← अध्यायः १२३ वराहपुराणम्
अध्यायः १२४
[[लेखकः :|]]
अध्यायः १२५ →

अथ ऋतूपस्करम् ।।
श्रीवराह उवाच ।।
फाल्गुनस्य तु मासस्य शुक्लपक्षस्य द्वादशीम् ।।
गृह्य वासन्तिकान् पुष्पान्सुगन्धा ये क्रमागताः ।। १ ।।
श्वेतं पाण्डुरकं चैव सुगन्धं शोभनं बहु ।।
विधिना मन्त्रयुक्तेन सुप्रीतेनान्तरात्मना ।। २ ।।
तत एवं विधिं कृत्वा सर्वं भागवतं शुचिः ।।
यस्तु जानाति कर्माणि सर्वं मन्त्रविनिश्चितः ।। ३ ।।
तदाहरति कर्माणि विधिदृष्टेन कर्मणा ।।
विधिना मन्त्रपूतेन कुर्याच्छान्तमनोऽमलः ।। ४।।
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।।
मन्त्रः –
नमोस्तु देवदेवेश शङ्खचक्रगदाधर।।
नमोऽस्तु ते लोकनाथ प्रवीराय नमोऽस्तु ते ।। ९ ।।
सपुष्पितस्येह वसन्तकाले वनस्पतेर्गर्न्धरसप्रयुक्ताः ।।
पश्यंश्च मां पुष्पितपादपेन्द्रं वसन्तकाले समुपागते च ।। ६ ।।
यश्चैतेन विधानेन कुर्यान्मासे तु फाल्गुने ।।
न स गच्छति संसारं मम लोकाय गच्छति ।। ७।।
यत्तु पृच्छसि सुश्रोणि मासे वैशाख उत्तमे ।।
शुक्लपक्षे तु द्वादश्यां यत्फलं तच्छृणुष्व मे ।। ८ ।।
पुष्पितेषु च शालेषु तथान्येषु द्रुमेषु च ।।
गृहीत्वा शालपुष्पाणि मम कर्मणि संस्थिताः ।। ९ ।।
कृत्वा तु मम कर्माणि शुभानि तरुणानि च ।।
पूज्य भागवतान्सर्वान् स्थापयित्वा ततोऽग्रतः ।। 124.१० ।।
ऋषयः स्तुवन्ति मन्त्रेण वेदोक्तेन च माधवि ।।
गन्धर्वाप्सरसश्चैव गीतनृत्यैः सवादितैः ।। ११ ।।
स्तुवन्ति देवलोकाश्च पुराणं पुरुषोत्तमम् ।।
सिद्धाविद्याधरा यक्षाः पिशाचोरगराक्षसाः ।। १२ ।।
स्तुवन्ति देवं भूतानां सर्वलोकस्य चेश्वरम् ।।
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।। १३ ।।
स्तुवन्ति देवदेवेशं युगानां संक्षयेऽक्षयम् ।।
ततो वायुश्च विश्वे च अश्विनौ च समन्विताः ।। १४ ।।
स्तुवन्ति केशवं देवमादिकालमयं प्रभुम् ।।
ततो ब्रह्मा च सोमश्च शक्रश्चाग्निसमन्वितः ।।
स्तुवन्ति नाथं भूतानां सर्वलोकमहेश्वरम् ।। १५।।
नारदः पर्वतश्चैव असितो देवलस्तथा ।।
पुलहश्च पुलस्त्यश्च भृगुश्चाङ्गिर एव च ।।१६।।
एते चान्ये च बहवो मित्रावसुपरावसू ।।
स्तुवंति नाथं भूतानां योगिनां योगमुत्तमम् ।। १७ ।।
श्रुत्वा तु प्रतिनिर्घोषं देवानां तु महौजसाम् ।।
ततो नारायणो देवः प्रत्युवाच वसुन्धराम् ।। १८।।
किमयं श्रूयते शब्दो ब्रह्मघोषेण संयुतः ।।
देवानां च महाभागे महाशब्दोऽत्र श्रूयते ।। १९ ।।
ततः कमलपत्राक्षी सर्वरूपगुणान्विता ।।
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ।। 124.२० ।।
देवाः कांक्षन्ति ते देव वाराहीं रूपसंस्थितिम् ।।
त्वन्नियोगनियुक्ताश्च तदर्थं लोकभावन ।।२१ ।।
ततो नारायणो देवः पृथिवीं प्रत्युवाच ह।।
अहं जानामि तान्देवि मार्गमाणानुपस्थितान् ।।२२।।
दिव्यं वर्षसहस्रं वै धारितासि वसुन्धरे ।।
मया लीलायमानेन एकदंष्ट्राग्रकेण वै ।। २३ ।।
इहागच्छामि भद्रं ते द्रष्टुकामा दिवौकसः ।।
आदित्या वसवो रुद्राः स्कन्देन्द्रौ सपितामहाः ।।२४।।
एवं तस्य वचः श्रुत्वा माधवस्य वसुन्धरा।।
शिरस्यञ्जलिमाधाय ततस्तु चरणेऽपतत् ।।२५।।
वाराहं पुरुषं देवं विज्ञापयति सा धरा ।।
उद्धृतासि त्वया देव रसातलगता ह्यहम् ।। २६ ।।
शरणं त्वां प्रपन्नाहं त्वद्भक्ता त्वं गतिः प्रभुः ।।
किं कर्म कर्मणा केन किं वा जन्मपरायणम् ।।२७।।
कथं वा तुष्यसे देव पूज्यसे केन कर्मणा ।।
तवाहं कर्त्तुमिच्छामि यच्च मुख्यं सुखावहम् ।।२८।।
न च मेऽस्ति व्यथा काचित्तव कर्मणि नित्यशः ।।
न ग्लानिर्न जरा काचिन्न जन्ममरणे तथा।।२९।।
सर्वे सुरासुरा लोकाः सरुद्रेन्द्रपितामहाः ।।
क्वेष्टं निवासं कुर्वन्ति एकैकं च यशोधर ।।124.३०।।
कानि कर्माणि कुर्वन्ति ये त्वां पश्यन्ति माधव ।।
किमाहाराः किमाचारास्त्वां पश्यन्तीह माधव ।। ३१ ।।
ब्राह्मणस्य च किं कर्म क्षत्रियस्य च किं भवेत् ।।
वैश्यः किं कुरुते कर्म शूद्रः किं कर्म कारयेत् ।।३२।।
योगो वै प्राप्यते केन तपो वा केन निश्चितम् ।।
किं चात्र फलमाप्नोति तव कर्मपरायणः।।३३।।
किं च दुःखनिवासं वा भोजनं पानकं तथा ।।
किं च कर्म प्रयोक्तव्यं तव भक्तैश्च माधव।।३४।।
प्रापणं कीदृशं चापि कासु दिक्षु तथा प्रभो ।।
कथं योनिं न गच्छेत वियोनिं न च गच्छति ।।३५।।
तिर्यग्योनिं न गच्छेत कर्मणा केन केशव ।।
तन्ममाचक्ष्व सकलं येन चैव सुखं भवेत् ।। ३६ ।।
जरा वा केन गच्छेत जन्म वा केन गच्छति ।।
गर्भवासं न गच्छेत कर्मणा केन वाऽच्युत ।।३७।।
संसारस्य न गच्छेत केन कर्मप्रभावतः ।।
इत्युक्तो भगवांस्तत्र प्रत्युवाच वसुन्धराम् ।।३८।।
शृण्वन्तु मे भागवता ये च मोक्षे व्यवस्थिताः ।।
तान्मन्त्रान्कीर्त्तयिष्यामि यैस्तोषं याति नित्यशः ।।३९।।
मन्त्रः –
मासेषु सर्वेषु च मुख्यभूतस्त्वं माधवो माधवमास एव ।।
पश्येद्देवं तं तु वसन्तकाले उपागतं गन्धरसप्रयुक्त्या।।
नित्यं च यज्ञेषु तथेज्यते यो नारायणः सप्तलोकेषु वीरः ।।124.४०।।
एवं ग्रीष्मे विधिं चैव कुर्यात्सर्वं ममोक्तितः।।
इममुच्चारयेन्मन्त्रं सर्वभागवतप्रियम्।।४१।।
मासेषु सर्वेष्वपि मुख्यभूतो मासो भवान्ग्रीष्म एकः प्रपन्नः ।।
पश्येद्भवन्तं वर्त्तमानं च ग्रीष्मे तेनैव सर्वं दुःखमेतु प्रशान्तिम् ।।४२।।
एवं ग्रीष्मे वरारोहे मम चैवार्च्चनं कुरु ।।
न जन्ममरणं येन मम लोके गतिर्भवेत् ।। ४३ ।।
यावन्तः पुष्पिताः शालाः पृथ्व्यां यावत्सुगंधकाः ।।
अर्च्चितः स भवेत्सर्वैः कृतो येन ह्ययं विधि।।४४।।
एवं वर्षास्वपि धरे मम कर्म च कारयेत् ।।
निष्कला भवतो बुद्धिः संसारे च न जायते ।।४५।।
अन्यच्च ते प्रवक्ष्यामि कर्म संसारमोक्षणम् ।।
कदम्बमुकुलाश्चैव सरलार्ज्जुनपादपाः ।। ४६ ।।
एतेषां सुमनोभिश्च पूजनीयो महादरात् ।।
मम संस्थापनं कृत्वा विधिदृष्टेन कर्मणा ।।
नमो नारायणायेति इमं मन्त्रमुदाहरेत् ।। ४७ ।।
पश्यन्ति ये ध्यानपरा घनाभं त्वामाश्रिताः पूज्यमानं महिम्ना ।।
निद्रां भवान् भजतां लोकनाथ वर्षास्विमं पश्यतु मेघवर्णम्।।४८।।
आषाढमासे द्वादश्यां सर्वशान्तिकरं शुभम्।।
य एतेन विधानेन मम कर्म तु कारयेत् ।।४९।।
स मर्त्यो न प्रणश्येत संसारेऽस्मिन् युगेयुगे ।।
एतत्ते कथितं देवि ऋतूनां कर्म चोत्तमम् ।।124.५० ।।
तरंति येन संसारं नराः कर्मपरायणाः ।।
एतद्गुह्यं महाभागे देवाः केऽपि न जानते ।।५१ ।।
मुक्त्वा नारायणं देवं वाराहं रूपमास्थितम् ।।
नादीक्षिताय दातव्यं मूर्खाय पिशुनाय च ।।५२।।
कुशिष्याय न दातव्यं ये च शास्त्रार्थदूषकाः ।।
न पठेद्गोघ्नमध्ये वै न पठेच्छठमध्यतः ।। ५३ ।।
धनधर्मक्षयस्तेषां पठनादाशु जायते ।।
पठेद्भागवतानां च ये च धर्मेण दीक्षिताः ।। ५४ ।।
एतत्ते कथितं भद्रे पूर्वं यत्पृष्टवत्यसि ।।
कार्त्स्न्येन कथितं ह्येतत्किमन्यत्परिपृच्छ सि ।।५५।।
इति श्रीवराहपुराणे भगवच्छास्त्रे ऋतूपस्करणं नाम चतुर्विंशत्यधिकशततमोऽध्यायः ।।१२४।।