वराहपुराणम्/अध्यायः १५५
← अध्यायः १५४ | वराहपुराणम् अध्यायः १५५ [[लेखकः :|]] |
अध्यायः १५६ → |
अथाऽक्रूरतीर्थप्रभावः ।।
श्रीवराह उवाच ।।
पुनरन्यत्प्रवक्ष्यामि मर्त्त्यलोके सुदुर्लभम् ।।
अनन्तं विदितं तीर्थमचलं ध्रुवमव्ययम् ।। १ ।।
तत्र .नित्यं स्थितो देवि लोकानां हितकाम्यया ।।
मां दृष्ट्वा मनुजा देवि मुक्तिभाजो भवन्ति ते ।। २ ।।
अयने विषुवे चैव तथा विष्णुपदीषु च ।।
अनन्तं तं समासाद्य मुच्यते सर्वपातकैः ।। ३ ।।
अक्रूरेति च विख्यातं मम क्षेत्रं वसुन्धरे ।।
तत्र स्नात्वा महाभागे राहुग्रस्ते दिवाकरे ।। ४ ।।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ।।
तीर्थराजं हि चाक्रूरं गुह्यानां गुह्यमुत्तमम् ।। ५ ।।
तत्स्नानात्फलमाप्नोति प्रयागस्नानजं फलम् ।।
अस्मिंस्तीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ।। ६ ।।
नाम्ना तु सुधनो नाम मम भक्तः सदैव हि ।।
धनधान्यसमायुक्तः सुतयुक्तः सदैव हि ।। ७ ।।
बन्धुपुत्रकलत्रैश्च गृहे प्रीतिरनुत्तमा ।।
पुत्रदारसमेतस्य मयि भक्तिर्वसुन्धरे ।। ८।।
गच्छन्ति दिवसास्तस्य मासाः संवत्सरास्तथा ।।
करोति गृहकृत्यानि धनोपायेन नित्यशः ।। ९ ।।
मानकूटं तुलाकूटं न करोति स कर्हिचित् ।।
एवं च वसतस्तस्य बहवो वत्सरा गताः ।। 155.१० ।।
नित्यं कालं च कुरुते हरिपूजनमुत्तमम् ।।
पुष्पदीपप्रदानेन चन्दनेन सुगन्धिना ।। ११ ।।
उपहारेण दिव्येन धूपेन च सुगन्धिना ।।
एकादश्यां तु कुरुते पक्षयोरुभयोरपि ।। १२ ।।
उपवासं तु कुरुते रात्रौ जागरणं तथा ।।
स गच्छति यथाकालमक्रूरं तीर्थमुत्तमम् ।। १३ ।।
तत्रागत्य ममाग्रेऽसौ नृत्यते शुभदर्शनः ।।
सुधनस्तु वणिक्श्रेष्ठः कदाचिद्रात्रिजागरे ।। १४ ।।
चलमानो गृहीतस्तु चरणे ब्रह्मरक्षसा ।।
कृष्णवर्णी महाकाय ऊर्ध्वकेशो भयंकरः ।। १५ ।।
पादे गृहीत्वा वसुधे इदं वचनमब्रवीत् ।। १६ ।।
राक्षसोऽहं वणिक्श्रेष्ठ वसामि वनमाश्रितः ।।
त्वामद्य भक्षयिष्यामि तृप्तिं यास्यामि शाश्वतीम् ।। १७ ।।
सुधन उवाच ।।
प्रतीक्षस्व क्षणं मेऽद्य दास्यामि तव पुष्कलम् ।।
भक्षयिष्यसि मे गात्रं मिष्टान्नपरिपोषितम् ।। १८ ।।
जागरं देवदेवस्य कर्तुमिच्छामि राक्षस ।।
मम व्रतं सार्वकालं यज्जागर्मि हरेः पुरः ।। १९ ।।
तत्र जागरणं कृत्वा प्रभाते तव सन्निधौ ।।
आगमिष्याम्यहं शीघ्रमादित्योदयनं प्रति ।।155.२० ।।
ततः खादिष्यसे गात्रं विनिवृत्तस्य जागरात् ।।
विष्णुतुष्ट्यै व्रतमिदमारब्धं सर्वकामदम् ।। २१ ।।
मा कुरु व्रतभङ्गं मे रक्षो नारायणस्य हि ।।
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम् ।। २२ ।।
सुधनस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः ।।
उवाच मधुरं वाक्यं वणिजं प्रति सादरम् ।। २३ ।।
मिथ्या प्रभाषसे साधो त्वं पुनः कथमेष्यसि ।।
को हि रक्षोमुखाद्भ्रष्टो मानुषो यो निवर्त्तते।।२४।।
राक्षसस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत्।।
सत्यमूलं जगत्सर्वं सर्वं सत्ये प्रतिष्ठितम् ।।२५।।
सिद्धिं लभन्ते सत्येन ऋषयो वेदपारगाः ।।
यद्यहं च वणिक् पूर्वं कर्मणा न हि दूषितः ।।२६।।
प्राप्तश्च मानुषो भावो विहितेनान्तरात्मना ।।
शृणु मत्समयं रक्षो येनाहं पुनरागमम्।।२७।।
कृत्वा जागरणं तत्र नृत्यं कृत्वा यथासुखम् ।।
पुनरेष्याम्यहं रक्षो नासत्यं विद्यते मयि ।।२८।।
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः ।।
सत्योत्तीर्णा हि राजानः सत्येन वसुधा धृता ।। २९।।
स्वर्गमिच्छन्ति सत्येन मोक्षः सत्येन लभ्यते।।
सत्येन सूर्यस्तपति सोमः सत्येन राजते ।।155.३०।।
यमः सत्येन हरति सत्यादिन्द्रो विराजते।।
तत्सत्यं मम नश्येत यद्यहं नागमे पुनः ।। ३१ ।।
परदारांस्तु यो गच्छेत्काममोहप्रपीडितः ।। ३२ ।।
तस्य पापेन लिप्येऽहं यदि नायामि ते पुरः ।। ३३ ।।
दत्त्वा च भूमिदानं यो ह्यपकारं करोति च ।।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ।। ३४ ।।
पूर्वं भुक्त्वा स्त्रियं यस्तु सुखमाप्य विहृत्य च ।।
द्वेषात्तां यदि चेज्जह्यात्तस्यायं मे भवत्वलम् ।। ३५ ।।
पङ्क्तिभेदं तु यः कुर्यादेकपंक्त्याशिनां धुवम् ।।
तस्य पापेन लिप्येऽहं नागन्ता यदि ते पुरः ।। ३६ ।।
अमावस्यां महारक्षः श्राद्धं कृत्वा स्त्रियं व्रजेत् ।।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ।। ३७ ।।
अष्टाष्टमी त्वमावास्या उभे पक्षे चतुर्दशी ।।
अस्नातानां गतिं यास्याम्यहं वै नागमे पुनः ।। ३८ ।।
गुरोर्भ्रातुः सुतस्यापि सख्युर्वै मातुलस्य च ।।
व्यवस्यति च यन्नारी यो मोहेन विमोहितः ।। ३९ ।।
अभिगच्छति मन्दात्मा तत्पापं मे भवेत्तदा ।।
राजपत्नीं ब्रह्मपत्नीं विधवां योऽभिगच्छति ।। 155.४० ।।
तस्य पापेन लिप्येऽहं यद्यहं नागमे पुनः ।।
यस्तु कन्यां सकृद्दत्त्वा अन्यस्मै चेत्पुनर्ददेत् ।। ४१ ।।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ।।
राजयाजकयाज्याश्च ये च वै ग्रामयाजकाः ।।४२ ।।
तेषां पापेन लिप्येऽहं यद्यहं नागमे पुनः ।।
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते शठे ।।४३।।
या गतिस्तां प्रपद्येऽहं यद्यहं नागमे पुनः ।।
श्रीवराह उवाच।।
सुधनस्य वचः श्रुत्वा सन्तुष्टो ब्रह्मराक्षसः ।।४४।।
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते।।
ब्रह्मराक्षसमुक्तोऽसौ वणिक् तु दृढनिश्चयः।।४५।।
पुनर्नृत्यति चैवाग्रे मम भक्तो व्यवस्थितः ।।
अथ प्रभातसमये नृत्यचित्तोऽति कोविदः।।४६।।
पुनः पुनर्वै उच्चार्य नमो नारायणाय च।।
निवृत्ते जागरे सोऽथ कालिन्दीसलिलाप्लुतः ।।४७।।
दृष्ट्वा मां दिव्यरूपं तु गतोऽसौ मथुरां पुरीम्।।
दृष्टश्चाग्रे त्वहं तेन पुरुषो दिव्यरूपवान् ।।४८।।
स च पृष्टो मया देवि क्व भवान्प्रस्थितो द्रुतम् ।।
पुरुषस्य वचः श्रुत्वा सुधनो वाक्यमब्रवीत् ।।४९।।
अहं गच्छामि त्वरितो ब्रह्मराक्षससन्निधौ ।।
निवारयामास तदा न गंतव्यं त्वयानघ।।155.५०।।
जीवतो धर्ममाहात्म्यं मृते धर्मः कुतो यशः ।।
पुरुषस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत् ।। ५१- ।।
तत्र सत्यं वदिष्यामि यास्ये राक्षससन्निधौ ।।
आगतोऽहं महाभाग नर्त्तयित्वा यथासुखम् ।। ५२ ।।
विष्णवे लोकनाथाय चागतो हरिजागरात् ।।
इदं शरीरं मे रक्षो भक्षयस्व यथेप्सितम् ।। ५३ ।।
यथान्यायं विधानेन यथा वा तव रोचते ।।
नोक्तपूर्वं मयाऽसत्यं कदाचिदपि राक्षस ।। ५४ ।।
तेन सत्येन मां भुङ्क्ष्व ब्रह्मराक्षस दारुण ।।
वणिजस्तु वचः श्रुत्वा ततोऽसौ ब्रह्मराक्षसः ।। ५५ ।।
उवाच मधुरं वाक्यं सुधनं तदनन्तरम् ।।
साधु तुष्टोऽस्मि भद्रं ते सत्यं धर्मश्च पालितः ।।५६।।
वणिक् त्वं चातिविज्ञस्तु यस्य ते गतिरीदृशी ।।
जागरस्य समस्तस्य मम पुण्यं प्रयच्छ वै ।। ५७ ।।
सत्यपुण्यप्रभावेण यथाहं मुक्तिमाप्नुयाम् ।।
सुधन उवाच।।
नाहं दास्यामि ते पुण्यं नृत्यस्य नरभोजन ।। ५८ ।।
अर्द्धं वाथ समस्तं वा प्रहरं चार्द्धमेव वा ।।
सुधनस्य वचः श्रुत्वा अब्रवीद्ब्रह्मराक्षसः ।। ५९ ।।
एकनृत्यस्य मे पुण्यं दद त्वं वणिगुत्तम ।।
सुधन उवाच ।।
नाऽहं दास्यामि ते पुण्यं यथोक्तं च समाचर ।। 155.६० ।।
केन त्वं कर्मदोषेण राक्षसत्वमुपागतः ।।
यत्ते गुह्यं महाभाग सर्वं तत्कथयस्व मे ।। ६१ ।।
सुधनस्य वचः श्रुत्वा विहसित्वाह राक्षसः ।।
किं त्वं मां च विजानासि प्रतिवासि ह्यहं तव ।। ६२ ।।
अग्निदत्तस्तु वै नाम छान्दसो ब्राह्मणोत्तमः ।।
इष्टकांस्तु हरन्नित्यं परकीयांश्च सर्वदा ।। ६३ ।।
मृतस्सुगृहकामेन राक्षसत्वमुपागतः ।।
मया त्वं हि यथा प्राप्त उपकारं कुरुष्व मे ।। ६४ ।।
एकविश्रामपुण्यं मे देहि त्वं वणिगुत्तम ।।
कृपया तु समायुक्तो वणिग्वचनमब्रवीत् ।। ६५ ।।
साधु राक्षस दत्तं ते एकनृत्यं मया तव ।।
एकनृत्यप्रभावेण राक्षसो मुक्तिमागतः ।। ६६ ।।
श्रीवराह उवाच ।।
सुधनस्तु ततो देवि विश्वरूपं जनार्दनम् ।।
अग्रतस्तु स्थितं देवं दृष्ट्वाऽसौ धरणीं गतः ।।६७।।
उवाच मधुरं वाक्यं देवदेवो जनार्दनः।।
चतुर्भुजो दिव्यतनुः शंखचक्रगदाधरः ।। ६८ ।।
विमानवरमारुह्य मम लोकं व्रजस्व च ।।
इत्युक्त्वा माधवो देवस्तत्रैवान्तरधीयत ।। ६९ ।।
सुधनः सशरीरोऽपि सकुटुंबो दिवं ययौ ।।
विमानवरमारुह्य विष्णोर्लोकं जगाम ह ।। 155.७० ।।
एष तीर्थप्रभावो वै कथितस्ते वसुन्धरे ।।
अक्रूराच्च परं तीर्थं न भूतं न भविष्यति ।। ७१ ।।
तस्य तीर्थप्रभावेण सुधनो मुक्तिमाप्तवान् ।।
द्वादशी शुक्लपक्षे तु कुमुदस्य च वा भवेत्।।७२।।
तस्मिन्स्नातस्य वसुधे राजसूयफलं भवेत् ।।
कार्त्तिकीं समनुप्राप्य तत्तीर्थे तु वसुन्धरे ।।७३।।
वृषोत्सर्गं नरः कुर्वंस्तारयेत्सकुलोद्भवान् ।।
श्राद्धं यः कुरुते सुभ्रु कार्तिक्यां प्रयतो नरः ।। ७४ ।।
पितरस्तारितास्तेन सदैव प्रपितामहाः ।। ७५ ।।
इति श्रीवराहपुरणे मथुरामाहात्म्ये अकूर तीर्थप्रभावो नाम पंचपंचाशदधिकशततमोऽध्यायः ।। १५५ ।।