वराहपुराणम्/अध्यायः १५१
← अध्यायः १५० | वराहपुराणम् अध्यायः १५१ [[लेखकः :|]] |
अध्यायः १५२ → |
अथ लोहार्गलमाहात्म्यम् ।।
सूत उवाच ।।
सानन्दूरस्य माहात्म्यमेतच्छ्रुत्वा वसुन्धरा ।।
कृताञ्जलिपुटा भूत्वा वराहं पुनरब्रवीत् ।। १ ।।
धरण्युवाच ।।
श्रुतमेतज्जगन्नाथ विष्णो गुह्यमनुत्तमम् ।।
यच्छ्रुत्वा सुमहाभाग जाताऽस्मि विगतज्वरा ।। २ ।।
अपरं वाऽस्ति चेत्किंचिद्गुह्यं क्षेत्रं शुभावहम् ।।
सानन्दूरात्परं गुह्यं क्षेत्रमस्ति न वा परम् ।। ३ ।।
सुरकरण नृसिंह लोकनाथ युतससुरसुरधीर देववीर ।।
कमलदलसहस्रनेत्र रूपो जयति कृतान्तसमानकालरूपः ।। ४ ।।
गद्गदं वचनं श्रुत्वा पृथिव्याः स जनार्दनः ।।
उवाच मधुरं वाक्यं सर्वलोकार्त्तिहा हरिः ।। ५ ।।
श्रीवराह उवाच ।।
शृणु देवि च तत्त्वेन यन्मां त्वं परिपृच्छसि ।।
गुह्यमन्यत्प्रवक्ष्यामि मद्व्रतः कर्मणो जनिः ।। ६ ।।
ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः ।।
म्लेच्छमध्ये वरारोहे हिमवन्तं समाश्रितम् ।। ७ ।।
तत्र लोहार्गले क्षेत्रे निवासो विहितः शुभः ।।
गुह्यं पंचदशायामं समन्तात्पञ्चयोजनम् ।। ८ ।।
दुर्गमं दुःसहं चैव पापैः सर्वत्र वेष्टितम् ।।
सुलभं पुण्ययुक्तानां मम चिन्तानुसारिणाम् ।। ९ ।।
तत्र तिष्ठाम्यहं भद्रे उदीचीं दिशमाश्रितः ।।
हिरण्यप्रतिमां कृत्वा जातरूपां न संशयः ।। 151.१० ।।
ततो मे दानवाः सर्वे क्रमन्तो लोकमुत्तमम् ।।
मया चैवान्तरं कृत्वा कृत्वा मायां च वैष्णवीम् ।। ११ ।।
तत्र ब्रह्मा च रुद्राश्च स्कन्देन्द्रो समुरुद्गणाः ।।
आदित्या वसवो वायुरश्विनौ च महौजसम् ।। १२ ।।
सोमो बृहस्पतिश्चैव ये चान्ये वै दिवौकसः ।।
तेषां चैवार्गलं दत्त्वा चक्रं गृह्य महौजसम् ।। १३।।
शतकोटिसहस्राणि शीघ्रमेव निपातितम् ।।
ततश्च देवताः सर्वास्तुष्यमाणा इतस्ततः ।। १४ ।।
एवं लोहार्गलं नाम क्षेत्रं चैव मया कृतम् ।।
ततो देवासुरे युद्धे हत्वा त्रिदशकण्टकान् ।। १५।।
तेषां संस्थापनं तत्र कृतं चैव महौजसाम् ।।
यो मां पश्यति तत्रस्थं प्रयत्नेन कदाचन ।। १६ ।।
सोपि भागवतो भूमे भवत्येव सुनिष्ठितः ।।
तस्मिन्कुण्डे तु सुश्रोणि यः स्नाति नियतो नरः ।। १७ ।।
उपोष्य च त्रिरात्रं तु विधिदृष्टेन कर्मणा ।।
ततः स्वर्गसहस्रेषु मोदते नात्र संशयः ।। १८ ।।
अथात्र मुंचते प्राणान्स्वकर्मपरिनिष्ठितः ।।
सर्वान्स्वर्गान्परित्यज्य मम लोकं प्रपद्यते ।। १९ ।।
अन्यच्च ते प्रवक्ष्यामि यत्र तत्परमाद्भुतम् ।।
लोकविस्मापनार्थाय मया तत्र च यत्कृतम् ।। 151.२० ।।
चतुर्विंशतिद्वादश्यां मासेन विधिना मम ।।
बलिः प्रदीयते तत्र सर्वकामविशोधनः ।। २१ ।।
अश्वो मे कल्पितस्तत्र सर्वरत्नविभूषितः ।।
श्वेतः कुमुदवर्णाभः शङ्खकुन्दसमप्रभः।।२२ ।।
मार्गणा मे धनुस्तत्र अक्षसूत्रं कमण्डलुः ।।
आसनं विततं दिव्यं दीयतेऽश्वोपरि स्थिरम् ।। २३ ।।
श्वेतपर्वतमारुह्य पतमानः कुरून्बहून् ।।
पतितस्तत्र दृश्येत क्षतं तत्र न दृश्यते ।।२४।।
अनेकान्येव रूपाणि पातयित्वा नभस्तलात् ।।
शान्तो दान्तः परिक्लिष्टः स चाश्वो दिवि वर्त्तते।।२५।।
सूत उवाच ।।
ततो भूम्या वचः श्रुत्वा ब्रह्मपुत्रो महामुनिः ।।
विस्मयं परमं प्राप्तो विष्णुमायोपबृंहितः ।। २६ ।।
ततः स विस्मयाविष्टो ब्रह्मपुत्रो महामतिः ।।
सनत्कुमारो भगवान्पुनरेवमभाषत ।।२७ ।।
सनत्कुमार उवाच ।।
धन्यासि देवि सुश्रोणि सुपुण्यासि वरानने ।।
देवि यल्लोकनाथस्य साक्षाद्दर्शनमागता ।। २८ ।।
पद्मपत्रविशालाक्षो यत्त्वया परिभाषितः ।।
तेनोक्तं शंस सकलं सर्वेषां सुखवर्द्धनम् ।। २९ ।।
यथा यथा वदसि च धर्मसंहितं गुह्यं परं देववरप्रणीतम् ।।
गुणोत्तमं कारणसम्प्रयुक्तं तथा तथा भावयसे मनो मम।।151.३०।।
ततः स पुण्डरीकाक्षः किमाचष्ट ततः परम् ।।
कर्मणा विधिदृष्टेन सर्वभागवतप्रियः ।।३१ ।।
( सूतउवाच) ।।
तस्य तद्वचनं श्रुत्वा कुमारस्य महौजसः ।।
उवाच मधुरं वाक्यमाभाष्य ब्रह्मणः सुतम् ।। ३२ ।।
शृणु वत्स जगन्नाथो यथा मामाह चोदितः ।।
श्रीवराह उवाच ।।
एवं तत्रैव कर्माणि क्रियन्ते विधिपूर्वकम् ।। ३३।।
शोधकानि च पापानां मृदूनि च शुभानि च ।।
अश्वानां तत्कुलीनानामावहन्ति सुमध्यमे ।।३४ ।।
नान्यं वहन्ति ते चाश्वा मम वाहा दुरत्ययाः।।
कुण्डं पंचसरो नाम गुह्यं क्षेत्रं परं मम ।।३५।।
चतुर्धाराः पतन्त्यत्र शङ्खवर्णा मनोजवाः ।।
तत्र स्नानं तु कुर्वीत चतुर्भक्तोषितो नरः ।। ३६ ।।
लोकं चैत्राङ्गदं गत्वा गन्धर्वैः सह मोदते ।।
अथ चेन्मुञ्चते प्राणांस्तस्मिन्क्षेत्रे परे मम ।।३७।।
गन्धर्वलोकमुत्सृज्य मम लोकं स गच्छति ।।
ततो नारदकुण्डे तु मम क्षेत्रे परे महत् ।। ३८ ।।
पंच धाराः पतन्त्यत्र तालवृक्षसमोपमाः ।।
तत्र स्नानं तु कुर्वीत एकभक्तोषितो नरः ।। ३९ ।।
देवर्षिनारदं पश्येन्मोदते तेन वै समम् ।।
अथात्र मुंचते प्राणान्मम गुह्यविनिश्चितः ।।151.४० ।।
प्रमुच्य नारदं द्विव्यं ममलोकं च गच्छति ।।
ततो वसिष्ठकुण्डं तु तस्मिन्क्षेत्रं परं मम ।। ४१ ।।
धाराः पतन्ति तिस्रस्तु न स्थूला नाति वै कृशाः ।।
तत्राभिषेकं कुर्वीत पंच कालोषितो नरः ।। ४२ ।।
वासिष्ठं लोकमासाद्य मोदते नात्र संशयः ।।
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः।।।४३
वासिष्ठं लोकमुत्सृज्य मम लोकं प्रपद्यते ।।
पंचकुण्डेति विख्यातं तस्मिन्क्षेत्रे परं मम ।। ४४ ।।
पंच धाराः पतन्त्यत्र हिमकूटविनिःसृताः ।।
तत्राभिषेकं कुर्वीत पंचकालोषितो नरः ।। ४५ ।।
स तत्र गच्छेद्वै भूमे यत्र पंचशिखो मुनिः ।।
अथात्र मुंचते प्राणान्मम भक्तो जितेन्द्रियः ।। ४६ ।।
पंचचूडं समुत्सृज्य स याति परमां गतिम् ।।
सप्तर्षिकुण्डं विख्यातमस्मिन्क्षेत्रे परं मम ।।४७ ।।
सप्त धाराः पतन्त्यत्र हिमवत्पर्वतस्थिताः ।।
तत्राभिषेकं कुर्वीत सप्तभक्तोषितो नरः ।। ४८ ।।
मोदते ऋषिलोकेषु ऋषिकन्याभिसंवृतः ।।
अथात्र मुंचते प्राणान्रागलोभविवर्जितः ।। ४९ ।।
सप्तर्षीन्स समुत्सृज्य मोदते मम संस्थितः ।।
शरभङ्गस्य कुण्डं वै क्षेत्रे गुह्यं परे मम ।। 151.५० ।।
तत्र धारा पतत्येका शरभङ्गश्रिता नदी ।।
स्नानं यस्तत्र कुर्वीत षष्ठभक्तोषितो नरः ।। ५१ ।।
मोदते तस्य लोकेषु ऋषिकन्याप्रमोदितः ।।
अथात्र मुंचते प्राणान्सर्वसङ्गविवज्जितः ।। ५२ ।।
शरभङ्गं समुत्सृज्य मम लोके महीयते ।।
कुण्डमग्निसरो नाम सर्वमायाभिसंवृतम् ।। ५३ ।।
भूमिं नीत्वा जलं तत्र तिष्ठत्येव वरानने ।।
तत्र स्नानं प्रकुर्वीत चाष्टकालोषितो नरः ।। ५४ ।।
गच्छत्यङ्गिरसो लोकं सुखभागी न संशयः ।।
अथात्र मुंचते प्राणान्मम कर्मपरायणः ।। ५५ ।।
अग्निलोकं समुत्सृज्य मम लोकं स गच्छति ।।
कुण्डं बृहस्पतेर्भूमे सर्ववेदोदकाश्रितम् ।। ५६ ।।
धारा चैका पतत्यत्र हिमकूटसमाश्रिता ।।
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः ।।५७।।
गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोदितः ।।
अथात्र मुंचते प्राणान्मम लोकं समाश्रितः ।।५८।।
सोऽपि याति परां सिद्धिं समुत्सृज्य बृहस्पतिम् ।।
वैश्वानरस्य कुण्डं तु गुह्यं क्षेत्रं परं मम् ।।५९।।
धारा चैका पतत्यत्र दृश्यते हिमसंश्रयात् ।।
तत्राभिषेकं कुर्वीत षष्ठभक्तोषितो नरः ।।151.६० ।।
गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोहितः ।।
वैश्वानरेषु लोकेषु मोदते नाऽत्र संशयः ।।६१।।
अथात्र मुंचते प्राणान्मम कर्मपरायणः ।।
वैश्वानरं समुत्सृज्य मम लोकं स गच्छति ।। ६२ ।।
कार्त्तिकेयस्य कुण्डं तु गुह्यं क्षेत्रं परं मम ।।
यत्र पंचदशा धाराः पतन्ति हिमपर्वतात् ।। ६३।।
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः ।।
कुमारं पश्यति व्यक्तं षण्मुखं शुभदर्शनम् ।। ६४ ।।
अथात्र मुंचते प्राणान्कृत्वा चान्द्रायणं शुचिः ।।
कार्त्तिकेयं समुत्सृज्य मोदते मम मण्डले ।। ६५ ।।
उमाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम ।।
सा गौरी यत्र चोत्पन्ना महादेववराङ्गना ।। ६६ ।।
तत्र स्नानं तु कुर्वीत दशरात्रोषितो नरः ।।
गौरीं देवीं स पश्येत्तु तस्या लोके च मोदते ।। ६७ ।।
अथ प्राणान्प्रमुंचेत दशरात्रोषितो नरः ।।
उमालोकं समुत्सृज्य मम लोकं प्रपद्यते ।। ६८ ।।
महेश्वरस्य वै कुण्डं यत्र चोद्वाहिता उमा ।।
कादम्बैश्चक्रवाकैश्च हंससारससेवितम् ।। ६९ ।।
तिस्रो धाराः पतन्त्यत्र हिमवत्पर्वताश्रिताः ।।
स्थूलाश्च रमणीयाश्च न ह्रस्वाश्चातिनिर्मलाः ।। 151.७० ।।
तत्र स्नानं तु कुर्वीत द्वादशाहोषितो नरः ।।
मोदते रुद्रलोकेषु रुद्रकन्याभिरावृतः ।। ७१ ।।
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ।।
रुद्रलोकं समुत्सृज्य मम लोकं च गच्छति ।।७२ ।।
प्रख्यातं ब्रह्मकुण्डं तु वेदा यत्र समुत्थिताः ।।
चतस्रो वेद धारास्तु पतन्ति च हिमालयात् ।। ७३ ।।
ततः पूर्वेण पार्श्वेन समा धारा पतेच्छुभा ।।
उच्चा च रमणीया च पाण्डरोदकशोभिता ।। ७४।।
पुनरस्योत्तरे पार्श्वे सुवर्णसदृशोपमा ।।
ऋग्वेदः पतते धारा प्रसन्ना विमलोदका ।। ७९।।
अथ पश्चिमपार्श्वेन यजुर्वेदेन संयुता ।।
अथ दक्षिणपार्श्वेन चाथर्वणसमन्विता ।। ७६ ।।
एका धारा पतत्यत्र इन्द्रगोपकसन्निभा ।।
यस्तत्र कुरुते स्नानं सप्तरात्रोषितो नरः ।। ७७ ।।
ब्रह्मलोकं समासाद्य ब्रह्मणा सह मोदते ।।
अथात्र मुञ्चते प्राणानहङ्कारविवर्जितः ।।७८।।
ब्रह्मलोकं परित्यज्य मम लोकं प्रपद्यते ।।
गुह्याख्याने महाभागे क्षेत्रे लोहार्गले मम ।। ७९ ।।
सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः ।।
समन्तात्पञ्चविंशति योजनानि वरानने ।। 151.८० ।।
न तस्य कर्म विद्येत स एवमपि संस्थितः ।।
आख्यानानां महाख्यानं धर्माणां धर्म उत्तमः ।।८१।।
पवित्राणां पवित्रं तु न देयं यस्य कस्यचित् ।।
ये पठंति महाभागे स्थिताः शृण्वन्ति मत्पथे ।।८२।।
तारितानि कुलानि स्युरुभयत्र दशापि च ।।
एतन्मरणकाले तु न कदाचित्तु विस्मरेत् ।।८३।।
यदीच्छेत्परमां सिद्धिं सर्वसंसारमोक्षणीम् ।।
एतत्ते कथितं भद्रे लोहार्गलमनुत्तमम् ।।८४ ।।
माहात्म्यं पद्मपत्राक्षि गुह्यं यच्च महौजसम् ।।
मङ्गल्यं च पवित्रं च मम भक्त सुखावहम् ।। ८५ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे लोहार्गलमाहात्म्यं नामैकपंचाशदधिकशततमोऽध्यायः ।। १५१ ।।