प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४६ वराहपुराणम्
अध्यायः १४७
[[लेखकः :|]]
अध्यायः १४८ →

अथ गोनिष्क्रमणमाहात्म्यम्।।
धरण्युवाच ।।
अत्याश्चर्यं श्रुतं ह्येतद्रुरुक्षेत्रसमुद्भवम् ।।
हृषीकेशस्य महिमा त्वया य उपवर्णितः ।। १ ।।
अन्यच्च यत्परं गुह्यं क्षेत्रं परमपावनम् ।।
वक्तुमर्हसि देवेश परं कौतूहलं मम ।। २ ।।
श्रीवराह उवाच ।।
शृणु भूमे प्रयत्नेन कारणं परमं मम ।।
गुह्यमस्त्यपरं चैव हिमशृङ्ग शिलोच्चये ।। ३ ।।
गोनिष्क्रमणकं नाम गावो यत्र प्रतारिताः ।।
यथा निष्क्रमणं प्राप्य सुरभीणां वसुन्धरे ।।४।।
सप्ततिर्यत्र कल्पानि और्वो यत्र प्रजापतिः ।।
तपश्चचार परमं मम मायाबलान्वितः ।। ५ ।।
तस्यैवं वर्त्तमानस्य याति काले महत्तरे ।।
एवं हि तप्यमानस्य सर्वलोकस्य संशयः ।। ६ ।।
न वरं प्रार्थयत्येष लाभालाभसमन्वितः ।।
सूचकोऽपि न विद्येत बलिकर्मसु संयतः ।। ७ ।।
अथ दीर्घस्य कालस्य कश्चिद्ब्रह्मयतिस्तदा ।।
तपस्तपस्यति मुनौ तस्मिन्शैलोच्चये धरे ।।८।।
ईश्वरोऽपि महाभागे तत्पार्श्वं समुपागतः ।।
गोनिष्क्रमेति विख्याते तस्मिंस्तीर्थे महौजसि ।। ९ ।।
तत्र त्वौर्वो महाभागे तप्यते समदर्शनः ।।
पद्मानां कारणादौर्वो गंगाद्वारमुपागतः ।। 147.१० ।।
तन्निर्गतं ततो ज्ञात्वा और्वं सर्वे तपस्विनः ।।
महेश्वरो महातेजाः सम्भ्रमात्समुपागतः ।। ११ ।।
फलपुष्पसमाकीर्णा लक्ष्मीश्चैवोपजायते ।।
आश्रमं रूपसम्पन्नं फलपुष्पोपशोभितम्।।१२।।
तच्च वै भस्मसाद्भूतं महारुद्रस्य तेजसा।।
दग्ध्वा तं चाश्रमं पुण्यमौरवस्य सुमहत्प्रियम्।।१३।।
ईश्वरोऽपि ततः प्राप्तः शीघ्रमेव हिमालयम् ।।
एतस्मिन्नन्तरे देवि गृह्य पुष्पकरण्डकम् ।।१४।।
आश्रमं समनुप्राप्त और्वोऽपि मुनिपुंगवः ।।
शान्तो दान्तः क्षमाशीलः सत्यव्रतपरायणः ।। १५ ।।
दृष्ट्वा स्वमाश्रमं दग्धं बहुपुष्पफलोदकम् ।।
मन्युना परमाविष्टो दुःखनेत्रपरिप्लुतः ।। १६ ।।
उवाच क्रोधरक्ताक्षो वचनं निर्दहन्निव ।।
येनैष चाश्रमो दग्धो बहुपुष्पफलोदकः ।। १७ ।।
सोऽपि दुःखेन सन्तप्तः सर्वलोकान्भ्रमिष्यति ।।
एवमौर्वेण दत्ते तु शापे तस्मिन्महौजसि ।। १८ ।।
महाभयात्तु लोकानां न कश्चित्पर्यवारयत् ।।
तत्क्षणादेव देवेशि ईशोऽपि जगतो विभुः ।। १९ ।।
महादाहेन सन्तप्तः शम्भुर्देवीमुवाच ह ।।
और्वस्य तु तपो दृष्ट्वा भीतैर्देवैरुदाहृतम् ।। 147.२० ।।
दह्यते स्म जगत्सर्वं स तु किञ्चिन्न चेच्छति ।।
को वा प्रति विधिस्तत्र यथा सर्वस्य सम्भवेत् ।। २१ ।।
एवमुक्ते मया क्रोधादीक्षितस्तस्य चाश्रमः ।।
दग्धोऽभवत्क्षणेनैव वयं तस्माद्विनिर्गताः ।। २२ ।।
एतद्दुःखेन सन्तप्तो मन्युना च परिप्लुतः ।।
और्वः शशाप रोषेण तेन तप्ता वयं शिवे ।।२३।।
ततोऽभ्रमद्विरूपाक्षः शं न प्राप्नोति कर्हिचित् ।।
अहं च परितप्तोऽस्मि आत्मत्वादीश्वरस्य च ।। २४ ।।
तेन दाहेन सन्तप्तो न शक्नोमि विचेष्टितुम् ।।
पार्वत्या च ततः प्रोक्तः आवां नारायणं प्रति ।। २५ ।।
गच्छावस्तस्य वाक्येन सुखं यत्र भविष्यति ।।
ततो नारायणं गत्वा सह तेन तमौर्वकम् ।। २६ ।।
विज्ञापयामो रुद्रस्य शापोऽयं विनिवर्त्तताम् ।।
सन्तप्ताः स्म वयं सर्वे तस्माच्छापं निवर्त्तय ।। २७ ।।
और्वोऽप्युवाच नोक्तं मे अनृतं तु कदाचन ।।
सुरभीगणमानीय गत्वैतं स्नापयन्तु वै ।। २८ ।।
रुद्रशापो निवृत्तः स्यात्तेनैव किल नान्यथा ।।
एतस्मिन्नन्तरे देवि मया गावोऽवतारिताः ।। २९ ।।
सप्तसप्ततिः कल्याणि सौरभेया महौजसः ।।
तेनाप्लावितदेहाश्च परां निर्वृतिमागताः ।। 147.३० ।।
तच्च गोनिष्क्रमं नाम तीर्थं परमपावनम् ।।
तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ।।३१।।
गोलोकं च समासाद्य मोदते नात्र संशयः ।।
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ।।३२।।
शंखचक्रगदायुक्तो मम लोके महीयते ।।
पंच धाराः पतन्त्यत्र मूले मूलवटस्य हि ।। ३३ ।।
तत्र स्नानं प्रकुर्वीत पंचरात्रोषितो नरः ।।
पंचानामपि यज्ञानां फलमाप्नोति मानवः ।। ३४ ।।
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ।।
पंचयज्ञफलं भुक्त्वा मम लोकं प्रपद्यते।।३५।।
अस्ति पंचपदं नाम तस्मिन्क्षेत्रे परं मम।।
मम पूर्वेण पार्श्वेण दृढाः पंच महाशिलाः।।३६।।
मत्पूर्वां दिशमाश्रित्य तत्र ब्रह्मपदद्वयम् ।।
मध्ये तु तस्य कुण्डस्य शिला विस्तीर्णसंश्रिता ।। ३७ ।।
ऊर्द्ध्वं नालपरीणाहं तत्र विष्णुपदं मम ।।
तत्र स्नानं तु कुर्वीत पंचरात्रोषितो नरः ।। ३८ ।।
यांति शुद्धांस्तु लोकांस्ते ये च भागवतप्रियाः ।।
अथात्र मुञ्चते प्राणान्युक्तः पञ्चपदे नरः ।। ३९ ।।
विमुक्तः सर्वसंसारान्मम लोकं च गच्छति ।।
ततो ब्रह्मपदं नाम क्षेत्रं गुह्यं परं मम ।। 147.४० ।।
यत्र धारा पतत्येका पश्चिमां दिशमाश्रिता ।।
तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ।। ४१ ।।
ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते ।।
कौमुदस्य तु मासस्य शुक्लपक्षस्य द्वादशी ।। ४२ ।।
यज्ञानां वाजपेयानां फलं प्राप्नोति मानवः ।।
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः ।। ४३ ।।
वाजपेयफलं भुक्त्वा मम लोकं प्रपद्यते ।।
अस्ति कोटिवटं नाम तस्मिन् क्षेत्रे परं मम ।। ४४ ।।
पंचक्रोशं ततो गत्वा वायव्यां दिशि संस्थितः ।।
तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ।। ४५ ।।
बहुयज्ञस्य कोटीनां फलं प्राप्नोति निष्कलम् ।।
अथात्र मुंचते प्राणान्भूमे कोटिवटे शुभे ।।४६।।
यज्ञकोटिफलं भुक्त्वा मम कोटिं प्रपद्यते ।।
अस्ति विष्णुसरो नाम तस्मिन् क्षेत्रे परं मम ।। ४७ ।।
पूर्वोत्तरेण पार्श्वेन पंचक्रोशं न संशयः ।।
मत्सरः पद्मपत्राक्षि आगाधं परिसंस्थितम् ।। ४८ ।।
पंचक्रोशश्च विस्तारः पर्वतः परिमण्डलः ।।
तत्र भ्रमति यो भद्रे कुर्याच्चैव प्रदक्षिणम् ।। ४९ ।।
उपवासं त्रिरात्रं तु कृत्वा कर्म सुदुष्करम् ।।
यावन्ति भ्रममाणस्य पदानि ननु सुन्दरि ।। 147.५० ।।
तावद्वर्षसहस्राणि ब्रह्मलोके महीयते ।।
अथाऽत्र मुंचते प्राणान्स्वकर्मपरिनिष्ठितः ।। ५१ ।।
ब्रह्मलोकं समुत्सृज्य मम लोके महीयते ।।
तस्मिन् क्षेत्रे महाभागे आश्चर्यं शृणु सुन्दरि ।। ५२ ।।
गवां वै श्रूयते शब्दो मम कर्मसुखावहः ।।
अथात्र ज्येष्ठमासस्य शुक्लपक्षस्य द्वादशी ।। ५३ ।।
श्रूयते सुमहाञ्छब्दः स्वयमेतन्न संशयः ।।
एवं गोस्थलके पुण्ये महाभागवतः शुचिः ।।५४।।
करोति शुभकर्माणि शीघ्रं मुच्येत किल्बिषात् ।।
एवं तेन महाभागे ईश्वरेण यशस्विनि ।।५५।।
शापदाहो विनिर्मुक्तः सर्वैः सह मरुद्गणैः।।
एतद्गोस्थलकं नाम सर्वशान्तिकरं परम् ।।५६।।
कथितं देवि कार्त्स्न्येन तवानुग्रहकाम्यया।।
एषोऽध्यायो महाभागे सर्वमङ्गलकारकः ।। ५७ ।।
मम मार्गानुसाराणां मम च प्रीतिवर्द्धनः ।।
श्रेष्ठानां परमं श्रेष्ठं मङ्गलानां च मङ्गलम् ।। ५८ ।।
लाभानां परमो लाभो धर्माणां धर्म उत्तमः ।।
लभन्ते पठमाना वै मम मार्गानुसारिणः ।। ५९।।
तेजः श्रियं च लक्ष्मीं च सर्वकामान्यशस्विनि ।।
यावन्ति चाक्षराणि स्युरत्राध्याये मनस्विनि ।। 147.६० ।।
तावद्वर्षसहस्राणि मम लोके महीयते ।।
पतनं च न विद्येत पठमानो दिने दिने ।। ६१ ।।
तारितानि कुलान्येभिः सप्त सप्त च सप्त च ।।
पिशुनाय न दातव्यं न मूर्खाय शठाय च ।। ६२ ।।
देयं पुत्राय शिष्याय यश्च जानाति सेवितुम् ।।
एतन्मरणकाले तु न कदाचित्तु विस्मरेत् ।। ६३ ।।
श्लोकं वा यदि वा पादं यदीच्छेत्परमां गतिम् ।।
तत्क्षेत्रं तु महाभागे पंचयोजनमण्डलम् ।।६४ ।।
तिष्ठामि परया प्रीत्या दिशं पूर्वामुपाश्रितः ।।
पश्चिमेन वहेद्गङ्गां निष्कामेन वसुन्धरे ।। ६५ ।।
एवं रहस्यं गुह्यं च सर्वकर्मसुखावहम् ।।
एतत्ते परमं भद्रे गुह्यं धर्मसमन्वितम् ।। ६६ ।।
मम क्षेत्रं महाभागे यत्त्वया परिपृच्छितम् ।। ६७ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे गोनिष्क्रमण माहात्म्यं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ।। १४७ ।।