← अध्यायः १५१ वराहपुराणम्
अध्यायः १५२
[[लेखकः :|]]
अध्यायः १५३ →

अथ मथुरातीर्थ प्रशंसा ।।
सूत उवाच ।।
श्रुत्वा देवस्य माहात्म्यं लोहार्गलनिवासिनः ।।
त्रैलोक्यनाथाधिपतेर्विस्मयं परमं गता ।। १ ।।
धरण्युवाच ।।
पद्मपत्र विशालाक्ष लोकनाथ जगत्पते ।।
त्वत्प्रसादाच्च देवेश श्रुतं शास्त्रं महौजसम् ।। २ ।।
तव शिष्या च दासी च त्वामहं शरणङ्गता ।।
जगद्धाता जगज्ज्योतिर्जगत्प्रभुरतन्द्रितः ।। ३ ।।
तव सम्भावनाद्देव जातास्मि कनकोज्ज्वला ।।
अलंकृता च शस्ता च सर्वशास्त्रेण मानद ।।४ ।।
जगद्धातुर्जगच्छास्त्रकृते न हि परिश्रमः ।।
त्वय्यायत्तं जगत्सर्वं यच्च किंचित्प्रवर्त्तते ।। ५ ।।
इति कृत्वा च मे देव त्वाह्लादो हृदि वर्त्तते ।।
लोहार्गलात् परं श्रेष्ठं गुह्यं परमदुर्लभम् ।। ६ ।।
तीर्थं तद्वद कल्याणं तीर्थानामुत्तमोत्तमम् ।।
यदस्ति दुर्लभं तीर्थं तत्त्वं कथय मे प्रभो ।। ७ ।।
श्रीवराह उवाच ।।
न विद्यते च पाताले नान्तरिक्षे न मानुषे ।।
समानं मथुराया हि प्रियं मम वसुन्धरे ।। ८ ।।
सूत उवाच ।।
तच्छ्रुत्वा वचनं तस्य प्रियं च वसुधा तदा ।।
प्रणम्य शिरसा देवी वराहं पुनरब्रवीत् ।।९ ।।
पृथिव्युवाच।।
पुष्करं नैमिषं चैव पुरीं वाराणसीं तथा ।।
एतान्हित्वा महाभाग मथुरां किं प्रशंसति ।। 152.१० ।।
श्रीवराह उवाच ।।
शृणु कार्त्स्न्येन वसुधे कथ्यमानं मयानघे ।।
मथुरेति च विख्यातं तस्मान्नास्ति परं मम ।। ११ ।।
सा रम्या च सुशस्ता च जन्मभूमिस्तथा मम ।।
शृणु देवि यथा स्तौमि मथुरां पापहारिणीम् ।। १२ ।।
तत्र वासी नरो याति मोक्षं नास्त्यत्र संशयः ।।
महामाघ्यां प्रयागे तु यत्फलं लभते नरः ।। १३ ।।
तत्फलं लभते देवि मथुरायां दिने दिने ।।
पूर्णे वर्ष सहस्रं तु वाराणस्यां तु यत्फलम् ।। १४ ।।
तत्फलं लभते देवि मथुरायां क्षणेन हि ।।
कार्त्तिक्यां चैव यत्पुण्यं पुष्करे तु वसुन्धरे ।।१५ ।।
तत्फलं लभते देवि मथुरायां जितेन्द्रियः ।।
मथुरां तु परित्यज्य योऽन्यत्र कुरुते रतिम् ।। १६ ।।
मूढो भ्रमति संसारे मोहितो मम मायया ।।
यः शृणोति वरारोहे माथुरं मम मण्डलम् ।। १७ ।।
अन्येनोच्चारितं शश्वत्सोऽपि पापैः प्रमुच्यते ।।
पृथिव्यां यानि तीर्थानि आसमुद्रं सरांसि च ।। १८ ।।
मथुरायां प्रयान्त्यत्र सुप्ते चैव जनार्दने ।।
मथुरामण्डलं प्राप्य श्राद्धं कृत्वा यथाविधि ।। १९ ।।
तृप्तिं प्रयान्ति पितरो यावत्स्थित्यग्रजन्मनः ।।
ये वसंति महाभागे मथुरामितरे जनाः ।। 152.२० ।।
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः ।।
कुब्जाम्रके सौकरवे मथुरायां विशेषतः ।। २१ ।।
विना सांख्येन योगेन मत्प्रसादान्न संशयः ।।
मथुरायां महापुर्यां ये वसंति शुचिव्रताः ।।२२ ।।
बलिभिक्षाप्रदातारो देवास्ते नरविग्रहाः ।।
भविष्यामि वरारोहे द्वापरे युगसंस्थिते ।। २३ ।।
ययातिभूपवंशाच्च क्षत्रियः कुलवर्द्धनः ।।
भविष्यामि वरारोहे मथुरायां न संशयः ।। २४ ।।
मूर्तिं चतुर्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः ।।
वत्सराणां शतं तत्र युद्धेषु कृतनिश्चयः ।। २५ ।।
एका चन्दनसङ्काशा द्वितीया कनकप्रभा ।।
अशोकसदृशा चान्या अन्या चोत्पलसन्निभा ।। २६ ।।
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ।।
पुण्यानि च पवित्राणि संसारच्छेदनानि च ।। २७ ।।
यत्राहं पातयिष्यामि द्वात्रिंशत्तु वसुन्धरे ।।
दैत्यान्घोरान्महाभागे कंसादीन्धर्मदूषकान् ।। २८ ।।
यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम् ।।
वैवस्वतसुता रम्या यमुना यत्र विश्रुता ।। २९।।
गङ्गां प्राप्य प्रयागे या वेणीति प्रथिता भुवि ।।
गङ्गाशतगुणा पुण्या माथुरे मम मण्डले ।। 152.३० ।।
यमुना विश्रुता देवि नात्र कार्या विचारणा ।।
तत्र तीर्थानि गुह्यानि भविष्यन्ति ममानघे ।। ३१ ।।
येषु स्नाने नरो देवि मम लोके महीयते ।।
अथात्र मुञ्चते प्राणान्मम कर्मपरायणः ।। ३२ ।।
न जायत स मर्त्त्येषु जायते च चतुर्भुजः ।।
अविमुक्ते नरः स्नातो मुक्तिं प्राप्नोत्यसंशयम् ।। ३३ ।।
तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ।।
विश्रान्तिसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् ।। ३४ ।।
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते ।।
सर्वतीर्थेषु यत्स्नानं सर्वतीर्थेषु यत्फलम् ।। ३५ ।।
तत्फलं लभते देवि दृष्ट्वा देवं गतश्रमः ।।
न च यज्ञैर्न तपसा न ध्यानैर्न च संयमैः ।। ३६ ।।
तत्फलं लभते स्नातो यथा विश्रान्तिसंज्ञके ।।
कालत्रयं तु वसुधे यः पश्यति गतश्रमः ।। ३७ ।।
कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति ।।
अस्ति चान्यत्परं गुह्यं सर्वसंसारमोक्षणम् ।।३८।।
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते ।।
प्रयागं नाम तीर्थं तु देवानामपि दुर्ल्लभम्।।३९।।
यस्मिन्स्नातो नरो देवि अग्निष्टोमफलं लभेत् ।।
इन्द्रलोकं समासाद्य नरोऽसौ देवि मोदते।।152.४०।।
अथात्र मुंचते प्राणान्मम लोके स गच्छति ।।
तथा कनखलं नाम तीर्थं गुह्यं परं मम ।। ४१ ।।
स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते ।।
अस्ति क्षेत्रं परं गुह्यं तिंदुकं नाम नामतः।।४२।।
तस्मिन्स्नातो नरो देवि मम लोके महीयते ।।
अस्मिंस्तीर्थे पुरा वृत्तं तच्छृणुष्व वसुन्धरे ।।४३।।
पांचालविषये देवि काम्पिल्यं च पुरोत्तमम्।।
धनधान्यसमायुक्तं ब्रह्मदत्तेन पालितम् ।। ४४ ।।
तस्मिंस्तु वसते देवि तिंदुको नाम नापितः।।
तस्मिंस्तु वसतस्तस्य नापितस्य पुरोत्तमे।।४५।।
कालेन महता तस्य कुटुम्बं च क्षयं गतम् ।।
क्षीणे कुटुम्बे तु तदा सुभृशं दुःखपीडितः ।। ४६ ।।
सर्वसंगं परित्यज्य सोऽगच्छन्मथुरां तदा ।।
ब्राह्मणावसथे सोऽपि वसमानो वसुन्धरे ।।४७।।
तस्य कर्मशतं कृत्वा स्नात्वैव यमुनां नदीम् ।।
नित्यं स यमुनां स्नाति चिरकालं दृढव्रतः।।४८।।
ततः कालेन महता पंचत्वं समुपागतः ।।
स च तीर्थप्रभावेण जातोऽसौ ब्राह्मणोत्तमः ।।४९।।
तस्मिन् वरगृहे देवि ब्राह्मणो योगिनां वरः।।
जातिस्मरो महाप्राज्ञो विष्णुभक्तो वसुन्धरे ।। 152.५० ।।
तत्तीर्थस्य प्रभावेण जाता मुक्तिः सुदुर्ल्लभा ।।
ततः परं सूर्यतीर्थं सर्वपापप्रमोचनम् ।। ५१ ।।
वैरोचनेन बलिना सूर्यस्त्वाराधितः पुरा ।।
भ्रष्टराज्येन हि तथा धनकामेन सुन्दरि ।।५२ ।।
ऊर्द्ध्वबाहुर्निराहारस्तताप परमं तपः ।।
साग्रं संवत्सरं देवि ततः काममवाप्तवान् ।।५३।।
तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत।।
किं कारणं बले ब्रूहि तपस्यसि महत्तपः।।५४।।
बलिरुवाच।।
भ्रष्टराज्योऽस्मि देवेश पाताले निवसाम्यहम् ।।
वित्तेनापि विहीनस्य कुटुम्बभरणं कृतः ।।५५।।
मुकुटात्तस्य वै सूर्यो ददौ चिन्तामणिं ततः ।।
चिन्तामणिं समासाद्य पातालमगमद्बलिः ।। ५६ ।।
तस्मिंस्तीर्थे नरः स्नातः सर्वपापैः प्रमुच्यते ।।
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ।। ५७ ।।
आदित्याहनि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।।
तस्मिन्स्नातो नरो देवि राजसूयफलं लभेत् ।।५८ ।।
ध्रुवेण यत्र सन्तप्तं स्वेच्छया परमं तपः ।।
तत्र वै स्नानमात्रेण ध्रुवलोके महीयते ।। ५९ ।।
तत्राथ मुञ्चते प्राणान्मम लोके महीयते ।।
ध्रुवतीर्थे तु वसुधे यः श्राद्धं कुरुते नरः ।।152.६० ।।
पितॄंस्तारयते सर्वं पितृपक्षे विशेषतः ।।
दक्षिणे ध्रुवतीर्थस्य तीर्थराजं प्रकीर्तितम् ।। ६१ ।।
तस्मिन् स्नाते नरो देवि मम लोकं प्रपद्यते ।।
तद्दक्षिणे महादेवि ऋषितीर्थं परं मम ।। ६२ ।।
तत्र स्नातो नरो देवि ऋषिलोकं प्रपद्यते ।।
अथात्र मुञ्चते प्राणान्मम लोके महीयते ।।६३।।
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ।।
तत्र वै स्नानमात्रेण मोक्षमेव प्रपद्यते ।।६४ ।।
तत्र वै कोटितीर्थं हि देवानामपि दुर्ल्लभम्।।
तत्र स्नानेन दानेन मम लोके महीयते ।।६५ ।।
कोटितीर्थे नरः स्नात्वा सन्तर्प्य पितृदेवताः ।।
तारिताः पितरस्तेन तथैव प्रपितामहाः ।।६६।।
कोटितीर्थे नरः स्नात्वा ब्रह्मलोके महीयते ।।
तत्रैव वायुतीर्थं तु पितॄणामपि दुर्ल्लभम् ।। ६७ ।।
पिण्डदानात्तु तत्रैव पितृलोके स गच्छति ।।
गया पिण्डप्रदानेन यत्फलं लभते नरः ।।
तत्फलं लभते देवि ज्येष्ठे दानान्न संशयः ।। ६८ ।।
द्वादशैतानि तीर्थानि देवानां दुर्ल्लभानि च ।।
स्नानं दानं जपं होमं सहस्रगुणितं भवेत् ।।६९।।
येषां स्मरणमात्रेण सर्वपापैः प्रमुच्यते।।
तीर्थानां चैव माहात्म्यं श्रुत्वा कामानवाप्नुयात् ।।152.७० ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रशंसा नाम द्वापंचाशदधिकशततमोऽध्यायः ।। १५२।।