प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४१ वराहपुराणम्
अध्यायः १४२
[[लेखकः :|]]
अध्यायः १४३ →

अथ गुह्यकर्ममाहात्म्यम् ।।
सूत उवाच ।।
ततो देववचः श्रुत्वा धर्मकामा वसुन्धरा ।।
कृताञ्जलिपुटा भूत्वा प्रसादयति माधवम् ।। १ ।।
धरण्युवाच ।।
दास्यां मे प्रणयं कृत्वा विज्ञाप्यं शृणु माधव ।।
मृदुना च स्वभावेन वक्ष्यामि त्वां जनार्दन ।। २ ।।
अल्पप्राणबला नार्यो यत्त्वया परिभाषितम् ।।
अशक्ताः सहितुं ह्येताः क्षुधात्वनशनेऽबलाः ।। ३ ।।
भुञ्जमाना नरा ह्यत्र रजसा यांति शं परम् ।।
अन्नं ह्यनुग्रहं देव येन ते कर्म संश्रिताः ।। ४ ।।
तस्यास्तद्वचनं श्रुत्वा माधव्याः स तु माधवः ।।
प्रहस्य भावशुद्धात्मा तत एवमभाषत ।। ५ ।।
श्रीवराह उवाच ।।
साधु देवि वरारोहे मम कर्मव्यवस्थिते ।।
पृष्टोऽहं परमं गुह्यं मम भक्तसुखावहम् ।। ६ ।।
स्पृष्टा या रजसा देवि मम कर्मपरायणा ।।
मां संस्पृशन्तु तत्रस्थं यत्र तिष्ठामि सुन्दरि ।। ७ ।।
यदि भावस्तदा कश्चिद्भोजने कायसाधने ।।
चित्तं न्यस्य मयि क्षोणि भोक्तव्यं च न संशयः ।। ८ ।।
न सा लिप्यति दोषेण भुञ्जमाना रजस्वला।।
अञ्जलिं शिरसा कृत्वा मयोक्तं मन्त्रमुत्तमम् ।।९ ।।
( अनादिमध्यान्तमजं पुराणं रजस्वला देववरं नमामि ।।)
तत एतेन मन्त्रेण भुक्त्वा देवि रजस्वला ।।
करोति यानि कर्माणि न तैर्दुष्येत कर्हिचित् ।। 142.१० ।।
स्नात्वा सा तु महाभागे पंचमात्तु दिनात्पुनः ।।११ ।।
यथार्हं कुरुते कर्म मच्चित्ता मत्परायणा ।।
प्राप्नुयात्पुरुषत्वं च न्यस्तसंसारचिन्तनात् ।। १२ ।।
धरण्युवाच ।।
पुरुषा वा स्त्रियो वापि न पुमांसो न वा स्त्रियः ।।
कथं दोषेण मुच्यन्ते जन्मसंसारबन्धनात् ।।१३ ।।
श्रीवराह उवाच ।।
इन्द्रियाणि निगृह्याथ चित्तमप्यनुवेश्य च ।।
मयि संन्यासयोगेन मम कर्मपरायणः ।। १४ ।।
मम योगेषु संन्यासमेकचित्तो दृढव्रतः ।।
एवं कुर्वन्महाभागे स्त्रियो वा पुन्नपुंसकम् ।। १५ ।।
ज्ञानसंन्यासयोगं वा यदीच्छेत्परमां गतिम् ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। १६ ।।
मनो बुद्धिश्च चित्तं च ते ह्यनीशाः शरीरिणाम् ।।
एकचित्तं मनः कृत्वा ज्ञानेन पृधुलोचने ।। १७ ।।
समचित्तं प्रपद्यन्ते न ते लिप्यन्ति मानवाः ।।
सर्वभक्ष्याणि भक्षन्तः पेयापेयांस्तथैव च ।। १८।।
समं चित्तं मयि यदि तदा तस्य न च क्रिया ।।
चित्तं मनश्च बुद्धिश्च मत्संस्थं च समं यदि ।।१९।।
यत्किंचित्कुर्वतः कर्म पद्मपत्रमिवांभसि ।।
संयोगान्न च लिप्येत समत्वादेव नान्यथा ।।142.२०।।
रात्रिन्दिवं मुहूर्तं वा क्षणं वा यदि वा कला।।
निमेषं वा त्रुटिं वाथ देवि चित्तं समं कुरु।।२१।।
सदा दिवानिशोश्चैव कुर्वन्तः कर्मसङ्करम् ।।
तेऽपि यान्ति परां सिद्धिं यदि चित्तं व्यवस्थितम्।।२२।।
जाग्रतः स्वपतो वापि शृण्वतः पश्यतोऽपि वा ।।
यो मां चित्ते चिंतयति मच्चिन्तस्य च किं भयम् ।।२३।।
दुर्वृत्तमपि चाण्डालं ब्राह्मणं चाऽपथि स्थितम् ।।
तं तु देवि प्रशंसामि नान्यचित्तं कदाचन ।। २४ ।।
यजन्तः सर्वधर्मज्ञा ज्ञानसंस्कारसंस्कृताः ।।
मयि चित्तं समाधाय मम कर्मपरायणाः ।।२५।।
ये मत्कर्माणि कुर्वन्ति मया हृदि समाश्रिताः ।।
सुखं निद्रां समाधाय स्वपन्तः कर्मसंस्थिताः ।। २६ ।।
येषां प्रशांतं चित्तं वै तेऽपि देवि मम प्रियाः ।।
सर्वमात्मनि कर्म स्वं शुभं वा यदि वाऽशुभम् ।।२७।।
प्राप्नुवन्ति च दुःखानि भ्रमच्चित्ता नराधमाः ।।
चित्तं नाशो हि लोकस्य चित्तं मोक्षस्य कारणम् ।।२८।।।
तस्माच्चित्तं समादाय मां प्रपद्यस्व मेदिनि ।।
न्यस्य ज्ञानं च योगं च एकचित्ता भजस्व माम् ।। २९ ।।
मच्चित्तः सततं यो मां भजेत नियतव्रतः ।।
मत्पार्श्वं प्राप्य परमं मद्भावायोपपद्यते ।। 142.३० ।।
मया चैव पुरा सृष्टं प्रजार्थेन वसुन्धरे ।।
मासे मासे तु गन्तव्यमृतुकाले व्यवस्थितम् ।। ३१ ।।
एकचित्तं समादाय यदीच्छेत्तु मम प्रियम् ।।
न गच्छेद्यदि मासे तु ऋतुकालव्यवस्थितम् ।। ३२ ।।
पितरस्तस्य हन्यन्ते दश पूर्वा दशापराः ।।
न तत्र कामलोभेन मोहेन च वसुन्धरे ।। ३३ ।।
त्यक्त्वानङ्गं च मोहं च पित्रर्थाय स्त्रियं व्रजेत् ।।
द्वितीयां न स्पृशेन्नारीं लोभमोहात्कथंचन ।। ३४ ।।
न संस्पृशेत्तृतीयां तु चतुर्थी न कदाचन ।।
कृते संभोगधर्मे तु कृतकौतुकसंस्थितः ।। ३५ ।।
शयने न स्त्रियं पश्येद्यदीच्छेच्छुद्धिमुत्तमाम् ।।
कौतुके कृतकृत्ये तु मम कर्मपरायणः ।। ३३ ।।
जलस्नानं ततः कुर्यादन्यवस्त्रपरिग्रहम् ।।
अपूर्णे ऋतुकाले तु योऽभिगच्छेद्रजस्वलाम् ।।३७ ।।
रेतःपाः पितरस्तस्य एवमेतन्न संशयः ।।
एकां तु पुरुषो याति द्वितीयां काममोहितः ।।३८ ।।
तृतीयां वा चतुर्थीं वा तदा स पुरुषोऽधमः ।।
सर्वस्यैव तु लोकस्य समयोऽयं हि मत्कृतः ।। ३९ ।।
ऋतुकाले तु सर्वासां पित्रर्थं भोग इष्यते ।।
ऋतुकालाभिगामी यो ब्रह्मचार्येव संमतः ।। 142.४० ।।
न गच्छति च यः क्रोधान्मोहाद्वा पुरुषाधमः ।।
ऋतौ ऋतौ भ्रूणहत्यां प्राप्नोति पुरुषश्चरन् ।। ४१ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे।।
ज्ञानं तु चित्तयोगस्य कर्मयोगस्य यत्क्रिया।।४२।।
कर्मणा यान्ति मत्स्थानं यान्ति मद्गाननिष्ठिताः ।।
यान्ति योगविदः स्थानं नास्ति चान्या परा गतिः ।। ४३ ।।
ज्ञानं योगं च सांख्यं च नास्ति चित्तव्यपाश्रितम् ।।
लभन्ते पुष्कलां सिद्धिं मम मार्गानुसारिणः ।। ४४ ।।
यस्तु भागवतो भूत्वा ऋतुकाले व्यवस्थितः ।।
वायुभक्षस्ततस्तिष्ठेद्भूमे त्रीणि दिनानि च ।।४९ ।।
अथ तत्र चतुर्थे तु दिने प्राप्ते वसुन्धरे ।।
कृत्वा वै सिद्धिकर्म्माणि न गच्छत्यपराणि च ।। ४६ ।।
ततः स्नानेन कुर्वीत शिरसो मलशोधनम् ।।
शुक्लांबरधरो भूत्वा चित्तं कृत्वा समाहितम् ।। ४७ ।।
ततो बुद्धिं मनश्चैव समं कृत्वा वसुन्धरे ।।
पश्चात्कुर्वन्ति कर्माणि सदा ते मे हृदि स्थिताः ।। ४८ ।।
मम प्रापणकं कृत्वा ततः कुर्वन्ति भोजनम् ।।
अञ्जलिं शिरसा कृत्वा मयोक्तं कर्म सस्मितम् ।। ४९ ।।
तत्र मन्त्रः –
आदिर्भवान्गुप्तमनन्तमध्यो रजस्वला देव वयं नमामः ।।
उपोषितास्त्रीणि दिनानि चैवं मुक्तौ रतं वासुदेवं नमामः ।। 142.५० ।।
तत एतेन मन्त्रेण शुद्धा भूमे रजस्वलाः ।।
ये तु कुर्वन्ति कर्माणि स्नातास्नातानि भागशः ।। ५१ ।।
एवं दुष्यति नो देवि नारी वा पुरुषोऽपि वा ।।
कुर्वन्ति मम कर्माणि ते यथावन्मम प्रियाः ।। ५२ ।।
सर्वाण्यनुदिनं भद्रे मम चित्तानुसारिणः ।।
प्राप्नुयात्पुरुषः स्त्री वा रजसा दूषिता अपि ।। ५३ ।।
एकचित्तस्ततो भूत्वा भूमे चेन्द्रियनिग्रहात् ।।
मम योगेष्टसंन्यासं यदीच्छेत्परमां गतिम् ।।५४ ।।
एवं कुर्वन्ति ये नित्यं स्त्रियः पुंसो नपुंसकम् ।।
ज्ञाने सत्यप्ययोगानां मम कर्मसु कर्मणाम् ।। ५५ ।।
अद्यापि मां न जानन्ति नराः संसारसंश्रिताः ।।
ते वै भूमे विजानन्ति ये तद्भक्त्या व्यवस्थिताः ।। ५६ ।।
मातापितृसहस्राणि पुत्रदारशतानि च ।।
चक्रवत्परिवर्तन्ते यन्मोहान्मां न जानते ।। ५७ ।।
अज्ञानेनावृतो लोको मोहेन च वशीकृतः ।।
सङ्गैश्च बहुभिर्बद्धस्तेन चित्तं न संन्यसेत् ।। ५८ ।।
गच्छत्यन्यत्र माता वै पिता चान्यत्र गच्छति ।।
पुत्राश्चान्यत्र गच्छन्ति दासश्चान्यत्र गच्छति ।। ५९ ।।
जायन्ते चात्मनः स्थाने स्वस्वकर्मसमुद्भवे ।।
ज्ञानमूढा वरारोहे नराः संसारमोहिताः ।। 142.६० ।।
अल्पकालपरं चैव माससंवत्सरेति च ।।
भविष्यन्ति पुनः कृत्वा न मे मूर्त्या सहासते ।। ६१ ।।
यस्यैतद्विदितं सर्वं न्यासयोगं वसुन्धरे ।।
योगे न्यस्य सदात्मानं मुच्यते न च संशयः ।। ६२ ।।
य एतच्छृणुयान्नित्यं कल्यमुत्थाय मानवः ।।
पुष्कलां लभते सिद्धिं मम लोकं च गच्छति ।। ६३ ।।
एतत्ते कथितं भद्रे रहस्यं परमं महत्।।
त्वया पृष्टं च यद्देवि मम भक्तसुखावहम् ।। ६४ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे गुह्यकर्ममाहात्म्यवर्णनं नाम द्वाचत्वारिंशदधिकशततमोऽध्यायः ।। १४२ ।।