← अध्यायः १५३ वराहपुराणम्
अध्यायः १५४
[[लेखकः :|]]
अध्यायः १५५ →

अथ यमुनातीर्थप्रभावः ।।
वराह उवाच ।।
एवंविधां च मथुरां दृष्ट्वा तौ मुदमापतुः ।।
एवं तु वसतस्तस्य राज्ञस्तत्र वसुन्धरे ।। १ ।।
पप्रच्छ च तदा भार्या यद्गुह्यं पूर्वभाषितम् ।।
पुरस्थेन तदा राज्ञा वक्ष्यामि मथुरां प्रति।।२।। ।।
तन्मे वद महाराज यद्गोप्यं पूर्वभाषितम् ।।
राजाप्युवाच तां राज्ञीं त्वयाप्युक्तं पुरा मम ।। ३ ।।
तद्वदस्व स्वकं गुह्यं पश्चाद्वक्ष्याम्यहं तव ।।
इत्युक्त्वा पीवरी ज्ञात्वा प्रहस्य तु गुणालया ।। ४ ।।
प्रोवाच चैव राजानं मनसः प्रीतिकारणम् ।।
अहं तु पीवरी नाम गंगातीरनिवासिनी ।। ५ ।।
आगतेमां पुरीं द्रष्टुं कुमुदस्य तु द्वादशीम् ।।
नावमारुह्य यान्तीह पतिता यमुनाजले ।। ६ ।।
सद्यः प्राणैर्वियुक्ता च तत्तीर्थस्य प्रभावतः ।।
काशीराजपतेः कन्या यातास्मि वसुधाधिप ।। ७ ।।
त्वया विवाहिता राजन्न च मां विजहात्स्मृतिः ।।
एतत्तीर्थप्रभावेण धर्मयुक्ता तथाऽनघ।।८।।
धारापतनके तीर्थे त्यक्त्वा जीवितमात्मनः।।
एतच्छ्रुत्वा ततो राजा कथां प्राग्जन्मसम्भवाम् ।। ९ ।।
स्वां चाप्यकथयत्तस्यै यथा संयमने मृतः ।।
एवं तौ मथुरां प्राप्य स्नात्वा यामुनतीर्थके ।। 154.१० ।।
मां पश्यन्तौ नियमतस्तत्रैव निधनं गतौ ।।
मृतौ सर्वपरित्यक्तौ गतौ मम सलोकताम् ।। ११ ।।
एतत्ते कथितं देवि आश्चर्यं यदभून्महत् ।।
त्यक्त्वा चात्मतनुं तीर्थे धारापतनसंज्ञके ।। १२ ।।
नाकलोकमवाप्नोति त्यक्तपापो न संशयः ।।
यमुनेश्वरमासाद्य त्यक्त्वा जीवितमात्मनः ।।१३।।
विष्णुलोकमवाप्नोति दिव्यमूर्तिश्चतुर्भुजः ।।
धारापतनके स्नात्वा नाकलोके स मोदते ।।१४।।
अथात्र मुंचते प्राणान्मम लोकं स गच्छति ।।
अतः परं नागतीर्थं तीर्थानामुत्तमोत्तमम्।।१५।।
यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।।
घण्टाभरणकं तीर्थं सर्वपापप्रमोचनम् ।। १६।।।
यस्मिन्स्नातो नरो याति सूर्यलोकं न संशयः ।।
अथाऽत्र मुंचते प्राणान्मम लोकं स गच्छति ।। १७ ।।
पुनरन्यत् प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
तीर्थानामुत्तमं तीर्थं ब्रह्मलोकेषु विश्रुतम् ।। १८ ।।
तत्र स्नात्वा च पीत्वा च नियतो नियताशनः ।।
ब्रह्मणा समनुज्ञातो मम लोकं स गच्छति ।। १९ ।।
सोमतीर्थे तु वसुधे पवित्रे यमुनाम्भसि ।।
यत्र पश्यति मां सोमो द्वापरे युगसंस्थिते ।। 154.२० ।।
तत्राभिषेकं कुर्वीत स्वकर्मपरिनिष्ठितः ।।
मोदते सोमलोके तु एवमेव न संशयः ।। २१ ।।
अथात्र मुंचते प्राणान्मम लोकं स गच्छति ।।
सरस्वत्याश्च पतनं सर्वपापहरं शुभम् ।। २२ ।।
तत्र स्नातो नरो देवि अवर्णोऽपि यतिर्भवेत् ।।
पुनरन्यत्प्रवक्ष्यामि माथुरे मम मण्डले ।। २३ ।।
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः।।
स्नानमात्रेण मनुजो मुच्यते ब्रह्महत्यया ।। २४ ।।
अथात्र मुंचते प्राणान्मम लोकं स गच्छति ।।
दशाश्वमेधमृषिभिः पूजितं सर्वदा मुदा ।। २५ ।।
तत्र ये स्नान्ति नियतास्तेषां स्वर्गो न दुर्लभः ।।
मथुरापश्चिमे पार्श्वे सततं त्वृषिपूजितम् ।। २६ ।।
ब्रह्मणा सृष्टिकाले तु मनसा निर्मितं पुरा ।।
मानसं नाम तीर्थं तु ऋषिभिः पूजितं पुरा ।। २७ ।।
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।।
तीर्थं तु विघ्नराजस्य पुण्यं पापहरं शुभम् ।। २८ ।।
यत्र स्नातान्मनुष्यांश्च विघ्नराजो न पीडयेत् ।।
अष्टम्यां च चतुर्दश्यां चतुर्थ्यां तु विशेषतः ।। २९ ।।
तस्मिंस्तीर्थवरे स्नातं न पीडयति विघ्नराट् ।।
विद्यारम्भेषु सर्वेषु यज्ञदानक्रियासु च ।। 154.३० ।।
अविघ्नं कुरुते तस्य सततं पार्वतीसुतः ।।
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ।। ३१ ।।
ततः परे कोटितीर्थे पवित्रं परमं स्मृतम् ।।
तत्र वै स्नानमात्रेण गवां कोटिफलं लभेत् ।। ३२ ।।
तथात्र मुञ्चते प्राणाँल्लोभमोहविवर्जितः ।।
सोमलोकमतिक्रम्य मम लोकं च गच्छति ।। ३३ ।।
अतः परं शिवक्षेत्रमर्द्धक्रोशं तु दुष्करम् ।।
तत्र स्थितो हरो देवो मथुरां रक्षते सदा ।।३४।।
तत्र स्नात्वा च पीत्वा च माथुरं लभते फलम् ।।
अथाऽत्र मुञ्चते प्राणान्मम लोकं स गच्छति ।। ३५ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये यमुनातीर्थप्रभावो नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः ।। १५४ ।।