प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३५ वराहपुराणम्
अध्यायः १३६
[[लेखकः :|]]
अध्यायः १३७ →

अथ प्रायश्चित्तकर्मसूत्रम्।।
श्रीवराह उवाच ।।
दीपं स्पृष्ट्वा तु यो देवि मम कर्माणि कारयेत् ।।
तस्यापराधाद्वै भूमे पापं प्राप्नोति मानवः।।१ ।।
तच्छृणुष्व महाभागे कथ्यमानं मयाऽनघे।।
जायते षष्टिवर्षाणि कुष्ठी गात्रपरिप्लुत।।२।।
चाण्डालस्य गृहे तत्र एवमेतन्न संशयः ।।
एवं भुक्त्वा तु तत्कर्म मम क्षेत्रे मृतो यदि ।। ३ ।।
मद्भक्तश्चैव जायेत शुद्धे भागवते गृहे ।।
प्रायश्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि ।।४।।
तरन्ति मनुजा येन कष्टं चाण्डालयोनिषु ।।
यस्य कस्यापि मासस्य शुक्लपक्षे च द्वादशी ।। ५ ।।
चतुर्थभक्तमाहारमाकाशशयने स्वपेत् ।।
दीपं दत्त्वापराधाद्वै तरन्ति मनुजा भुवि ।। ६ ।।
शुचिर्भूत्वा यथान्यायं मम कर्मपथे स्थितः ।।
एतत्ते कथितं भद्रे स्पर्शने दीपकस्य तु ।। ७ ।।
संसारशोधनं चैव यत्कृत्वा लभते शुभम् ।।
श्मशानं यो नरो गत्वा अस्नात्वैव तु मां स्पृशेत् ।। ८ ।।
मम दोषापराधस्य शृणु तत्त्वेन यत्फलम् ।।
जम्बुको जायते भूमौ वर्षाणां नव पंच च ।। ९ ।।
गृध्रस्तु सप्त वर्षाणि जायते खचरेश्वरः ।।
चरन्तौ मानुषं मांसमुभौ तौ गृध्रजम्बुकौ ।। 136.१० ।।
पिशाचो जायते तत्र वर्षाणि नव पंच च ।।
ततस्तु कुणपोच्छिष्टं त्रिंशद्वर्षाणि खादति ।। ११ ।।
ततो नारायणाच्छ्रुत्वा धरणी वाक्यमब्रवीत् ।।
एतन्मे परमं गुह्यं लोकनाथ जनार्दन ।। १२ ।।
परं कौतूहलं देव निखिलं वक्तुमर्हसि ।।
श्मशानं पुण्डरीकाक्ष ईश्वरेण प्रशंसितम्।। १३।।
किन्त्वत्र त्रिगुणं देव पवित्रे शिवभाषिते ।।
स तव रमते नित्यं भगवांस्तु महामतिः।।१४।।
कपालं गृह्य देवोऽत्र दीप्तिमन्तं महौजसम् ।।
प्रशंसितं च रुद्रेण भवता किं विनिन्दितम् ।। १५ ।।
श्मशानं पद्मपत्राक्ष रुद्रस्य च निशि प्रियम् ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि इदमाख्यानमुत्तमम् ।। १६।।
अद्यापि ते न जानन्ति ह्यनघे संशितव्रताः ।।
कृत्वा सुदुष्करं कर्म सर्वभूतपतिं हरिम् ।। १७ ।।
हत्वा च बालान्वृद्धांश्च त्रिपुरे रूपिणीः स्त्रियः ।।
तेन पापेन सम्बद्धो न शक्नोति विचेष्टितुम् ।। १८।।
प्रणष्टमानसैश्वर्यो नष्टा माया च योगिनः ।।
विवर्णवदनो भूत्वा तिष्ठते स महेश्वरः ।। १९।।
तत्र स्थाने शिवो भूमे गणैः सर्वैः समावृतः ।।
नष्टमायं ततो देवि चिन्तयामि वसुन्धरे ।। 136.२० ।।
ततो ध्यातो मया देवि शङ्करः पुनरेष्यति ।।
यावत्पश्यामि तं देवं देवि दिव्येन चक्षुषा ।। २१ ।।
नष्टं मायाबलं रुद्रं सर्वभूतमहेश्वरम् ।।
ततोऽहं तत्र गत्वा तु यष्टुकामं त्रियम्बकम् ।। २२ ।।
नष्टसंज्ञो हतज्ञानो नष्टयोगबलोऽबलः ।।
तत ईशो मया चोक्तो वाक्यमेवं सुखावहम् ।। २३ ।।
किमिदं तिष्ठसे रुद्र कश्मलेन समावृतः ।।
त्वं कर्त्ता च विकर्त्ता च विकाराकार एव च ।। २४ ।।
त्वं वैशाख्यं वियोगं च त्वं योनिस्त्वं परायणम् ।।
त्वमुग्रदेवदेवादिस्त्वं साम त्वं तथा दिशः ।। २५ ।।
किं न बुध्यति चात्मानं गणैः परिवृतो भवान् ।।
किमिदं देवदेवेश विवर्णः पृथुलोचनः ।। २६ ।।
तन्ममाचक्ष्व तत्त्वेन यत्पृष्टोसि मया भवान् ।।
स्मर योगं च मायां च पश्य विष्णोर्महात्मनः ।। २७ ।।
तव चैव प्रियार्थाय येनाहमिह चागतः ।।
ततो मम वचः श्रुत्वा लब्धसंज्ञो महेश्वरः ।।२८।।
उवाच मधुरं वाक्यं पापसन्तप्तलोचनः ।।
श्रृणु तत्त्वेन मे देव कोऽन्योऽप्येवं करिष्यति ।।२९।।
देवं नारायणं चैकं सर्वलोकमहेश्वरम् ।।
हे विष्णो त्वत्प्रसादेन देवत्वं चैव माधव।।136.३० ।।
लब्धो योगश्च साङ्ख्यं च जातोऽस्मि विगतज्वरः ।।
त्वत्प्रसादेन जातोऽस्मि पूर्णाम्बुरिव सागरः ।। ३१ ।।
अहं त्वां तु विजानामि मां त्वं जानासि माधव ।।
आवयोरन्तरं कोऽपि न पश्यति जनार्दन ।। ३२ ।।
ब्रह्माणं तु विजानाति नावयोरन्तरेण हि ।।
साधु विष्णो महाभाग सर्वमायाकरण्डक ।। ३३ ।।
एवं मह्यं हरो वाक्यमुक्त्वा भूतमहेश्वरः ।।
मुहूर्त्तं ध्यानमास्थाय पुनः प्रोवाच माधवि ।। ३४ ।।
तव विष्णो प्रसादेन मया तत्त्रिपुरं हतम् ।।
निहता दानवास्तत्र गर्भिण्यश्च निपातिताः ।। ३५ ।।
बालवृद्धा हतास्तत्र विस्फुरन्तो दिशो दश ।।
तस्य पापस्य दोषेण न शक्नोमि विचेष्टितुम् ।। ३६ ।।
प्रणष्टयोगमायश्च नष्टैश्वर्यश्च माधव ।।
कि कर्त्तव्यं मया विष्णो पापावस्थेन सम्प्रति ।।३७।।
विष्णो तत्त्वेन मे ब्रूहि शोधनं पाप नाशनम् ।।
येन वै कृतमात्रेण शुद्धो मुच्येत किल्बिषात् ।। ३८ ।।
एवं चिन्तात्मनस्तस्य मया रुद्रस्य भाषितम् ।।
कपालमालां गृहीत्वा समलं गच्छ शङ्कर ।। ३९ ।।
ममैवं वचनं श्रुत्वा भगवान्परमेश्वरः ।।
उवाच मां पुनर्व्यक्तं मां बोधय जगत्पते ।। 136.४० ।।
कीदृशः समलो विष्णो यत्र गच्छामहे वयम् ।।
ततस्तस्य वचः श्रुत्वा शङ्करस्य महेश्वरि ।। ४१ ।।
तत्पापशोधनार्थाय मया वाक्यं प्रभाषितम् ।।
श्मशानं समलं रुद्र पूतिको व्रणगन्धिकः ।। ४२ ।।
स्वयं तिष्ठन्ति वै तत्र मनुजा विगतस्पृहः ।।
तत्र गृह्य कपालानि रम तत्रैव शङ्कर ।। ४३ ।।
तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः ।।
ततो भक्षय मांसानि पापक्षयचिकीर्षुकः ।। ४४ ।।
हतानां चैव मांसानि ये च भोज्यास्तव प्रियाः ।।
एवं सर्वैर्गणैः सार्द्धं वस तत्र सुनिश्चितः ।। ४५ ।।
पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः ।।
गच्छाश्रमपदं पश्चाद्गौतमस्य महामुनेः ।। ४६ ।।
तत्र ज्ञास्यसि चात्मानं गौतमाश्रमसंस्थितः ।।
प्रसादाद्गौतममुनेर्भवता गतकिल्बिषः ।। ४७ ।।
सततं पापसम्पन्नं कपालं शिरसि स्थितम् ।।
ऋषिः पातयितुं शक्तस्त्वत्प्रसादान्न सशंयः ।। ४८ ।।
एवं रुद्रं वरं दत्त्वा तत्रैवान्तर्हितोऽभवम् ।।
रुद्रोऽपि भ्रमते तत्र श्मशाने पापसंवृते ।।४९।।
अतो न रोचते भूमे श्मशानं मे कदाचन ।।
यत्र रुद्रकृतं पापं स्थितं किल भयावहम् ।। 136.५० ।।
एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम् ।।
विना तु कृतसंस्कारो मम कर्मपरायणः ।। ५१ ।।
प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्बिषात् ।।
कृत्वा चतुर्थभक्षं तु दिनानि दश पंच च ।। ५२ ।।
आकाशशयनं कुर्यादेकवस्त्रः कुशासने ।।
प्रभाते पंचगव्यं च पातव्यं कर्मशोधनम् ।। ५३ ।।
विमुक्तः सर्वपापेभ्यो मम लोकं स गच्छति ।।
पिण्याकं भक्षयित्वा तु यो देवमुपसर्पति ।। ५४ ।।
तस्य वै शृणु सुश्रोणि प्रायश्चित्तं सुशोधनम् ।।
उलूको दश वर्षाणि कच्छपस्तु समास्त्रयः ।। ५५ ।।
जायते मानवस्तत्र मम कर्मपरायणः ।।
यांस्तु दोषान्प्रपश्यन्ते संसारेऽस्मिन्वसुन्धरे ।। ५६ ।।
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम् ।।
किल्बिषाद्येन मुच्येत संसारान्तं च गच्छति ।। ५७ ।।
यावकेन दिनैकं तु गोमूत्रेण च कारयेत्।।
रात्रौ वीरासनं कुर्यादाकाशशयने वसेत् ।। ५८ ।।
न स गच्छति संसारं मम लोकं स गच्छति ।।
वराहमांसेन तु यो मम कुर्वीत प्रापणम् ।। ५९ ।।
मूर्खः स पापकर्मा च मम कर्मपरायणः ।।
यांस्तु दोषान्प्रपद्येत संसारं च वसुन्धरे ।। 136.६० ।।
यावद्रोम वराहस्य मम गात्रेषु संस्थितम् ।।
तावद्वर्षसहस्राणि नरके पच्यते भुवि ।। ६१ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
वाराहेण तु मांसेन यस्तु कुर्वीत प्रापणम् ।। ६२ ।।
यावत् तत्तनुसंस्थं तु भजते तु प्रतिष्ठितम् ।।
तावत्स पतते देवि सौकरीं योनिमास्थितः ।।६३।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यां गतिं सम्प्रपद्येत मम कर्मपरायणः ।।६४।।
अन्धो भूत्वा ततो देवि जन्म चैवं प्रतिष्ठितम् ।।
एवं गत्वा तु संसारं वराहमांसप्रापणात् ।।६५।।
जायते विपुले सिद्धे कुले भागवते शुचिः ।।
विनीतः कृतसंस्कारो मम कमर्परायणः ।।६६।।
द्रव्यवान्गुणवांश्चैव रूपवाञ्छीलवाञ्छुचिः ।।
प्रायश्चित्तं प्रवक्ष्यामि तस्य कायविशोधनम् ।। ६७ ।।
किल्बिषाद्येन मुच्येत मम कर्मपरायणः ।।
फलाहारो दिनान्सप्त सप्त मूलाशनस्तथा ।। ६८ ।।
दिनानि सप्त तिष्ठेत सप्त वै पायसेन च ।।
तक्रेण सप्त दिवसान्सप्त पावकभोजनः ।। ६९ ।।
प्रायश्चित्तान्महाभागे मम लोकं स गच्छति ।।
मद्यं पीत्वा वरारोहे यस्तु मामुपसर्पति ।। 136.७० ।।
तत्र दोषं प्रवक्ष्यामि शृणु सुन्दरि तत्त्वतः ।।
दशवर्षसहस्राणि दरिद्रो जायते पुनः ।।७१।।
ततो भवेत्सुपूतात्मा मद्भक्तः स न संशयः ।।
यस्तु भागवतो भूत्वा कामरागेण मोहितः ।। ७२ ।।
दीक्षितः पिबते मद्यं प्रायश्चित्तं न विद्यते ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। ७३ ।।
अग्निवर्णां सुरां पीत्वा तेन मुच्येत किल्बिषात् ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।। ७४ ।।
न स लिप्यति पापेन संसारं च न गच्छति ।।
कौसुम्भं चैव यः शाकं भक्षयेन्मम पूजकः ।।७५।।
नरके पच्यते घोरे दश पंच च सूकरः ।।
ततो गच्छेच्छ्वयोनौ च त्रीणि वर्षाणि जम्बुकः ।।७६।।
वर्षमेकं ततः शुध्येन्मत्कर्मणि रतः शुचिः ।।
मम लोकमवाप्नोति शुद्धो भूत्वा वसुन्धरे ।।७७।।
ततो भूमिर्वचः श्रुत्वा प्रत्युवाच पुनर्हरिम् ।।
कुसुम्भशाकनैवेद्यप्रापणेन च किल्बिषात्।।७८।।
कथं मुच्येत देवेश प्रायश्चित्तं वद प्रभो ।।
श्रीवराह उवाच ।।
यो मे कुसुम्भशाकेन प्रापणं कुरुते नरः ।। ७९ ।।
दशवर्षसहस्राणि नरके परिपच्यते ।।
प्रायश्चित्तं प्रवक्ष्यामि तच्च मे वदतः शृणु ।। 136.८० ।।
भक्षणे तु कृते कुर्याच्चान्द्रायणमतन्द्रितः ।।
प्रापणे तु कृते कुर्याद्द्वादशाहं पयोव्रतम् ।। ८१ ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।।
न स लिप्येत पापेन मम लोकं च गच्छति ।। ८२ ।।
यः पारक्येण वस्त्रेण न धूतेन च माधवि ।।
प्रायश्चित्ती भवेन्मूर्खो मम कर्मपरायणः ।। ८३ ।।
करोति मम कर्माणि स्पृशते मां तदा स्थितः ।।
मृगो वै जायते देवि वर्षाणि त्रीणि सप्त च ।।८४।।
हीनपादेन जायेत चैकं जन्म वसुन्धरे ।।
मूर्खश्च क्रोधनश्चैव मद्भक्तश्चैव जायते ।। ८५ ।।
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम् ।।
येन गच्छति संसारं मम भक्तो व्यवस्थितः ।। ८६ ।।
अष्टभक्तं ततः कृत्वा मम भक्तिपरायणः ।।
माघस्यैव तु मासस्य शुक्लपक्षस्य द्वादशीम् ।। ८७ ।।
तिष्ठेज्जलाशये गत्वा शान्तो दान्तो यतव्रतः ।।
अनन्यमानसो भूत्वा मम चिन्तापरायणः ।। ८८ ।।
प्रभातायां तु शर्वर्यामुदिते तु दिवाकरे ।।
पचगव्यं ततः पीत्वा मम कर्माणि कारयेत् ।।८९।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत्।।
सर्वपापविनिर्मुक्तो मम लोकं स गच्छति ।।136.९०।।
( अकृत्वा यो नवान्नानि मम कर्मपरायणः ।।)
ततो भागवतो भूत्वा नवान्नं यो न कारयेत् ।। ९१ ।।
पितरस्तस्य नाश्नन्ति वर्षाणि दश पंच च ।।
अदत्त्वा यस्तु भुञ्जीत नवान्नानि कदाचन ।। ९२ ।।
न तस्य धर्मो विद्येत एवमेतन्न संशयः ।।
अन्यच्च ते प्रवक्ष्यामि येन तस्मात्प्रमुच्यते ।। ९३ ।।
प्रायश्चित्तं महाभागे मम भक्तसुखावहम् ।।
उपवासं त्रिरात्रं तु तत एकेन वा पुनः ।। ९४ ।।
आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति ।।
एवं तत्र विधिं कृत्वा उदिते च दिवाकरे ।। ९५ ।।
पंचगव्यं ततः पीत्वा शीघ्रं मुच्येत किल्बिषात् ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।। ९६ ।।
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ।।
अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति ।। ९७ ।।
कुणपो जायते भूमे यातुधानो न संशयः ।।
वर्षाणि चैकविंशानि अयस्कारनिवासकः ।। ९८ ।।
तिष्ठत्यत्र महाभागे एवमेतन्न संशयः ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। ९९ ।।
प्रायश्चित्तं प्रवक्ष्यामि येन मुच्येत किल्बिषात् ।।
यस्य कस्यचिन्मासस्य शुक्लपक्षस्य द्वादशीम् ।। 136.१०० ।।
उपोष्य चाष्टभक्तं तु दशैकादशमेव च ।।
प्रभातायां तु शर्वर्यामुदिते रविमण्डले ।। १०१ ।।
पंचगव्यं ततः पीत्वा शीघ्रं मुच्यति किल्बिषात् ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।। १०२ ।।
तानि तानि तरन्त्येव सर्व एव पितामहाः ।।
वहन्नुपानहौ पद्भ्यां यस्तु मामुपचक्रमेत् ।। १०३ ।।
चर्मकारस्तु जायेत वर्षाणां तु त्रयोदश ।।
तज्जन्मनः परिभ्रष्टः सूकरो जायते पुनः ।। १०४।।
सूकरत्वात्परिभ्रष्टः श्वा भवेच्च जुगुप्सितः ।।
ततः श्वत्त्वात्परिभ्रष्टो मानुषेषूपजायते ।। १०५ ।।
मद्भक्तश्च विनीतश्च अपराधविवर्जितः ।।
मुक्तस्तु सर्वसंसारान्मम लोकं स गच्छति ।। १०६ ।।
य एतेन विधानेन वसुधे कर्म कारयेत् ।।
न स लिप्येत पापेन एवमेतन्न संशयः ।। १०७ ।।
भेरीशब्दमकृत्वा तु यस्तु मां प्रतिबोधयेत् ।।
बधिरो जायते भूमे एकं जन्म न संशयः ।। १०८ ।।
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं मम प्रियम् ।।
किल्बिषाद्येन मुच्येत भेरीताडनमोहितः ।। १०९ ।।
यस्य कस्यचिन्मासस्य शुक्लपक्षे तु द्वादशी ।।
आकाशशयनं कृत्वा शीघ्रं मुच्येत किल्बिषात् ।। 136.११० ।।
य एतेन विधानेन वसुधे कर्म कारयेत् ।।
अपराधं न गच्छेत्तु मम लोकं स गच्छति ।। १११ ।।
अन्नं भुक्त्वा बहुतरमजीर्णेन परिप्लुतः ।।
उद्गारेण समायुक्तः अस्नात उपसर्पति ।। ११२ ।।
एकजन्मनि श्वा चैव वानरश्चैव जायते ।।
एकस्मिञ्जन्मनि च्छागः सृगालश्चैकजन्मनि ।। ११३ ।।
एकजन्म भवेदन्धो मूषको जायते पुनः ।।
तारितो ह्येष संसाराज्जायते विपुले कुले ।।११४।।
शुद्धो भागवतः श्रेष्ठस्त्वपराधविवर्ज्जित।।
प्रायश्चित्तं प्रवक्ष्यामि मम भक्तसुखावहम्।।११५।।
किल्बिषाद्येन मुच्येत मम भक्तिपरायणः ।।
त्रिदिनं पावकाहारो मूलाहारो दिनत्रयम् ।। ११६ ।।
पायसेन दिनत्रय्यां त्रिदिनं सक्तुना तथा ।।
त्रिदिनं वायुभक्षोऽपि आकाशशयनस्त्रिकम् ।।११७।।
उत्थायापररात्रे तु कृत्वा वै दन्तधावनम्।।
पंचगव्यं पिबेच्चैव शरीरपरिशोधनम् ।।११८।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।।
न स लिप्येत पापेन मम लोकं स गच्छति ।। ११९ ।।
आख्यानानां महाख्यानं तपसां च परं तपः ।।
अत्राहं कीर्त्तयिष्यामि ब्राह्मणेभ्यो महेश्वरि ।। 136.१२० ।।
एष धर्मश्च कीर्त्तिश्च आचाराणां महौजसाम् ।।
गुणानां च परं श्रेष्ठं ऋतीनां च महा ऋतिः ।। १२१ ।।
य एतत्पठते नित्यं कल्यमुत्थाय मानवः ।।
स पितॄँस्तारयेज्जन्तुर्दश पूर्वान्दशापरान् ।। १२२ ।।
आरोग्याणां महारोग्यं मङ्गलानां तु मङ्गलम् ।।
रत्नानां परमं रत्नं सर्वपापप्रणाशनम् ।। १२३ ।।
यस्तु भागवतो नित्यं पठते च दृढव्रतः ।।
कृत्वा सर्वापराधानि न स पापेन लिप्यते ।। १२४ ।।
एष जप्यः प्रमाणं च सन्ध्योपासनमेव च ।।
कल्यमुत्थाय पठते मम लोकं स गच्छति ।। १२५ ।।
न पठेन्मूर्खमध्ये तु कुशिष्याणां तथैव च ।।
दद्याद्भागवते श्रेष्ठे मम कर्मपरायणे ।। १२६ ।।
एतत्ते कथितो देवि आचारस्य विनिश्चयः ।।
पूर्वं त्वया यत्पृष्टं तु किमन्यच्छ्रोतुमिच्छसि ।। १२७ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे प्रायश्चित्तकर्मसूत्रं नाम षट्त्रिंशदधिकशततमोऽध्यायः ।। १३६ ।।