प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४५ वराहपुराणम्
अध्यायः १४६
[[लेखकः :|]]
अध्यायः १४७ →

अथ रुरुक्षेत्रस्थहृषीकेशमाहात्म्यम् ।।
सूत उवाच ।।
शालग्रामस्य माहात्म्यं श्रुत्वा गुह्यं महौजसम् ।।
विस्मयं परमं गत्वा हृष्टा वचनमब्रवीत् ।। १ ।।
धरण्युवाच ।।
अहो क्षेत्रस्य माहात्म्यं यत्त्वया भाषितं हरे ।।
एतच्छ्रुत्वा महाभाग जातास्मि विगतज्वरा ।। २ ।।
रुरुषण्डमिति प्रोक्तं यत्त्वया परमार्च्चितम् ।।
रुरुर्नाम कथं को वा आसीत्पूर्वं जनार्दन ।। ३ ।।
यन्नाम्ना परमं क्षेत्रं हृषीकेश त्वयाश्रितम् ।।
कथयस्व जगन्नाथ यद्यनुग्राह्यता मयि ।। ४ ।।
श्रीवराह उवाच ।।
आसीत्पुरा महाभागो देवदत्त इति द्विजः ।।
भृगुवंशे समुत्पन्नो वेदवेदाङ्गपारगः ।।५।।
यज्ञविद्यासु कुशलो व्रतनिष्ठोऽतिथिप्रियः ।।
तत्राश्रमपदं पुण्यं पुण्यद्रुमलतान्वितम्।।६।।
शान्तैर्मृगगणैः कीर्णं कन्दमूलफलान्वितम् ।।
तत्र तीव्रं तपोऽतप्यद्देवदत्तो मुनीश्वरः ।।७।।
वर्षाणामयुतं साग्रं तत इन्द्रो व्यचिन्तयत् ।।
कामं वसन्तसहितं गन्धर्वान् स सखीन्पुनः ।। ८ ।।
उवाच मधुरं वाक्यं क्षुब्धेन्द्रियमनाः प्रभुः ।।
अहो सखायः किंचिन्मे महत्कार्यमुपस्थितम् ।। ९ ।।
तस्य मे चिन्तयानस्य यूयमेव परा गतिः ।।
भवत्प्रसादात्स्वस्थोऽहं निर्भयस्तद्विचिन्त्यताम् ।। 146.१० ।।
तदिन्द्रस्य वचः श्रुत्वा ते काममलयानिलाः ।।
प्रत्यूचुर्देवराजानमाज्ञापय निजं प्रियम् ।। ११ ।।
जितेन्द्रियस्यापि मनः कस्य संक्षोभयामहे ।।
कं वा सुतीव्रात्तपसो भ्रंशयामः सुपेशलम् ।। १२ ।।
आज्ञाप्रसादं ते लब्ध्वा वद शीघ्रं सुखी भव ।।
इत्युक्तः शतमन्युर्वै प्रत्युवाचाऽथ मानयन् ।। १३ ।।
तदैव मे गता चिन्ता भवतां दर्शनं यदा ।।
जातमेवाऽखिलं कार्यं मम तच्छृणुताखिलाः ।। १४ ।।
हिमशैले महारम्ये हृषीकेशाश्रितो मुनिः ।।
देवदत्त इति ख्यातस्तपस्यति महत्तपः ।।१५।।
जिघृक्षुर्मे पदं नूनं तत्तपो विनिवर्त्यताम् ।।
इत्युक्तास्ते तदाज्ञां वै गृहीत्वा शिरसा द्रुतम् ।। १६ ।।
प्रस्थानाय मतिं चक्रुः कामदेवपुरःसराः ।।
प्रस्थाप्याग्रे वसन्तं च मलयानिलमेव च ।। १७ ।।
ततः सुरपतिः शक्रः प्रम्लोचां नाम नामतः ।।
प्रशस्य प्रणयात्पूर्वं मानयन्निदमब्रवीत् ।। १८।।
गच्छ स्वस्तिमती देवि विजयाय मुनेर्भुवि ।।
यत्राश्रमपदं तस्य देवदत्तस्य वै मुनेः ।। १९ ।।
ललितैः स्वैर्विलासैस्तं मोहयित्वा वशं कुरु ।।
यथा मत्प्रीतिरतुला त्वं मे कार्यकरी सदा ।।146.२०।।
तथा कुरुष्व भद्रं ते हृषीकेशसमीपतः ।।
इन्द्रस्याज्ञां समादाय ययौ तस्याश्रमं प्रति ।। २१ ।।
समीपोपवने रम्ये नानाद्रुमलताकुले ।।
मधुरालापबहुले कोकिलानां कलाकुले ।। २२ ।।
रसालमञ्जरीव्याप्तरसामोदालिसंकुले ।।
गुंजन्मत्तालिसन्नादश्रुतिश्रुतिधरान्विते ।। २३ ।।
गन्धर्वगीतसंमिश्रे मलयानिलशीतले ।।
सम्फुल्लपङ्कजवने सुनिर्मलजलाशये ।। २४ ।।
मुनिप्रभावसन्त्यक्तक्रौर्यस्थलजलाशये ।।
मधुरामोदमधुरे चित्तक्षोभविधायिनि ।।२५।।
प्रविश्य सा वरारोहा गीतं सुमधुरं जगौ ।।
यदा ध्यानादुपरतः समाधेर्विरताश्चिरात् ।।२६।।
गान्धर्वं प्रारभंस्ते तु गन्धर्वाः सुरसम्मताः ।।
तस्मिन्नेव क्षणे लब्ध्वाऽवसरं पंच सायकः ।। २७ ।।
विचकर्ष धनुः पौष्पं सायकान् समयूयुजत् ।।
संलक्ष्य तं मुनिं शान्तं भाविदैवबलात्कृतम् ।।२८।।
श्रुत्वा तन्मधुरं गीतं पञ्चमालापसुन्दरम् ।।
क्षुब्धचित्तः समभवत्स मुनिः संशितव्रतः ।।२९।।
चकर्ष च धनुः कामः पुनःपुनरतन्द्रितः ।।
देवव्रतोऽपि स मुनिः क्षुब्धात्मा नियतोऽपि सन्।।146.३०।।
विचचाराश्रमपदं पश्यन्सन्तुष्टमानसः।।
दूराद्ददर्श तन्वङ्गीं क्रीडन्तीं कन्दुकेन ताम्।।३१।।
दृष्ट्वैव तां तु चार्वंगीं विद्धः कामेन पत्रिणा ।।
तस्याः समीपमगमत्स्मयमानो महामुनिः ।।३२।।
सापि दृष्ट्वा देवदत्तं सज्जन्ती हरिणेक्षणा ।।
कटाक्षयन्ती सहसा लज्जमाना विगूहति ।। ३३ ।।
करेण कन्दुकं घ्नन्ती चञ्चलाक्षी सुपेशला ।।
स्रंसता केशपासेन गलत्पुष्पेण राजता ।। ३४ ।।
मनो हरन्ती तस्यर्षेः ललितैर्विभ्रमोद्भवैः ।।
एतस्मिन्नन्तरे तस्या दक्षिणः पवनोऽहरत्।।३५।।
वासः सूक्ष्मंगलन्नीवि कांचीदामगुणान्वितम् ।।
पुष्पबाणोऽप्यविध्यत्तं दृष्ट्वा ऽवसरमन्तिके ।।३६।।
सम्मोहितः स तु मुनिर्गत्वान्तिकमथाब्रवीत् ।।
का त्वं कस्यासि सुभगे वनेऽस्मिन्किञ्चिकीर्षसि ।। ३७ ।।
मादृशान्किं मृगयसे बाहुपाशेन वा मृगान् ।।
बद्ध्वा गृहीत्वा वामोरु किं वाऽस्मान्कर्त्तुमिच्छसि।।३८।।
सर्वथाऽस्मांस्तवाधीनान् यद्यद्वा कारयिष्यति ।।
तत्तत्कुर्मो वयं नित्यं तदधीनाः स्म सर्वथा ।।३९।।
अथ तां हसमानां च गृहीत्वा दक्षिणे करे।।
समालिङ्ग्य विषज्जंतीं रमयामास मोहितः ।।146.४०।।'
रममाणस्तया सार्द्धं भुञ्जन्भोगान् मनोरमान् ।।
तपःप्रभावोपनतान्दिवारात्रमतंद्रितः ।।४१ ।।
बहूनहर्गणानेवं रममाणो यदृच्छया ।।
सुप्तोत्थित इवाकस्माद्विवकेन समन्वितः ।।४२।।
निर्वेदं प्राप्तवान्सद्यस्तदोवाच भृशातुरः ।।
अहो भागवती माया ययाहं भृशमोहितः ।। ४३ ।।
जानन्नपि तपोभ्रंशं प्राप्तो दैवबलात्कृतः ।।
अग्निकुण्डसमा नारी घृतकुम्भसमः पुमान् ।।४४।।
इति प्रवादो मूर्खाणां विचारान्महदन्तरम् ।।
घृतकुम्भोऽग्नि योगेन द्रवते न तु दर्शनात् ।।४५।।
पुमांस्त्रीदर्शनादेव द्रवते यद्विमोहितः ।।
नापराधस्त्वतो नार्याः स्वयं यदजितेन्द्रियः ।।४६।।
इत्युक्त्वाऽसौ निवृत्तात्मा विससर्ज सुराङ्गनाम् ।।
प्रम्लोचा दैववशगो मनस्येतदचिन्तयत् ।। ४७ ।।
उपसर्गो महानत्र तपसो भ्रंशकारकः ।।
त्यक्त्वाश्रममिमं चान्यत्स्थानं गत्वा समाहितः ।। ४८ ।।
तपस्तीव्रं समास्थाय शोषयिष्ये कलेवरम् ।।
इति निश्चित्य मनसा गत्वा भृग्वाश्रमं प्रति ।।४९।।
गण्डकीसंगमे स्नात्वा सन्तर्प्य पितृदेवताः ।।
विष्णुं शिवं च सम्पूज्य तपःस्थानं विचिंतयन् ।।146.५० ।।
पश्यन्भृग्वाश्रमं रम्यमुत्तरं गतवान् शनैः ।।
गण्डक्याः पूर्वभागे तु विविक्तं विजनं शुभम् ।। ५१ ।।
दृष्ट्वा तीरेषु विश्रांतस्तपोभूमिमचिंतयत् ।।
भृगुतुंगं समासाद्य शङ्कराराधने रतः ।।५२।।
अतप्यत तपो घोरं शिवदर्शनलालसः ।।
अथ दीर्घेण कालेन सन्तुष्टः स महेश्वरः ।। ५३ ।।
लिंगरूपधरः साक्षादुपर्यपि तथा ह्यधः ।।
तिर्यक् च जलधाराभिर्युक्तस्तत्तापशांतिकृत् ।। ५४ ।।
उवाच च प्रसन्नात्मा मुने पश्य च मां शिवम् ।।
मामेवावेहि विष्णुं त्वं मा पश्यस्वांतरं मम ।। ५५ ।।
पूर्वमन्तरभावेन दृष्टवानसि यन्मम ।।
तेन विघ्नोऽभवद्येन गलितं त्वत्तपो महत् ।। ५६ ।।
आवामेकेन भावेन पश्यंस्त्वं सिद्धिमाप्स्यसि ।।
तपःप्रभावाल्लिंगानि प्रादुर्भूतानि यत्र वै ।।५७।।
समंगमिति विख्यातमेतत्स्थानं भविष्यति ।।
स्नात्वाऽत्र गण्डकीतीर्थे मम लिंगानि योऽर्च्चयेत् ।।५८।।
तस्य योगफलं सम्यग्भविष्यति न संशयः ।।
इति दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ।।५९।।
देवदत्तोऽपि स मुनिः सम्प्राप्य ज्ञानमुत्तमम् ।।
शिवोपदिष्टमार्गेण सायुज्यं परमं गतः ।। 146.६० ।।
प्रम्लोचापि मुनेर्गर्भं सम्प्राप्याश्रममन्तिकात् ।।
प्रसूतां कन्यकां त्यक्त्वा स्वर्गमेव जगाम ह ।। ६१ ।।
पुनर्जातमिवात्मानं मन्यमाना शुचिस्मिता ।।
सापि कन्या मृगैस्तत्र रुरुभिर्वर्द्धिता सती ।। ६२ ।।
रुरुरित्वेव विख्याता पितुरेवाश्रमे स्थिता ।।
युवभिः प्रार्थ्यमानापि चित्ते कञ्चन नाध्यगात् ।।५३।।
ततः सुनिश्चयं कृत्वा तपसे धृतमानसा ।।
चिन्तयन्ती जगन्नाथं भगवन्तं रमापतिम् ।।६४।।
मासे सा प्रथमे बाला फलाहारपरायणा ।।
एकांतरं दिनं प्राप्य द्वितीये त्रिदिनान्तरे ।। ६५।।
तृतीये पंचम दिने चतुर्थे सप्तमांतरे ।।
पञ्चमे नवरात्रेण षष्ठे पञ्चदशाहके ।। ६६ ।।
मासेन सप्तमे चैव शीर्णपर्णाशनाष्टमे ।।
त्यक्त्वा तान्यपि सा बाला वाय्वाहारा बभूव ह ।। ६७ ।।
सैवं वर्षशतं स्थित्वा हरावेकाग्रमानसा ।।
समाधिना समा भूत्वा स्थाणुवन्निश्लाऽभवत् ।। ६८ ।।
द्वन्द्वानि नाविदच्चापि आत्मभूतान्तरं विना ।।
परां काष्ठां समापन्ना प्रकाशमयकांतिधृक् ।। ६९ ।।
तत्तेजसा वृतं सर्वं तदा दृष्ट्वा वसुन्धरे ।।
अहं विस्मयमापन्नस्तस्याः प्रत्यक्षतां गतः ।। 146.७० ।।
सन्निरुद्धेन्द्रियग्रामा नाचक्षत बहिःस्थितम् ।।
तदा हृषीकाण्याविश्य संहृत्य स्वं हृदो बहिः ।। ७१ ।।
स्थितोऽहं वसुधे देवि अक्ष्णोः प्रत्यक्षतां गतः ।।
हृषीकाणि नियम्याहं यतः प्रत्यक्षतां गतः ।। ७२ ।।
हृषीकेश इति ख्यातो नाम्ना तत्रैव संस्थितः ।।
सा मां यदैव नापश्यदुन्मील्य नयने ततः ।। ७३ ।।
बहिः स्थितं च मां दृष्ट्वा प्रणनाम कृताञ्जलिः ।।
गद्गदस्वरसंयुक्ता अश्रुक्लिन्नविलोचना ।। ७४ ।।
रोमांचिततनुश्चासीत्कदम्बमुकुलाकृतिः ।।
तथा भूतां तु तां दृष्ट्वा प्रावोचमहमङ्गनाम् ।। ७९ ।।
अयि बाले विशालाक्षि तुष्टोऽहं तपसस्तव ।।
वरं याचय मत्तस्त्वं यत्ते मनसि वर्त्तते ।। ७६ ।।
अदेयमपि ते दद्मि यदन्येषां सुदुर्ल्लभम् ।।
इति श्रुत्वा प्रभोर्वाक्यं प्रणम्य च पुनः पुनः ।। ७७ ।।
स्तुत्वा तं देवदेवेशं प्रबद्धकरसंपुटा ।।
ददासि चेद्वरं मह्यं देवदेव जगत्पते ।। ७८ ।।
अनेनैव स्वरूपेण भगवन्स्थातुमर्हसि ।।
स्थितोऽस्म्यत्रैव भद्रं ते अपरं वरयाशु मे ।। ७९ ।।
दुर्लभं ते वरं दद्मि तपसाहं प्रतोषितः ।।
इत्युक्त्वा मां प्रणम्याह रुरुः सा संशितव्रता ।। 146.८० ।।
यदि प्रसन्नो देवेश तदा मां कुरु पावनीम् ।।
मन्नाम्ना क्षेत्रमेतच्च ख्यातं भवतु नान्यथा ।। ८१ ।।
तामहं देवि सुभगे प्रावोचं पुनरेव हि।।
तीर्थानां परमं तीर्थं तव देहो भवत्वयम् ।। ८२ ।।
तव नाम्नां च विख्यातमेतत्क्षेत्रं भविष्यति ।।
तव तीर्थे कृतस्नानस्त्रिरात्रोपोषितो नरः।।८३।।
विलोक्य मां भवेत्पूतो मम वाक्यान्न संशयः ।।
ब्रह्महत्यादि पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि ।। ८४ ।।
यास्यन्ति विलयं क्षिप्रमेवमेतन्न संशयः ।।
इति दत्त्वा वरांस्तस्यै तत्रैवान्तर्हितः स्थितः ।। ८९ ।।
सापि कालेन सञ्जाता तीर्थभूता तथाऽभवत् ।।
एतत्ते कथितं देवि रुरुमाहात्म्यमुत्तमम् ।। ८६ ।।
रुरुक्षेत्रस्य प्रभवमेतद्गुह्यं परं मम ।।८७।।
इति श्रीवराहपुराणे भगवच्छास्त्रे रुरुक्षेत्रऋषीकेशयोर्माहात्म्यं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः।।१४६।।