← अध्यायः ११५ वराहपुराणम्
अध्यायः ११६
[[लेखकः :|]]
अध्यायः ११७ →

अथ सुखदुःखनिरूपणम्।।
श्रीवराह उवाच ।।
मया प्रोक्तविधानेन यस्तु कर्माणि कारयेत् ।।
तच्छृणुष्व महाभागे यो साफल्यमाप्नुयात् ।। १ ।।
एकचित्तः समास्थाय अहङ्कारविवर्ज्जितः ।।
मच्चित्तसंहतो नित्यं क्षान्तो दांतो जितेन्द्रियः ।। २ ।।
फलमूलानि शाकानि द्वादश्यां वा कदाचन।।
पयोव्रतं च तत्काले पुनरेव निरामिषः ।। ३ ।।
षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी ।।
मैथुनं नाभिसेवेत द्वाद्वश्यां च तथा प्रिये ।।४।।
एवं योगविधानेन कर्म कुर्याद्दृढव्रतः ।।
पूतात्मा धर्मसंयुक्तो विष्णुलोकं तु गच्छति ।। ५ ।।
न ग्लानिर्न जरा तस्य न मोहो रोग एव च ।।
भुजाष्टादश जायन्ते धन्वी खड्गी शरी गदी ।। ६ ।।
तेषां व्युष्टिं प्रवक्ष्यामि मम कर्मसमुत्थिताम् ।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।। ७ ।।
ममार्चनविधिं कृत्वा मम लोके महीयते ।।
दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। ८ ।।
उचितेनोपचारेण दुःखमोक्षविनाशनम् ।।
अहङ्कारावृतो नित्यं नरो मोहेन चावृतः ।। ९ ।।
यो मां नैव प्रपद्येत ततो दुःखतरं नु किम् ।।
सर्वाशी सर्वविक्रेता नमस्कारविवर्जितः ।। 116.१० ।।
यो न मां प्रतिपद्येत ततो दुःखतरं नु किम् ।।
प्राप्तकाले वैश्वदेवे दृष्ट्वा चातिथिमागतम् ।। ११ ।।
अदत्त्वा तस्य यो भुंक्ते ततो दुःखतरं नु किम् ।।
सर्वान्नानि तु सिद्धानि पाकभेदं करोति यः ।। १२ ।।
तस्य देवा न चाश्नन्ति ततो दुःखतरं नु किम् ।।
असन्तुष्टस्तु वैषम्ये परदाराभिमर्शकः ।। १३ ।।
परोपतापी मन्दात्मा ततो दुःखतरं नु किम् ।।
अकृत्वा पुष्कलं कर्म गृहे संवसते नरः ।। १४।।
मृत्युकालवशं प्राप्तस्ततो दुःखतरं नु किम् ।।
हस्त्यश्वरथयानानि गम्यमानानि पश्यति ।। १५ ।।
धावन्त्यस्याग्रतः पृष्ठे ततो दुःखतरं नु किम् ।।
अश्नन्ति पिशितं केचित्केचिच्छालिसमन्वितम् ।। १६ ।।
शुष्कान्नं केचिदश्नन्ति ततो दुःखतरं नु किम् ।।
वरवस्त्रावृतां शय्यां समासेवति भूषिताम् ।। १७ ।।
केचित्तृणेषु शेरन्ते ततो दुःखतरं नु किम् ।।
सुरूपो दृश्यते कश्चित्पुरुषश्चात्मकर्मभिः ।। १८ ।।
केचिद्विरूपा दृश्यन्ते ततो दुःखतरं नु किम् ।।
विद्वान् कृती गुणज्ञश्च सर्वशास्त्रविशारदः ।।१९।।
केचिन्मूकाश्च दृश्यन्ते ततो दुःखतरं नु किम् ।।
विद्यमाने धने केचित्कृपणा भोगवर्जिताः ।।116.२०।।
दरिद्रो जायते दाता ततो दुःखतरं नु किम् ।।
द्विभार्यः पुरुषो यस्तु तयोरेकां प्रशंसति ।। २१ ।।
एका तु दुर्भगा तत्र ततो दुःखतरं नु किम् ।।
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णाः सुमध्यमे ।। २२ ।।
पापकर्मरता ह्यासन्ततो दुःखतरं नु किम् ।।
लब्ध्वा तु मानुषीं संज्ञां पंचभूत समन्विताम् ।। २३ ।।
मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम् ।।
एतत्ते कथितं भद्रे दुःखकर्मविनिश्चयम् ।। २४ ।।
सर्वभूताहितं पापं यत्त्वया परिपृच्छितम् ।।
यच्च मां पृच्छते भद्रे शुभं कीदृशमुच्यते ।। २५ ।।
तच्छृणुष्वानवद्याङ्गि मम कर्मविनिश्चयम् ।।
कृत्वा तु विपुलं कर्म मद्भक्तेषु निवेदयेत् ।। २६ ।।
यस्य बुद्धिर्विजायेत स दुःखायोपजायते ।।
मां पूजयित्वा नैवेद्यं विशिष्टं परिकल्प्य च ।। २७ ।।
शेषमन्नं समश्नाति ततः सौख्यतरं नु किम् ।।
त्रिकालं ये प्रपद्यन्ते मयोक्तेन वसुन्धरे ।। २८ ।।
कृत्वा सायाह्निकं कर्म ततः सौख्यतरं नु किम् ।।
देवतातिथिमर्त्त्यानां त्यक्त्वा चान्नं वसुन्धरे ।। २९ ।।
यश्चात्मा वै समश्नाति ततः सौख्यतरं नु किम् ।।
प्रविष्टस्त्वतिथिर्यस्य निराशो यन्न गच्छति ।। 116.३० ।।
येन केनचिद्दत्तेन ततः सौख्यतरं नु किम् ।।
मासि मास्येकदिवसस्त्वमावास्येति योच्यते ।। ३१ ।।
पितरो यस्य तृप्यन्ति ततः सौख्यतरं नु किम् ।।
भोजनेषु प्रपन्नेषु यवान्नं यः प्रयच्छति ।। ३२ ।।
अभिन्नमुखरागेण ततः सौख्यतरं नु किम् ।।
उभयोरपि भार्यासु यस्य बुद्धिर्न नश्यति ।। ३३ ।।
समं पश्यति यो देवि ततः सौख्यतरं नु किम् ।।
अहिंसनं तु कुर्वीत विशुद्धेनान्तरात्मना ।। ३४।।
अहिंसोपरतः शुद्धः स सुखायोपजायते ।।
परभार्यां सुरूपां तु दृष्ट्वा दृष्टिर्न चाल्यते ।। ३५ ।।
यस्य चित्तं न गच्छेत्तु ततः सौख्यतरं नु किम् ।।
मौक्तिकादीनि रत्नानि तथैव कनकानि च ।। ३६ ।।
लोष्टवत्पश्यते यस्तु ततः सौख्यतरं नु किम् ।।
मुदिते वाश्वनागेन्द्रे उभे सैन्ये पथि स्थिते ।। ३७ ।।
यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम्।।
लब्धेन चाप्यलब्धेन कुत्सितं कर्म गर्हयन् ।। ३८ ।।
यस्तु जीवति संतुष्टः स सुखायोपपद्यते ।।
भर्तुस्तु वै व्रतं स्त्रीणामेवमेव वसुन्धरे ।। ३९ ।।
या तोषयति भर्त्तारं ततः सौख्यतरं नु किम् ।।
विद्यते विभवेनापि पुरुषो यस्तु पण्डितः ।। 116.४० ।।
निगृहीतेन्द्रियः पंच ततः सौख्यतरं नु किम् ।।
सहते चावमानं तु व्यसने न तु दुर्मनाः ।। ४१ ।।
यस्येदं विदितं सर्वं ततः सौख्यतरं नु किम् ।।
अकामो वा सकामो वा मम क्षेत्रे वसुंधरे ।। ४२ ।।
यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम् ।।
मातरं पितरं चैव यः सदा पूजयेन्नरः ।। ४३।।
देवतेव सदा पश्येत्ततः सौख्यतरं नु किम् ।।
ऋतुकाले तु यो गच्छेन्मासेमासे च मैथुनम्।।४४।।
अनन्यमानसो भूत्वा ततः सौख्यतरं नु किम्।।
प्रयुक्तः सर्वदेवानां यो मामेवं प्रपूजयेत् ।।४५।।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।।
एतत्ते कथितं भद्रे शुभनिर्देशनिश्चयः ।।
सर्वलोकहितार्थाय यन्मां त्वं परिपृच्छसि ।। ४६ ।।
इति श्रीवराहपुराणे सुखदुःखनिरूपणं नाम षोडशाधिकशततमोऽध्यायः ।।११६।।