प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०९६ वराहपुराणम्
अध्यायः ९७
[[लेखकः :|]]
अध्यायः ०९८ →

।। अथ रुद्रमाहात्म्यम् ।।
वराह उवाच ।।
अथ रुद्रव्रतोत्पत्तिं शृणु देवि वरानने ।।
येन ज्ञातेन पापेभ्यो मुच्यते नात्र संशयः ।।१।।
ब्रह्मणा तु यदा सृष्टः पूर्वं रुद्रो वरानने ।।
तृतीये जन्मनि विभुः पिङ्गाक्षो नीललोहितः ।।२।।
तदा कौतूहलाद्ब्रह्मा स्कन्धे तं जगृहे प्रभुः ।।
स्कन्धारूढस्तदा रुद्रो ब्रह्मणोऽव्यक्तजन्मनः ।। ३ ।।
जन्मतश्च शिरो यद्धि पंचमं तज्जगाद ह ।।
मन्त्रमाथर्वणं रुद्रो येन सद्यः प्रमुच्यते ।। ४ ।।
कपालिन् रुद्र बभ्रोऽथ भव कैरात सुव्रत ।।
पाहि विश्वं विशालाक्ष कुमार वरविक्रम ।। ५ ।।
एवमुक्तस्तदा रुद्रो भविष्यैर्नामभिर्भवः ।।
कपालशब्दात्कुपितस्तच्छिरो विचकर्त्त ह ।। ६ ।।
वामाङ्गुष्ठनखेनाद्यं प्राजापत्यं विचक्षणः ।।
तन्निकृत्तं शिरो धात्रि हस्तलग्नं बभूव ह।।७।।
तस्मिन्निकृत्ते शिरसि प्राजापत्यं त्रिलोचनः।।
ब्रह्माणं प्रयतो भूत्वा रुद्रो वचनमब्रवीत् ।।८।।
रुद्र उवाच ।।
कथं कपालं मे देव करात्पतति सुव्रत ।।
नश्यते च कथं पापं ममैतद्वद सुव्रत ।। ९ ।।
ब्रह्मोवाच ।।
इदमेव व्रतं देव चर कापालिकं विभो ।।
समयाचारसंयुक्तं कृत्वा स्वेनैव तेजसा ।।97.१० ।।
एवमुक्तस्तदा रुद्रो ब्रह्मणाऽव्यक्तमूर्त्तिना ।।
आजगाम गिरिं गन्तुं माहेन्द्रं पापनाशनम् ।। ११ ।।
तत्र स्थित्वा महादेवस्तच्छिरो बिभिदे त्रिधा ।।
तस्मिन् भिन्ने पृथक्केशान्गृहीत्वा भगवान्भवः ।। १२ ।।
यज्ञोपवीतं केशं तु महास्थ्नाक्षमणींस्तथा ।।
कपालशकलं चैकमसृक्पूर्णं करे स्थितम् ।। १३ ।।
अपरं खण्डशः कृत्वा जटाजूटे न्यवेशयत् ।।
एवं कृत्वा महादेवो बभ्रामेमां वसुन्धराम् ।। १४ ।।
सप्तद्वीपवतीं पुण्यां मज्जंस्तीर्थेषु नित्यशः ।।
समुद्रे प्रथमं स्नात्वा ततो गङ्गां व्यगाहत ।। १५ ।।
सरस्वतीं ततो गत्वा यमुनासङ्गमं ततः।।
शतद्रुं च ततो गत्वा देविकां च महानदीम् ।।४९।।
वितस्तां चन्द्रभागां च गोमतीं सिन्धुमेव च ।।
तुङ्गभद्रां तथा गोदामुत्तरे गण्डकीं तथा ।। १७ ।।
नेपालं च ततो गत्वा ततो रुद्रमहालयम् ।।
ततो दारुवनं गत्वा केदारगमनं पुनः ।। १८ ।।
महेश्वरं ततो गत्वा गयां पुण्यामथागमत् ।।
तत्र फल्गुकृतस्नानः पितॄन्सन्तर्प्य यत्नतः ।। १९ ।।
एवं वेगेन सकलं ब्रह्माण्डं भूतधारिणि ।।
बभ्राम सर्वदेवेशः षष्ठेऽब्दे तस्य चापतत् ।। 97.२० ।।
परिधानं तु कौपीनं नग्नः कापालिकोऽभवत् ।।
भ्रमतः परिधानं तु कौपीनं रशना गतम्।। २१ ।।
तस्मिंस्तु पतिते देवि नग्नः कापालिकोऽभवत् ।। २२ ।।
पुनरब्दद्वयं भ्रान्तस्तीर्थे तीर्थे हरः स्वयम् ।।
कपालं त्यक्तुकामः सन्तद्धस्तात्तत्तु नापतत् ।२३।।
पुनरब्दद्वयं भ्रान्तो ब्रह्माण्डं तीर्थकारणात् ।।
तीर्थेतीर्थे हरः स्नात्वा कपालं त्यक्तुमिच्छति।।२४।।
त्यजतोऽपि न तद्धस्ताच्च्यवते भूतधारिणि ।।
ततोऽब्दमेकं बभ्राम हिमवत्पर्वते शुभे ।।२५।।
ततोऽन्यद्वर्षमेकं तु वर्त्तते हिमवद्गिरौ ।।
भ्रमतो विभ्रमो जातस्त्रिणेत्रस्य महात्मनः ।। २६ ।।
पुनरब्दद्वयं चान्यत्परमेष्ठी वृषाकपिः ।।
बभ्राम रुद्रस्तीर्थानि पुराणानि समन्ततः ।। २७ ।।
कस्यचित्त्वथ कालस्य द्वादशेऽब्दे धराधरे ।।
वाराणसीं गतो देवस्तत्र स्नानमथारभत् ।। २८ ।।
गङ्गायां देवदेवेशो यावन्मज्जति भामिनि ।।
भवेत्कपालं पतितं हस्ताग्राद्ब्रह्मणः पुरा ।। २९ ।।
कपालमोचनं नाम ततस्तीर्थमनुत्तमम् ।।
पृथिव्यां ख्यातिमगमद्वाराणस्यां धराधरे ।। 97.३० ।।
गत्वा हरिहरक्षेत्रं स्नात्वा देवाङ्गदे तथा ।।
सोमेश्वरं समभ्यर्च्य गतोऽसौ चक्रतीर्थकम् ।। ३१ ।।
तत्र स्नात्वा तथा नत्वा त्रिजलेश्वरसंज्ञितम् ।।
अयोध्यायां तथा गत्वा वाराणस्यां ततोऽगमत् ।। ३२ ।।
द्वादशाब्दैर्गतवतः सीमाचारिगणैस्तथा ।।
बलात्कारेण तद्धस्तात्कपालं पातितं भुवि ।। ३३ ।।
कपालमोचनं तीर्थं ततो जातमघापहम् ।।
गङ्गाम्भसि ततः स्नाप्य विश्वेशं पूज्य भक्तितः ।। ३४ ।।
रुद्रो विशुद्धिमापन्नो मुक्तः स ब्रह्महत्यया ।।
कपालमोचनं नाम तीर्थं त्रैलोक्यविश्रुतम् ।। ३५ ।।
यत्राप्लुतो नरो भक्त्या ब्रह्महा तु विशुध्यति ।।
कपालं पतितं दृष्ट्वा रुद्रहस्ताच्चतुर्मुखः ।। ३६ ।।
आगतो देवसहितो वाक्यं चेदमुवाच ह ।।
ब्रह्मोवाच ।।
भव रुद्र विशालाक्ष लोकमार्गव्यवस्थित ।। ३७ ।।
(भव रुद्र विरूपाक्ष लोकमार्गे व्यास्थितः ।।
व्रतानि कुरु ते देव त्वच्चीर्णानि महाप्रभो ।।)
कपालं गृह्य यद्भ्रान्तं कपालव्यग्रपाणिना ।।
तद्व्रतं नग्नकापालं भविष्यति नृणां भुवि ।। ३८ ।।
यच्च ते बभ्रुता जाता हिमवत्यचलोत्तमे ।।
भ्रमतस्तद्व्रतं देव बाभ्रव्यं तद्भविष्यति ।। ३९ ।।
यच्चेदानीं विशुद्धस्य तीर्थेऽस्मिन्देहशुद्धता ।।
तच्छुद्धशैवं भवतु व्रतं ते पापनाशनम् ।। 97.४० ।।
ये पुरस्कृत्य देवास्त्वां पूज्यं यद्विधिनान्विताः ।।
शास्त्राणि तानि सर्वेषां कथयिष्यामि नान्यथा ।। ४१ ।।
व्रतानि कुरुते देव त्वत्कृतानि हि पुत्रक ।।
स त्वत्प्रसाद्देवेश ब्रह्महापि विशुध्यति ।। ४२ ।।
यद्व्रतं नग्नकापालं यद्बाभ्रव्यं त्वया कृतम् ।।
यत्कृतं शुद्धशैवं च तत्तन्नाम्ना भविष्यति ।। ४३ ।।
मां पुरस्कृत्य देवस्त्वं पूज्यसे यैर्विधानतः ।।
तेषां शास्त्राणि सर्वाणि शास्त्रं पाशुपतं तथा ।। ४४ ।।
कथयस्व महादेव सविधानं समासतः ।।
एवमुक्तस्ततो रुद्रो ब्रह्मणाऽव्यक्तमूर्त्तिना ।।४५।।
देवैर्जयेति संतुष्टः कैलासनिलयं ययौ ।।
ब्रह्मा चापि सुरैः सार्द्धं गतः स्वर्लोकमुत्तमं ।।४६।।
देवा अपि ययुः खं च स्वस्थानं ते यथागतम् ।।
एतद्रुद्रस्य माहात्म्यं मया ते परिकीर्त्तितम् ।। ४७ ।।
चरितं यच्च देवस्य वित्तं समभवद्भुवि ।। ४८ ।।
इति श्रीवराहपुराणे रुद्रमाहात्म्यं नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।