← अध्यायः १११ वराहपुराणम्
अध्यायः ११२
[[लेखकः :|]]
अध्यायः ११३ →

अथोभयतोमुखीगोदानहेमकुम्भदानपुराणप्रशंसाः ।।
होतोवाच ।।
अतः परं महाराज शृणूभयमुखीं ततः ।।
विधानं तद्वरारोहे धरण्या कथितं पुरा ।। १।।
तदहं सम्प्रवक्ष्यामि तव पुण्यफलं महत् ।।
धरण्युवाच ।।
या त्वया कपिला प्रोक्ता पूर्वमुत्पादिता प्रभो।।२।।
होमधेनुः सदा पुण्या सा ज्ञेया कतिलक्षणा ।।
कियत्यः कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा ।।३।।
प्रसूयमाना दानेन किं पुण्यं स्याच्च माधव ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण जगद्गुरो ।। ४ ।।
श्रीवराह उवाच ।।
शृणुष्व देवि तत्त्वेन पवित्रं पापनाशनम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ५ ।।
कपिला ह्यग्निहोत्रार्थे यज्ञार्थे च वरानने ।।
उद्धृत्य सर्वतेजोभिर्ब्रह्मणा निर्मिता पुरा ।। ६ ।।
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।।
पुण्यानां परमं पुण्यं कपिला च वसुन्धरे ।। ७ ।।
तपसस्तप एवाग्र्यं व्रतानां व्रतमुत्तमम् ।।
दानानामुत्तमं दानं निधीनां ह्येतदक्षयम् ।। ८ ।।
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च ।।
पवित्राणि च पुण्यानि सर्वलोकेषु सुन्दरि ।। ९ ।।
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ।।
कपिलाया घृतेनेह दध्ना क्षीरेण वा पुनः।। 112.१० ।।
जुह्वते ह्यग्निहोत्राणि मन्त्रैश्च विविधैः सदा ।।
पूजयन्नतिथींश्चैव परां भक्तिमुपागताः ।। ११ ।।
ते यान्त्यादित्यवर्णैश्च विमानैर्द्विजसत्तमाः ।।
सूर्य मण्डलमध्यात्तु ब्रह्मणा निर्मिता पुरा ।।१२।।
कपिला या पिङ्गलाक्षी सूर्यसौख्यप्रदायिनी ।।
सिद्धिबुद्धिप्रदा धेनुः कपिलानन्तरूपिणी ।। १३।।
पूर्वोक्ता यास्तु कपिलाः सर्वलक्षणलक्षिताः ।।
सर्वा ह्येता महाभागास्तारयन्ति न संशयः ।। १४ ।।
संगमेषु प्रशस्ताश्च सर्वपापविनाशनाः ।।
अग्निपुच्छा अग्निमुखी अग्निलोमानलप्रभा ।। १५ ।।
तथाग्नायी तथा देवी सुवर्णाख्या प्रवर्तते ।।
गृहीत्वा कपिलां शूद्रात्कामतः सदृशः पिबेत् ।। १६ ।।
पतितैः स हि विज्ञेयश्चाण्डालसदृशोऽधमः ।।
तस्मान्न प्रतिगृह्णीयाच्छ्रूद्राद्विप्रः प्रतिग्रहम् ।। १७ ।।
दूरात्ते परिहर्त्तव्याः श्वभिस्तुल्या इवाध्वरे ।।
पर्वकाले हि सर्वे वै वर्जिताः पितृदैवतैः ।। १८ ।।
असम्भाष्याः प्रतिग्राह्या शूद्रास्ते पापकर्मणः ।।
पिबन्ति यावत् कपिलां तावत्तेषां पितामहः ।। १९ ।।
भूमेर्मलं समश्नन्ति जायन्ते विड्भुजश्चिरम् ।।
तासां क्षीरं घृतं वापि नवनीतमथापि वा ।। 112.२० ।।
उपजीवन्ति ये शूद्रास्तेषां गतिमतः शृणु ।।
कपिलाजीविनः शूद्राः क्रूरा गच्छन्ति रौरवम् ।। २१ ।।
रौरवे तु महारौद्रे वर्षकोटिशतं धरे ।।
ततो विमुक्ताः कालेन शुनो योनिं व्रजन्ति हि ।। २२ ।।
शुनो योन्या विमुक्तास्तु विष्ठाभुक्कृमयस्ततः ।।
विष्ठास्थानेषु पापिष्ठः सुदुर्गन्धिषु नित्यशः ।। २३ ।।
भूयोभूयो जायमानस्तथोत्तारं न विन्दति ।।
ब्राह्मणश्चैव यो विद्वान्कुर्यात्तेषां प्रतिग्रहम् ।। २४ ।।
ततः प्रभृत्यमेध्यान्तः पितरस्तस्य शेरते ।।
न तं विप्रं तु सम्भाषेन्न चैवैकासनं विशेत् ।। २५ ।।
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणैर्धरे ।।
यस्तेन सह सम्भाषेत्तथा चैकासनं व्रजेत् ।।२६।।
प्राजापत्यं चरेत्कृच्छ्रं तेन शुष्यति स द्विजः।।
एकस्य गोप्रदानस्य सहस्रांशेन पूर्यते ।।२७।।
किमन्यैर्बहुभिर्दानैः कोटिसंख्यानविस्तरैः ।।
श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये ।। २८ ।।
आसन्नप्रसवां धेनुं दानार्थं प्रतिपालयेत ।।
कपिलार्द्धप्रसूता वै दातव्या च द्विजन्मने ।। २९ ।।
जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते ।।
तावत्सा पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ।। 112.३० ।।
धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे ।।
तावत्यो वर्षकोट्यस्तु ब्रह्मवादिभिरर्चिताः ।। ३१ ।।
वसन्ति ब्रह्मलोके वै ये नित्यं कपिलाप्रदाः ।।
सुवर्णशृङ्गीं यः कृत्वा रौप्ययुक्तखुरां तथा ।। ३२ ।।
ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ।।
कपिलायास्तदा पुच्छं ब्राह्मणस्य करे न्यसेत् ।। ३३ ।।
उदकं च करे दत्त्वा वाचयेच्छुद्धया गिरा ।।
ससमुद्रवना तेन सशैलवनकानना ।। ३४ ।।
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ।।
पृथिवीदानतुल्येन दानेनैतेन वै नरः ।। ३५ ।।
नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम् ।।
ब्रह्मस्वहारी गोघ्नो वा भ्रूणहा पापदेहकः ।। ३६ ।।
महापातकयुक्तोऽपि वंचको ब्रह्मदूषकः ।।
निन्दको ब्राह्मणानां च तथा कर्मावदूषकः ।। ३७ ।।
महापातकयुक्तोऽपि गवां दानेन शुध्यति ।।
यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम् ।। ३८ ।।
तद्दिनं पायसाहारं पयसा वापि वा भवेत् ।।
सुवर्णस्य सहस्रेण तदर्द्धेनापि भामिनि ।।३९।।
तस्याप्यर्द्धशतेनाथ पंचाशच्च ततोऽर्द्धकम् ।।
यथाशक्त्या प्रदातव्या वित्तशाठ्यं विवर्जयेत् ।।112.४०।।
इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै ।।
ददे वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव ।। ४१ ।।
प्रतिगृह्णामि त्वां धेनो कुटुम्बार्थे विशेषतः ।।
शुभं भवतु मे नित्यं देवधात्रि नमोऽस्तु ते ।। ४२ ।।
मे नित्यं स्वस्ति भवतु रुद्राङ्गेति नमोनमः ।।
ॐ द्योस्त्वा ददातु पृथिवी त्वा प्रति गृह्णतु ।। ४३ ।।
क इदं कस्मा अदादिति जपित्वा वै वसुन्धरे ।।
विसृज्य ब्राह्मणं देवि तां धेनुं तद्गृहं नयेत् ।। ४४ ।।
एवं प्रसूयमानां यो गां ददाति वसुन्धरे ।।
पृथिवी तेन दत्ता स्यात्सप्तद्वीपा न संशयः ।।४५ ।।
वदन्ति तां चन्द्रसमानवक्त्रां प्रतप्तजाम्बूनदतुल्यवर्णाम् ।।
महासितत्त्वां तनुवृत्तमध्यां सेवन्त्यजस्रं कुलिता हि देवाः ।। ४६ ।।
प्रातरुत्थाय यो मर्त्यः कल्पं चेदं समाहितः ।।
जितेन्द्रियः शुचिर्भूत्वा पठेद्भक्त्या समन्वितः ।।४७।।
त्रिः सदावर्त्तनं कृत्वा पापं वर्षकृतं च यत् ।।
नश्यते तत्क्षणादेव वायुना पांसवो यथा ।।९।।
श्राद्धकाले पठेद्यस्तु इदं पावनमुत्तमम् ।।
तस्यान्नं संस्कृतं तद्धि पितरोऽश्नन्ति धीमतः ।। ४९ ।।
अमायां वाथ यः कश्चिद्द्विजानामग्रतः पठेत् ।।
पितरस्तस्य तृप्यन्ति वर्षाणां शतमेव च ।। 112.५० ।।
यश्चैतच्छृणुयान्नित्यं तद्गतेनान्तरात्मना ।।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति ।। ५१ ।।
होतोवाच ।।
इदं रहस्यं राजेन्द्र वराहेण पुरातनम् ।।
धरण्यै कथितं राजन्धेनुमाहात्म्यमुत्तमम् ।। ५२ ।।
मया ते कथितं सर्वं सर्वपापप्रणाशनम् ।।
द्वादश्यां माघमासस्य शुक्लायां तिलधेनुदः।।५३।।
सर्वकामसमृद्धार्थो वैष्णवं पदमाप्नुयात्।।
द्वादश्यां श्रावणे मासि शुक्लायां राजसत्तम।।५४।।
प्रत्यक्षधेनुर्दातव्या सहिरण्या नृपोत्तम ।।
सर्वदा सर्वधेनूनां प्रदानं राजसत्तम ।।९५।।
सर्वपापप्रशमनं भुक्तिमुक्तिप्रदायकम् ।।
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम् ।। ९६ ।।
धेनूनां फलमुद्दिश्य सर्वकामप्रदं नृणाम् ।।
अथवा पीड्यसेऽत्यन्तं क्षुधया पार्थिवोत्तम ।। ५७ ।।
इदानीं कार्त्तिकी चेयं वर्त्तते च नराधिप ।।
ब्रह्माण्डं सर्वसम्पन्नं भूतरत्नौषधैर्युतम् ।। ५८ ।।
देवदानवयक्षैस्तु युक्तमेतत्सदा विभो ।।
एतद्धेममयं कृत्वा सर्वबीजरसान्वितम् ।। ५९।।
सरत्नं पुरुषः कृत्वा कार्त्तिक्यां द्वादशी दिने।।
अथवा पंचदश्यां च कार्त्तिकस्य विशेषतः ।। 112.६० ।।
पुरोहिताय गुरवे दद्याद्भक्तिसमन्वितः ।।
ब्रह्माण्डोदरवर्तीनि यानि भूतानि पार्थिव ।।६१ ।।
तानि दत्तानि तेन स्युः समासात्कथितं तव ।।
यो यज्ञे यजते राजन् सहस्रशतदक्षिणैः ।। ६२ ।।
सैकदेशो यजेत्तस्य ब्रह्माण्डस्य विशेषतः ।।
यः पुनः सकलं चेदं ब्रह्माण्डं यजते नरः ।। ६३ ।।
तेन चेष्टं हुतं दत्तं पठितं कीर्त्तितं भवेत् ।।
एवं श्रुत्वा ततो राजा हेमकुम्भप्रकल्पितम् ।। ६४ ।।
ब्रह्माण्डमृषये प्रादात्सविधानं च तत्क्षणात् ।।
सर्वकामैः सुसंवीतो ययौ स्वर्गं नराधिपः ।। ६५ ।।
तस्मात्त्वमपि राजेन्द्र तद्दत्त्वा तु सुखी भव ।।
एवमुक्तो वसिष्ठेन सोऽप्येवमकरोन्नृपः ।। ६६ ।।
जगाम परमां सिद्धिं यत्र गत्वा न शोचति ।।
श्रीवराह उवाच ।।
इयं ते कथिता देवि संहिता सर्वकामिका ।। ६७ ।।
वराहाख्या वरारोहे सर्वपातकनाशिनी ।।
सर्वज्ञादुत्थिता चेयं ततो ब्रह्मा बुबोध ह।।६८।।
ब्रह्मा स्वसूनवे प्रादात्पुलस्त्याय महात्मने।।
सोऽपि रामाय च प्रादाद्भार्गवाय महात्मने ।।६९।।
असावपि स्वशिष्याय प्रादादुग्राय धारिणि ।।
उग्रोऽपि मनवे प्रादादेष वः कीर्तितो मया ।। 112.७० ।।
सम्बन्धः पूर्वकल्पीयो द्वितीयं शृणु साम्प्रतम् ।।
सर्वज्ञाल्लब्धवानस्मि त्वं च मत्तो धराधरे ।। ७१ ।।
त्वत्तश्च तपसा सिद्धा वेत्स्यन्ते कपिलादयः ।।
क्रमेण यावद्व्यासेन ज्ञातमेतद्भविष्यति ।। ७२ ।।
तस्यापि शिष्यो भविता नाम्ना वै रोमहर्षणिः ।।
असौ शुनकपुत्राय कथयिष्यति नान्यथा ।। ७३ ।।
अष्टादश पुराणानि वेद द्वैपायनो गुरुः ।।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।। ७४ ।।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ।।
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ।। ७५ ।।
दशमं ब्रह्मवैवर्त्त लैङ्गमेकादशं स्मृतम् ।।
वाराहं द्वादशं प्रोक्तं स्कान्दं चापि त्रयोदशम् ।। ७६ ।।
चतुर्दशं वामनकं कौर्मं पंचदशं स्मृतम् ।।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ।। ७७ ।।
य एतत्पाठयेद्भक्त्या कार्तिक्यां द्वादशीदिने ।।
तस्य नूनं भवेत्पुत्रो ह्यपुत्रस्यापि धारिणि ।। ७८ ।।
यस्येदं तिष्ठते गेहे लिखितं पूज्यते सदा ।।
तस्य नारायणो देवः स्वयं तिष्ठति धारिणि ।। ७९ ।।
यश्चैतच्छृणुयाद्भक्त्या नैरन्तर्येण मानवः ।।
श्रुत्वा तु पूजयेद्यस्तु शास्त्रं वाराहसंज्ञितम् ।। 112.८० ।।
श्रुत्वा तु पूजयेच्छास्त्रं तथा विष्णुं सनातनम् ।।
गन्धैः पुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः ।।८१ ।।
यथाशक्त्या नृपो ग्रामैः पूजयेद्वत्सकं धरे ।।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ।।८२।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने उभयतोमुखीगोदान हेमकुम्भदान पुराणप्रशंसनंनाम द्वादशाधिकशततमोऽध्यायः ।।११२।।