प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२४ वराहपुराणम्
अध्यायः १२५
[[लेखकः :|]]
अध्यायः १२६ →

अथ मायाचक्रम् ।।
सूत उवाच ।।
श्रुत्वा षडृतुकर्माणि पृथिवी संशितव्रता ।।
ततो नारायणं भूयः प्रत्युवाच वसुन्धरा ।। १ ।।
मङ्गल्याश्च पवित्राश्च ये त्वया समुदाहृताः ।।
मम लोकेषु विख्याता मनः प्रह्लादयन्ति ते ।।२।।
श्रुत्वा त्वेतानि कर्माणि त्वन्मुखोक्तानि माधव ।।
जातास्मि निर्मला देव शशाङ्क इव शारदः।।३।।
एतन्मे परमं गुह्यं परं कौतूहलं तथा ।।
मम चैव हितार्थाय त्वं विष्णो वक्तुमर्हसि ।।४।।
यामेनां भाषसे देव मम मायेति नित्यशः ।।
का माया कीदृशी विष्णो किं वा मायेति चोच्यते ।।५।।
ज्ञातुमिच्छामि मायार्थं रहस्यं परमुत्तमम् ।।
ततस्तस्य वचः श्रुत्वा विष्णुर्मायाकरण्डकः।।६।।
प्रत्युवाच तदा वाक्यं प्रहस्य तु वसुन्धराम् ।।
भूमे मा पृच्छ मायां मे यन्मां पृच्छसि सादरम् ।। ७ ।।
वृथा क्लेशं किमर्थं त्वं प्राप्स्यते यद्विलोकनात् ।।
अद्यापि मां न जानन्ति रुद्रेन्द्राः सपितामहाः।।८।।
मम मायां विशालाक्षि किं पुनस्त्वं वसुन्धरे।।
पर्जन्यो वर्षते यत्र तज्जलेन प्रपूर्यते ।।९।।
देशो निर्जलतां याति एषा माया मम प्रिये।
सोमो यत्क्षीयते पक्षे पक्षे वापि च वर्द्धते ।। 125.१० ।।
अमायां न स दृश्येत मायेयं मम तत्त्वतः।।
हेमन्ते सलिलं कूपे उष्णं भवति सुन्दरि।।११।।
भवेच्च शीतलं ग्रीष्मे मायेयं मम तत्त्वतः।।
पश्चिमां दिशमास्थाय यदस्तं याति भास्करः।।१२।।
उदेति पूर्वतः प्रातर्मायेयं मम सुन्दरि।।
शोणितं चैव शुक्रं च उभे च प्राणिसंस्थिते ।। १३ ।।
गर्भे च जायते जन्तुर्मायेयं मम सुन्दरि।
जीवः प्रविश्य गर्भं तु सुखदुःखे च विन्दति।।१४।।
जातश्च विस्मरेत्सर्वमेषा माया ममोत्तमा ।।
आत्मकर्माश्रितो जीवो नष्टसंज्ञो गतस्पृहः।।१५।।
कर्मणा नीयतेऽन्यत्र मायैषा मम चोत्तमा ।।
शुक्रशोणितसंयोगाज्जायते मम जन्तवः।।१६।।
अङ्गुल्यश्चरणौ चैव भुजौ शीर्षं कटिस्तथा ।।
पृष्ठं तथोदरं चैव दन्तौष्ठपुटनासिकम्।।१७।।
कर्णौ नेत्रे कपालौ च ललाटं जिह्वया सह।।
एतया मायया युक्ता जायन्ते यदि जन्तवः ।।१८ ।।
तस्यैव जीर्यते भुक्तमग्निना पीतमेव च।।
अधश्च स्रवते जन्तुरेषा माया ममोत्तमा।।१९।।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पंचम।।
अन्नात्प्रवर्त्तते जन्तुरेषा माया मम प्रिया।।125.२०।।
सर्वर्तुषु निजाकारः स्थावरे जङ्गमे तथा ।।
तत्त्वं न ज्ञायते तस्य मायैषा मम सुन्दरि ।। २१ ।।
आपो दिव्यास्तथा भौमा आपो येषु प्रतिष्ठिताः ।।
नद्यो वृद्धिं प्रयान्त्यत्र मायैषा मम सुन्दरि ।। २२ ।।
वृष्टौ बहूदकाः सर्वे पल्वलानि सरांसि च ।।
ग्रीष्मे सर्वाणि शुष्यन्ति एतन्मायाबलं मम ।। २३ ।।
हिमवच्छिखरान्मुक्ता नाम्ना मन्दाकिनी नदी ।।
गां गता सा भवेद्गङ्गा मायैषा मम कीर्त्तिता ।। २४ ।।
मेघा वहन्ति सलिलमुद्धृत्य लवणार्णवात् ।।
वर्षन्ति मधुरं लोके एतन्मायाबलं मम ।। २५ ।।
रोगार्ता जन्तवः केचिद्भक्षयन्ति महौषधम् ।।
तस्य वीर्यं समाश्रित्य मायां तु विसृजाम्यहम् ।।२६।।
औषधे दीयमानेऽपि जन्तुः पंचत्वमेति यत् ।।
निर्वीर्यमौषधं कृत्वा कालो भूत्वा हराम्यहम् ।। २७ ।।
प्रथमं जायते गर्भः पश्चात्संजायते पुमान् ।।
जायते मध्यमं रूपं ततोऽपि जरया युतः।।२८।।
तत इन्द्रियनाशश्च एतन्मायाबलं मम ।।
यद्भूमौ विहितं बीजं तस्मात्तज्जायतेऽङ्कुरम् ।। २९ ।।
पुनश्च पत्रादियुतमेतन्मायाबलं मम ।।
एकबीजात्प्रकीर्णाद्वै जायन्ते तानि भूरिशः ।। 125.३० ।।
तत्रामृतं विसृजामि मायायोगेन भूरिशः ।।
लोक एवं विजानाति गरुडो वहतेऽच्युतम् ।। ३१ ।।
भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना ।।
या एता देवताः सर्वा यज्ञभागेन तोषिताः ।। ३२ ।।
मायामेतामहं कृत्वा तोषयामि दिवौकसः ।।
लोकाः सर्वे विजानन्ति देवा नित्यं मखाशिनः ।। २३।।
मायामेतामहं कृत्वा यक्ष्यामि त्रिदिवौकसः ।।
सर्वोऽपि भजते लोके यष्टारं च बृहस्पतिम् ।। ३४ ।।
मायामाङ्गिरसीं कृत्वा याजयामि दिवौकसः ।।
सर्वे लोका विजानन्ति वरुणः पाति सागरम् ।। ३५ ।।
मायां तु वारुणीं कृत्वा रक्षामि च महार्णवम् ।।
सर्वे लोका विजानन्ति कुबेरोऽयं धनेश्वरः ।। ३६ ।।
कुबेरमायामादाय अहं रक्षामि तद्धनम् ।।
एवं लोका विजानन्ति वृत्रः शक्रेण सूदितः ।। ३७ ।।
शाक्रीं मायां समास्थाय मया वृत्रो निषूदितः ।।
एवं लोका विजानन्ति आदित्यश्च ध्रुवो महान् ।। ३८ ।।
मेरुं मायामयं कृत्वा वहाम्यादित्यमेव च ।।
एवमाभाषते लोको जलं वा नश्यतेऽखिलम् ।। ३९ ।।
वडवामुखमास्थाय पिबामि तदहं जलम् ।।
वायुं मायामयं कृत्वा मेघेषु विसृजाम्यहम्।। 125.४० ।।
यदीदं भाषते लोकः कुत्रैतत्तिष्ठते जलम् ।।
देवा अपि न जानन्ति अमृतं कुत्र तिष्ठति ।। ४१ ।।
मम मायानियोगेन तिष्ठति ह्यौषधं वने ।।
लोको ह्येवं विजानाति राजा पालयते प्रजाः ।। ४२ ।।
राजमायामहं कृत्वा पालयामि वसुन्धराम् ।।
ये तु वै द्वादशादित्या उदेष्यन्ति युगक्षये ।। ४३ ।।
प्रविश्य तानहं भूमे मायां लोके सृजाम्यहम् ।।
सूर्यश्च चांशुना भूमे सदा लोकेषु पच्यते ।। ४४ ।।
मायामंशुमयीं कृत्वा पूरयाम्यखिलं जगत् ।।
वर्षन्ते यत्र संवर्त्ता धारैर्मुसलसन्निभैः ।। ४५ ।।
मायां सांवर्त्तकीं गृह्य पूरयाम्यखिलं जगत् ।।
यत्स्वपामि वरारोहे शेषस्योपरि धारिणि ।।४६।।
अनन्तमायया चाहं धारयामि स्वपामि च ।।
वराहमायामादाय भूमे जानासि किं न वै ।।४७।।
देवा यत्र निलीयन्ते सा माया मम कीर्त्तिता ।।
त्वं चापि वैष्णवीं मायां कृत्वा जानासि किं न तत् ।। ४८ ।।
धारितासि च सुश्रोणि वारान् सप्तदशैव तु ।।
माया तु मम देवीयं कृत्वा ह्येकार्णवां महीम् ।। ४९ ।।
मम् मायाबलं ह्येतद्येन तिष्ठाम्यहं जले ।।
प्रजापतिं च रुद्रं च सृजामि च वहामि च ।। 125.५० ।।
तेऽपि मायां न जानन्ति मम मायाविमोहिताः ।।
अथो पितृगणाश्चापि य एते सूर्यवर्च्चसः ।। ५१ ।।
मायां पितृमयीं ह्येतां गृह्णामीति च तत्त्वतः ।।
किन्तु त्वयैव सुश्रोणि अन्यच्च शृणु सुन्दरि ।। ५२ ।।
ऋषिर्मायानुसारेण स्त्रिया योनिं प्रवेशितः ।।
ततो विष्णोर्वचः श्रुत्वा श्रोतुकामा वसुन्धरा ।। ५३ ।।
कराभ्यामञ्जलिं कृत्वा वाक्यमेतत्तदब्रवीत् ।।
किं तेन ऋषिमुख्येन कृतं कर्म सुदुष्करम् ।।५४ ।।
स्त्रीत्वं चैव पुनः प्राप्तं स्त्रीयोनिं चैव प्रापितः ।।
एतन्मे सर्वमाख्याहि परं कौतूहलं मम ।।५५।।
तस्य ब्राह्मणमुख्यस्य स्त्रीत्वे यत्कर्म पापकम्।।
ततो मह्या वचः श्रुत्वा हृष्टतुष्टमना हरिः।।५६।।
मधुरं वाक्यमादाय प्रत्युवाच वसुन्धराम् ।।
शृणु तत्त्वेन मे देवि धर्माख्याने च सुन्दरि।।५७।।
माया मम विशालाक्षि रोहिणी लोमहर्षिणी ।।
मायाया मम योगेन सोमशर्मा च कर्शितः ।।५८।।
गतो गतीरनेकाश्च उत्तमाधममध्यमाः ।।
ब्राह्मणत्वं पुनः प्राप्तो मम मायाप्रचोदितः ।।५९।।
यथा ब्राह्मणमुख्येन प्राप्ता स्त्रीयोनिरेव च ।।
न तस्य विकृतं कर्म अपराधो न विद्यते ।।125.६०।।
ममैवाराधनपरो मम कर्मपरायणः ।।
नित्यं चिन्तयते भूमे मम मूर्तिं मनोरमाम् ।।६१।।
अयं दीर्घेण कालेन तस्य तुष्टोऽस्मि सुन्दरि ।।
तपसा कर्मणा भक्त्या अनन्यमनसा स्तुतः ।।६२।।
ततस्तस्य मया देवि दत्त्वा दर्शनमुत्तमम् ।।
वरेण छन्दितो विप्र तपस्तुष्टोऽस्मि ते द्विज ।।६३।।
वरं वरय भद्रं ते तव यद्धृदि वर्त्तते ।।
रत्नानि कांचनं गावस्तथा राज्यमकण्टकम् ।।६४।।
अथवेच्छसि तं स्वर्गं यत्र सौख्यं वराङ्गनाः ।।
धनरत्नं समृद्धं हि हेमभाण्डविभूषितम् ।।६५।।
यत्र सर्वा दिव्यरूपा भवन्त्यप्सरसः पराः।।
ददामि ते वरं विप्र यावत्ते चित्तचिन्तितम्।।
ततो मम वचः श्रुत्वा स च ब्राह्मणपुंगवः ।।
शिरसा पतितो भूमौ मामुवाच प्रियं वचः।।६७।।
अथ नो कुप्यसे देव वरं समनुयाचते ।।
यत्त्वया भाषितं देव मम देयं यदृच्छया ।।६८।।
न चाहं कांचनं गावो न च स्त्रीराज्यमेव च ।।
स्वर्गं वाप्सरसो वापि ऐश्वर्यं न मनोहरम् ।।६९।।
तथा स्वर्गसहस्राणामेकं चापि न रोचते।।
ज्ञातुमिच्छामि ते मायां यया क्रीडसि माधव ।।125.७०।।
ततस्तस्य वचः श्रुत्वा समया तत्र भाषितः ।।
किं मायया ते विप्रेन्द्र अकार्यं पृच्छसे द्विज।।७१ ।।
देवा अपि न जानन्ति विष्णुमायाविमोहिताः।।
ततो मम वचः श्रुत्वा स च ब्राह्मणपुंगवः।।७२।।
उवाच मधुरं वाक्यं मायया च प्रचोदितः।।
यदि तुष्टोऽसि मे देव कर्मणा तपसाऽथवा ।। ७३।।
तव देव प्रसादेन ममैवं दीयतां वरः ।।
ततस्तु स मया प्रोक्तस्तपस्वी ब्राह्मणस्तथा ।।७४।।
गच्छ कुब्जाम्रके गङ्गास्नातो मायां तु गच्छसि।।
ममैव वचनं श्रुत्वा कृत्वा चैव प्रदक्षिणम्।।
कुब्जाम्रके देवि विप्रो मम मायाभिलाषुकः ।।
ततः कुण्डी त्रिदण्डी च मात्राभाण्डं च यत्नतः ।।७६।।
स्थापयित्वा यथान्यायं तीर्थमाराधयद्यथा।।
ततो ह्यवतरद्गङ्गां विधिदृष्टेन कर्मणा।।७७।।
अवगाह्य ततो गङ्गां सर्वगात्रे च क्लेदिते ।।
तावन्निषादसदने तत्स्त्रीगर्भे गतोऽभवत् ।। ७८ ।।
हृदयेऽचिन्तयत्तत्र गर्भक्लेशेन पीडितः ।।
अहो कष्टं मया किंस्वित्कर्म वा दुष्कृतं कृतम् ।। ७९ ।।
योऽहं निषादगर्भेऽस्मिन्वसामि नरकेषु च ।।
धिक् तपो धिक्च मे कर्म धिक्फलं धिक् च जीवितम् ।। 125.८० ।।
योऽहं निषादगर्भेऽस्मिन्पीडास्ति मलसंकुले ।।
अस्थ्नां त्रिशतसङ्कीर्णे नवद्वाराभिसंवृते ।। ८१ ।।
पुरीषमूत्रसङ्कीर्णे मांसशोणितकर्द्दमे।।
दुर्गन्धे दुःसहे चैव वातिकश्लेष्मपत्तिके।।८२।।
बहुरोगसमाकीर्णे बहुदुःखतमाकुले ।।
अलं किं तेन चोक्तेन दुःखान्यनुभवामि च ।। ८३ ।।
कुतो विष्णुः कुतो वाहं कुतो गङ्गाजलानि च ।।
गर्भसंसारनिष्क्रान्तः पश्चादाप्यामि तां क्रियाम् ।। ८४ ।।
एवं चिन्तयमानस्तु शीघ्रं गर्भाद्विनिःसृतः ।।
भूम्यां तु पततस्तस्य नष्टं यत्पूर्वचिन्तितम् ।। ८५ ।।
अजायत ततः कन्या निषादस्य गृहे तदा ।।
धनधान्यसमृद्धस्य ब्राह्मणो वर्त्तते स च।।८६।।
न च संज्ञायते किंचिद्विष्णुमायाविमोहिता।।
अथ दीर्घस्य कालस्य कृतोद्वाहा यशस्विनी।।८७।।
पुत्रान्दुहितरश्चैव जनयामास मायया ।।
भक्ष्याभक्ष्यं च खादेत पेयापेयं च तत्पिबेत् ।। ८८ ।।
जीवानि चैव सततं घातितानि ततस्ततः ।।
कार्याकार्यं न जानीते वाच्यावाच्यं तथेति च ।। ८९ ।।
गम्यागम्यं न जानाति मायाजालेन मोहितः ।।
पंचाशद्वर्षके काले मया ख्यातः स ब्राह्मणः ।। 125.९० ।।
घटं गृहीत्वा विड्लिप्तवस्त्रक्षालनकारणात् ।।
तीरे निःक्षिप्य वस्त्रं स घटं च विनिधाय हि ।।९१।।
स्नातुं गङ्गाजले स्थित्वा विगाहयति जाह्नवीम् ।।
प्रस्वेदघर्मसन्तप्तः स शिरःस्नानमीहते ।। ९२ ।।
जातस्तपोधनस्तत्र दण्डी कुण्डीधरः पुनः ।।
यत्र पश्यति विप्रोऽसौ मात्रां कुण्डीं त्रिदण्डकम् ।। ९३ ।।
वस्त्रादि दर्शितं चैव यत्र संस्थापितं पुरा ।।
तत्तेन सर्वं सन्दृष्टं जाते ज्ञाने तु पूर्ववत् ।। ९४ ।।
विप्रेण ज्ञातुकामेन विष्णुमायां यथा पुरा ।।
तत उत्तरतस्तत्र गङ्गायां तु तपोधनः ।। ९५ ।।
वासो गृह्णाति सव्रीडो योगं च परिचिन्तयन्।।
उपविश्य च गङ्गायाः पुलिने समबालुके ।। ९६ ।।
ततो विन्दति चात्मानं तपसा यत्तदा कृतम् ।।
मया किं कर्म पापेन कृतं निन्द्यं सुदुष्करम् ।। ९७ ।।
एवं निन्दति चात्मानं धिक्कुर्वन् साधुदूषितम् ।।
आचारो वा परिभ्रष्टो येनाहं प्रापितस्त्विमाम् ।। ९८ ।।
निषादस्य कुले जातो भक्ष्याभक्ष्याश्च भक्षिताः ।।
जीवाश्च घातिताः सर्वे जलस्थलदिवौकसः ।। ९९ ।।
पेयापेयं च मे पीतं विक्रीताश्चाप्यविक्रेयाः ।।
अगम्यागमनं चैव वाच्यावाच्यं न रक्षितम् ।। 125.१०० ।।
वेश्मन्यभोज्यभोज्यं च भुक्तं चैव न संशयः ।।
पुत्रा दुहितरश्चैव निषादाज्जनिता मया ।।१०१।।
ततः किंचापराधं वा केन वा तद्विचिन्तये ।।
येनाहं प्रापितो ह्येनां नैषादीमीदृशीं दशाम् ।। १०२ ।।
एतस्मिन्नंतरे भूमे निषादः क्रोधमूर्च्छितः ।।
पुत्रैः परिवृतस्तत्र मायातीर्थमुपागतः ।। १०३ ।।
ततो मृगयते भार्यां भक्तियुक्तां शुभेक्षणाम् ।।
परिपृच्छति चैकैकं तप्यमानं तपोधनम् ।। १०४ ।।
क्व गतासि प्रियेऽस्माकं त्यक्त्वा पुत्रान् गृहे च माम् ।।
बाला दुहिता रोदिति क्षुधार्त्तास्तनपायिनी ।। १०५ ।।
किं नु पश्यथ भार्यां मे गङ्गातीरमुपागता ।।
घटमादाय हस्तेन आगता जलकारणात् ।। १०६ ।।
तत्रैव च नराः सर्वे मायातीर्थमुपागताः ।।
पश्यंतेऽत्र परिव्राजं कुम्भं चैव यथास्थितम् ।।१०७।।
ततो दुःखेन संतप्तः अपश्यंश्च स्वकां प्रियाम् ।।
दृष्ट्वा पटं च कुम्भं च करुणं पर्यवेदयेत्।।१ ०८।।
इदं वासश्च कुम्भश्च नदीकूले च तिष्ठति ।।
न चापि दृश्यते भार्या मम गङ्गामुपागता ।। १०९।।
अथ केनापि ग्राहेण स्नायमाना तपस्विनी ।।
गृहीता तोयमध्ये तु जिह्वालोडेन चाबला ।। 125.११० ।।
न चाप्रियं मयाऽस्युक्ता कदाचिदपि वाचकम् ।।
स्वप्नेऽपि नोक्तपूर्वासि कदाचिदपि चाप्रियम् ।। १११ ।।
अथवापि पिशाचेन भक्षिता भूतराक्षसैः ।।
आकृष्टा किं नु रोगेण गङ्गातीरं समाश्रिता ।।११२ ।।
किं कृतं दुष्कृतं पूर्वं मया कर्म सुसङ्कटम् ।।
येन मत्पुरतो भार्याप्यदृष्टा विगतिं गता ।। ११३ ।।
एहि मे सुभगे कान्ते मम चित्तानुवर्त्तिनि ।।
पश्यैतान्बालकान् भीतान् क्लिश्यमानानितस्ततः ।। ११४ ।।
मां पश्य त्वं वरारोहे त्रीन्पुत्रानतिबालकान् ।।
चतस्रो दुहितॄः पश्य सर्वाश्च मम मानदे।। ११५ ।।
मम पुत्रा रुदन्त्येते बालकास्तव लालसा ।।
नित्यं च दारिका रक्ष मम दुष्कृतकारिणः ।। ११६।।
कामं मां क्षुधितं चैव ज्ञास्यसे त्वं पिपासितम् ।।
एवमुक्ता च कल्याणि मम मुक्त्या व्यवस्थिता ।। ११७ ।।
एवं विलपमानस्य निषादस्य त्वितस्ततः ।।
सव्रीडं भाषते विप्रो निषादं गच्छ नास्ति सा ।। ११८ ।।
सुखं योगं च ते नीत्वा सा गता ह्यनिवृत्तये ।।
तं रुदन्तं तथा दृष्ट्वा कारुण्येन परिप्लुतः ।। ११९ ।।
निषादं भाषते तत्र गच्छ किं परिक्लिश्यसे ।।
बालांस्तान्परिरक्षस्व आहारैर्विविधैरपि ।। 125.१२० ।।
एते न त्यजनीयास्ते कदाचिदपि पुत्रकाः ।।
परिव्राज वचः श्रुत्वा निषादस्तस्य सन्निधौ ।। १२१ ।।
उवाच मधुरं वाक्यं दुःखशोकपरिप्लुतः ।।
अहो मुनिवरश्रेष्ठ अहो धर्मभृतां वर ।। १२२ ।।
सान्त्वितोऽस्मि त्वया विप्र वचनैर्मधुराक्षरैः ।। १२३ ।।
निषदास्य वचः श्रुत्वा स मुनिः संशितव्रतः ।।
उवाच मधुरं वाक्यं दुःखशोकपरिप्लुतः ।। १२४ ।।
मा रोदीर्वच्मि भद्रं ते तवाहं सा प्रियाऽभवत् ।।
गङ्गातीरं समासाद्य मुनिर्जातोऽस्महं तथा ।। १२५ ।।
परिव्राजवचः श्रुत्वा निषादो विगतज्वरः ।।
श्लक्ष्णं वचनमादाय प्रत्युवाच द्विजोत्तमम् ।। १२६ ।।
किमिदं भाषसे विप्र अव्यक्तं यत्कदाचन ।।
न भावं वा यद्धटितं स्त्रियः पुंस्त्वं सदैव हि ।। १२७ ।।
निषादस्य वचः श्रुत्वा ब्राह्मणो दुःखमूर्च्छितः ।।
उवाच मधुरं वाक्यं गङ्गातीरे च धीवरम् ।। १२८ ।।
शीघ्रं गच्छ स्वकं देशमेतान् गृह्य स्वबालकान् ।।
सर्वेषां च यथासंख्यं स्नेहः कर्त्तव्य एव च ।। १२९ ।।
स तेन चोदितो ह्येवं निषादो नावगच्छति ।।
मधुरं स्वरमादाय प्रत्युवाच द्विजोत्तमम् ।। 125.१३० ।।
किं त्वया दुष्कृतं कर्म कृतं पूर्वं पुरातनम् ।।
मम यद्भाषसे चैव स्त्रीत्वं प्राप्तोऽसि तत्कथम् ।। १३१ ।।
केन दोषेण प्राप्तस्त्वं स्त्रीत्वं भूत्वा पुमान् पुनः ।।
पुंस्त्वं चैव कथं प्राप्त एतदाचक्ष्व पृच्छतः ।।१३२।।
एवं तस्य वचः श्रुत्वा स ऋषिः संशितव्रतः ।।
उवाच मधुरं वाक्यं मायातीर्थजलेचरम् ।। १३३ ।।
निषाद शृणु तत्त्वेन मत्कथां च प्रजल्पतः ।।
न मया दुष्कृतं किंचित्कृतं कुत्रापि तत्त्वतः ।। १३४ ।।
एकभक्तं मयाचारे अभक्ष्यं चैव वर्जितम् ।।
स मयाराधितो देवो लोकनाथो जनार्दनः ।।
कर्मभिर्बहुभिश्चैव मया दर्शनकाङ्क्षिणा ।। १३५ ।।
अथ दीर्घेण कालेन मया दृष्टो जनार्द्दनः ।।
वरेण छन्दयामास बहुधा मायया ततः ।। १३६ ।।
मया नाभीप्सितस्तस्माद्दीयमानो वरस्ततः।।
मायां मे दर्शय विभो विष्णो प्रणतवत्सल ।। १३७।।
ततो मां भाषते विष्णुर्मायां दृष्ट्वा ह्यलं द्विज ।।
मया पुनः पुनश्चोक्तो मम प्रीत्या प्रदर्शय ।। १३८ ।।
ततोऽहं तेन चाप्युक्तस्तर्हि द्रक्षत्यलं भवान् ।।
गच्छ कुब्जाम्रके गङ्गां स्नात्वेत्यंतर्हितोऽभवत् ।। १३९ ।।
अहं मायाप्रलोभेन गङ्गातीरमुपागतः ।।
दण्डं कुण्डीं च वस्त्रं च तीरे संस्थाप्य यत्ननः ।।
ततः स्नानविधानेन निमग्नस्तज्जलेऽमले ।। 125.१४० ।।
न तत्र किंचिज्जानामि किमिदं किं प्रवर्त्तते ।।
निषादीगर्भसम्भूतस्तव पत्न्यभवं ततः ।। १४१ ।।
केनचित्कारणेनात्र प्रविष्टो जाह्नवीजले ।।
स्नात्वाऽपश्यं पूर्ववच्च तावज्जातो ऋषिस्त्वहम् ।। १४२ ।।
निषाद पश्य कुण्डीं च मात्रां वस्त्रं यथा पुरा ।।
पंचाशद्वर्षदेशीयो जातोऽस्मि त्वद्गृहे वसन् ।।
दण्डवस्त्रादि यत्किंचिन्न जीर्णं गङ्गया हृतम् ।। १४३ ।।
एवं तेन ततश्चोक्ता निषादोऽदृश्यतां गतः ।।
ये च ते बालकास्तत्र तेषां कश्चिन्न दृश्यते ।। १४४ ।।
स ततो ब्राह्मणो देवि तपस्तपति निश्चितम् ।।
ऊर्ध्वश्वासोर्द्धबाहुश्च वायुभक्षपरायणः ।। १४५ ।।
तस्य प्रतिष्ठमानस्य अपराह्णं तु जायते ।।
ततः प्रमुच्यते तोयं देवि कृत्वा यथोचितम् ।।१४६।।
कर्मण्यानि च पुष्पाणि आहृत्य श्रद्धयान्वितः ।।
अर्चयित्वा यथान्यायं वीरासनमुपागतः।।१४७।।
वृतस्तु ब्राह्मणैर्मुख्यैर्गङ्गास्नानेषु वै द्विजः ।।
ऊचुस्ततो द्विजास्तत्र तपस्विनमनिंदितम् ।। १४८ ।।
पूर्वाह्णे स्थापयित्वात्र मात्रां कुण्डीं त्रिदण्डकम् ।।
इतो गतोऽसि ब्रह्मेन्द्र स्थापयित्वा तु धीवरान् ।।
विस्मृतं किं त्वया स्थानं कथं शीघ्रं न चागतः ।। १४९ ।।
ततो विप्रवचः श्रुत्वा तूष्णीमासीन्मुनिस्तदा ।।
ब्राह्मणानुगतं स्थानमात्मनात्मानुसंस्थितः ।। 125.१५० ।।
एतस्मिन्नंतरे देवि स च ब्राह्मणपुंगवः ।।
अद्य पंचाशद्वर्षाणि अमावास्याद्य चैव हि ।। १५१ ।।
कथमेतावतङ्कालं मामूचुर्ब्राह्मणाश्च किम् ।।
पूर्वाह्ने स्थापयित्वा त्वं स्वां मात्रां चापराह्णिके ।।
कथं कालेऽनुसम्प्राप्तः किमेतदिति भाषते।।१५२।।
एतस्मिन्नंतरे देवि ब्राह्मणाय ततो मया ।।
दर्शयित्वा निजं रूपं तमवोचमिदं धरे।।१५३।।
किमिदं भ्रांतरूपोऽसि किं वा त्वं दृष्टवानसि ।।
पश्यामि त्वां व्यग्रमिव सावधानो भव स्वयम् ।। १५४ ।।
एवमुक्तः स तु मया भूमौ कृत्वा शिरः स्वकम् ।।
उवाच दुःखितो दीनो निःश्वस्य च मुहुर्मुहुः ।। १५५ ।।
अहो देव द्विजा एते मां वदन्ति जगद्गुरो।।
पूर्वाह्णे स्थापयित्वा त्वं वस्त्रं दण्डकमण्डलू ।।
आगतोऽस्यपराह्ने किं स्थलं विस्मृतवानसि ।। १५६ ।।
अहं व्याधस्य वै भूत्वा भार्या च व्याधयोनिजा ।।
पंचाशद्वर्षपर्यंतं तत्र स्थित्वा ततः किल ।। १५७ ।।
तस्माच्चैव त्रयः पुत्रास्तिस्रश्चापि च कन्यकाः ।।
जातान्येवमपत्यानि दुष्टकर्मकृतस्तथा ।। १५८ ।।
स्नातुं कदाचिद्गङ्गायां गतोऽहं तीरभूमिगः ।।
स्थापयित्वाद्य स्वं वस्त्रं मग्नः स्नास्यन् जलेऽमले।।
उन्मज्य स्वयं पुनश्चैव प्राप्तो रूपं मुनिस्तुतम् ।। १५९।।
किं मया विकृतं कर्म सेवमानेन माधव ।।
तपश्च तप्यमानेन किं मया विकृतं कृतम्।।125.१६० ।।
भक्षितं किमकर्मण्यं सेवमानेन चाच्युत ।।
व्यभिचारश्च मे तत्र को जातस्तु तवार्च्चने।।१६१ ।।
एतदाचक्ष तत्त्वेन येनाहं नरकं गतः।।
एतच्चिन्ताव्याकुलोऽहं निबोध भगवन्मम ।। १६२ ।।
मायालुब्धेन हि मया पूर्वं विज्ञापितो ह्यसि ।।
नान्यत्स्मरामि पापं च नरके येन पातितः ।। १६३ ।।
ततस्तस्य वचः श्रुत्वा कारुण्यपरिदेवितम् ।।
उक्तवानस्मि तं विप्रं दुःखसंतप्तमानसम् ।। १६४ ।।
मा दुःखं कुरु विप्रेन्द्र आत्मदोषसमुद्भवम् ।।
विकर्म न कृतं किंचिदपि मे विप्र पूजने ।।
येन दुःखमनुप्राप्तं तिर्यग्योनिं च वै गतः ।। १६५ ।।
उक्तमेव मया पूर्वं शृणु ब्राह्मणपुङ्गव ।।
वरान् वरय भो ब्रह्मन् त्वं मायां वृतवानसि ।। १६६ ।।
ददामि दिव्यभोगान्वै भौमान्वापि तवेप्सितम् ।।
तांस्तु नेच्छसि मायाया दर्शनं वृतवानसि ।। १६७ ।।
दृष्टा तु वैष्णवी माया या त्वया ब्राह्मणेप्सिता ।।
न गतो दिवसश्रेष्ठ नापराह्णेऽपि कुत्रचित् ।।
वर्षाणि चैव पंचाशान्निषादस्य गृहेऽपि न ।। १६८ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व द्विजोत्तम ।।
या एषा वैष्णवी माया त्वया ब्राह्मण ईप्सिता ।। १६९ ।।
त्वया न तत्कृतं किंचिच्छुभं वाशुभमेव वा ।।
सर्वं मायामयं तत्र विस्मयात्परितप्यसे ।। 125.१७० ।।
यत्त्वया दुष्कृतं कर्म व्यभिचारश्च तत्र वै ।।
अर्च्चनं च न ते भ्रष्टं तपश्चैव न नाशितम् ।। १७१ ।।
भवान्तरे कृतं यच्च येनेदं प्राप्तवान्महत् ।।
दुःखं तच्च तवाख्यास्ये शृणु ब्राह्मणसत्तम।। १७२ ।।
मम भक्ता द्विजाः शुद्धा यत्त्वया नाभिवादिताः ।।
तत्पापादीदृशो भोगस्तव जातो हि दुःखदः ।। १७३ ।।
ये च भागवताः शुद्धास्ते नूनं मम मूर्त्तयः ।।
तान्विप्रान्ये नमस्यन्ति ते मामेव नमस्यते ।।
विदितोऽस्मीह विप्रेन्द्र तैरहं नात्र संशयः ।। १७४ ।।
मम दर्शनकामा ये ते मे भक्ता द्विजास्तथा ।।
शुद्धा भागवताः पूज्या द्रष्टव्याः सर्वदा नृभिः ।। १७५ ।।
विशेषेण कलौ ब्रह्मन्द्विजरूपो ह्यवस्थितः ।।
तस्माद्ब्राह्मणभक्ता ये ते मद्भक्ता न संशयः ।। १७६ ।।
यो मां प्राप्तमिहेच्छेत यस्यावाच्यं न विद्यते ।।
अनन्यमानसो भूत्वा मद्भक्तेषु नियोजयेत् ।। १७७ ।।
गच्छ ब्राह्मण सिद्धोऽसि यदा प्राणान्विमोक्ष्यसि ।।
तदाऽऽगन्ताऽसि मत्स्थानं श्वेतद्वीपं न सशंयः ।। १७८ ।।
एवमुक्त्वा वरारोहे तत्रैवान्तर्हितोऽभवम् ।।
सोऽपि द्विजस्तनुं त्यक्त्वा मायातीर्थे यशस्विनि ।।
कृत्वा सुदुष्करं कर्म श्वेतद्वीपमुपागतः ।। १७९ ।।
धन्वी तूणी शरी खड्गी मायाबलपराक्रमः ।।
मां च पश्यति वै नित्यं मायाबलसुसंस्थितम् ।।125.१८० ।।
मायया किं तव धरे न मायां ज्ञातुमर्हसि।।
मम मायां न जानन्ति देवदानवराक्षसाः ।।१८१ ।।
एतत्ते कथितं भूमे मायाख्यानं महौजसम् ।।
मायाचक्रमिति ख्यातं सर्वपुण्यसुखावहम् ।। १८२।।
आख्यानानां महाख्यानं तपसां च परन्तपः ।।
पुण्यानां परमं पुण्यं गतीनां च परा गतिः ।।१८३।।
नित्यं पठेद्यो भक्तेषु अभक्तेषु न कीर्तयेत् ।।
मा पठेन्नीचमध्येषु मा पठेच्छास्त्रदूषके ।। १८४ ।।
अग्रतः पृच्छता शूद्रमद्भक्तेषु तथाग्रतः ।।
पठते शोभते विप्रो न तु ये शास्त्रदूषकाः ।। १८५ ।।
कल्यमुत्थाय यो भूमे पठते च दृढव्रतः ।।
तेन द्वादश वर्षाणि ममाग्रे पठितं भवेत् ।। १८६ ।।
अथ पूर्णेन कालेन पुमान्पंचत्वमागतः ।।
मद्भक्तो जायते देवि वियोनिं न च गच्छति ।। १८७ ।।
य एवं शृणुयान्नित्यं महाख्यानं वसुन्धरे ।।
न स जायेत मन्दात्मा वियोनिं नैव गच्छति ।। १८८ ।।
एतत्ते कथितं भद्रे त्वया यत्पूर्वमीप्सितम् ।।
मुच्यमाना वरारोहे किमन्यत्परिपृच्छसि ।। १८९ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे मायाचक्रं नाम पंचविंशत्यधिकशततमोऽध्यायः ।।१२५।।