प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४० वराहपुराणम्
अध्यायः १४१
[[लेखकः :|]]
अध्यायः १४२ →

अथ बदरिकाश्रममाहात्म्यम् ।।
श्रीवराह उवाच ।।
तस्मिन्हिमवतः पृष्ठे परं गुह्यमतः शृणु ।।
बदरीति च विख्याता देवानामपि दुर्ल्लभा ।।१ ।।
न तत्प्राप्नोति मनुजः कृत्वा कर्म सुदुष्करम् ।।
प्राप्नुवन्ति च भक्ता ये बदरीं विश्वतारिणीम् ।। २ ।।
दुर्ल्लभं तन्मम क्षेत्रं हिमकूटशिलातले ।।
यस्तत्प्राप्नोति हि क्षेत्रं कृतकृत्यो भवेन्नरः ।। ३ ।।
ब्रह्मकुण्डमिति ख्यातमास्ते तत्र शिलोच्चये ।।
हिमसंस्थं तथात्मानं कृत्वा तिष्ठामि माधवि ।। ४ ।।
स्नानं करोति यस्तत्र त्रिरात्रोपोषितो नरः ।।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।। ९ ।।
मुञ्चेत्प्राणांस्तत्र यदि व्रतनिष्ठो जितेन्द्रियः ।।
सत्यलोकमतिक्रम्य मम लोकं च गच्छति ।। ६ ।।
अग्निसत्यपदं नाम तस्मिन्क्षेत्रे परं मम ।।
शृङ्गत्रयात्पतन्त्यत्र धारा मुसलसन्निभाः ।। ७ ।।
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ।।
सत्यवादी भवेद्दक्षो मम कर्मपरायणः ।। ८ ।।
यस्तत्र मुञ्चते प्राणान्यदि कृत्वा जलाशयम् ।।
सत्यलोकमतिक्रम्य मम लोके स मोदते ।। ९ ।।
इन्द्रलोकमिति ख्यातो बदर्यां च ममाश्रमः ।।
तत्राहं देवि शक्रेण निष्कलं परितोषितः ।।141.१० ।।
तत्र चैव तु शृङ्गेभ्यः स्थूलधारा पतेत्पुनः ।।
स्थूले शिलातले तत्र मम धर्मो व्यवस्थितः ।।११ ।।
स्नानं करोति यस्तत्र एकरात्रोषितो नरः।।
सत्यवादी शुचिर्भूत्वा सत्यलोके महीयते।।१२।।
अथात्र मुञ्चते प्राणान्कृत्वा चानाशकं व्रतम्।।
सत्यलोकमतिक्रम्य मम लोकेषु तिष्ठति ।।१ ३।।
अस्ति पञ्चशिखं नाम बदर्याश्रमतीर्थकम् ।।
यत्र धाराः पतन्त्यत्र पंचशृङ्गसमाश्रिताः ।।१४।।
यस्तत्र कुरुते स्नानं पंचस्रोतसि मानवः ।।
अश्वमेधफलं प्राप्य देवैश्च सह मोदते ।। १५ ।।
यद्यत्र मुञ्चते प्राणान् कृत्वा कर्म सुदुष्करम् ।।
स्वर्गलोकमतिक्रम्य मम लोके महीयते ।।१६।।
चतुःस्रोत इति ख्यातं तस्मिन्क्षेत्रे परे मम ।।
चतुर्धाराः पतन्त्यत्र चतस्रो दिश आश्रिताः ।।१७।।
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः ।।
मोदते नाकपृष्ठे तु मम भक्तश्च जायते।।१८।।
अथ प्राणान्परित्यज्य कृत्वा कर्म सुदुष्करम्।।
नाकपृष्ठमतिक्रम्य मम लोकं प्रपद्यते।।१९।।
वेदधारमिति ख्यातं तस्मिन्क्षेत्रे परे मम ।।
यत्र ब्रह्ममुखाद्भ्रष्टा वेदाश्चत्वार एव च ।। 141.२० ।।
तत्रैव हिमवत्पृष्ठे चतुःशृङ्गाद्बृहत्तराः ।।
चतुर्धाराः पतन्त्यत्र विषमाश्च शिलोच्चये ।।२१।।
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः ।।
चतुर्णामपि वेदानां ग्रहणे कारणं भवेत्।।२२।।
अथात्र मुञ्चते प्राणान्मम कर्मपथे स्थितः।
देवलोकमतिक्रम्य मम लोकं प्रतिष्ठते ।। २३ ।।
द्वादशादित्यकुण्डेति तस्मिन्क्षेत्रे परे मम ।।
यत्र ते द्वादशादित्या देवि संस्थापिता मया ।।२४।।
तत्र पर्वतशृंगे तु स्थूलमूले शिलातले ।।
द्वादश पतन्ति धारा मम कर्मसुखावहाः ।। २५।।
यस्तत्र कुरुते स्नानं यां काञ्चिद्द्वादशीं यदि।।
यत्र ते द्वादशादित्यास्तत्र गच्छेन्न संशयः।।२६।।
अथात्र मुञ्चते प्राणान्मम कर्मणि संस्थितः ।।
समतिक्रम्य चादित्यान् मम लोके महीयते।।२७।।
लोकपालमिति ख्यातं तस्मिन्क्षेत्रे परे मम।।
तत्र ते लोकपालास्तु मया संस्थापिताः पुरा।।२८।।
तत्र पर्वतमध्ये तु स्थलकुण्डं बृहन्मम ।।
भित्वा पर्वतमुद्गीर्णं यत्र सोमसमुद्भवः ।। २९ ।।
तत्र स्नानं तु कुर्वीत ज्येष्ठमासस्य द्वादशीम् ।।
मोदते लोकपालेषु मम भक्तश्च जायते।।141.३० ।।
अथात्र मुञ्चते प्राणान्मम कर्मसु तत्परः ।।
लोकपालानतिक्रम्य मम लोकं प्रपद्यते।।३१ ।।
अस्ति मेरोर्वरं नाम तस्मिन् गुह्यं परं मम ।।
तत्र स्थितेन वै भूमे मेरुः संस्थापितः स्वयम् ।। ३२ ।।
धारास्तिस्रः पतन्त्यत्र सुवर्णसदृशप्रभाः ।।
पतेत्तु तज्जलं भूमौ व्यक्तिं नैवोपलभ्यते ।।३३।।
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ।।
मोदते मेरुशृंगेषु मम भक्तश्च जायते ।।३४।।
अथ तत्र मृतो देवि तस्मिन् गुह्ये परे मम ।।
मेरुपृष्ठमतिक्रम्य मम लोकं तु गच्छति ।। ३५ ।।
मानसोद्भेदमिति च तत्रान्यत्तीर्थमुत्तमम् ।।
पृथ्वीमुद्भिद्य मध्ये तु जलं गच्छति सत्वरम् ।।३६।।
देवा अपि न जानन्ति तं देशं तत्र संस्थितम् ।।
मानुषा हि विजानन्ति भूम्यां पतति तज्जलम् ।।३७।।
यस्तत्र कुरुते स्नानमहोरात्रोषितो नरः ।।
मोदते मानसे दिव्ये मम भक्तश्च जायते ।।३८।।
अस्ति पञ्चशिरं नाम तस्मिन्गुह्यं परं मम ।।
ब्रह्मणा च्छिद्यते यत्र शिरश्चैव महाद्युति ।। ३९।।
तत्र वै पंच कुण्डानि स्थूलशीर्षशिलोच्चये ।।
पञ्चात्र शिरसः स्थाने बहुधारासमन्विताः ।। 141.४० ।।
यत्र तन्मध्यमं कुण्डं छिन्नमेव स्वयम्भुवा ।।
तत्र रक्तजला भूमिर्दृश्यते धारसंकुला ।।४१।।
यस्तत्र कुरुते स्नानं पंचरात्रोषितो नरः ।।
मोदते ब्रह्मलोकस्थो मम भक्तश्च जायते ।।४२।।
तथात्र मुञ्चते प्राणान् गुह्ये पञ्चशिरे मम ।।
जलचांद्रायणं कृत्वा मम कर्मसु निष्ठितः ।।४३।।
बुद्धिमान्मतिमांश्चैव रागमोहविवर्जितः ।।
ब्रह्मलोकमतिक्रम्य मम लोकं स गच्छति।।४४।।
अस्ति सोमाभिषेकेति तीर्थमन्यत्परं मम।
राजत्वे ब्राह्मणानां तु मया सोमोऽभिषेचितः ।।४५ ।।
तत्राहं तोषितस्तेन अत्रिपुत्रेण माधवि ।।
नवपञ्चककोट्यस्तु कृत्वा कर्म सुदुष्करम् ।।४६।।
प्राप्तश्च परमां सिद्धिं मत्प्रसादाद्वसुन्धरे ।।
तदायत्तं जगत्सर्वं व्रीहयः परमौषधीः ।।४७।।
जायतेऽस्मिन्प्रलीयंते स्कन्देन्द्राः समरुद्गणाः ।।
भूमे सोममयं सर्वं मम संस्थं भविष्यति ।।४८।।
तत्र सोमगिरिर्नाम यत्र धारा पतेद्भुवि ।।
कुण्डेऽरण्ये विशाले तु एतत्ते कथितं मया ।। ४९ ।।
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ।।
मोदते सोमलोकेषु एवमेतन्न संशयः ।।141.५० ।।
अथात्र म्रियते देवि कृत्वा कर्म सुदुष्करम् ।।
सोमलोकमतिक्रम्य मम लोकं प्रपद्यते ।।५१।।
अस्ति चोर्वशिकुण्डेति गुह्यं क्षेत्रे परं मम ।।
यत्र चैवोर्वशी भित्त्वा दक्षिणोरुमजायत ।।५२।।
तत्र तप्याम्यहं देवि देवानामपि कारणात् ।।
न मां कश्चिद्विजानाति स्वात्मानो हि विजानते ।।५३।।
ततो मे तप्यमानस्य बहुवर्षव्यतिक्रमात् ।।
देवा अपि न जानन्ति वज्रिब्रह्ममहेश्वराः ।।५४।।
एकैकेन फलेनाऽत्र बदर्यां तु सुनिश्चितम् ।।
बहुवर्षसहस्रं तु तपश्चीर्णं मया भुवि ।।५५।।
तत्राहं दश कोट्यस्तु दशवर्षं दशार्बुदम् ।।
दश भूमे तथान्यानि पद्मानि तपसि स्थितः ।।५६।।
ततस्ते मां न पश्यन्ति देवा गुह्यपथे स्थितम् ।।
विस्मयं परमं जग्मुर्देवा दुःखपरायणाः ।। ५७।।
अहं पश्यामि सर्वं वै तपःसंस्थो वसुन्धरे ।।
न मां सर्वे प्रपश्यन्ति योगमायासमावृताः ।। ५८ ।।
ततस्ता देवताः सर्वाः प्रत्यूचुश्च पितामहम् ।।
विष्णुना च विना लोके शान्तिं नैव लभामहे ।। ५९ ।।
देवानां तु वचः श्रुत्वा ब्रह्मा लोकापितामहः ।।
योगमायापटच्छन्नं कथयामास मां तदा ।। 141.६० ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।।
तत्र जग्मुर्महाभागे तुष्यन्तः परमं मुदा ।। ६१ ।।
विभावयन्ति मां तत्र देवा इन्द्रपुरोगमाः ।।
त्वया नाथ परित्यक्ता दुःखिताः श्रमवर्जिताः ।। ६२ ।।
त्रायस्व नो हृषीकेश परमानुग्रहेण वै ।।
एतत्कृत्वा विशालाक्षि देवान् प्रणतिपूर्वकम् ।। ६३ ।।
मया विलोकिताः सर्वे परां निर्वृतिमागताः ।।
एतस्मिन्नुर्वशीकुण्डे एकरात्रोषितो नरः ।। ६४ ।।
यः स्नाति सर्वपापेभ्यो मुच्यते नात्र संशयः ।।
उर्वशीलोकमासाद्य क्रीडते कालमक्षयम् ।। ६५ ।।
यस्तत्रोत्सृजते प्राणान्मम कर्मपरायणः ।।
पुण्यपापविनिर्मुक्तो याति मल्लीनतां प्रिये ।। ६६ ।।
श्रीबदर्याश्रमं पुण्यं यत्र यत्र स्थितः स्मरेत् ।।
स याति वैष्णवं स्थानं पुनरावृत्तिवर्जितः ।। ६७ ।।
य इदं शृणुयान्नित्यं मद्भक्तः सततं पठेत् ।।
ब्रह्मचारी जितक्रोधः सत्यवादी जितेन्द्रियः ।। ६८ ।।
ध्यानयोगरतो नित्यं स मुक्तिफलभाग्भवेत् ।।
यस्यैतद्विदितं सर्वं ध्यानयोगं वसुन्धरे ।। ६९ ।।
योऽवगच्छति चात्मानं स गच्छेत्परमां गतिम् ।।141.७० ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे बदरिकाश्रममाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ।।१४१ ।।