← अध्यायः १३४ वराहपुराणम्
अध्यायः १३५
[[लेखकः :|]]
अध्यायः १३६ →

अथ जालपादभक्षणापराधप्रायश्चित्तम् ।।
श्रीवराह उवाच ।।
रक्तवस्त्रेण संयुक्तो यो हि मामुपसर्पति ।।
तस्यापि शृणु सुश्रोणि कर्म संसारमोक्षणम् ।। १ ।।
रजस्वलासु नारीषु रजो यत्तत्प्रवर्त्तते ।।
तेनासौ रजसा पुष्टो कर्मदोषेण जानतः ।। २ ।।
वर्षाणि दश पञ्चैव वसते तत्र निश्चयात् ।।
रजो भूत्वा महाभागे रक्तवस्त्रपरायणः ।। ३ ।।
प्रायश्चितं प्रवक्ष्यामि तस्य कायविशोधनम् ।।
येन शुध्यन्ति ते भूमे पुरुषाः शास्त्रनिश्चिताः ।। ४ ।।
एकाहारं ततः कृत्वा दिनानि दश सप्त च।।
वायुभक्षस्त्रीण्यहानि दिनमेकं जलाशनः ।। ५ ।।
एवं स मुच्यते भूमे मम विप्रियकारकः ।।
प्रायश्चित्तं ततः कृत्वा ममासौ रोचते सह ।। ६ ।।
एतत्ते कथितं भूमे रक्तवस्त्रविभूषिते ।।
प्रायश्चित्तं महाभागे सर्वसंसारमोक्षणम् ।। ७ ।।
यस्तु मामन्धकारेषु विना दीपेन सुन्दरि ।।
स्पृशते च विना शास्त्रं त्वरमाणो विमोहितः ।। ८ ।।
पतनं तस्य वक्ष्यामि शृणुष्व त्वं वसुन्धरे ।।
तेन क्लेशं समासाद्य क्लिश्यते च नराधमः ।। ९ ।।
अन्धो भूत्वा महाभागे एकं जन्म तमोमयः ।।
सर्वाशी सर्वभक्षश्च मानवः सोऽभिजायते ।। 135.१० ।।
अनन्यमानसो भूत्वा भूमे ह्येतत्प्रसाधयेत् ।।
प्रायश्चित्तं प्रवक्ष्यामि अन्धकारे तु यः पुरा ।। ११ ।।
संस्पृशेत्सोऽपि धर्मात्मा येन लोकं मम व्रजेत् ।।
अक्ष्णोराच्छादनं कृत्वा दिनानि दश पञ्च च ।। १२ ।।
एकाहारं ततः कृत्वा दिनविंशं समाहितः ।।
यस्य कस्यापि मासस्य एकामेव च द्वादशीम् ।।१३ ।।
एकाहारस्ततो भूत्वा निषीदेच्च जलाशनः ।।
ततो यवान्नं भुञ्जीत गोमूत्रेण तु पाचितम् ।। १४ ।।
प्रायश्चित्तेन चैतेन मुच्यते पातकात्ततः ।।
यः पुनः कृष्णवस्त्रेण मम कर्मपरायणः ।। १५ ।।
देवि कर्माणि कुर्वीत तस्य वै पातनं शृणु ।।
घुणो वै पञ्चवर्षाणि लाजवास्तुसमाश्रयः ।। १६ ।।
पञ्च वर्षाणि नकुलो दश वर्षाणि कच्छपः ।।
एवं भ्रमति संसारे मम कर्मपरायणः ।। १७ ।।
पारावतेषु जायेत नव वर्षाणि पञ्च च ।।
जातो ममापराधेन स्थितः पारावतो भुवि ।। १८ ।।
मम तिष्ठति पार्श्वेषु यत्रैवाहं प्रतिष्ठितः ।।
प्रायश्चित्तं प्रवक्ष्यामि तस्य संसारमोक्षणे ।। १९ ।।
येनासौ लभते सिद्धिं कृष्णवस्त्रापराधतः ।।
सप्ताहं यावकं भुक्त्वा त्रिरात्रं सक्तुपिण्डिकाम्।। 135.२० ।।
त्रीणि पिण्डांस्त्रिरात्रं तु एवं मुच्येत किल्बिषात् ।।
य एतेन विधानेन देवि कर्माणि कारयेत् ।। २१ ।।
शुचिर्भागवतो भूत्वा मम मार्गानुसारतः ।।
न स गच्छति संसारं मम लोकं स गच्छति ।। २२ ।।
वाससा चाप्यधौतेन यो मे कर्माणि कारयेत् ।।
शुचिर्भागवतो भूत्वा मम मार्गानुसारकः ।। २३ ।।
तस्य दोषं प्रवक्ष्यामि अपराधं वसुन्धरे ।।
पतन्ति येन संसारं वाससोच्छिष्टकारिणः ।। २४ ।।
देवि भूत्वा गजो मत्तस्तिष्ठत्येकं नरो भुवि ।।
उष्ट्रश्चैकं भवेज्जन्म जन्म चैकं वृकस्तथा ।। २५ ।।
गोमायुरेकं जन्मापि जन्म चैकं हयस्तथा ।।
सारङ्गस्त्वेकजन्मा वै मृगो भवति वै ततः ।। २६ ।।
सप्तजन्मान्तरं पश्चात्ततो भवति मानुषः ।।
मद्भक्तश्च गुणज्ञश्च मम कर्मपरायणः ।। २७ ।।
दक्षो निरपराधश्च अहङ्कारविवर्जितः ।।
धरण्युवाच ।।
श्रुतमेतन्मया देव यत्त्वया समुदाहृतम् ।। २८ ।।
संसारं वाससोच्छिष्टा येन गच्छन्ति मानुषाः।।
प्रायश्चित्तं च मे ब्रूहि सर्वकर्मसुखावहम् ।। २९ ।।
किल्बिषाद्येन मुच्यन्ते तव कर्मपरायणाः ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि कथ्यमानं मयाऽनघे ।। 135.३० ।।
प्रायश्चित्तं प्रवक्ष्यामि मम कर्मपरायणः ।।
यावकेन त्रीण्यहानि पिण्याकेन दिनत्रयम् ।। ३१ ।।
पर्णभक्षस्त्रीण्यहानि पयोभक्षो दिनत्रयम् ।।
पायसेन त्रिरात्रं तु वायुभक्षो दिनत्रयम् ।। ३२ ।।
एवं कृत्वा महाभागे वाससोच्छिष्टकारिणः ।।
अपराधं न विन्देरन्संसारं न प्रयान्ति च ।। ३३ ।।
श्वानोच्छिष्टं तु यो दद्यान्मम कर्मपरायणः ।।
पापं तस्य प्रवक्ष्यामि संसारे च महद्भयम् ।। ३४ ।।
श्वानो वै सप्त जन्मानि गोमायुः सप्त वै तथा ।।
उलूकः सप्तवर्षाणि पश्चाज्जायेत मानुषः ।। ३५ ।।
विशुद्धात्मा श्रुतिज्ञश्च मद्भक्तश्चैव जायते ।।
गृहे भागवतोत्कृष्टे अपराधविवर्जितः ।। ३६ ।।
शृणु तत्त्वेन वसुधे प्रायश्चित्तं महौजसम् ।।
तरन्ति मानुषा येन त्यक्त्वा संसारसागरम् ।। ३७ ।।
मूलभक्षो दिनत्रय्यां फलाहारो दिनत्रयम् ।।
शाकभक्षो दिनत्रय्यां पयोभक्षो दिनत्रयम् ।। ३८ ।।
दध्याहारो दिनत्रय्यां पायसेन दिनत्रयम् ।।
वाय्वाहारो दिनत्रय्यां स्नानं कृत्वा दृढव्रतः ।। ३९ ।।
एवं दिनान्येकविंशत्कृत्वा वै शुभलक्षणम् ।।
अपराधं न विन्देत मम लोकं स गच्छति ।। 135.४० ।।
भुक्त्वा वराहमांसं तु यश्च मामिह सर्पति ।।
पातनं तस्य वक्ष्यामि यथा भवति सुन्दरि ।। ४१ ।।
वराहो दश वर्षाणि कृत्वानुचरते वने ।।
व्याधो भूत्वा महाभागे समाः पञ्च च सप्त च ।। ४२ ।।
ततश्च मूषको भूत्वा वर्षाणि च चतुर्दश ।।
ऊनविंशतिवर्षाणि यातुधानश्च जायते ।। ४३ ।।
सल्लकी चाष्टवर्षाणि जायते भवने बहु ।।
व्याघ्रस्त्रिंशच्च वर्षाणि जायते पिशिताशनः ।। ४४ ।।
एवं संसारितां गत्वा वराहामिषभक्षकः ।।
जायते विपुले सिद्धे कुले भागवते तथा ।। ४५ ।।
हृषीकेशवचः श्रुत्वा सर्वं सम्पूर्णलक्षणम् ।।
शिरसा चाञ्जलिं कृत्वा वाक्यं चेदमुवाच ह ।। ४६ ।।
एतन्मे परमं गुह्यं तव भक्तसुखावहम् ।।
वराहमांसभक्षस्तु येन मुच्येत किल्बिषात् ।। ४७ ।।
तरन्ति मानुषा येन तिर्यक्संसारसागरात् ।।
गोमयेन दिनं पञ्च कणाहारेण सप्त वै ।। ४८ ।।
पानीयं तु ततो भुक्ता तिष्ठेत्सप्तदिनं ततः ।।
अक्षारलवणं सप्त सक्तुभिश्च तथा त्रयः ।।४९।।
तिलभक्षो दिनान्सप्त पाषाणस्य च भक्षकः ।।
पयो भुक्त्वा दिनं सप्त कारयेद्बुद्धिमान्मनः।।135.५०।।
क्षान्तं दान्तं तथा कृत्वा अहङ्कारविवर्ज्जितः।।
दिनान्येकोनपञ्चाशच्चरेत्कृतविनिश्चयः।।५१।।
विमुक्तः सर्वपापेभ्यः ससंज्ञो विगतज्वरः ।।
कृत्वा मम च कर्माणि मम लोकं स गच्छति ।।५२।।
जालपादं भक्षयित्वा यस्तु मामुपसर्पति ।।
जालपादस्ततो भूत्वा वर्षाणि दश पञ्च च ।। ५३ ।।
कुम्भीरो दश वर्षाणि पञ्च वर्षाणि सूकरः ।।
तावद्भ्रमति संसारे मम चैवापराधतः ।। ५४ ।।
कृत्वा तु दुष्करं कर्म जायते विपुले कुले ।।
शुद्धो भागवतश्रेष्ठो ह्यपराधविवर्जितः ।। ५५।।
सर्वकर्माण्यतिक्रम्य मम लोकं स गच्छति ।।
प्रायश्चितं प्रवक्ष्यामि जालपादस्य भक्षणे ।। ५६ ।।
तरन्ति मनुजा येन घोरसंसारसागरात् ।।
यावकान्नं दिनत्रय्यां वायुभक्षो दिनत्रयम् ।। ५७ ।।
फलभक्षो दिनत्रय्यां तिलभक्षो दिनत्रयम् ।।
अक्षारलवणान्नाशी पुनस्तत्र दिनत्रयम् ।। ५८ ।।
दशपञ्च दिनान्येवं प्रायश्चित्तं समाचरेत् ।।
जालपादापराधस्य एवं कुर्वीत शोधनम्।।
विनीतात्मा शुचिर्भूत्वा य इच्छेत्सुशुभां गतिम् ।।५९।।
इति श्रीवराहपुराणे जालपादभक्षणापराधप्रायश्चित्तं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः।। १३५।।