

एवमुक्ता तदा देव्या कन्या विद्युप्रभा शुभा ।
आसनं पाद्यमर्घ्यं च नारदाय न्यवेदयत् ।। ९१.१८ ।।

ततः कृतासनं दृष्ट्वा प्रणतं नारदं मुनिम् ।
उवाच वचनं देवी हर्षेण महताऽन्विता ।। ९१.१९ ।।

स्वागतं भो मुनिश्रेष्ठ कस्माल्लोकादिहागतः ।
किं कार्यं वद ते कृत्यं मा ते कालात्ययो भवेत् ।। ९१.२० ।।

एवमुक्तस्तदा देव्या नारदः प्राह लोकवित् ।
ब्रह्मलोकादिन्द्रलोकं तस्माद् रौद्रमथाचलम् ।। ९१.२१ ।।

ततस्त्वामिह देवेशि द्रष्टुमभ्यागतः शुभे ।
एवमुक्त्वा मुनिः श्रीमांस्तां देवीमन्ववेक्षत ।। ९१.२२ ।।

दृष्ट्वा मुहूर्तं देवेशि विस्मितो नारदोऽभवत् ।
अहो रूपमहो कान्तिरहो धैर्यमहो वयः ।। ९१.२३ ।।

अहो निष्कामता देव्या इति खेदमुपाययौ ।
देवगन्धर्वसिद्धानां यक्षकिन्नररक्षसाम् ।। ९१.२४ ।।

न रूपमीदृशं क्वापि स्त्रीष्वन्यासु प्रदृश्यते ।
एवं संचिन्त्य मनसा नारदो विस्मयान्वितः ।। ९१.२५ ।।

प्रणम्य देवीं वरदामुत्पपात नभस्तलम् ।
गतश्च त्त्वरया युक्तः पुरीं दैत्येन्द्रपालिताम् ।। ९१.२६ ।।

महिषाख्येन भूतेशि समुद्रान्तःस्थितां पुरीम् ।
तत्राससाद भगवानसुरं महिषाकृतिम् ।। ९१.२७ ।।

दृष्ट्वा लब्धवरं वीरं देवसैन्यान्तकं महत् ।
स तेन पूजितो भक्त्या तदा लोकचरो मुनिः ।। ९१.२८ ।।

प्रीतात्मा नारदस्तस्मै देव्या रूपमनुत्तमम् ।
आचचक्षे यथान्यायं यद् दृष्टं देवतापुरे ।। ९१.२९ ।।

नारद उवाच ।
असुरेन्द्र श्रृणुष्वेकं कन्यारत्नं समाहितः ।
येन लब्धं तु त्रैलोक्यं वरदानाच्चराचरम् ।। ९१.३० ।।

ब्रह्मलोकादहं दैत्य मन्दराद्रिमुपागतः ।
तत्र देवीपुरं दृष्टं कुमारीशतसङ्कुलम् ।। ९१.३१ ।।

तत्र प्रधाना या कन्या तापसी व्रतधारिणी ।
सा देवदैत्ययक्षाणां मध्ये काचिन्न दृश्यते ।। ९१.३२ ।।

यादृशी सा शुभा दैत्य तादृश्येकाण्डमध्यतः ।
भ्रमता तादृशी दृष्ट्वा न कदाचिन्मया सती ।। ९१.३३ ।।

तस्याश्च देवगन्धर्वा ऋषयः सिद्धचारणाः ।
उपासांचक्रिरे सर्वे येऽप्यन्ये दैत्यनायकाः ।। ९१.३४ ।।

तां दृष्ट्वा वरदां देवीमहं तूर्णमिहागतः ।
अजित्वा देवगन्धर्वान् न तां जयति कश्चन ।। ९१.३५ ।।

एवमुक्त्वा क्षणं स्थित्वा तमनुज्ञाप्य नारदः ।
यथागतं ययौ धीमानन्तर्धानेन तत्क्षणात् ।। ९१.३६ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकनवतितमोऽध्यायः ।। ९१ ।।