← अध्यायः ९५ वराहपुराणम्
अध्यायः ९६
आर्यकेश
अध्यायः ९७ →

अथ त्रिशक्तिरहरये रौद्रीव्रतम्
॥ श्रीवराह उवाच ॥
या सा नील गिरि याता तपसे धृतमानसा ॥
रोद्री तमोद्भवा शक्तिस्तस्याः शृणु धरे व्रतम् ॥ १ ॥
तपः कृत्वा चिरं कालं पालयाम्याखलं जगत् ॥
एवमुद्दिश्य पंचाग्निं साधयामास भामिनी ॥ २ ॥
तरयाः कालान्तरे देव्यास्तपन्यास्तप उत्तमम् ॥
रुरुनम महातेजाः ब्रह्मदत्तवरो ऽसुरः ॥ ३॥
समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम् ॥
तत्र राजा स देत्येन्द्रः सर्वदेवभयङ्करः॥४॥
अनेकशतसाहस्रकेटिट्युत्तरोत्तरैः ॥
असुरैरन्वितः श्रीमान्द्रतीयो नमुचिर्यथा ॥५ ॥
कालेन महता चासौ लोकपालपुराण्यथ ॥
जिगीषुः सैन्यसंवीतो देवैर्युद्धमरोचयत् ॥ ६॥
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृथेऽतिमात्रम् ॥
अनेकनकप्रदमीनजुष्टमालावयपर्वतसानुदेशान् ॥ ७॥
अन्तःस्थितानेकसुरारि सङ्कवाद्विचित्रवमयुधचित्रशोभम् ॥
भीमं बलं वर्मितचारुयोधं विनिर्ययौ सिन्धुजलादशालात् ॥८॥
तत्र द्विपा दैत्यवरैरुपेताः समानघण्टायुत किंकिणीकाः॥
विनर्ययुः स्वाकृतिभीपणाश्च समत्वमुच्चैः खलु दर्शयन्तः ॥ ९॥
अश्वास्तथा काञ्चनपीठनद्धा रोडैस्तु युक्ताः सितचामरैश्च ॥
व्यवस्थितास्ते सममेव तु विनिर्ययुर्लक्षशः कोटेशश्च ॥१०॥
रथा रविस्यन्दनतुल्यवेगाः सुचक्रदण्डाक्षत्रिवेणुयुक्ताः ॥
सुशखयन्त्राः परपीडताङ्गाश्चलत्यनन्तास्त्वरितं विशक्ताः ॥ ११ ॥
तथैव योधाः स्थगितेतरेतास्ततर्षिको ये वरतूणपणियः ॥
पदे पदे लब्धजयाः प्रहारिणो विरेजुरुचैरसुरानुगा भृशम् ॥ १२॥
देवेषु चैव भरेषु विनिर्गत्य ज्दात्ततः ॥
चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ॥ १३ ॥
युयोध च सुरैः साढे रुदैत्यपतिस्तथा ।
सुदूर्मुसलधेरैः शरैर्दण्डायुधैस्तथा ॥ १४ ॥
जनुदैरयाः सुरान्संख्य सुराश्चैव तथासुरान् ॥
एवं क्षणमथो युध्वा तदा देवाः सवासवाः ॥ १५ ॥
असुरैनिर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ॥
देवेषु चैवग्भग्रेषु विद्वतेषु विशेषतः ॥ १६ ॥
असुरः सर्वदेवानामन्वधावत वीर्यवान् ।
ततो देवगणाः सर्वे द्रवन्तो भयावह्वलाः॥१७॥
नीले गिरिवर जग्मुर्यत्र देवी व्यवास्थता ॥
रोदी तपोरता देवी तामसी शक्तिरुत्तमा ॥ १८ ॥
संहारकारिणी देवी कालरात्रीत तां विदुः ॥
सा दृष्ट्वा तान् तदा देवान भयत्रस्तान्विचेतसः ॥ १९ ॥
मा भेप्टेत्युच्चकैदेवी तानुवाच सुरोत्तमान् ॥
देव्युवाच ॥
किमियं व्याकुला देवा गतिर्व उपलक्ष्यते ॥ २० ॥
कथयध्वं द्रुतं देवाः सर्वथा भयकार णम् ।।
देवा ऊचुः ।
अयमायाति दैत्येन्द्रो रुरुभीमपराक्रमः ॥ २१॥
एतस्य भातान् रक्षस्व त्वं देवान्परमेश्वार ॥
एवमुक्तस तदा देवी भीम पराकमा ॥ २२ ॥
जहास परया प्रीत्या देवानां पुरतः शुभा ।।
तस्या हसुन्त्या वक्रात्तु बढ्यो देव्यो वार्नर्ययुः ॥ २३॥
याभिर्विश्वमिदं व्याप्तं विकृताभैरनेकशः ॥
पाशांकुशधराः सर्वाः सर्वाः पनि पयोधराः ॥ २४ ॥
सर्वाः शूलधरा भीमाः सर्वाश्चापधराः शुभाः ॥
ताः सः काटिशो देव्यस्त दे। वेष्टय संस्थिताः ॥ २५॥
युयुधुदानवैः सार्धं बद्धतूणा महाबलाः ॥
क्षणेन दानववलं तत्सर्वं निहतं तु तैः ॥२६॥
देवाश्च सर्वे सम्पन्ना युयुधुनगं बलम् ॥
कालराच्या बलं चैव यच्च देवबलं महत् ॥ २७ ॥
तत्सर्वं दानवबलमनयद्यमसादनम् ॥
एक एवं महादैत्यो रुरुस्तस्थौ महामृधे ॥ २८ ॥
स च मायां महारौद्री रौवीं विससर्ज है ॥
सा माया ववृधे भीमा सर्वदेवप्रमोदिनी ॥ २९ ॥
तया विमोहिता देवाः सर्वे निद्रा तु लेभिरे ॥
देवा च त्रिशिखेनाजौ तं दैत्यं समताडयत् ॥ ३० ॥
तया तु ताडितस्यास्य दैत्यस्य शुभलोचने ॥
चर्ममुण्डे उभे सम्यक् पृथग्भुते बभूवतुः॥३१॥
रुस्तु दानवेन्द्रस्य चर्ममुण्डे क्षणाद्यतः॥
अपहृत्याइरदेवी चामुण्डा तेन साऽभवतु ॥३२॥
वाश्च सर्व सम्पन्न युयुधुनिच ॥
स च मायां महा इथं समताडयत् ॥ ३३
सर्वभूतमहारौद्री या देवी परमेश्वरी ॥
संहारिणी तु या चैव कालरात्रिः प्रकीर्तिता ॥ ३३ ॥
तस्या अनुचरा देव्यो बढ्योऽसंख्यात कोटयः ॥
तास्तां देवीं महाभागों परिवार्य व्यवस्थिताः ॥ ३४ ॥
याचयामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः ॥
वयं देवि सुधार्ताः स्मो देहि नो भोजनं शुभे ॥ ३८॥
एवमुक्ता तदा देवी दध्या तासां तु भोजनम् ॥
न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात्॥ ३६॥
ततो दध्यो महादेवं रुद्रं पशुपतिं विभुम् ।
सोऽपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः ॥ ३७॥
उवाच च द्रुतं देवीं किं ते कार्य विवक्षितम् ॥
इहि देवि वरारोहे यत्ते मनसि वर्तते ॥ ३८ ॥
देव्युवाच ॥
भक्ष्यार्थमासां देवेश किञ्चिद्दातुमिहार्हसि ॥
बलात्कुर्वन्ति मामेता भक्षार्थिन्यो मः बलाः ॥ ३९ ॥
अन्यथा मामपि बलाद्भक्ष्यायष्यन्ति ताः प्रभो ॥
रुद्र उवाच ॥
एतासां शृणु देवेश भक्ष्यमेकं मयोदितम् ॥ ४०॥
कथ्य मानं वरारोहे कालरात्रे महाप्रभे ॥
या स्त्री सगर्भा देवेशि वन्यस्त्रीपरिधानकम् ॥ ४१ ॥
परिधत्ते स्पृशेचापि पुरुषस्य विशेषतः ॥
स भागोस्तु महाभागो कासाञ्चित्पृथिवीतले ॥ ४२ ॥
अन्याश्छिद्रेषु वाऽज्ञानां गृहीत्वा तत्र वै बालम् ॥
लब्ध्वा भवन्तु सुप्रीता अपि वर्षशता पि ॥ १३ ॥
अन्याः सुतिगृहे च्छिद्रं गृह्णीयुस्तत्र पूजिताः ॥
निवसिष्यन्ति देवेश तथान्या जातहारिकाः ॥ ४४ ।।
गृहे क्षेत्रे तडागेषु वाप्युद्यानेषु चैव हि ॥
अन्यचिता रुदन्त्य याः स्त्रियास्तष्ठन्ति नित्यशः ॥४५॥
तासां शरीराण्याविश्य कचित्तृप्तिमवाप्स्यथ ॥
एवमुक्त्वा तदा देवी स्वयं रुद्रः प्रतापवान् ॥ ४६॥
दृष्ट्वा रुरुच सबमसुरेन्द्र निपातितम् ॥
स्तुतिं चकार भगवान् स्वयं देवस्रिलोचनः॥ १७॥
रुद्र उवाच ॥
जयस्व देवि चामुण्डे जय भूतापहारिणि ॥
जय सर्वगते देवि कालरात्रे नमोऽस्तु ते ॥ १८ ॥
विश्वमुत्ते शुभे शुद्धे विरूपाक्ष त्रिलो चने ॥
भीमरूपे शिवे वेद्ये महामाये महोदये ॥ १९ ॥
मनोजवे जये जृम्भे भीमाक्ष क्षुभितक्षये ॥
महामारि विचित्राङ्गे जय नृत्यप्रिये शुभे ॥५०॥
विकराले महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमरूपे भयानके ॥५१॥
चामुण्डे ज्वमानास्ये तीक्ष्णदेष्टे महाबले॥
शतयानस्थिते देवि प्रेतासनगते शिवे॥५२॥
भीमाक्षि भीषणे देवि सर्वभूतभयङ्कार।
कराले विकराले च महाकाले करालिनि॥२३॥
काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ॥
इति स्तुता तदा देवी रुद्रेण परमेष्ठिना ॥ २४ ॥
तुतोष परमा देवी वाक्यं चेद मुवाच ह ।
वरं वृणीष्व देवेश यत्ते मनास वर्तते ॥ ५५ ॥
रुद्र उवाच ॥
स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ॥
तेषां त्वं वरदा देवि भव सर्वगता सती ॥५६॥
यथेमं त्रिःप्रकारे तु देवि भक्त्या समान्यतः ॥
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ॥ ५७॥
यथेमं शृणुया इत्या त्रिशक्यास्तु समुद्भवम् ॥
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम् ॥ २८ ॥
एवं स्तुत्वा भवो देवी चामुण्डां च सुरेश्वरीम् ॥
क्षणा दन्तर्हितो देवस्ते च देवा दिवं ययुः ॥३९॥
य एतां वेद वै देच्या उत्पत्ति त्रिविधां वरम् ॥
स कर्मपाशनिर्मुक्तः परं निर्वाणभृच्छात ॥ ६० ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥
अष्टभ्यां च चतुर्दश्यामुफ्वासी नरोत्तमः ॥ ६१ ॥
संवत्सरेण लभते राज्यं निष्कण्टकं नृपः॥
एषां त्रिशक्तिंरुद्दिष्टा नयसिद्धान्तगामिनी ॥६२॥
एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥
एषैव रक्ता रजसि वैष्णवी परिकीर्तिता ॥६३॥
एषैत्र कृष्णा तमसि रौद्री देवी प्रकीर्तिता ॥
परमात्मा यथा देव एक एव त्रिधा स्थितः ॥ ६४ ॥
प्रयोजनक्शाच्छक्तिरेकैव त्रिविधाऽभवत् ॥
य एतं शृणुयात्सगै त्रिशत्तयाः परमं शिवम् ॥ ६५ ॥
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥
यश्चमं श्रुणुयान्नित्यं नवम्य नियतः स्थितः ॥ ६६ ॥
स राज्यमतुलं लेभे भयेभ्यश्च प्रमुच्यते ॥
यस्येदं लिखितं गेहे सदा तिष्ठति धारितम् ॥ १७॥
न तस्याग्निभयं घारं सर्पचौरादिनं भवेत् ॥
यश्चमं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधः ॥ ६८ ॥
तेन चेष्टुं भवेत्सर्वं त्रैलोक्यं सचराचरम् ॥
जायन्ते पशवः पुत्रा धन धान्यं वराः स्त्रियः ॥ ६९ ॥
रत्नान्यश्वास्तथा गावो दासा दास्यो भवन्ति हि ॥
यस्येदं तिष्ठते गेहे तस्य सम्पद्भवेधुवम् ॥ ७० ॥
श्रीवराह उषाच ॥
एतदेव रहस्यं ते कीर्तितं भूतधारिणे ॥
रुद्धस्य खलु माहात्म्यं सकलं कीर्तितं मया ॥ ७१ ॥
नवकोट्यस्तु चामुण्डा भभिन्ना व्यवस्थिताः ॥
या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्तिता ।। ७२ ॥
अष्टादश तथा कोट्यो वैष्णव्या भेदू उच्यते ॥
या विष्णो राजसी शक्तिः पालनी चैव वैष्णवी ॥७३॥
या ब्रह्मशाक्तः सत्त्वस्था सा ह्यनन्ता प्रकार्तिता ॥
एतासां सर्वभेदेषु पृथगेकैकशी धरे ॥७४॥
सर्वस भगवान् रुखः सर्वगश्च पतिर्भवेत् ॥
यावन्त्यस्या महाशक्यास्तावद्रूपाणि शङ्करः ॥ ७५॥
कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ।
यश्चाराधयते तस्य रुद्रस्तुष्टो भविष्यति॥
सिध्यन्ति तस्य कामाचे मनसा चिन्तिता अपि॥७३॥
इति श्रीवराहपुराणे त्रिशक्तिमाहात्म्ये त्रिशक्ति रहस्यं नाम षण्णवतितमोऽध्यायः॥९६॥