प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९१ वराहपुराणम्
अध्यायः ९२
[[लेखकः :|]]
अध्यायः ९३ →

श्रीवराह उवाच ।
गते तु नारदे दैत्यश्चिन्तयामास तां शुभाम् ।
कथितां नारदमुखाच्छ्रुत्वा विस्मितमानसः ।। ९२.१ ।।

तामेव चिन्तयन् शर्म न लेभे दैत्यसत्तमः ।
अलंशर्मा महामन्त्री आनिनाय महाबलः ।। ९२.२ ।।

तस्याष्टौ मन्त्रिणः शूरा नीतिमन्तो बहुश्रुताः ।
प्रघसो विघसश्चैव शङ्कुकर्णो विभावसुः ।
विद्युन्माली सुमाली च पर्जन्यः क्रूर एव च ।। ९२.३ ।।

एते मन्त्रिवरास्तस्य प्राधान्येन प्रकीर्तिताः ।
ते दानवेन्द्रमासीनमूचुः कृत्यं विधीयताम् ।। ९२.४ ।।

तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः ।
उवाच कन्यालाभार्थं नारदावाप्तनिश्चयः ।। ९२.५ ।।

महिष उवाच ।
मह्यं तु कथिता बाला नारदेन महर्षिणा ।
सा चाजित्य सुराध्यक्षं न लभ्येत वराङ्गना ।। ९२.६ ।।

एतदर्थं भवन्तो वै कथयन्तु विमृश्य वै ।
कथं सा लभ्यते बाला कथं देवाश्च निर्जिताः ।
भवेयुरिति तत्सर्वं कथयन्तु द्रुतं मम ।। ९२.७ ।।

एवमुक्तास्ततः सर्वे कथयामासुरञ्जसा ।
ऊचुः संमन्त्र्य ते सर्वे कथयामो वयं प्रभो ।। ९२.८ ।।

एवमुक्तस्तथोवाच प्रघसो दानवेश्वरम् ।
या सा ते कथिता दैत्य नारदेन महासती ।
सा शक्तिः परमा देवी वैष्णवी लोकधारिणी ।। ९२.९ ।।

गुरुपत्नी राजपत्नी तथा सामन्तयोषितः ।
जिघृक्षन् नश्यते राजा तथागम्यागमेन च ।। ९२.१० ।।

प्रघसेनैवमुक्तस्तु विघसो वाक्यमब्रवीत् ।
सम्यगुक्तं प्रघसेन तां देवीं प्रति पार्थिव ।। ९२.११ ।।

यदि नाम मतैक्यं तु बुद्धिः स्मरणमागता ।
वरणीया कुमारी तु सर्वदा विजिगीषुभिः ।
न स्वतन्त्रेण कन्यायाः कार्यं क्वापि प्रकर्षणम् ।। ९२.१२ ।।

यदि वो रोचते वाक्यं मदीयं मन्त्रिसत्तमाः ।
तदानीं तां शुभां देवीं गत्वा याचन्तु मन्त्रिणः ।। ९२.१३ ।।

यो महात्मा भवेत् तस्या बन्धुस्तं याचयामहे ।
साम्नैवादौ ततः पश्चात् करिष्यामः प्रदानकम् ।
ततो भेदं करिष्यामस्ततो दण्डं क्रमेण च ।। ९२.१४ ।।

अनेन क्रमयोगेन यदि सा नैव लभ्यते ।
ततः सन्नह्य गच्छामो बलाद् गृह्णीम तां शुभाम् ।। ९२.१५ ।।

विघसेनैवमुक्ते तु शेषास्तु मन्त्रिणो वचः ।
शुभमूचुः प्रशंसन्तः सर्वे हर्षितया गिरा ।। ९२.१६ ।।

साधूक्तं विघसेनेदं यत् तां प्रति वराननाम् ।
तदेव क्रियतां शीघ्रं दूतस्तत्र विसर्ज्यताम् ।। ९२.१७ ।।

यः सर्वशास्त्रनीतिज्ञः शुचिः शौर्यसमन्वितः ।
तस्माज् ज्ञात्वा तु तां देवीं वर्णतो रूपतो गुणैः ।। ९२.१८ ।।

पराक्रमेण शौर्येण शौण्डीर्येण बलेन च ।
बन्धुवर्गेण सामग्र्य स्थानेन करणेन च ।
एवं ज्ञात्वा तु तां देवीं ततः कार्यं विधीयताम् ।। ९२.१९ ।।

ततः सपदि दैत्यस्य तद्वचः साधु साध्विति ।
प्रशशंसुर्वरारोहे विघसं मन्त्रिसत्तमम् ।। ९२.२० ।।

प्रशस्य सर्वे तं दूतं संदेष्टुमुपचक्रमुः ।
विद्युत्प्रभं महाभागं महामायाविदं शुभम् ।। ९२.२१ ।।

विसर्जयित्वा तं दूतं विघसो वाक्यमब्रवीत् ।
संनह्यन्तां दानवेन्द्राश्चतुरङ्गबलेन ह ।
क्रियतां विजयस्तावद् देवसैन्यं प्रति प्रभो ।। ९२.२२ ।।

असुरेन्द्र सुरैर्भग्नैस्तत् पराक्रमभीषिता ।
सा कन्या वशतामेति त्वयि शक्रसमागते ।। ९२.२३ ।।

लोकपालैर्जितैः सर्वैस्तथैव मरुतां गणैः ।
नागैर्विद्याधरैः सिद्धैर्गन्धर्वैः सर्वतो जितैः ।
रुद्रैर्वसुभिरादित्यैस्त्वमेवेन्द्रो भविष्यसि ।। ९२.२४ ।।

इन्द्रस्य ते शतं कन्या देवगन्धर्वयोषितः ।
वशमायान्ति साऽपि स्यात् सर्वथा वशमागता ।। ९२.२५ ।।

एवमुक्तस्तदा दैत्यः सेनापतिमुवाच ह ।
विरूपाक्षं महामेघवर्णं नीलाञ्जनप्रभम् ।। ९२.२६ ।।

आनीयतां द्रुतं सैन्यं हस्त्यश्वरथपत्तिनाम् ।
येन देवान् सगन्धर्वान् जयामि युधि दुर्ज्जयान् ।। ९२.२७ ।।

एवमुक्ते विरूपाक्षस्तदा सेनापतिर्द्रुतम् ।
आनिनाय महत्सैन्यमनन्तमपराजितम् ।। ९२.२८ ।।

एकैको दानवस्तत्र वज्रहस्तसमो युधि ।
एकैकं स्पर्धते देवं जेतुं स्वेन बलेन ह ।। ९२.२९ ।।

तेषां प्रधानभूतानामर्बुदं नवकोटयः ।
येषामेकस्यानुयाति तावद् बलमर्थोर्ज्जितम् ।। ९२.३० ।।

तेषां नैकसहस्त्राणि दैत्यानां तु महात्मनाम् ।
समितिं चक्रुरव्यग्रास्तदा दैत्याः प्रहारिणः ।
प्रयाणं कारयामासुर्देवसैन्यजिघांसया ।। ९२.३१ ।।

विचित्रयाना विविधध्वजाग्रा
विचित्रशस्त्रा विविधोग्ररूपाः ।
दैत्या सुराञ् जेतुमिच्छन्त उच्चैर्
ननर्त्तुरात्तायुधभीमहस्ताः ।। ९२.३२ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्विनवतितमोऽध्यायः ।। ९२ ।।