← अध्यायः १३८ वराहपुराणम्
अध्यायः १३९
[[लेखकः :|]]
अध्यायः १४० →

अथ सौकरमाहात्म्यम् ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि लिप्यमानस्य यत्फलम् ।।
सर्वं ते कथयष्यामि यथा प्राप्नोति मानवः ।। १ ।।
गृहीत्वा गोमयं भूमे मम वेश्मोपलेपयेत् ।।
न्यस्तानि तत्र यावन्ति पदानि च विलिम्पतः ।। २ ।।
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ।।
यदि द्वादशवर्षाणि लिप्यते मम कर्मसु ।।३।।
जायते विपुले शुद्धे धनधान्यसमाकुले ।।
दिव्यैर्नमस्कृतो देवि कुशद्वीपं च गच्छति ।। ४ ।।
कुशद्वीपमनुप्राप्य सहस्राणि च जीवति ।।
दश चैव तु वर्षाणां मम भक्तो महाञ्छुचिः ।। ५ ।।
कुशद्वीपात्परिभ्रष्टो मम कर्मपरायणः।।
राजा वै जायते सुभ्रु सर्वधर्मेषु निष्ठितः ।। ६ ।।
तेन तस्य प्रभावेण मम कर्मपरायणः ।।
भक्तौ व्यवस्थितश्चापि सर्वशास्त्राणि पृच्छति ।।७।।
देवि कारयते सर्वं मम चायतनानि च।।
कारयित्वा यथान्यायं मम लोकं स गच्छति।।८।।
गोमयस्य तु वक्ष्यामि तच्छृणुष्व वसुन्धरे।।
गोमयन्तु समासाद्य यावल्लोकोऽनुगच्छति ।।९।।
समीपे यदि वा दूरे गत्वा नयति गोमयम्।।
यावन्ति तत्पदान्यस्य तावद्वर्ष सहस्रकम्।।139.१० ।।
गोमयानां च नेता वै स्वर्गलोके महीयते।।
ततः स शाल्मले द्वीपे रमते च मुदा युतः।।११।।
एकादशसहस्राणि एकादशशतानि च ।।
शाल्मलात्तु परिभ्रष्टो राजा भवति धार्मिकः।।१२।।
मद्भक्तश्चैव जायेत सर्वधर्मविदां वरः ।।
अथ द्वादशवर्षाणि मच्छ्रितः सुदृढव्रतः।।१३।।
वहते गोमयं सुष्ठु मम लोकं स गच्छति ।।
स्नानोपलेपने भूमे सलिलं यो ददाति च ।। १४ ।।
तस्य पुण्यं महाभागे शृणु तत्वेन निष्कलम् ।।
यावन्तो बिन्दवस्तत्र पानीयस्य वसुन्धरे ।। १५ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
स्वर्गलोकात्परिभ्रष्टः क्रौचद्वीपं च गच्छति ।। १६ ।।
क्रौंचद्वीपात्परिभ्रष्टो राजा भवति धार्मिकः ।।
तेनैव गुणयोगेन श्वेतद्वीपं च गच्छति ।। १७ ।।
संमार्ज्जनं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यां गतिं पुरुषा यान्ति स्त्रियो वा कर्मसु स्थिताः ।। १८ ।।
शुचिर्भागवतः शुद्धो अपराधविवर्जितः ।।
यावन्तः पांसवो भूमेरुड्डीयन्ते तु चालिताः ।। १९ ।।
तावद्वर्षशतान्याशु स्वर्गलोके महीयते ।।
स्वर्गलोकात्परिभ्रष्टः शाकद्वीपं स गच्छति ।। 139.२० ।।
तत्र स्थित्वा चिरङ्कालं राजा भवति धार्मिकः ।।
ततो भुक्त्वा सर्वभोगान्स्थित्वा संसारसागरे ।। २१ ।।
श्वेतद्वीपं ततो गच्छेन्मत्कर्मनिरतः शुचिः ।।
अन्यच्च ते प्रवक्ष्यामि शृणुष्व गदतो मम ।। २२ ।।
गायनं ये प्रकुर्वन्ति मम कर्मपरायणाः ।।
तेषां यद्यत्फलं भूमे शृणुष्व गदतो मम ।। २३ ।।
गीयमानस्य गीतस्य यावदक्षरपङ्क्तयः ।।
तावद्वर्षसहस्राणि इन्द्रलोके महीयते ।। २४ ।।
रूपवान्गुणवान् सिद्धः सर्ववेदविदां वरः ।।
नित्यं पश्यति तत्रस्थो देवराजं न संशयः ।। २५ ।।
मद्भक्तश्चैव जायेत इन्द्रलोकपथे स्थितः ।।
सर्वकर्मगुणश्रेष्ठस्तत्रापि मम पूजकः ।। २६ ।।
इन्द्रलोकात्परिभ्रष्टो मम गीतपरायणः ।।
नन्दनोपवने रम्ये रमन्देवगणैः सह ।। २७।।
ततः स भूमौ जायेत वैष्णवैः सह संस्थितः ।।
गायन्मम यशो नित्यं भक्त्या परमया युतः ।। २८ ।।
मत्प्रसादात्स शुद्धात्मा मम लोकं हि गच्छति ।। २९ ।।
सूत उवाच ।।
तस्य तद्वचनं श्रुत्वा माधवस्य यशस्विनी ।।
कृताञ्जलिपुटा भूयः प्रत्युवाच वसुन्धरा ।। 139.३० ।।
धरण्युवाच ।।
अहो गीतप्रभावो वै यस्त्वया कीर्त्तितो महान् ।।
के च गीतप्रभावेण सिद्धिं प्राप्ता महौजसः ।। ३१ ।।
वराह उवाच ।।
तत्रैव चाश्रमे भद्रे चाण्डालः कृतनिश्चयः ।।
दूराज्जागरणे याति मम भक्तौ व्यवस्थितः ।। ३२ ।।
गायमानश्च गीतानि संवत्सरगणान्बहून् ।।
श्वपाकः स गुणज्ञश्च मद्भक्तश्चैव सुन्दरि ।। ३३ ।।
कौमुदस्य तु मासस्य शुक्लपक्षे तु द्वादशी ।।
सुप्ते गते येन जाते वीणामादाय चंक्रमत् ।।३४।।
जाग्रंस्तत्र स चाण्डालो गृहीतो ब्रह्मरक्षसा ।।
अल्पप्राणः श्वपाको वै बलवान्ब्रह्मराक्षसः ।। ३५ ।।
दुःखशोकेन सन्तप्तो न शक्नोति विचेष्टितुम् ।।
तेन प्रोक्तः श्वपाकेन बलवान्ब्रह्मराक्षसः ।।३६।।
किं त्वया चेष्टितं मह्यं यस्त्वेवं परिधावसि ।।
श्वपाकवचनं श्रुत्वा तेन वै ब्रह्मरक्षसा ।।३७ ।।
ततः प्रोवाच तं श्वादं मानुषाहारलोलुपः ।।
अथेह दशरात्रं मे निराहारस्य तिष्ठतः ।।३८।।
विधात्रा विहितस्त्वं व आहारः पारणाविधौ ।।
अद्य तां भक्षयिष्यामि सवसामांसशोणितैः ।।३९।।
तृप्तिं यास्यामि परमां विधात्रा विहितां मम ।।
ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः ।। 139.४० ।।
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः ।।
एवमेतन्महाभाग भक्ष्योऽहं समुपागतः ।। ४१ ।।
अवश्यमेतत्कर्तव्यं धात्रा दत्तं यथा तव ।।
किं त्वहं देवदेवस्य भक्त्या गातुं च जागरे ।।४२।।
उद्यंस्तत्र गत्वाहमुपास्य विधिना हरिम् ।।
पश्चात्खादस्व मां रक्षो जागराद्विनिवर्तितम् ।। ४३ ।।
विष्णोः सन्तोषणार्थाय यतो मे व्रतमास्थितम् ।।
जागरे विनिवृत्ते मां भक्षय त्वं यदीच्छति ।। ४४ ।।
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः ।।
उवाच पुरुषं वाक्यं श्वपाकं तदनन्तरम् ।। ४६ ।।
मिथ्या किं भाषसे मूढ पुनरेष्यामि तेऽन्तिकम् ।।
मृत्योर्मुखमनुप्राप्य पुनर्जीवति मानवः ।। ४६ ।।
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि ।।
राक्षसस्य वचः श्रुत्वा चाण्डालस्तमथाब्रवीत् ।। ४७ ।।
यद्यप्यहं हि चाण्डालः पूर्वकर्मविदूषितः ।।
सम्प्राप्तो मानुषं भावं विहितेनान्तरात्मना ।।४८।।
शृणु मत्समयं रक्षो येनाहं पुनरागमम् ।।
दूराज्जागरणं कृत्वा लोकस्य द्विजराक्षस।।४९।।
सत्येन पुनरेष्यामि मन्यसे यदि मुंच माम् ।।
सत्यमूलं जगत्सर्वं लोकाः सत्ये प्रतिष्ठिताः।।139.५०।।
सत्येन सिद्धिं प्राप्ता हि ऋषयो ब्रह्मवादिनः ।।
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः ।। ५१ ।।
सत्यं जयन्ति राजानस्त्रीण्येतान्यब्रुवन्नृतम् ।।
सत्येन गम्यते स्वर्गो मोक्षः सत्येन चाप्यते ।। ५२ ।।
सत्येन तपते सूर्यः सोमः सत्येन रज्यते ।।
षष्ठ्यष्टमीममावास्यामुभे पक्षे चतुर्दशी ।। ५३ ।।
अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः ।।
गुरुपत्नीं राजपत्नीं योऽभिगच्छति मोहितः।। ५४।।
तां गतिं सम्प्रपद्येऽहं यद्यहं नागमे पुनः।।
याजकानां च ये लोका ये च मिथ्याभिभाषिणाम्।।५५।।
तां गतिं सम्प्रपद्येऽहं यद्यं नागमे पुनः।।
ब्रह्मघ्ने च सुरापे वा स्तेने भग्नव्रते तथा।।५६।।
तेषां गतिं प्रपद्येऽहं यद्यहं नागमे पुनः।।
श्वपाकवचनं श्रुत्वा तुष्टो ब्राह्मणराक्षसः।।५७।।
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते।।
ब्रह्मराक्षसमुक्त्वा तु श्वपाकः कृतनिश्चयः।।५८।।
पुनर्गायति मह्यं वै मम भक्तौ व्यवस्थितः।।
अथ प्रभाते विमले गीते नृत्ये च जागरे।।५९।।
नमो नारायणायेति श्वपाकः परिवर्त्तते।।
ततस्त्वरितमागत्य पुमांस्तस्याग्रतः स्थितः।।139.६०।।
उवाच मधुरं वाक्यं चाण्डालं कृतनिश्चयम्।।
क्व यासि त्वरितः साधो न च त्वं गन्तुमर्हसि।।६१।।
जानन्कौणपपं तं च न त्वं मर्त्तुमिहार्हसि।।
पुरुषस्य वचः श्रुत्वा चाण्डालः पुनरब्रवीत्।।६२।।
समयो मे कृतः पूर्वं राक्षसेन हि भक्षता।।
तेन तत्र गमिष्यामि सत्यं च परिपालयन्।।६३।।
ततः स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह।।
मधुरां गिरमादाय विहितेनान्तरात्मना।।६४।।
मा गच्छ तत्र चाण्डाल यत्रासौ पापराक्षसः।।
जीवितार्थाय सत्यस्य न दोषः परिहापनात्।।६५।।
ततस्तस्य वचः श्रुत्वा श्वपाकः संशितव्रतः।।
उवाच मधुरं वाक्यं मरणे कृतनिश्चयः।।६६।।
नाहमेवं करिष्यामि यन्मां त्वं परिभाषसे।।
न चाहं नाशये सत्यमेतन्मे निश्चितं व्रतम्।।६७।।
सत्यमूलं जगत्सर्वं कुलं सत्ये प्रतिष्ठितम्।।
सत्यमेव परो धर्म आत्मा सत्ये प्रतिष्ठितः।।६८।।
न चैवाहं तदुत्सृज्य असत्यः स्यां कदाचन।।
नाहं मिथ्या चरिष्यामि गच्छ तात नमोऽस्तु ते।।६९।।
एवमुक्त्वा श्वपाकोपि नित्यं सत्यव्रते स्थितः।।
राक्षसं समनुप्राप्तस्तमुवाचाथ पूजयन्।।139.७०।।
आगतोऽस्मि महाभाग मा विलम्बय भक्षय।।
त्वत्प्रसादादहं गन्ता वैष्णवं स्थानमुत्तमम्।।७१।।
एतानि मम गात्राणि भक्षयस्व यथेष्टतः।।
पिबोष्णं रुधिरं मह्यं पीडितोऽसि क्षुधा भृशम्।।७२।।
तर्पयस्व स्वमात्मानं कुरुष्व मम वै हितम्।।
श्वपाकस्य वचः श्रुत्वा ततः स ब्रह्मराक्षसः।।७३।।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्।।
साधु तुष्टोऽस्म्यहं वत्स सत्यं धर्मं च पालितम्।।७४।।
चण्डालस्याविधिज्ञस्य यस्य ते मतिरीदृशी।।
ब्रह्मरक्षोवचः श्रुत्वा श्वपाकः सत्यसङ्गरः।।७५।।
उवाच मधुरं वाक्यं ब्रह्मराक्षसमेव तु।।
यद्यप्यहं वै चाण्डालः सर्वकर्मविवर्जितः।।७६।।
तथापि सत्यं वक्तव्यं ब्रह्मराक्षस नित्यशः।।
श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम् ।। ७७ ।।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम् ।।
यत्त्वया गीयते रात्रौ विष्णोर्जागरणं प्रति ।। ७८ ।।
फलं गीतस्य मे देहि यदीच्छेर्जीवितं स्वकम् ।।
ततो मोक्ष्यामि कल्याण भक्ष्यामि न च भीषणः ।।७९।।
ब्रह्मरक्षोवचः श्रुत्वा श्वपाकः प्रत्युवाच ह।।
मनोऽज्ञातमिदं वाक्यं ब्रह्मरक्षो निभाषसे ।। 139.८० ।।
भक्षयामीति चोक्त्वा मां गीतपुण्यं किमिच्छसि ।।
श्वपाकवचनं श्रुत्वा ब्रह्मरक्षोऽब्रवीत्पुनः ।। ८१ ।।
देहि मे त्वेकयामीयं पुण्यं गीतस्य वै परम् ।।
ततो मोक्ष्यसि भक्ष्येण संगतः पुत्रदारकैः।। ८२ ।।
श्रुत्वा राक्षसवाक्यानि चाण्डालो गीतलोभितः ।।
उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः ।। ८३ ।।
न गायनफलं दद्मि ब्रह्मरक्षस्तवेप्सितम् ।।
भक्षयस्व यथान्यायं रुधिरं पिब चेप्सितम् ।। ८४ ।।
श्वपाकवचनं श्रुत्वा राक्षसः पुनरब्रवीत् ।।
एकगीतस्य मे देहि यत्त्वया विष्णुसंसदि ।। ८९ ।।
एतेन तारितोऽस्मीति तव गीतफलेन वै ।।
श्रुत्वा वाक्यानि चाण्डालो राक्षसस्य निवारयन् ।। ८६ ।।
उवाच मधुरं वाक्यं चाण्डालो विस्मयान्वितः ।।
किं त्वया विकृतं कर्म तद्ब्रूहि मम राक्षस ।। ८७ ।।
कर्मणो यस्य दोषेण राक्षसत्वं समागतः ।।
श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो महायशाः ।। ८८ ।।
 उवाच मधुरं वाक्यं दुःखसन्तप्तमानसः ।।
नाम्ना वै सोमशर्माहं चरको ब्रह्मयोनिजः ।। ८९ ।।
सूत्रमन्त्रपरिभ्रष्टो यज्ञकर्मसु निष्ठितः ।।
ततोऽहं याजयाम्यज्ञान् लोभमोहप्रपीडितः ।। 139.९० ।।
प्रवर्तमाने यज्ञे तु कदाचिद्दैवयोगतः ।।
उदरे जातशूलोऽहं तेन पंचत्वमागतः ।। ९१ ।।
अथ पञ्चमहारात्रे ह्यसमाप्ते क्रतौ तथा ।।
अस्य यज्ञस्य दोषेण मातंग शृणु मे वचः ।।९२।।
राक्षसत्वमनुप्राप्तस्तेन दुष्टेन कर्मणा ।।
मंत्रहीनं मया तत्र स्वरहीनं च तत्कृतम् ।। ९३ ।।
सूत्रहीनं तथा तत्र प्राग्वंशादि कृतं मया ।।
परिमाणं च रूपं च मया तत्रोपलक्षितम् ।।९४।।
कृतस्य तस्य दोषेण योनिं प्राप्तोऽस्मि राक्षसीम् ।।
स्वगीतफलदानेन निस्तारयितुमर्हसि ।।९५।।
मोचयस्वाधमं पापाद्विष्णुगीतेन सत्वरम् ।।
ब्रह्मरक्षोवचः श्रुत्वा श्वपाकः संशितव्रतः ।।९३।।
बाढमित्येव तद्वाक्यं राक्षसं प्राब्रवीत्तदा ।।
एतस्य मम गीतस्य सुस्वरस्य फलं तु यत् ।।९७ ।।
ददामि राक्षस त्वं चेन्मुच्यसे शुद्धमानसः ।।
यस्तु गायति संयुक्तं गीतकं विष्णुसन्निधौ ।।९८।।
स तारयति दुर्गाणीत्युक्त्वा तद्दत्तवान् फलम् ।।
एवं तस्मात्फलं प्राप्य श्वपाकाद्राक्षसस्तदा।।९९।।
जातः सुविमलो भद्रे शरदीव यथा शशी।।
श्वपकश्चापि सुश्रोणि मम चैवोपगायकः।।139.१००।।
कृत्वा सुविपुलं कर्म स ब्रह्मत्वमुपागतः।।
एतद्गीतफलं देवि प्राप्नोति मनुजो भुवि।।१०१।।
मह्यं जागरतो भद्रे गीयमानं मनस्विनि।।
यस्तु गायति सुश्रोणि कौमुदीं द्वादशीं प्रति।।१०२।।
सर्वसंगं परित्यज्य मम लोकं स गच्छति।।
यस्तु गायति गीतानि मम जागरणे सदा।।१०३।।
सर्वसंगात्प्रमुक्तो वै मम लोकं स गच्छति।।
एतत्ते कथितं देवि गायनस्य फलं महत्।।१०४।।
यस्य गीतस्य शब्देन तरेत्संसारसागरम्।।
वादित्रस्य प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे।।१०५।।
प्राप्तवान्मानुषो येन देवेभ्यः सबलां स्वयम्।।
शम्पातालप्रयोगेण सन्निपातेन वा पुनः।।१०६।।
नववर्षसहस्राणि नववर्षशतानि च ।।
कुबेरभवनं गत्वा मोदते वै यदृच्छया।।१०७।।
कुबेरभवनाद्भ्रष्टः स्वच्छन्दगमनालयः।।
शम्यादितालसम्पातैर्मम लोकं स गच्छति।।१०८।।
नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे।.
मानवो येन गच्छेत्तु च्छित्त्वा संसारबन्धनम्।।१०९।।
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च।।
पुष्करद्वीपमासाद्य स्वच्छन्दगमनालयः।।139.११०।।
फलं प्राप्नोति सुश्रोणि मम कर्मपरायणः।।
रूपवान् गुणवाञ्छूरः शीलवान्सत्पथे स्थितः।।१११।।
मद्भक्तश्चैव जायेत संसारपरिमोचितः।।
यस्तु जागरितो नित्यं गीतवाद्येन नर्त्तकः।।११२।।
जम्बूद्वीपं समासाद्य राजराजस्तु जायते।।
सर्वकर्मसमायुक्तो रक्षिता वै महीपतिः।।११३।।
मद्भक्तश्चैव जायेत मम कर्मपरायणः।।
उपहार्याणि पुष्पाणि मम कर्मपरायणः।।११४।।
यो मामुपनयेद्भूमे मम कर्मपथे स्थितः।।
पुष्पाणि तत्र यावन्ति मम मूर्द्धनि धारयेत्।।११५।।
स कृत्वा पुष्कलं कर्म मम लोकं स गच्छति।।
एतत्ते कथितं देवि भक्तानां तु महौजसाम्।।११६।।
मम भक्तसुखार्थाय सर्वसंसारमोक्षणम्।।
य एतत्पठते भूमे कल्यमुत्थाय मानवः।।११७।।
स तु तारयते जन्तुर्दश पूर्वान्दशापरान्।।
न पठेन्मूर्खमध्ये तु पिशुनानां पुरो न च।।११८।।
पठेद्भागवतानां च मध्ये मुक्तिरतात्मनाम्।।
अश्रद्दधाने क्रूरे वा न पठेद्देवले तथा।।११९।।
यदीच्छेत्सिद्धिकल्याणं मंगलं च मम प्रियम्।।
धर्माणां परमो धर्मः क्रियाणां परमा क्रिया।।139.१२०।।
मा पठेच्छास्त्रदूषाय अध्यायं वा कदाचन।।
यदीच्छेत्परमां सिद्धिं मम लोके महीयते।।१२१।।
इति श्रीवराहपुराणे भगवच्छास्त्रे सौकरे चाण्डालब्रह्मराक्षससंवादे सौकरमाहात्म्यं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः।।१३९।।