प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९४ वराहपुराणम्
अध्यायः ९५
[[लेखकः :|]]
अध्यायः ९६ →

श्रीवराह उवाच ।
या सा नीलगिरिं याता तपसे धृतमानसा ।
रौद्री तमोद्भवा शक्तिस्तस्याः श्रृणु धरे व्रतम् ।। ९५.१ ।।

तपः कृत्वा चिरं कालं पालयाम्यखिलं जगत् ।
एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी ।। ९५.२ ।।

तस्याः कालान्तरे देव्यास्तपन्त्यास्तप उत्तमम् ।
रुरुर्नाम महातेजा ब्रह्मदत्तवरोऽसुरः ।। ९५.३ ।।

समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम् ।
तत्र राजा स दैत्येन्द्रः सर्वदेवभयंकरः ।। ९५.४ ।।

अनेकशतसाहस्त्रकोटिकोटिशतोत्तरैः ।
असुरैरन्वितः श्रीमान् द्वितीयो नमुचिर्यथा ।। ९५.५ ।।

कालेन महता चासौ लोकपालपुराण्यथ ।
जिगीषुः सैन्यसंवीतो देवैर्भयमरोचयत् ।। ९५.६ ।।

उत्तिष्ठतस्तस्य महासुरस्य
समुद्रतोयं ववृधेऽतिमात्रम् ।
अनेकनक्रग्रहमीनजुष्ट -
माप्लावयत् पर्वतसानुदेशान् ।। ९५.७ ।।

अन्तः स्थितानेकसुरारिसंघं
विचित्रचर्मायुधचित्रशोभम् ।
भीमं बलं बलिनं चारुयोधं
विनिर्ययौ सिन्धुजलाद् विशालम् ।। ९५.८ ।।

तत्र द्विपा दैत्यवरैरुपेता
समानघण्टासुसमूहयुक्ताः ।
विनिर्ययुः स्वाकृतिभीषणानि
समन्तमुच्चैः खलु दर्शयन्तः ।। ९५.९ ।।

अश्वास्तथा काञ्चनपीडनद्धा
रोहीतमत्स्यैः समतां जलान्तः ।
व्यवस्थितास्ते सममेव तूर्णं
विनिर्ययुः लक्षशः कोटिशश्च ।। ९५.१० ।।

रथा रविस्यन्दनतुल्यवेगाः
सुचक्रदण्डाक्षत्रिवेणुयुक्ताः ।
सुशस्त्रयन्त्राः परिपीडिताङ्गा -
श्चलत्पताकास्त्वरितं विशङ्काः ।। ९५.११ ।।

तथैव योधाः स्थगितेतरेतरा -
स्तितीर्षवः प्रवरास्तूर्णपाणयः ।
रणे रणे लब्धजयाः प्रहारिणो
विरेजुरुच्चैरसुरानुगा भृशम् ।। ९५.१२ ।।

देवेषु चैव भग्नेषु विनिर्गत्य जलात् ततः ।
चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ।। ९५.१३ ।।

युयोध च सूरैः सार्द्धं रुरुर्दैत्यपतिस्तथा ।
मुद्गरैर्मुशलैः शूलैः शरैर्दण्डायुधैस्तथा ।
जघ्नुर्दैत्याः सुरान् संख्ये सुराश्चैव तथाऽसुरान् ।। ९५.१४ ।।

एवं क्षणमथो युद्धं तदा देवाः सवासवाः ।
असुरैर्निर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ।। ९५.१५ ।।

देवेषु चैव भग्नेषु विद्रुतेषु विशेषतः ।
असुरः सर्वदेवानामन्वधावत वीर्यवान् ।। ९५.१६ ।।

ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः ।
नीलं गिरिवरं जग्मुर्यत्र देवी व्यवस्थिता ।। ९५.१७ ।।

ौद्री तपोरता देवी तामसी शक्तिरुत्तमा ।
संहारकारिणी देवी कालरात्रीति तां विदुः ।। ९५.१८ ।।

सा दृष्ट्वा तान् तदा देवान् भयत्रस्तान् विचेतसः ।
मा भैष्टेत्युच्चकैर्देवी तानुवाच सुरोत्तमान् ।। ९५.१९ ।।

देव्युवाच ।
किमियं व्याकुला देवा गतिर्व उपलक्ष्यते ।
कथयध्वं द्रुतं देवाः सर्वथा भयकारणम् ।। ९५.२० ।।

देवा ऊचुः ।
अयमायाति दैत्येन्द्रो रुरुर्भीमपराक्रमः ।
एतस्य भीतान् रक्षस्व त्वं देवान् परमेश्वरि ।। ९५.२१ ।।

एवमुक्ता तदा देवैर्देवी भीमपराक्रमा ।
जहास परया प्रीत्या देवानां पुरतः शुभा ।। ९५.२२ ।।

तस्या हसन्त्या वक्त्रात् तु बह्व्यो देव्यो विनिर्ययुः ।
याभिर्विश्वमिदं व्याप्तं विकृताभिरनेकशः ।। ९५.२३ ।।

पाशाङ्कुशधराः सर्वाः सर्वाः पीनपयोधराः ।
सर्वाः शूलधरा भीमाः सर्वाश्चापधराः शुभाः ।। ९५.२४ ।।

ताः सर्वाः कोटिशो देव्यस्तां देवीं वेष्ट्य संस्थिताः ।
युयुधुदर्निवैः सार्द्धं बद्धतूणा महाबलाः ।
क्षणेन दानवबलं तत्सर्वं निहतं तु तैः ।। ९५.२५ ।।

देवाश्च सर्वे संयत्ता युयुधुर्दानवं बलम् ।
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
सर्वे शस्त्राणि संगृह्य युयुधुर्दानवं बलम् ।। ९५.२६ ।।

कालरात्र्या बलं यच्च यच्च देवबलं महत् ।
तत्सर्वं दानवबलमनयद् यमसादनम् ।। ९५.२७ ।।

एक एव महादैत्यो रुरुस्तस्थौ महामृधे ।
स च मायां महारौद्रीं रौरवीं विससर्ज ह ।। ९५.२८ ।।

सा माया ववृधे भीमा सर्वदेवप्रमोहिनी ।
तया तु मोहिता देवाः सद्यो निद्रां तु भेजिरे ।। ९५.२९ ।।

देवी च त्रिशिखेनाजौ तं दैत्यं समताड्यत् ।
तया तु ताडितान्तस्य दैत्यस्य शुभलोचने ।
चर्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः ।। ९५.३० ।।

रुरोस्तु दानवेन्द्रस्य चर्ममुण्डे क्षणाद् यतः ।
अपहृत्याहरद् देवी चामुण्डा तेन साभवत् ।। ९५.३१ ।।

सर्वभूतमहारौद्री या देवी परमेश्वरी ।
संहारिणी तु या चैव कालरात्रिः प्रकीर्तिता ।। ९५.३२ ।।

तस्या ह्यनुचरा देव्यो या ह्यसंख्यातकोटयः ।
तास्तां देवीं महाभागां परिवार्य व्यवस्थिताः ।। ९५.३३ ।।

या क्यामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः ।
बुभुक्षिता वयं देवि देहि नो भोजनं शुभे ।। ९५.३४ ।।

एवमुक्ता तदा देवी दध्यौ तासां तु भोजनम् ।
न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात् ।। ९५.३५ ।।

ततो दध्यौ महादेवं रुद्रं पशुपतिं विभुम् ।
सोऽपि ध्यानात् समुत्तस्थौ परमात्मा त्रिलोचनः ।। ९५.३६ ।।

उवाच च द्रुतं देवीं किं ते कार्यं विवक्षितम् ।
ब्रूहि देवि वरारोहे यत् ते मनसि वर्त्तते ।। ९५.३७ ।।

देव्युवाच ।
भक्ष्यार्थमासां देवेश किञ्चिद् दातुमिहार्हसि ।
बलात्कुर्वन्ति मामेता भक्षार्थिन्यो महाबलाः ।
अन्यथा मामपि बलाद् भक्षयिष्यन्ति मां प्रभो ।। ९५.३८ ।।

रुद्र उवाच ।
एतासां श्रृणु देवेशि भक्षमेकं मयोद्यतम् ।
कथ्यमानं वरारोहे कालरात्रि महाप्रभे ।। ९५.३९ ।।

या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम् ।
परिधत्ते स्पृशेच्चापि पुरुषस्य विशेषतः ।। ९५.४० ।।

स भागोऽस्तु महाभागे कासाञ्चित् पृथिवीतले ।
अन्याश्छिद्रेषु बालानि गृहीत्वा तत्र वै बलिम् ।
लब्ध्वा तिष्ठन्तु सुप्रीता अपि वर्षशतान्यपि ।। ९५.४१ ।।

अन्याः सूतिगृहे छिद्रं गृह्णीयुस्तत्र पूजिताः ।
निवसिष्यन्ति देवेशि तथान्या जातहारिकाः ।। ९५.४२ ।।

गृहे क्षेत्रे तडागेषु वाप्युद्यानेषु चैव हि ।
अन्यचित्ता रुदन्त्यो याः स्त्रियस्तिष्ठन्ति नित्यशः ।
तासां शरीराण्याविश्य काश्चित्तृप्तिमवाप्स्यथ ।। ९५.४३ ।।

एवमुक्त्वा तदा देवीं स्वयं रुद्रः प्रतापवान् ।
दृष्ट्वा रुरुं च सबलमसुरेन्द्रं निपातितम् ।
स्तुतिं चकार भगवान् स्वयं देवस्त्रिलोचनः ।। ९५.४४ ।।

रुद्र उवाच ।
जयस्व देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ।। ९५.४५ ।।

विश्वमूर्त्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये महामाये महोदये ।। ९५.४६ ।।

मनोजवे जये जृम्भे भीमाक्षि क्षुभितक्षये ।
महामारि विचित्राङ्गे गेयनृत्यप्रिये शुभे ।। ९५.४७ ।।

विकराले महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमरूपे भयानके ।। ९५.४८ ।।

चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।
शवयानस्थिते देवि प्रेतासनगते शिवे ।। ९५.४९ ।।

भीमाक्षि भीषणे देवि सर्वभूतभयंकरि ।
कराले विकराले च महाकाले करालिनि ।
काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ।। ९५.५० ।।

विकरालमुखी देवि ज्वालामुखि नमोऽस्तु ते ।
सर्वसत्त्वहिते देवि सर्वदेवि नमोऽस्तु ते ।। ९५.५१ ।।

इति स्तुता तदा देवी रुद्रेण परमेष्ठिना ।
तुतोष परमा देवी वाक्यं चेदमुवाच ह ।
वरं वृणीष्व देवेश यत् ते मनसि वर्त्तते ।। ९५.५२ ।।

रुद्र उवाच ।
स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ।
तेषां त्वं वरदा देवि भव सर्वगता सती ।। ९५.५३ ।।

यश्चेमं त्रिप्रकारं तु देवि भक्त्या समन्वितः ।
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ।। ९५.५४ ।।

यश्चेमं श्रृणुयाद् भक्त्या त्रिशक्तयास्तु समुद्भवम् ।
सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ।। ९५.५५ ।।

एवं स्तुत्वा भवो देवीं चामुण्डां परमेश्वरीम् ।
क्षणादन्तर्हितो देवस्ते च देवा दिवं ययुः ।। ९५.५६ ।।

य एतां वेद वै देव्या उत्पत्तिं त्रिविधां धरे ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। ९५.५७ ।।

भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ।
संवत्सरेण लभते राज्यं निष्कण्टकं नृपः ।। ९५.५८ ।।

एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी ।
एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ।। ९५.५९ ।।

एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता ।
एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ।। ९५.६० ।।

परमात्मा यथा देव एक एव त्रिधा स्थितः ।
प्रयोजनवशाच्छक्तिरेकैव त्रिविधाऽभवत् ।। ९५.६१ ।।

य एतं श्रृणुयात् सर्गं त्रिशक्त्याः परमं शिवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ।। ९५.६२ ।।

यश्चेदं श्रृणुयाद् भक्त्या नवम्यां नियतः स्थितः ।
स राज्यमतुलं लेभे भयेभ्यश्च प्रमुच्यते ।। ९५.६३ ।।

यस्येदं लिखितं गेहे सदा तिष्ठति धारिणि ।
न तस्याग्निभयं घोरं सर्पचौरादिकं भवेत् ।। ९५.६४ ।।

यश्चैतत् पूजयेद् भक्तया पुस्तकेऽपि स्थितं बुधः ।
तेन यष्टं भवेत् सर्वं त्रैलोक्यं सचराचरम् ।। ९५.६५ ।।

जायन्ते पशवः पुत्रा धनं धान्यं वरस्त्रियः ।
रत्नान्यश्वा गजा भृत्या यानाश्चाशु भवन्त्युत ।
यस्येदं तिष्ठते गेहे तस्येदं जायते ध्रुवम् ।। ९५.६६ ।।

श्रीवराह उवाच ।
एतदेव रहस्यं ते कीर्त्तितं भूतधारिणि ।
रुद्रस्य खलु माहात्म्यं सकलं कीर्त्तितं मया ।। ९५.६७ ।।

नवकोट्यस्तु चामुण्डा भेदभिन्ना व्यवस्थिता ।
या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्त्तिता ।। ९५.६८ ।।

अष्टादश तथा कोट्यो वैष्णव्या भेद उच्यते ।
या सा च राजसी शक्तिः पालनी चैव वैष्णवी ।
या ब्रह्मशक्तिः सत्त्वस्था अनन्तास्ताः प्रकीर्त्तिता ।। ९५.६९ ।।

एतासां सर्वभेदेषु पृथगेकैकशो धरे ।
सर्वासां भगवान् रुद्रः सर्वगश्च पतिर्भवेत् ।। ९५.७० ।।

यावन्त्यस्या महाशक्त्यास्तावद् रूपाणि शंकरः ।
कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ।। ९५.७१ ।।

यश्चाराधयते तास्तु रुद्रस्तुष्टो भविष्यति ।
सिद्ध्यन्ते तास्तदा देव्यो मन्त्रिणो नात्र संशयः ।। ९५.७२ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चनवतितमोऽध्यायः ।। ९५ ।।