प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३७ वराहपुराणम्
अध्यायः १३८
[[लेखकः :|]]
अध्यायः १३९ →

अथ खंजरीटोपाख्यानम् ।।
सूत उवाच ।।
एतत्पुण्यतमं श्रुत्वा रम्ये सौकरवे तदा ।।
गुणस्तवं च माहात्म्यं जात्यानां परिवर्तनम् ।। १ ।।
ततः कमलपत्राक्षी सर्वधर्मविदां वरा ।।
विस्मयं परमं गत्वा निर्वृतेनान्तरात्मना ।। २ ।।
पुनः पप्रच्छ तं देवं विस्मयाविष्टमानसा।।
अहो तीर्थस्य माहात्म्यं क्षेत्रे सौकरवे तव ।। ३ ।।
अकामान्म्रियमाणस्य मानुषत्वमजायत ।।
किं वान्यद्वृत्तमाख्याहि क्षेत्रे सौकरवेऽमले ।। ४ ।।
शृण्वन्त्या मे महज्जातं चित्ते कौतूहलं परम् ।।
गायमानस्य किं पुण्यं वाद्यमानस्य किं फलम् ।। ९।।
नृत्यतः कि भवेत्पुण्यं जाग्रतो वा फलं नु किम् ।।
गोदातुरन्नदातुर्वा जलदातुस्तु किं फलम् ।। ६ ।।
संमार्जने लेपने वा गन्धपुष्पादिदानतः ।।
धूपदीपादिनैवेद्यैः किं फलं समुदीरितम् ।। ७ ।।
अन्येन कर्मणा चैव जपयज्ञादिनाऽथवा ।।
कां गतिं प्रतिपद्यन्ते ये शुद्धमनसो जनाः ।।८ ।।
तव भक्तसुखार्याय तद्भवान्वक्तुमर्हति ।।
ततो मह्या वचः श्रुत्वा सर्वदेवमयो हरिः ।। ९ ।।
उवाच मधुरं वाक्यं धर्मकामां वसुन्धराम् ।।
श्रीवराह उवाच ।।
शृणु सुन्दरि तत्त्वेन यन्मां त्वं परिपृच्छसि ।। 138.१० ।।
सर्वं ते कथयिष्यामि पुण्यकर्म सुखावहम् ।।
तस्मिन्सौकरवे पक्षी खञ्जरीटस्तु कीटकान् ।। ११ ।।
बहून् भुक्त्वा हि वसुधे अजीर्णभृशपीडितः ।।
मरणं समनुप्राप्तः पतितः स्वेन कर्मणा ।। १२ ।।
सम्प्राप्तास्तत्र वै बालाः क्रीडन्तस्तं मृतं खगम् ।।
ग्रहीष्याम इति प्रोच्य धावन्तस्तत्र तत्र ह ।। १३ ।।
ममायं वै ममायं वै जिघृक्षन्तः परस्परम ।।
सङ्घर्षात्कलहं चक्रुर्भृशं क्रीडनकोत्सुकाः ।। १४ ।।
तत एको गृहीत्वैनं गङ्गाम्भसि समाक्षिपत् ।।
युष्माकमेव भवतु नानेनास्मत्प्रयोजनम् ।। १५ ।।
एवं स खञ्जरीटो हि गङ्गातोयात्ततस्तदा ।।
आदित्यतीर्थसंक्लिन्नशरीरः स वसुन्धरे ।। १६ ।।
वैश्यस्य तु गृहे जातो ह्यनेकक्रतुयाजिनः ।।
धनरत्नसमृद्धे तु रूपवान् गुणवान् शुचिः ।। १७ ।।
विबुद्धश्च पवित्रश्च मद्भक्तश्च वसुन्धरे ।।
जातस्य तस्य वर्षाणि जग्मुर्द्वादश सुव्रते ।। १८ ।।
कदाचिदुपविष्टौ तौ दृष्ट्वा बालो गुणान्वितः ।।
मातरंपितरं चोभौ हर्षेण महतान्वितौ ।। १९ ।।
प्रणम्य शिरसा भूमौ बद्धाञ्जलिरयाचत ।।
मत्प्रियं यदि कर्त्तव्यमेको मे दीयतां वरः ।। 138.२० ।।
न चाहं वारणीयो वै पित्रा मात्रा कथंचन ।।
सत्यं शपामि गुरुणा यथा ननु कृतं भवेत् ।। २१ ।।
पुत्रस्य वचनं श्रुत्वा दम्पती तौ मुदान्वितौ ।।
ऊचतुस्तं प्रियं वाक्यं बालं कमललोचनम् ।। २२ ।।
यद्यत्त्वं वक्ष्यसे वत्स यद्यत्ते हृदि वर्त्तते ।।
सर्वं तत्तत्करिष्यावो विस्रब्धं वद साम्प्रतम् ।। २३ ।।
त्रिंशत्सहस्रं गावो हि सर्वाश्च शुभदोहनाः ।।
यद्यत्र रोचते पुत्र देहि त्वमविचारितम् ।। २४ ।।
पुनरन्यत्प्रवक्ष्यामि आवयोः पुत्र कारणात् ।।
वाणिज्यं नः स्मृतं कर्म तत्ते पुत्रे यदीप्सितम् ।। २५ ।।
तत्कुरुष्व यथान्यायं मित्रेभ्यो दीयतां धनम् ।।
धनधान्यानि रत्नानि देहि पुत्र अवारितः ।। २६ ।।
कन्या वै रमणीयाश्च सजातीयाः कुलोद्भवाः ।।
आनयिष्याव भद्रं ते उद्वाहेन क्रमेण ते ।। २७ ।।
यदीच्छसि पुनश्चान्यद्यज्ञैर्यष्टुं सुपुत्रक ।।
विधिना पूवर्दृष्टेन वैश्या येन यजन्ति च ।। २८ ।।
अष्टौ सम्पूर्णधुर्याणां हलानां तावतां शतम् ।।
वैश्यकर्म समादाय किं पुनः प्राप्तुमिच्छसि ।। २९ ।।
यावद्भोजनतृप्तान्वा द्विजानिच्छसि तर्पितुम् ।।
सर्वं निजेच्छया पुत्र कर्त्तुमर्हसि साम्प्रतम् ।। 138.३० ।।
पितृमातृ वचः श्रुत्वा स बालो धर्मसंयुतः ।।
चरणावुपसंगृह्य पितरौ पुनरब्रवीत् ।। ३१ ।।
गोप्रदाने न मे कार्यं मित्रं वापि न चिन्तितम् ।।
कन्यालाभे न चेच्छास्ति न च यज्ञफले तथा ।। ३२ ।।
नाहं वाणिज्यमिच्छामि कृषिगोरक्षमेव च ।।
न च सर्वातिथित्वं वा मम चित्ते प्रसज्जति ।। ३३ ।।
एकं मे परमं चिन्त्यं यन्ममेच्छा तपोधृतौ ।।
चिन्ता नारायणक्षेत्रं गाढं सौकरवं प्रति।।३४।।
ततः पुत्रवचः श्रुत्वा मम कर्मपरायणौ ।।
करुणं परिदेवन्तौ रुदन्तौ तावुभौ तथा ।। ३९ ।।
अथ द्वादश वर्षाणि तव जातस्य पुत्रक ।।
किमिदं चिन्तितं वत्स त्वया नारायणाश्रयम् ।। ३६ ।।
चिन्तयिष्यति भद्रं ते यदा तत्प्राप्नुया वयः ।।
अद्यापि भोजनं गृह्य धावमानास्मि पृष्ठतः ।। ३७ ।।
किमिदं चिन्तितं वत्स गमने सौकरं प्रति ।।
अद्यापि मत्स्तनौ धन्यौ प्रस्रुतौ हि दिवानिशम् ।। ३८ ।।
पुत्र त्वत्स्पर्शनाशायाः किमेतच्चिन्तितं त्वया ।।
रात्रौ सुप्तोऽसि वत्स त्वं शय्यासु परिवर्त्तितः ।। ३९ ।।
अम्बेति भाषसेऽद्यापि कथमेतद्विचिन्तितम् ।।
स्पृशंति तव नार्योऽपि क्रीडमानस्य पुत्रक ।। 138.४० ।। ।
अपराधो न विद्येत पुत्र क्षेत्रगृहेष्वपि ।।
न वा स्वजनभृत्याद्यैः परुषं ते प्रभाषितम् ।। ४१ ।।
रुष्टेन वापि भीषायै गृह्यते चैव यष्टिका।।
पुत्रहर्तुं न पश्येहं तव निर्वेदकारणम् ।। ४२ ।।
इति मातुर्वचः श्रुत्वा स वैश्यकुलनन्दनः ।।
उवाच मधुरं वाक्यं जननीं संशितव्रतः ।। ४३ ।।
उषितोऽस्मि तदंगेषु गर्भस्थः कुक्षिसंभवः ।।
क्रीडतोस्मि यथान्यायं तवोत्संगे यशस्विनि ।। ४४ ।।
स्तनौ ह्येतौ मया पीतौ ललितेन विजृम्भितौ ।।
अङ्गं तव समारुह्य पांसुभिर्गुण्ठिता तनुः ।। ४५ ।।
अम्ब त्वं मयि कारुण्यं कुरुष्व खलु चोचितम् ।।
मुंच पुत्रकृतं शोकं त्यज मातरनिन्दिते ।। ४६ ।।
आयान्ति च पुनर्यान्ति गता गच्छन्ति चापरे।।
दृश्यते च पुनर्नष्टो न दृश्येत पुनः क्वचित्।।४७।।
कुतो जातः क्व संबद्धः कस्य माता पिताथवा ।।
इमां योनिमनुप्राप्तो घोरे संसारसागरे ।। ४८ ।।
मातापितृसहस्राणि पुत्रदारशतानि च।।
जन्मजन्मनि वर्त्तन्ते कस्य ते कस्य वा वयम् ।। ४९ ।।
एवं चिन्तां समासाद्य मा शुचो जननि क्वचित् ।।
एवं तौ पितरौ श्रुत्वा विस्मयात्पुनरूचतुः ।। 138.५० ।।
अहो बत महद्गुह्यं किमेतत्तात कथ्यताम् ।।
एतद्वचनमाकर्ण्य स वैश्यकुलबालकः ।। ५१ ।।
उवाच मधुरं वाक्यं जननीं पितरं तथा।।
यदि श्रुतेन वः कार्यं गुह्यस्य परिनिश्चयात् ।। ५२ ।।
तत्पृच्छ्यतां भवद्भ्यां हि गुह्यं सौकरवं प्रति ।।
तत्राहं कथयिष्यामि स्वस्य गुह्यं महौजसम् ।।५३ ।।
सूर्यतीर्थं समासाद्य यत्तात परिपृच्छसि ।।
बाढमित्येव पुत्रं तौ दम्पती प्रोचतुश्च तम् ।। ५४ ।।
गमने कृतसंकल्पौ ततः सौकरवं प्रति ।।
सर्वद्रव्यसमायुक्तौ गतौ सौकरवं प्रति ।। ५५ ।।
गतः स पद्मपत्राक्ष आभीराणां जनेश्वरः ।।
गावो विंशसहस्राणि प्रेषयत्यग्रतो द्रुतम् ।। ५६ ।।
अग्रे सर्वास्ताः प्रययुर्द्रव्येण च समायुताः ।।
यच्च किंचिद्गृहे वास्ति कृतं नारायणं प्रति ।। ५७ ।।
ततः पूर्वार्द्धयामेन माघमासे त्रयोदशी ।।
सर्वं स्वजनमामन्त्र्य सम्बद्धं च यथाविधि ।। ५८ ।।
मुहूर्त्तेन च तेनैव गमनं कुरुते ततः ।।
स्नात्वा च कृतशौचास्ते नारायणमुदावहाः ।। ५९ ।।
अथ दीर्घेण कालेन नारायणमुदावहाः ।।
वैशाखस्य तु द्वादश्यां मम क्षेत्रमुपागताः ।। 138.६० ।।
स्नाताः सन्तर्प्य च पितॄन्मम वस्त्रविभूषिताः ।।
गावो विंशतिसाहस्रा याः पूर्वमुपकल्पिताः ।। ६१ ।।
तत्र भङ्गुरसो नाम मम कर्मपरायणः ।।
तेनैव ता गृहीता वै विधिदृष्टेन कर्मणा ।। ६२ ।।
ततः स प्रददौ तस्य विंशा गावो महाधनाः ।।
मङ्गल्याश्च पवित्राश्च सर्वाश्च वरदोहनाः ।। ६३ ।।
प्रददौ धनरत्नानि नित्यमेव दिने दिने ।।
मोदते सह पुत्रेण भार्यया स्वजनेन च ।। ६४ ।।
एवं तु वसतस्तस्य वर्षाकाल उपागतः ।।
प्रावृडुपस्थिता तत्र सर्वसस्यप्रवर्द्धिनी।।६५।।
पुष्पितानि कदम्बानि कुटजार्ज्जुनकानि च।।
एवं दुःखमनुप्राप्ता स्त्रियो या रहिताः प्रियैः।।६६।।
गर्ज्जतां गुञ्जतां चैव धारापातनिपातिताः।।
मेघाः सविद्युतश्चैव बलाकाङ्गदभूषिताः।।६७।।
नदीनां चैव निर्घोषो मयूराणां च निःस्वनः।।
कुटजार्ज्जुनगन्धाश्च कदम्बार्ज्जुनपादपाः।।६८।।
वाताः प्रवान्ति ते तत्र शिखीनां च सुखावहाः।।
शोकेन कामिनीनां च भर्त्रा च रहिताश्च याः।।६९।।
गच्छत्येवं स कालो हि मेघदुन्दुभिनादितः।।
ततः शरदनुप्राप्ता अगस्तिरुदितो महान्।।138.७०।।
तडागानि प्रसन्नानि कुमुदोत्पलवन्ति च।।
पद्मषण्डैः सुरम्याणि पुष्पितानि समन्ततः।।७१।।
प्रवान्ति सुसुखा वाताः सुगन्धाश्च सुशीतलाः।।
सप्तपर्णसुगन्धाश्च शीतलाः कामिवल्लभाः।।७२।।
एवं शरदि निर्वृत्ते कौमुदे समुपागते।।
सा तस्मिन्मासि सुश्रोणि शुक्लपक्षान्तरे तदा।।७३।।
एकादश्यां ततः सुभ्रु स्नातौ क्षौमविभूषितौ।।
उभौ तौ दम्पती तत्र पुत्रमूचतुरात्मनः।।७४।।
उषितास्त्वत्र षण्मासान्सुखं च द्वादशी भवेत्।।
किन्नो न वक्ष्यसे गुह्यं येन वै वारिता वयम्।।७५।।
पित्रोस्तु वचनं श्रुत्वा स पुत्रो धर्मनिष्ठितः।।
उवाच मधुरं वाक्यं तयोस्तु कृतनिश्चयः।।७६।।
एवमेतन्महाभाग यत्त्वया परिभाषितम्।।
कल्यं ते कथयिष्यामि इदं गुह्यं महौजसम्।।७७।।
एषा वै द्वादशी तात प्रभुनारायणप्रिया।।
मंगला च विचित्रा च विष्णुभक्तसुखावहा।।७८।।
ददतेऽस्यां प्रहृष्टाश्च द्वादश्यां कौमुदे सिते।।
दीक्षितास्ते योगिकुले विष्णुभक्तिपरायणाः।।७९।।
तेन दानप्रभावेण विष्णुतोषकरेण च।।
तरन्ति दुस्तरं तात घोरं संसारसागरम्।।138.८०।।
एवं कथयतां तेषां प्रभाता रजनी शुभा।।
ततः सन्ध्यामुपास्याथ उदिते सूर्यमण्डले।।८१।।
शुचिर्भूत्वा यथान्यायं क्षौमवस्त्रविभूषितः।।
प्रणम्य शिरसा देवं शंखचक्रगदाधरम्।।८२।।
उभौ तच्चरणौ गृह्य पितरौ समभाषत।।
शृणु तात महाभाग यदर्थं समुपागतः।।८३।।
यद्भवान्पृच्छते तात गुह्यं सौकरवं प्रति।।
खञ्जरीटो ह्यहं तात पक्षियोनिसमुद्भवः।।८४।।
भक्षिताश्च पतंगा मे अजीर्णेनातिपीडितः।।
अहं तेनैव दोषेण न शक्नोमि विचेष्टितुम्।।८५।।
दृष्ट्वा मां विह्वलं बाला गृहीत्वा क्रीडितुं गताः।।
हस्ताद्धस्तेन क्रीडन्तश्चान्योन्यपरिहासया।।८६।।
त्वया दृष्टो मया दृष्टो ह्यं चेति कलिः कृतः।।
तत एकेन बालेन भ्रामयित्वाऽक्षयेम्भसि।।८७।।
न ममेति तवेत्युक्त्वा ह्यादित्यं तीर्थमुत्तमम्।।
क्रोधेनादाय तीव्रेण क्षिप्तो गङ्गाम्भसि त्वरा।। ८८।।
तत्र मुक्ता मया प्राणाः सूर्यतीर्थे महौजसि।।
अकामेन विशालाक्षि तत्प्रभावादहं ततः ।। ८९ ।।
जातस्तव सुतो मातस्तदेतद्दिनमुत्तमम् ।।
अकामान्म्रियमाणस्य वर्षाण्यद्य त्रयोदश ।। 138.९० ।।
व्यतीतानि च गुह्यं ते कथनं मम चैव यत् ।।
एतत्ते कथितं तात गुह्यमागमनं प्रति ।। ९१ ।।
अहं कर्म करिष्यामि गच्छ तात नमोऽस्तु ते ।।
ततो माता पिता चैव पुत्रं पुनरुवाच ह ।। ९२ ।।
विष्णुप्रोक्तानि कर्माणि यं यं कारयिता भवान् ।।
तान्वयं च करिष्यामो विधिदृष्टेन कर्मणा ।। ९३ ।।
वटमाला यथान्यायं कर्मसंसारमोक्षणम् ।।
तेऽपि दीर्घेण कालेन मम कर्मपरायणाः ।। ९४ ।।
कृत्वा तु विपुलं कर्म ततः पंचत्वमागताः ।।
मम क्षेत्रप्रभावेण चात्मनः कर्मनिश्चयात् ।। ९५ ।।
विमुक्ताः सर्वसंसाराच्छ्वेतद्वीपमुपागताः ।।
योऽसौ परिजनः कश्चिद्गृहेभ्यश्च समागतः ।। ९६ ।।
सर्वः श्रिया युतस्तत्र रोगव्याधिविवर्जितः ।।
सर्वे च योगिनस्तत्र सर्वे चोत्पलगंधयः ।। ।। ९७ ।।
मोदन्ते तु यथान्यायं प्रसादात्क्षेत्रजान्मम ।।
एतत्ते कथितं देवि महाख्यानं महौजसम् ।। ९८ ।।
पुनरन्यत्प्रवक्ष्यामि यद्वृत्तं सौकरे मम ।।
एषा व्युष्टिर्महाभागे क्षेत्रे यत्क्रियते महत् ।। ९९ ।।
तिर्यग्योनिविनिर्मुक्ताः श्वेतद्वीपमुपागताः ।।
य एतत्पठते नित्यं कल्यमुत्थाय मानवः ।। 138.१०० ।।
स कुलं तारयेत्तूर्णं दश पूर्वान्दशावरान् ।।
न पठेन्मूर्खमध्ये तु पापिष्ठे शास्त्रदूषके ।। १०१ ।।
न पठेत्पिशुनानां च एकाकी तु पठेद्गृहे ।।
पठेद्ब्राह्मणमध्ये च ये च वेदविदां वराः ।। १०२ ।।
वैष्णवानां च पुरतो यै व शास्त्रगुणान्विताः ।।
विशुद्धानां विनीतानां सर्वसंसारमोक्षणम् ।। १०३ ।।
इति श्रीवराहपुराणे खञ्जरीटोपाख्यानं नामाष्टत्रिंशदधिकशततमोऽध्यायः ।। १३८ ।।
इति खञ्जरीटोपाख्यानं समाप्तम् ।।