← अध्यायः १०१ वराहपुराणम्
अध्यायः १०२
[[लेखकः :|]]
अध्यायः १०३ →


गुडधेनुमाहात्म्यम्

होतोवाच -

गुडधेनुं प्रवक्ष्यामि सर्वकामार्थसाधिनीम् ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशास्तृते ॥ १ ॥
तस्योपरिकृतं वस्त्रं गुडमानीय पुष्कलम् ।
कृत्वा गुडमयीं धेनुं सवसाङ्‌कास्यदेहिनीम् ॥ २ ॥
सौवर्णे मुखशृङ्गे च दन्ताश्च मणिमौक्तिकैः ।
ग्रीवा रत्नमयी त्वस्या घ्राणं गन्धमयन्तथा ॥ ३ ॥
शृङ्गे त्वगुरुकाष्ठेन पृष्ठं ताम्रमयं तथा ।
पुच्छं क्षौममयं तस्याः सर्वाभरणभूषिताम् ॥ ४ ॥
इक्षुपादां रौप्यखुरां कम्बलं पट्टसूत्रकम् ।
आच्छाद्य पट्टवस्त्रेण घण्टाचामरभूषिताम् ॥ ५ ॥
प्रशस्तपत्रश्रवणां नवनीतस्तनीं बुधः ।
फलैर्नानाविधस्तस्या उपशोभाम्प्रकल्पयेत् ॥ ६ ॥
उत्तमा गुडधेनुः स्यात्सदा धारचतुष्टयम् ।
भागार्धेन तु तौल्येन चतुर्थांशेन वत्सकम् ॥ ७ ॥
मध्यमा च तदर्धेन भारेणैकेन चाधमा ।
वित्तहीनो यथाशक्त्या शतैरष्टाभिरेव च ॥ ८ ॥
अत ऊर्ध्वन्तु कर्तव्या गृहवित्तानुसारतः ।
गन्धपुष्पादिभिः पूज्य ब्राह्मणाय निवेदयेत् ॥
श्रोत्रियाय प्रदातव्या सहस्रकनकेन तु ।
तदर्धेन महाराज तस्याप्यर्धेन वा पुनः ॥ ९ ॥
शतेन वा शतार्धेन यथाशक्त्या निवेदयेत् ।
गन्धपुष्पदिभिः पूज्य मुद्रिकाकर्णपत्रकैः ॥ १० ॥
छत्रिकापादुके दत्त्वा इमं मन्त्रमुदीरयेत् ।
गुडधेनो महावीर्ये सर्वसम्पत्प्रदे शुभे ॥ ११ ॥
दानादस्माच्च भोदेवि भक्ष्यभोज्यं प्रयच्छ मे ।
प्राङ्‌मुखोवापि दाता च ब्राह्मणाय निवेदयेत् ॥ १२ ॥
वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ।
मानकूटं तुलाकूटं कन्यागोऽर्थे उदाहृतम् ॥ १३ ॥
अनृतं नाशमायाति गुडधेनो द्विजार्पिता ।
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥
यत्र क्षोरवहा नद्यो घृतपायसकर्दमाः ।
ऋषयो मुनयः सिद्धास्तत्र गच्छन्ति धेनुदाः ॥ १५ ॥
दश पूर्वान्दश परानात्भानञ्चैकविंशतिम् ।
विष्णुलोकं नयत्याशु गुडधेनोः प्रसादतः ॥ १६ ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
सर्वदैव प्रदातव्या पात्रं दृष्ट्‍वा महामते ॥ १७ ॥
श्रद्धान्वितेन दातव्या भुक्तिमुक्तिफलप्रदा ।
सर्वकामप्रदा नित्यं सर्वपापहरास्मृता ॥ १८ ॥
गुडधेनोः प्रसादात्तु सौभाग्यमखिल भवेत् ।
वैष्णवं पदमाप्नोति दौर्गत्यन्तस्य नश्यति ॥ १९ ॥
दशद्वादशसाहस्रा दश चाष्टौ च जन्मनि ।
न शोकदुःखदौर्गत्यं तस्य सञ्जायते क्वचित् ॥ २० ॥
इति पठति शृणोति चेह सम्यक्

   मतिमपि ददाति योजनानाम् ।

स इह विभवैश्चिरं वसित्वा

   वसति चिरं दिवि देवतादिपूज्यः  ॥  २१  ॥ 

इति वाराहपुराणे श्वेतोपाख्याने गुडधेनुमाहात्म्यं
नाम द्व्यधिकशततमोऽध्यायः ॥