प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११४ वराहपुराणम्
अध्यायः ११५
[[लेखकः :|]]
अध्यायः ११६ →

अथ विविधधर्मोत्पत्तिः ।।
ततो महीवचः श्रुत्वा देवो नारायणोऽब्रवीत् ।।
कथयिष्यामि ते देवि कर्म स्वर्गसुखावहम् ।। १ ।।
यत्त्वया पृच्छ्यते देवि तच्छृणुष्व वसुन्धरे ।।
स्थितिं सत्तां तु मर्त्यानां भक्त्या ये च व्यवस्थिताः ।।२ ।।
नाहं दानसहस्रेण नाहं यज्ञशतैरपि ।।
तुष्यामि न तु वित्तेन ये नराः स्वल्पचेतसः ।।३।।
एकचित्तं समाधाय यो मां जानाति माधवि ।।
नित्यं तुष्यामि तस्याहं पुरुषं बहुदोषकम् ।। ४ ।।
यच्च पृच्छसि मां भद्रे कर्म स्वर्गसुखावहम् ।।
तच्छृणुष्व वरारोहे गदतो मे शुचिस्मिते ।। ५ ।।
ये नमस्यति मां नित्यं पुरुषा बहुचेतसः ।।
अर्द्धरात्रेऽन्धकारे च मध्याह्ने वापराह्णके ।। ६ ।।
यस्य चित्तं न नश्येत मम भक्तिव्यवस्थितम् ।।
द्वादश्यामुपवासं तु यः कुर्यान्मम तत्परः ।। ७ ।।
ते मामेव प्रपश्यन्ति मयि भक्तिपरायणाः ।।
लब्धचेतो गुणज्ञश्च नरो भक्तिव्यवस्थितः ।। ८ ।।
इच्छयाऽपि भवेद्भद्रे स्वर्गे वसति सुन्दरि ।।
स्वल्पकेन न गम्यन्ते दुष्प्राप्योऽहं वरानने ।। ९ ।।
यानि कर्माणि कुर्वन्तु मां प्रपश्यन्ति माधवि ।।
तानि ते कथयिष्यामि येन भक्त्या व्यवस्थिताः ।। 115.१० ।।
द्वादश्यामुपवासं तु ये च कुर्वन्ति ते नराः ।।
तेषामेव प्रपश्यन्ति मम भक्तिपरायणाः।।११ ।।
कृत्वा चैवोपवासं प्रगृह्य चैव जलाञ्जलिम् ।।
नमो नारायणेत्युक्त्वा आदित्यं चावलोकयेत्।।१२।।
यावन्तो बिन्दवः किंचित्पतन्त्येवाञ्जलेर्जलात् ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। १३।।
अथ चैव तु द्वादश्यां पुरुषा धर्मवादकाः।।
विधिना च प्रयत्नेन ये मां कुर्वन्ति मानुषाः ।।१४।।
पाण्डुरैश्चैव पुष्पैश्च मृष्टैर्धूपैस्तु धूपयेत्।।
यो मे धारयते भूमौ तस्यापि शृणु या गतिः।।१५।।
दत्त्वा शिरसि पुष्पाणि इमं मन्त्रमुदीरयेत् ।।
हृदि कृत्वा तु मन्त्रांश्च शुक्लाम्बरधरो धरे ।।१६।।
सुमान्यः सुमना गृह्य प्रीयतां भगवान्हरिः ।। १७ ।।
नमोऽस्तु विष्णवे व्यक्ताव्यक्तगन्धिगन्धान्सुगन्धान्वा गृह्ण गृह्ण नमो भगवते विष्णवे ।।
अनेन मन्त्रेण गन्धं दद्यात् ।।
श्रुत्वा प्रत्यागतमाधारसवनं पतये भवं प्रविष्टं मे धूप धूपनं गृह्णातु मे भगवानच्युतः ।।
अनेन मन्त्रेण धूपं दद्यात् ।। १८ ।।
श्रुत्वा चैवं च शास्त्राणि यो मामेव तु कारयेत् ।।
मम लोकं च गच्छेत जायेतैव चतुर्भुजः ।। १९ ।।
एतत्ते कथितं देवि श्रेष्ठं चैव मम प्रियम् ।।
तव चैवं प्रियार्थाय मन्त्रपूजां सुखावहम् ।।115.२०।।
श्यामाकं स्वस्तिकं चैव गोधूमं मुद्गकं तथा ।।
शालयस्तु यवाश्चैव तथा नीवारकाङ्गुकाः ।। २१ ।।
एतानि यस्तु भुञ्जीत मम कर्मपरायणः ।।
शङ्खं चक्रं लाङ्गलं च मुसलं स च पश्यति ।। २२ ।।
ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म वसुन्धरे ।।
यानि कर्माणि कुर्वीत मम भक्तिपरायणः ।। २३ ।।
षट्कर्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः ।।
लाभालाभं परित्यज्य भिक्षाहारो जितेन्द्रियः ।। २४ ।।
मम कर्मसमायुक्तः पैशुन्येन विवर्जितः ।।
शास्त्रानुसारिमध्यस्थो नवृद्धशिशुचेतनः ।। २५ ।।
एतद्वै ब्रह्मणः कर्म एकचित्तो जितेन्द्रियः ।।
इष्टापूर्तं च कुरुते स मामेति वसुन्धरे ।। २६ ।।
क्षत्रियाणां प्रवक्ष्यामि मम कर्मसु तिष्ठताम् ।।
यानि कर्माणि कुर्वीत क्षत्रियो मध्यसंस्थितः ।। २७ ।।
दानशूरश्च कर्मज्ञो यज्ञेषु कुशलः शुचिः ।।
मम कर्मसु मेधावी अहङ्कारविवर्जितः ।। २८ ।।
अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः ।।
गुरुविद्योऽनसूयश्च निन्द्यकर्मविवर्जितः।।२९।।
अभ्युत्थानादिकुशलः पैशुन्येन विवर्जितः।।
एतैर्गुणैः समायुक्तो यो मां व्रजति क्षत्रियः ।। 115.३० ।।
भजते मम यो नित्यं मम लोकाय गच्छति ।।
वैश्यानां तु प्रवक्ष्यामि मम कर्मसु तिष्ठताम् ।। ३१ ।।
यानि कर्माणि कुरुते मम भक्तिपथे स्थितः ।।
एतैर्गुणैः स्वधर्मेण लाभालाभविवर्जितः ।। ३२ ।।
ऋतुकालाभिगामी च शान्तात्मा मोहवर्जितः ।।
शुचिर्दक्षो निराहारो मम कर्मरतः सदा ।। ३३ ।।
गुरुसम्पूजको नित्यं युक्तो भक्तानुवत्सलः ।।
वैश्योऽप्येवं सुसंयुक्तो यस्तु कर्माणि कारयेत् ।। ३४ ।।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। ।।
अथ शूद्रस्य वक्ष्यामि कर्माणि शृणु माधवि ।। ३५ ।।
कर्माणि यानि कृत्वा ह शूद्रो मह्यं व्यवस्थितः ।।
दम्पती मम भक्तौ यो मम कर्म परायणौ ।। ३६ ।।
उभौ भागवतौ भक्तौ मद्भक्तौ कर्मनिष्ठितौ ।।
देशकालौ च वानीतौ रजसा तमसोज्झितौ ।। ३७ ।।
निरहङ्कारशुद्धात्मा आतिथेयो विनीतवान् ।।
श्रद्दधानोऽतिपूतात्मा लोभमोहविवर्जितः ।। ३८ ।।
नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ।।
शूद्रः कर्माणि मे देवि य एवं सममाचरेत् ।। ३९ ।।
त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् ।।
चातुर्वर्ण्यस्य कर्माणि यत्त्वया परिपृच्छितम् ।। 115.४० ।।
एवं कर्मगुणाश्चैव येन भक्त्या व्यवस्थितः ।।
सर्ववर्णाश्च मां देवि अपरं क्षत्रिये शृणु ।। ४१ ।।
येन तत्प्राप्यते योगं तच्छृणुष्व वसुन्धरे ।।
त्यक्त्वा लाभमलाभं च मोहं कामं च वर्जयेत् ।। ४२ ।।
न शीतं च न चोष्णे च लब्धाऽलब्धं विचिन्तयेत् ।।
न तिक्तेनास्ति कटुना मधुराम्लैर्न लावणैः ।। ४३ ।।
न कषायैः स्पृहा यस्य प्राप्नुयात्सिद्धिमुत्तमाम् ।।
भार्या पुत्राः पिता माता उपभोगार्थसंयुतम् ।। ४४ ।।
य एतान् हि परित्यज्य मम कर्मरतः सदा ।।
धृतिज्ञः कुशलश्चैव श्रद्दधानो धृतव्रतः ।। ४५ ।।
तत्परो नित्यमुद्युक्तः अन्यकार्यजुगुप्सकः ।।
बाले वयसि कल्पश्च अल्पभोगी कुलान्वितः ।। ४६ ।।
कारुण्यः सर्वसत्त्वानां प्रत्युत्थायी महाक्षमः ।।
काले मौनक्रियां कुर्याद्यावत्तत्कर्म कारयेत् ।।४७।।
त्रिकालं च दिशो भागं सदा कर्मपथि स्थितः ।।
उपपन्नानभुञ्जानः कर्माण्यभोजनानि च ।। ४८ ।।
अनुष्ठानपरश्चैव मम पार्श्वे मनश्चरः ।।
काले मूत्रपुरीषाणि विसृज्य स्नानवत्सलः ।। ४९ ।।
पुष्पे गन्धे च धूपे च मत्कर्मणि सदा रतः ।।
कदाचित्कन्दमूलानि फलानि च कदाचन।।115.५०।।
पयसा यावकेनापि कदाचिद्वायुभक्षणः ।।
कदाचित्षष्ठकालेन क्वचिद्दृष्टमहाफलः ।। ५१ ।।
कदाचित्तु चतुर्थेन कदाचित्फलमेव च ।।
कदाचिद्दशमे भुञ्जेत्पक्षे मासे वसुन्धरे ।। ५२ ।।
य एतत्सप्त जन्मानि मम कर्माणि कुर्वते ।।
योगिनस्तान्प्रपश्यन्ति पूर्वोक्तान्कर्मसु स्थितान् ।। ५३ ।।
इति श्रीवराहपुराणे विविधकर्मोत्पत्तौ पंचदशाधिकशततमोऽध्यायः ।। ११५ ।।